भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 4.62

4.62.1

श्रीवसिष्ठ उवाच ।
धीरो विचारवान्साक्षादादावेव महाधिया ।
शास्त्रेण विदुषा शास्त्रं सुजनेन विचारयेत्

4.62.2

सुजनेम वितृण्णेन विदुषा महता सह ।
प्रविचार्य महायोगात्पदमासाद्यते परम्

4.62.3

शास्त्रार्थसुजनासङ्गवैराग्याभ्याससत्कृतः ।
पुरुषस्त्वमिवाभाति निजविज्ञानभाजनम्

4.62.4

त्वमुदारनिजाचारो धीरो गुणगणाकरः ।
अधितिष्ठसि निर्दुःखं वीतसर्गमनोमलः

4.62.5

नूनमुत्सर्जिताभ्रेण शरद्व्योम्ना समो भवान् ।
भव भावनया मुक्तो युक्त उत्तमसंविदा

4.62.6

चिन्तामुक्तकलावत्या मुक्तकल्पनया स्थितम् ।
मनो मुक्तविभागं च मुक्तमेव न संशयः

4.62.7

तवोत्तमानुभावस्य त इदानीं नरा भुवि ।
चेष्टामनुसरिष्यन्ति रागद्वेषविहीनया

4.62.8

बहिर्लोकोचिताचारा विहरिष्यन्ति वै जनाः ।
भवार्णवं तरिष्यन्ति धीमन्तः पोतकान्विताः

4.62.9

तव तुल्यमतिर्यः स्यात्सुजनः समदर्शनः ।
योग्योऽसौ ज्ञानदृष्टीनां मयोक्तानां सुदृष्टिमान्

4.62.10

यावद्देहं धिया तिष्ठ रागद्वेषविहीनया ।
बहिर्लोकोचिताचारस्त्वन्तस्त्यक्ताखिलैषणः

4.62.11

परां शान्तिमुपागच्छ यथान्ये गुणशालिनः ।
अविचार्यास्त एवेह गोमायुशिशुधर्मकाः

4.62.12

ये स्वभावा महासत्या नृणां सात्त्विकजन्मनाम् ।
तान्भजन्पुरुषो याति पाश्चात्योदारजन्मताम्

4.62.13

यानेव सेवते जन्तुरिह जातिगुणान्सदा ।
अथान्यजातिजातोऽपि जातिं भजति तां क्षणात्

4.62.14

प्राक्तनानखिलान्भावान्यान्ति कर्मवशं गताः ।
पौरुषेणावजीयन्ते धराधरमहाकुलाः

4.62.15

धैर्येणाभ्युद्धरेद्बुद्धिं पङ्कान्मुग्धगवीमिव ।
तामसीं राजसीं चैव जातिमन्यामपि श्रितः

4.62.16

स्वविवेकवशाद्यान्ति सन्तः सात्त्विकजातिताम् ।
अतश्चित्तमणौ स्वच्छे यद्राघव नियोज्यते

4.62.17

तन्मयो विभवत्येवं तस्माद्भवति पौरुषम् ।
पौरुषेण प्रयत्नेनमहार्हगुणशालिनः

4.62.18

मुमुक्षवो भवन्तीह पाश्चात्यशुभजातयः ।
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित्

4.62.19

पौरुषेण प्रयत्नेन यन्नाप्नोति गुणान्वितः ।
ब्रह्मचर्येण धैर्येण वीर्यवैराग्यरंहसा ।
युक्त्या युक्तेन हि विना न प्राप्नोषि तदीहितम्

4.62.20

हितं महासत्त्वतयात्मतत्त्वं
विधाय बुद्ध्या भव वीतशोकः ।
तव क्रमेणैव ततो जनोऽयं
मुक्तो भविष्यत्यथ वीतशोकः

4.62.21

पाश्चात्यजन्मनि विवेकमहामहिम्ना
युक्ते त्वयि प्रसृतसर्वगुणाभिरामे ।
सत्त्वस्थकर्मणि पदं कुरु रामभद्र
मैषा करोतु भवसङ्गविमोहचिन्ता

4.62.62

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साह्स्र्यां संहितायां मोक्षोपायेषु स्थितिप्रकरणे द्विषष्टितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc