भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 4.36

4.36.36

षट्त्रिशः सर्गं

4.36.1

श्रीराम उवाच ।
यथेदृशं स्थितं विश्वं विश्वातीते चिदात्मनि ।
तन्मे कथय हे ब्रह्मन् पुनर्बोधविवृद्धये

4.36.2

श्रीवसिष्ठ उवाच ।
यथोर्मयोऽनभिव्यक्ता भाविनः पयसि स्थिताः ।
न स्थिताश्चात्मनोऽन्यत्वाच्चित्तत्वे सृष्टयस्तथा

4.36.3

यथा सर्वगतः सौक्ष्म्यादाकाशो नोपलक्ष्यते ।
तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते

4.36.4

सुस्थितेवास्थितेवान्तः प्रतिभास्ति मणौ यथा ।
न सत्यभूता नासत्या तथेयं सृष्टिरात्मनि

4.36.5

स्वाधारैरम्बुदैः स्वस्थैर्न स्पृष्टं गगनं यथा ।
चित्स्थैः सर्गैश्चिदाधारैर्न स्पृष्टा चित्परा तथा

4.36.6

जलधिष्ठिततत्तेजो यथाङ्ग प्रतिबिम्बति ।
तथा पुर्यष्टकेष्वेव चिद्धि देहेषु लक्ष्यते

4.36.7

सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता ।
सैषा चिदविनाशात्मा तच्चेत्यादिकृताभिधा

4.36.8

आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी ।
सकलाकलसंसारस्वरूपैकात्म्यदर्शिनी

4.36.9

तरङ्गादिमयी स्फारा नानाता सलिलार्णवे ।
तस्मान्न व्यतिरेकेण यथा भावविकारिणी

4.36.10

त्वत्तामत्तामयी स्फारा नानातेयं चिदर्णवे ।
चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते

4.36.11

चिच्चिनोति चितं चेत्यं तेनेदं स्थितमात्मनि ।
अज्ञेऽज्ञे त्वन्यदायातमन्यदस्तीति कल्पना

4.36.12

अज्ञेष्वसत्स्वभावोग्रसंसारगणगर्भिणी ।
ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती

4.36.13

अनुभूतिवशान्नित्यमर्कादीनां प्रकाशिनी ।
स्वादिनी सर्वभूतानां भाविनी भवभोगिनाम्

4.36.14

नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति ।
न चायाति न वा याति न चेह नच नेह चित्

4.36.15

सैषा चिदमलाकारा स्वयमात्मनि संस्थिता ।
राघवेत्थं प्रपञ्चेन जगन्नाम्ना विजृम्भते

4.36.16

तेजःपुञ्जैर्यथा तेजः पयःपूरैर्यथा पयः ।
परिस्फुरति संस्पन्दैस्तथा चित्सर्गविभ्रमैः

4.36.17

तत्स्वभावेन चिन्नाम्ना सर्वगेनोदितात्मना ।
प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा

4.36.18

स्वयं स्वकलनाभोगादनन्तं पदमुज्झता ।
अहमस्मीति भावेन गच्छता ज्ञपदं शनैः

4.36.19

नानातायां प्ररूढायामस्यां संसृतिपूर्वकम् ।
भावाभावग्रहोत्सर्गपदे स्थितिमुपागते

4.36.20

पुर्यष्टकस्पन्दशतैःकरोति न करोति च ।
उत्सेधमेति भूकोशकोटरस्थोऽङ्कुरोत्करः

4.36.21

व्योम सौषिर्यमादत्ते सर्वमूर्त्यविरोधि यत् ।
स्पन्दैकधर्मवान्वातो रसरूपतया जलम्

4.36.22

दृढोर्वी प्रकटं तेजः स्थितिमन्ति जगन्ति च ।
प्रतिबन्धाभ्यनुज्ञासु कालः कलनया स्थितः

4.36.23

पुष्पेषु गन्धतां याति शनैः संचितकेसरम् ।
मृत्कोटररसोल्लासः स्थाणुतामेति भूतले

4.36.24

मूलस्थाः फलमायान्ति पेलवा रसलेशकाः ।
संनिवेशं व्रजन्त्येता रेखाः पल्लवपालिषु

4.36.25

नवतामनुगृह्नाति शक्रबाणासनेन च ।
यो यो भवत्यविरतं संस्थानेन वनेन च

4.36.26

वसन्तमुपतिष्ठन्ति पुष्पपल्लवराशयः ।
निदाघविधिमायान्ति दैवदाहविभूतयः

4.36.27

प्रावृट्समयमीहन्ते नीला जलदराशयः ।
शरदं चानुधावन्ति समग्राः फलराशयः

4.36.28

हेमन्ते हिमहासिन्यो भवन्ति ककुभो दश ।
नयन्त्युपलतामम्बु शिशिरे शीतलानिलाः

4.36.29

न जहाति स्वमर्यादां कालो युगमयीमिमाम् ।
तरङ्गिणीतरङ्गौघलीलया यान्ति सृष्टयः

4.36.30

नियतिः स्थितिमायाति स्थैर्यचातुर्यकारिणी ।
तिष्ठत्याप्रलयं धीरा धराधरणधर्मिणी

4.36.31

चतुर्दशविधानीह भूतानि भुवनान्तरे ।
नानाचारविहाराणि नानाविरचनानि च

4.36.32

पुनःपुनर्विलीयन्ते जायन्ते च पुनःपुनः ।
धारापरम्परा याति विना वारीव बुद्बुदाः

4.36.33

आयाति याति परितिष्ठति लीलयाऽति-
स्वार्थानुपार्जयति धावति जन्मनाशैः ।
उन्मत्तवद्विहितभावनमाहितेहा
मुग्धा कृतान्तविवशा जनता वराकी

4.36.36

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे चिदादित्यस्वरूपवर्णनं नाम षद्त्रिशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc