भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 4.28

4.28.28

अष्टाविंशः सर्गः

4.28.1

श्रीवसिष्ठ उवाच ।
इत्युक्त्वा भगवान्देवांस्तत्रैवान्तर्धिमाययौ ।
वेलावनितटे शब्दं कृत्वेवाम्बुतरङ्गकः

4.28.2

सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वाभिमतां दिशम् ।
कमलामोदमादाय वनमालामिवानिलाः

4.28.3

दिनानि कतिचित्स्वेषु कान्तेषु स्थिरकान्तिषु ।
द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः

4.28.4

कंचित्कालं समासाद्य स्वात्मोदयकरं शुभम् ।
चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम्

4.28.5

अथ दैत्यैर्ममाव्योम्नि तैः पातालतले स्थितैः ।
कालक्षेपकरं घोरं पुनर्युद्धमवर्तत

4.28.6

ववुरसिशरशक्तिमुद्गरौघा
मुसलगदापरशूग्रचक्रशङ्खाः ।
अशनिगिरिशिलाहुताशवृक्षा
अहिगरुडादिमुखानि चायुधानि

4.28.7

मायाकृतायुधमहाम्बुघनप्रवाहा
क्षिप्रावहा प्रतिदिशं किल निर्जगाम ।
पाषाणपर्वतमहीरुहलक्षवृक्ष-
क्षुब्धाम्बुपूरघनघोषवती नदी द्राक्

4.28.8

मध्यप्रवाहवहदुल्मुकशूलशैल-
प्रासासिकुन्तशरतोमरमुद्गरौघा
गङ्गोपमाम्बुवलितामरमन्दिरेण
सर्वासु दिक्ष्वशनिवर्षनिकर्षणेन

4.28.9

पृथ्व्यादिदारुणशरीरमपि प्रहार-
दानग्रहा गहनराशिशरीरकेव ।
मायोपशाम्यति सुरासुरसिद्धसन्ना
मायाकृतिः पुनरुदेति नचैव सैव

4.28.10

शैलोपमायुधविघट्टितभूधराणि
रक्ताम्बुपूरपरिपूर्णमहार्णवानि ।
दैवासुरेन्द्रशवशैलविरूढकुन्त-
तालीवनानि ककुभां वदनानि चासन्

4.28.11

उद्गीर्णकुन्तशरशक्तिगदासिचक्र-
हेलानिगीर्णसुरदानवमुक्तशैला ।
काषोल्लसत्क्रकचदन्तनखाग्रमाला
जीवान्विता ह्यपतदायससिंहसृष्टिः

4.28.12

उज्ज्वाललोचनविषज्वलनातपौघ-
दिग्दाहदर्शितयुगान्तदिनेशसेना ।
उड्डीयमानपरिदीर्घमहामहीध्र-
मग्नाब्धिवद्विषधरावलिरुल्ललास

4.28.13

उन्नादवज्रमकरोत्करकर्कशान्तः-
क्षुब्धाब्धिवीचिवलयैर्वलिताचलेन्द्रैः ।
आसीज्जगत्सकलमेव सुसंकटाङ्ग-
मावृत्तिभिर्विविधहेतिनदीप्रवाहैः

4.28.14

शैलास्त्रशस्त्रगरुडाचलचालितोच्च-
नागं महासुरगणाङ्गणमन्तरिक्षम् ।
आसीत्क्षणं जलधिभिः क्षणमग्निपूरैः
पूर्णं क्षणं दिनकरैः क्षणमन्धकारैः

4.28.15

गरुडगुडगुडाकुलान्तरिक्ष-
प्रविसृतहेतिहुताशपर्वतौघैः ।
जगदभवदसह्यकल्पकाले
ज्वलितसुरालयभूतलान्तरालम्

4.28.16

उदपतन्नसुरावसुधातला-
द्गगनमद्रितटादिव पक्षिणः ।
अतिबलादपतन्विबुधा भुवि
प्रलयचालितशैलशिला इव

4.28.17

शरीररूढोन्नतहेतिवृक्ष-
वनावलीलग्नमहाग्निदाहाः ।
सुरासुराः प्रापुरथाम्बरान्तः
कल्पानिलान्दोलितशैलशोभाम्

4.28.18

सुरासुराद्रीन्द्रशरीरमुक्तै
रक्तप्रवाहैरभितो भ्रमद्भिः ।
बभार पूर्णं परितोऽम्बरोऽद्रेः
संध्याकरौघक्षतमङ्ग गङ्गाम्

4.28.19

गिरिवर्षणमम्बुवर्षणं
विविधोग्रायुधवर्षणं तथा ।
विषमाशनिवर्षणं च ते
सममन्योन्यमथाग्निवर्षणम्

4.28.20

अनयन्नयमार्गकोविदा
दलिताशेषगिरीन्द्रभित्तयः ।
ससृजुश्च समं समन्ततः
करिकुम्भेष्विव पुण्यवर्षणम्

4.28.21

देवासुराः समरसंभ्रममाकुलास्ते
अन्योन्यमङ्गदलनाकुलहेतिहस्ताः ।
नागेन्द्रडिम्भपृतनापृथुपीठपेषैः
कीर्णश्रियो नभसि बभ्रमुरक्षिपन्तः

4.28.22

छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भि-
राकाशकाष्ठशलभैरशिवैस्तदानीम् ।
आसीज्जगज्जठरमभ्रभरैरिवोग्रै-
राभास्करस्थगितदिक्तटशैलजालम्

4.28.23

रटद्भटास्फोटकटिस्फुटद्भिः
समीरितैर्हेतिकलासितौघैः ।
परस्पराघातहतैः पतद्भि-
र्जगाम शीर्णा दलशो धरित्री

4.28.24

अन्योन्यमायुधशिलाचलवृक्षवर्षै-
र्मेरुप्रमाणकठिनाङ्गनिघर्षणैश्च ।
आसीद्रणं चटचटास्फुटदन्तरिक्षं
कल्पक्षयान्तमिव भीमभरोग्रनादैः

4.28.25

मत्तानिलक्षुब्धजलानलार्क-
दलद्वयं दीर्घसुरासुरौघम् ।
ब्रह्माण्डमाखण्डितकुड्यकोण-
सकालकल्पान्तकरालमासीत्

4.28.26

भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटै-
रात्मप्रमाणघनहेतिहतै रणद्भिः
कूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैः
क्रन्दद्भिरापतितसिंहरवैरदभ्रैः

4.28.27

मायानदीजलधियोधघनाग्निदाहै-
र्वृक्षैः सुरासुरशवैरचलैः शिलोच्चैः ।
भ्रान्तेः शरासिशितशक्तिगदास्त्रशस्त्रै-
र्वातावकीर्णवनपर्णवदन्तरन्तः

4.28.28

अद्रीन्द्रपक्षपरिमाणगमाक्षमोक्त-
दुर्वारहस्तिबलदारुणदेहकैर्द्राक् ।
आसीत्पतद्भटशरीरगिरीन्द्रवात-
विभ्रष्टदेवपुरपूर्णजलार्णवौघम्

4.28.29

घनघुंघुमपूरितान्तरिक्षा
क्षतजक्षालितभूधरा धरा च ।
रुधिरह्रदवृत्तिवर्तिनी वा
भुवनाभोगगुहा तदाकुलाभूत्

4.28.30

अनन्तदृक्प्रसृतविकारकारिणी
क्षयोदयोन्मुखसुखदुःखशंसिनी ।
रणक्रियासुरसुरघट्टसंकटा
तदाभवत्खलु सदृशीह संसृतेः

4.28.28

इत्यार्षे श्रीवासिष्ठमह्यरामायणे वा० दे० मो० स्थितिप्रकरणे दामव्यालकटपुनर्युद्धवर्णनं नामाष्टाविंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc