भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 4.41

4.41.41

एकचत्वारिंशः सर्गः

4.41.1

श्रीराम उवाच ।
क्षीरोदकुक्षितुल्याभिः शीतलामलदीप्तिभिः ।
तवोक्तिभिर्विचित्राभिर्गम्भीराभिरिवाभितः

4.41.2

क्षणमान्ध्यमिवाप्नोमि क्षणं यामि प्रकाशताम् ।
शान्तातपलवः प्रावृड्लोलाभ्र इव वासरः

4.41.3

अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः ।
अनस्तमितसारस्य कलना कथमागता

4.41.4

श्रीवसिष्ठ उवाच ।
यथाभूतार्थवाक्यार्थाः सर्वा एव ममोक्तयः ।
नासमर्था विरूपार्थाः पूर्वापरविरोधदाः

4.41.5

ज्ञानदृष्टौ प्रसन्नायां प्रबोधे विततोदये ।
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम्

4.41.6

उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ।
शब्दार्थवाक्यरचनाभ्रमो मा तन्मयो भव

4.41.7

यदा पुरा ज्ञास्यसि तत्सत्यमत्यन्तनिर्मलम्।
वाच्यवाचकशब्दार्थभेदं त्यक्ष्यसि वै तदा

4.41.8

भेदकृद्वाक्प्रपञ्चोऽयमुपदेश्येषु कल्पितः ।
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये

4.41.9

शब्दार्थवाक्प्रपञ्चोऽयमुपदेशेषु कल्पितः ।
सदाऽज्ञेषु न तज्ज्ञेषु विद्यते पारमार्थिकः

4.41.10

कलनामलमोहादि किंचिन्नात्मनि विद्यते ।
नीरागं ब्रह्म परमं तदेवेदं जगत्स्थितम्

4.41.11

एतद्विचित्ररूपाभिर्युक्तिभिर्बहुशः पुनः ।
विस्तरेणैव वक्तव्यं सिद्धान्तावसरेऽनघ

4.41.12

वाक्प्रपञ्चं विना त्वेतदज्ञानमतुलं तमः ।
भेत्तुमन्योन्यमुदितं यत्नं कर्तुं न शक्यते

4.41.13

अविद्ययैवोत्तमया स्वात्मनाशोद्यमेच्छया ।
विद्या सा प्रार्थ्यते राम सर्वदोषापहारिणी

4.41.14

शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः ।
शमं विषं विषेणैति रिपुणा हन्यते रिपुः

4.41.15

ईदृशी राम मायेयं यां स्वनाशेन हर्षदा ।
न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति

4.41.16

विवेकमाच्छादयति जगन्ति जनयत्यलम् ।
नच विज्ञायते कैषा पश्याश्चर्यमिदं जगत्

4.41.17

अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता सु विनश्यति ।
मायेयमपरिज्ञायमानरूपैव वल्गति

4.41.18

अहो नु खलु चित्रेयं माया संसारबन्धनी ।
असत्येवातिसत्येव स्वज्ञानं विहितं तया

4.41.19

अत्यभिन्नपदे तस्मिंस्तन्वाना भेदमाततम् ।
संसारमाया येनासौ तेनासौ पुरुषोत्तमः

4.41.20

नास्त्येषा परमार्थे न त्वेवं भावनयेद्धया ।
ज्ञो भूत्वा ज्ञेयसंप्राप्तो ज्ञास्यस्यस्यास्त्वमाशयम्

4.41.21

यावत्तु न प्रबुद्धस्त्वं तावन्मद्वचसैव ते ।
निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः

4.41.22

यदिदं दृश्यतां यातं मानसं मननं महत् ।
असन्मात्रमिदं यस्मान्मनोमात्रविजृम्भितम्

4.41.23

सत्तद्ब्रह्मेति यस्यान्तर्निश्चयः सोऽपि मोक्षभाक् ।
चलाचलाकृतिर्या या दृष्टिरावद्धभावना

4.41.24

सा समग्रजगद्भूतखगबन्धनवागुरा ।
यः स्वप्नभूमिवद्भ्रान्तमसत्सध्येकनिश्चयः

4.41.25

जगत्पश्यत्यसक्तात्मा न स दुःखे निमज्जति ।
यस्यैतास्वस्वरूपासु भावना स्वात्मभावना

4.41.26

अस्वरूपस्य तस्यापि सा ह्यविद्यैव विद्यते ।
विकारितादयो दोषा न केचन महात्मनि

4.41.27

परमात्मनि विद्यन्ते पयसीवेह पांसवः ।
भावनाशब्दशब्दार्थरञ्जनेयं जगद्गता

4.41.28

व्यवहारार्थमुत्पन्ना व्यतिरिक्ता च नात्मनः ।
अनेन व्यवहारेण विनैताः शास्त्रदृष्टयः

4.41.29

संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः ।
उह्यमानो ह्यविद्यायामात्मा नेहोपलक्ष्यते

4.41.30

आत्मज्ञानादृते तच्च शास्त्रार्थात्समवाप्यते ।
अविद्यासरितः पारमात्मलाभादृते किल

4.41.31

राम नासाद्यते तद्धि पदमक्षयमुच्यते ।
यतःकुतश्चिज्जातेयमविद्या मलदायिनी

4.41.32

नूनं स्थितिमुपायाता समासाद्य पदं स्थिता ।
कुतो जातेयमिति ते राम मास्तु विचारणा

4.41.33

इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव

4.41.34

यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।
वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता

4.41.35

असतो भ्रान्तता सत्यरूपां जानातु कः कुतः ।
जातेयं प्रौढिमापन्ना दोषायैवातताकृतिः

4.41.36

बलात्प्रणाशय त्वेनां परिज्ञास्यसि वै ततः ।
अपि शूरा अतिप्राज्ञास्ते न सन्ति जगत्त्रये

4.41.37

अविद्यया ये पुरुषा न नाम विवशीकृताः ।
तदस्या रोगशीलाया यत्नं कुरु विनाशने

4.41.38

यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।
सर्वापदामेकसखीमज्ञानतरुमञ्जरीम् ।
अनर्थसार्थजननीमविद्यामलमुद्धर

4.41.39

भयविषाददुराधिविपत्प्रदां
हृदयमोहमहापटलांकुराम् ।
भृशमपास्य कुदृष्टिमिमां बला-
द्भव भवार्णवपारमुपागतः

4.41.41

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे अविद्याकथनं नामैकचत्वारिशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc