भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 4.51

4.51.1

श्रीवसिष्ठ उवाच ।
ततःप्रभृति तत्रासौ प्रसिद्धस्तापसाश्रमे ।
कदम्बदाशूर इति शूरस्तपसि दारुणे

4.51.2

तस्मिँल्लतादले स्थित्वा विलोक्य ककुभः क्षणात् ।
दृढपद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना

4.51.3

अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता ।
फलकार्पण्ययुक्तेन मनसा सोऽकरोन्मखम्

4.51.4

नभोगतलतापत्रसंस्थितेनान्तरात्मना ।
सर्वाः स्वमनसा तेन कृता यज्ञक्रियाः क्रमात्

4.51.5

तत्रासौ दश वर्षाणि मनसैवायजत्सुरान् ।
गवाश्वनरमेधाद्यैर्यज्ञैर्विपुलदक्षिणैः

4.51.6

कालेनामलतां याते वितते तस्य चेतसि ।
बलादवततारान्तर्ज्ञानमात्मप्रसादजम्

4.51.7

ततो विशीर्णावरणो विगलद्वासनामलः ।
स ददर्शैकदा तस्यां लतायामग्रतः स्थिताम्

4.51.8

वनदेवीं विशालाक्षीमालोककुसुमाम्बराम् ।
कामिनीं कान्तवदनां मदघूर्णितलोचनाम्

4.51.9

नीलोत्पलामोदवतीमतीव सुमनोहराम् ।
तामुवाचानवद्याङ्गीं स मुनिर्विनताननाम्

4.51.10

कोकिलाकुसुमापूरनतां वनलतामिव ।
का त्वमुत्पलपत्राक्षि कान्तिविक्षोभितस्मरा

4.51.11

वयस्यामिव पुष्पाढ्यां लतां किमिव तिष्ठसि ।
इत्युक्ते मृगशावाक्षी गौरपीनपयोधरा

4.51.12

मुनिमाह मनोहारि मुग्धाक्षरमिदं वचः ।
यानि यानि दुरापानि वाञ्छितानि महीतले

4.51.13

प्राप्यन्ते तानि तान्याशु महतामेव याच्ञया ।
अहमस्मिँल्लताकीर्णे त्वत्कदम्बाभ्यलंकृते

4.51.14

लतालीलालया ब्रह्मन्विपिने वनदेवता ।
यश्चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे

4.51.15

बभूव वनदेवीनां समाजो नन्दने वने ।
तत्राहमगमं नाथ त्रैलोक्यललनासदः

4.51.16

तत्र दृष्टा मया सर्वा वयस्या मदनोत्सवे ।
अपुत्रया पुत्रयुतास्तेनाहं दुःखिता भृशम्

4.51.17

त्वयि सर्वार्थसार्थस्य बृहत्कल्पतरौ स्थिते ।
अनाथेव कथं नाथ किल शोचाम्यपुत्रिका

4.51.18

देहि मे भगवन्पुत्र नो चेद्देहमिहाग्नये ।
प्रकरोम्याहुतिं पुत्र दुःखदाहोपशान्तये

4.51.19

तामित्युक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः ।
आह हस्तगतं पुष्पं तस्यै दत्त्वा दयान्वितः

4.51.20

गच्छ तन्वङ्गि मासेन पूजार्हमलिलोचनम् ।
प्रसोष्यसे सुतं कान्तं प्रसूनमिव सल्लता

4.51.21

किंत्वसौ मरणावेशयायिन्या नस्त्वया सुतः ।
याचितः कृच्छ्रं संप्राप्य ज्ञाता तेन भविष्यति

4.51.22

इत्युक्त्वा स मुनिस्तन्वीं प्रसन्नमुखमण्डलाम् ।
परिचर्यां करोमीति प्रार्थनोत्कां व्यसर्जयत्

4.51.23

सा जगामात्मसदनं सोऽतिष्ठत्स्वात्मना सह ।
अवहत्क्रमशः काल ऋतुसंवत्सराङ्कितः

4.51.24

अथ दीर्घेण कालेन सैवोत्पलविलोचना ।
द्वादशाब्दमुपादाय सुतं मुनिमुपाययौ

4.51.25

सा प्रणम्योपविश्याग्रे मुनिमिन्दुसमाननम्।
उवाच कलया वाचा चूतद्रुमभिवालिनी

4.51.23

अयं स भगवन्भव्यः कुमारः पुत्र आवयोः ।
कृतो मया समग्राणां कलानां किल कोविदः

4.51.27

प्रभो केवलमेतेन ज्ञानं नाधिगतं शुभम् ।
येन संसारचक्रेऽस्मिन्न पुनः परिपीड्यते

4.51.28

ज्ञानं त्वमेवास्य विभो कृपयोपदिशाधुना ।
को हि नाम कुले जातं पुत्रं मौर्ख्येण योजयेत्

4.51.29

एवं वदन्तीं स मुनिः सच्छिष्यमबले सुतम् ।
इहैव स्थापयैनं त्वमित्युक्त्वा तां व्यसर्जयत्

4.51.30

तस्यां गतायां स पितुरन्तेवासितया तया ।
अतिष्ठत्संयतो धीमानर्कस्येवारुणः पुरः

4.51.31

कदर्थः प्राप्य विज्ञानं ततश्चित्राभिरुक्तिभिः ।
चिरकालमसौ तत्र मुनिः पुत्रमबोधयत्

4.51.32

आख्यायिकाख्यानशतैर्दृष्टान्तैर्दृष्टिकल्पितैः ।
तथेतिहासवृत्तान्तैर्वेदवेदान्तनिश्चयैः

4.51.33

अनुद्वेगितया नित्यं विस्तरेण कथाक्रमैः ।
अनुभूतिमुपारूढै रूढिमेति यथा मयि

4.51.34

अनुभववशतो रसातिरिक्तै-
रलमुचितार्थवचोगणैर्महात्मा ।
जलद इव शिखण्डिनं पुरःस्थं
तनयमबोधयदम्बरे महर्षिः

4.51.51

इत्यार्षे श्रीवसिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे दाशूरो० दाशूरसुतानुबोधनं नामैकपञ्चाशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc