भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 4.32

4.32.32

द्वात्रिंशः सर्गः

4.32.1

श्रीराम उवाच ।
सतामप्यसतामेव बालयक्षपिशाचवत् ।
दामव्यालकटादीनां दुःखस्यान्तः कथं भवेत्

4.32.2

श्रीवसिष्ठ उवाच ।
दामव्यालकुटुम्बैस्तैस्तदैव यमकिङ्करैः ।
प्रार्थितेन यमेनोक्तमिदं श्रृणु रघूद्वह

4.32.3

यदा वियोगमेष्यन्ति श्रोष्यन्ति च निजां कथाम् ।
दामादयस्तदा मुक्ता भविष्यन्तीत्यसंशयम्

4.32.4

श्रीराम उवाच ।
स्ववृत्तान्तमिमं कुत्र कदा कथयते कथम् ।
श्रोष्यन्ति भगवंस्ते वा वर्णयेदं यथाक्रमम्

4.32.5

श्रीवसिष्ठ उवाच ।
काश्मीरेषु महापद्मसरसीतीरपल्वले ।
भूयोभूयोऽनुभूयैव मत्स्ययोनिपरम्पराम्

4.32.6

आलोलिताशया लोलाः कालेन लयमागताः ।
तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः

4.32.7

तत्र कह्लारमालासु सरोजपटलीषु च ।
शैवालवरवल्लीषु तरङ्गवलनासु च

4.32.8

चलत्कुसुमदोलासु नीलोत्पललतासु च ।
सीकरौघाभ्रलेखासु शीतलावर्तवर्तिषु

4.32.9

सारसाः सरसंभोगान्भुक्त्वा भुवनभूषणाः ।
विहृत्य सुचिरं कालमलमागतशुद्धयः

4.32.10

ते वियुक्ता भविष्यन्ति मुक्तये लब्धबुद्धयः ।
रजःसत्त्वतमांसीव भेदं प्राप्य यदृच्छया

4.32.11

काश्मीरमण्डलस्यान्तर्नगरं नगशोभितम् ।
नाम्नाधिष्ठानमित्येव श्रीमत्तस्य भविष्यति

4.32.12

प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति ।
श्रृङ्गं लघु सरोजस्य कोशचक्रमिवोदरे

4.32.13

तस्य मूर्ध्नि गिरेर्गेहं कश्चिद्राजा भविष्यति ।
अभ्रंकषमहाशालं श्रृङ्गे श्रृङ्गमिवापरम्

4.32.14

गृहस्येशानकोणेऽस्ति शिरोभित्तिव्रणोदरे ।
तस्यानिशमविश्रान्तवाताधूततृणान्तिके

4.32.15

आलये दानवो व्यालः कलविङ्को भविष्यति ।
प्रथमाल्पश्रुतशास्त्र इवार्थरहितारवः

4.32.16

तस्मिन्नेव तदा काले तत्र राजा भविष्यति ।
श्रीयशस्करदेवाख्यः शक्रः स्वर्ग इवापरः

4.32.17

दानवो दामनामात्र मशकस्तस्य सद्मनि ।
भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः

4.32.18

अधिष्ठानाभिधे तस्मिन्नेवान्तर्नगरे तदा ।
रत्नावलीविहाराख्यो विहारोऽपि भविष्यति

4.32.19

तस्मिंस्तद्भूमिपामात्यो नरसिंह इति श्रुतः ।
करामलकवद्दृष्टबन्धमोक्षो निवत्स्यति

4.32.20

भविष्यति गृहे तस्य क्रीडनः क्रकरः खगः ।
कटो मायासुरो नाम कृतराजतपञ्जरः

4.32.21

स नृसिंहो नृपामात्यश्लोकैर्विरचितामिमाम् ।
दामव्यालकटादीनां कथयिष्यति सत्कथाम्

4.32.22

सकटः क्रकरः श्रुत्वा तत्कथासंस्मृतात्मभूः ।
शान्तमित्थं महाशान्तं परं निर्वाणमेष्यति

4.32.23

प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः ।
तत्रत्यैश्च कथां श्रुत्वा परं निर्वाणमेष्यति

4.32.24

राजमन्दिरदार्वन्तर्व्रणवास्तव्यतां गतः ।
मशकोऽपि प्रसङ्गेन श्रुत्वा शान्तिमुपैष्यति

4.32.25

प्रद्युम्नश्रृङ्गाच्चटको मशको राजमन्दिरात् ।
विहारात्क्रकरश्चेति मोक्षमेष्यन्ति राघव

4.32.26

एष ते कथितः सर्वो दामव्यालकथाक्रमः ।
मायैवमेव संसारशून्यैवात्यन्तभासुरा

4.32.27

भ्रमयत्यपरिज्ञानान्मृगतृष्णाम्बुधीरिव ।
महतोऽपि पदादेवं नानाज्ञानवशादधः

4.32.28

पतन्ति मोहिता मूढा दामव्यालकटा इव ।
क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसद्मता

4.32.29

क्व राजगृहदार्वन्तर्व्रणे मशकरूपता ।
क्व चपेटभुजामात्रपातितार्केन्दुबिम्बता

4.32.30

क्व प्रद्युम्नगिरौ गेहे भित्तिव्रणविहङ्गता ।
क्व पुष्पलीलया लोलकरतोलितमेरुता

4.32.31

क्व वा श्रृङ्गे नृसिंहस्य गृहे क्रकरपोतता ।
चिदाकाशोऽहमित्येव रजसा रञ्जितप्रभः

4.32.32

स्वरूपमत्यजन्नेव विरूपमपि बुध्यते ।
स्वयैव वासनाभ्रान्त्या सत्ययेवाप्यसत्यया

4.32.33

मृगतृष्णाम्बुबुद्ध्येव याति जन्तुरिवान्तरम् ।
तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये

4.32.34

शास्त्रेणासादितं दृश्यमिति निर्वाणसंस्थिताः ।
नानादुःखविकाराणि शुष्कतर्कमतानि ये

4.32.35

यान्ति श्वभ्रं जलानीव स्वलाभं नाशयन्ति ते ।
स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना

4.32.36

न विनाशो भवत्यङ्ग गच्छतां परमां गतिम् ।
इदं मे स्यादिदं मे स्यादितिबुद्धेर्महामते

4.32.37

स्वेन दौर्भाग्यदैन्येन न भस्माप्युपतिष्ठते ।
वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम्

4.32.38

तं त्यजन्त्यापदः सर्वाः सर्पा इव जरत्त्वचम् ।
परिस्फुरति यस्यान्तर्नित्यं सत्त्वचमत्कृतिः

4.32.39

ब्राह्ममण्डमिवाखण्डं लोकेशाः पालयन्ति तम् ।
अप्यापदि दुरन्तायां नैव गन्तव्यमक्रमे

4.32.40

राहुरप्यक्रमेणैवं पिबन्नप्यमृतं मृतः ।
सच्छास्त्रसाधुसंपर्कमर्कमुग्रप्रकाशदम्

4.32.41

ये श्रयन्ते न ते यान्ति मोहान्ध्यस्य पुनर्वशम् ।
अवश्या वश्यतां यान्ति यान्ति सर्वापदः क्षयम्

4.32.42

अक्षयं भवति श्रेयः कृतं येन गुणैर्यशः ।
येषां गुणेष्वसंतोषो रागो येषां श्रुतं प्रति

4.32.43

सत्यव्यसनिनो ये च ते नराः पशवोऽपरे ।
यशश्चन्द्रिकया येषां भासितं जन्तुहृत्सरः

4.32.44

तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः ।
भुक्तं भोक्तव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः

4.32.45

किमन्यद्भवभङ्गाय भूयो भोगेषु लुब्धता ।
यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति

4.32.46

स्थीयतां मुच्यतामन्तर्भोगजालमवास्तवम् ।
संस्तवः क्रियतां कीर्त्या गुणैर्गगनगामिमिः

4.32.47

त्रायेते मृत्युतो ह्येते न कदाचन भोगकाः ।
गायन्ति सिद्धसुन्दर्यो येषामिन्दुसितं यशः

4.32.48

गीतिभिर्गगनाभोगैस्ते जीवन्ति मृताः परे ।
परमं पौरुषं यत्नमास्थायादाय सूद्यमम्

4.32.49

यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ।
यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु

4.32.50

चिरकालपरिपक्वा सिद्धिः पुष्टफला भवेत् ।
वीतशोकभयायासमगर्वमपयन्त्रणम्

4.32.51

व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम् ।
जीवो जीर्णान्धकूपेषु भवेष्वन्तमिवागतः

4.32.52

भवतां भूरिसङ्गानामधुनेन्द्रियदामतः ।
इतःप्रभृति मा भूयो गम्यतामधमादधः

4.32.53

इदं विचार्यतां शास्त्रमस्त्रमापन्निवारणम् ।
रणे शितशरश्रेणिशतनिर्लूनवारणे

4.32.54

जीवमुद्रा च किं पङ्के भोगगन्धो निरस्यताम् ।
किमर्थमात्रया कार्यमार्याः शास्त्रमवेक्ष्यताम्

4.32.55

इदं बिम्बमिदं बिम्बमिति सत्यं विचार्यताम् ।
धिया परप्रेरणया यातमापशवो यथा

4.32.56

दौर्भाग्यदायिनी दीना शुभहीना विचारणा ।
घनदीर्घमहानिद्रा त्यज्यतां संप्रबुध्यताम्

4.32.57

सुप्तं मास्थीयतां वृद्धकच्छपेनेव पल्वले ।
उत्थानमङ्गीक्रियतां जरामरणशान्तये

4.32.58

अनर्थायार्थसंपत्तिर्भोगौघो भवरोगदः ।
आपदः संपदः सर्वाः सर्वत्रानादरो जयः

4.32.59

लोकतन्त्रानुसारेण विचाराद्व्यवहारिणाम् ।
शास्त्राचारानुसारेण कर्मणा सत्फलाय च

4.32.60

आचारचारुचरितस्य विविक्तवृत्तेः
संसारसौख्यफलदुःखदशास्त्रगृध्नोः ।
आयुर्यशांसि च गुणाश्च सहैव लक्ष्म्या
फुल्लन्ति माधवलता इव सत्फलाय

4.32.32

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे दामव्यालकटोपाख्याने सदाचारनिरूपणं नाम द्वात्रिंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc