भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 4.10

4.10.1

दशमः सर्गः
श्रीवसिष्ठ उवाच ।
अथ वर्षसहस्रेण दिव्येन परमेश्वरः ।
भृगुः परमसंबोधाद्विरराम समाधितः

4.10.2

नापश्यदग्रे तनयं विनयावनताननम् ।
सामन्तं गुणसेनायाः पुण्यं मूर्तमिव स्थितम्

4.10.3

अपश्यत्केवलं कायकङ्कालं पुरतो महत्।
देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत्

4.10.4

तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि ।
संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम्

4.10.5

नेत्रगर्तकसंसक्तप्रसूतनवकीटकम्।
पर्शुकापञ्जरप्रोतकोशकारकृमिव्रजम्

4.10.6

प्राक्तनीऽमुपभोगेहामिष्टानिष्टफलप्रदाम्।
धाराधौतान्त्रया तद्वद्भृशं शुष्कास्थिमालया

4.10.7

शिरोघटेन शुभ्रेण मसृणेनेन्दुवर्चसा ।
विडम्बयच्च कर्पूराप्लुतलिङ्गशिरःश्रियम्

4.10.8

ऋज्व्या संशुष्कशिरया स्वास्थिमात्रावशेषया ।
ग्रीवयात्मानुसृतया दीर्घीकुर्वदिवाकृतिम्

4.10.9

मृणालिकापाण्डुरया धारावभृतमांसया ।
नासाग्रास्थिकया वक्त्रे कृतसीमाकृतिं दधत्

4.10.4.10.10

दीर्घकन्धरया नूनमुन्नतीकृतवक्त्रया ।
प्रेक्षमाणमिव प्राणानुत्क्रान्तानम्बरोदरे

4.10.11

जङ्घोरुजानुदोर्दण्डैर्द्विगुणां दीर्घतां गतैः ।
प्रतिष्ठानमिवाशान्तं दीर्घाध्वश्रमभीतितः

4.10.12

उदरेणातिरिक्तेन चर्मशेषेण शोषिणा ।
प्रदर्शयदिवाज्ञस्य हृदयस्यातिशून्यताम्

4.10.13

प्रेक्ष्य तच्छुष्ककङ्कालमालानं दुःखदन्तिनः ।
पूर्वापरपरामर्शमकुर्वन्भृगुरुत्थितः

4.10.14

आलोकसमकाले हि प्रतिभानं ततो भृगोः ।
चिरमुत्क्रान्तजीवः किं मत्पुत्रोऽयमिति क्षणात्

4.10.15

अचिन्तयत एवास्य भविष्यं तनयं ततः ।
कालं प्रति बभूवाशु कोपः परमदारुणः

4.10.16

अकाल एव मत्पुत्रो नीतः किमिति कोपितः ।
कालाय शापमुत्सष्टुं भगवानुपचक्रमे

4.10.17

अथाकलितरूपोऽसौ कालः कवलितप्रजः ।
आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ

4.10.18

खड्गपाशधरः श्रीमान्कुण्डली कवचान्वितः ।
षड्भुजः षण्मुखो बह्व्या वृतः किङ्करसेनया

4.10.19

यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।
फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः

4.10.4.10.20

यत्करस्थत्रिशूलाग्रनिःसृतैरग्निमण्डलैः ।
विरेजुरुदितैराशाः कानकैरिव कुण्डलैः

4.10.21

यत्परश्वसनापास्तशिखरा मेदिनीभृतः ।
दोलामिव समारूढाश्चेलुः पेतुश्च घूर्णिताः

4.10.22

यत्खड्गमण्डलोद्द्योतैः श्यामं बिम्बं विवस्वतः ।
कल्पदग्धजगद्धूमपर्याकुलमिवावभौ

4.10.23

स उपेत्य महाबाहो कुपितं तं महामुनिम् ।
कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह

4.10.24

विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।
हेतुनापि न मुह्यन्ति किं नु हेतुं विनोत्तमाः

4.10.25

त्वमनन्ततपा विप्रो वयं नियतिपालकाः ।
तेन संपूज्यसे पूज्यः साधो नेतरयेच्छया

4.10.26

मा तपःक्षपयाऽबुद्धे कल्पकालमहानलैः ।
यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि

4.10.27

संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।
भुक्तानि विष्णुवृन्दानि क्व न शक्ता वयं मुने

4.10.28

भोक्तारो हि वयं ब्रह्मन्भोजनं युष्मदादयः ।
स्वयं नियतिरेषा हि नावयोरेतदीहितम्

4.10.29

स्वयमूर्ध्वं प्रयात्यग्निः स्वयं यान्ति पयांस्यधः ।
भोक्तारं भोजनं याति सृष्टिं चाप्यन्तकः स्वयम्

4.10.4.10.30

इदमित्थं मुने रूपं ममेह परमात्मनः ।
स्वात्मनि स्वयमेवात्मा स्वत एव विजृम्भते

4.10.31

नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।
बहवश्चेह कर्तारो दृष्ट्याऽनष्टकलङ्कया

4.10.32

कर्तृताकर्तृते ब्रह्मन्केवलं परिकल्पिते ।
असम्यग्दर्शनेनैव न सम्यग्दर्शनस्य ते

4.10.33

पुष्पाणि तरुखण्डेषु भूतानि भुवनेषु च ।
स्वयमायान्ति यान्तीह कल्पते हेतुनामभिः

4.10.34

अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते ।
न सत्ये नानृते यद्वत्तद्वत्कालस्य सृष्टिषु

4.10.35

मनो मिथ्याभ्रमाभोगे कर्तृताकर्तृतामयीम् ।
करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम्

4.10.36

तेन मागा मुने कोपमापदामीदृशः क्रमः ।
यद्यथा तत्तथैवाशु सत्यमालोकयाकुलः

4.10.37

न वयं प्रतिभार्थेहा नाभिमानवशीकृताः ।
स्वतो हि तात वशगाः केवलं नियतौ स्थिताः

4.10.38

प्रकृतव्यवहारेहानियतीर्निंयतेर्वशात् ।
प्राज्ञाः समभिवर्तन्ते नाभिमानमहातमः

4.10.39

कर्तव्यमेव नियतं केवलं कार्यकोविदैः ।
सुषुप्तिवृत्तिमाश्रित्य कदाचित्त्वं न नाशय

4.10.4.10.40

क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।
मार्गे सर्वप्रसिद्धेऽपि किमन्ध इव मुह्यसि

4.10.41

स्वकर्मफलपाकोत्थामविचार्य दशां मुने ।
किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुमिच्छसि

4.10.42

देहिनामिह सर्वेषां शरीरं द्विविधं मुने ।
किं न जानासि तं देहमेकमन्यन्मनोभिधम्

4.10.43

तत्र देहो जडोऽत्यर्थमाविनाशपरायणः ।
मनस्तुच्छं च नियतं कदर्थीक्रियते तव

4.10.44

चतुरेण यथा साधो रथः सारथिनोह्यते ।
कुर्वता किंचन स्नेहाद्देहोऽयं मनसा तथा

4.10.45

असत्संकल्पः क्रियते सच्छरीरं विनाश्यते ।
क्षणेन मनसा पङ्कपुरुषः शिशुना यथा

4.10.46

चित्तमेवेह पुरुषस्तत्कृतं कृतमुच्यते ।
तद्बद्धं कलनाहेतोः कलनास्तं विमुच्यते

4.10.47

अयं देह इवात्रस्थमिदमङ्गमिदं शिरः ।
इदं स्फारविकारं तन्मन एवाभिधीयते

4.10.48

मनो हि जीवाज्जीवाख्यं निश्चयैकतया नु धीः ।
अहङ्कारोऽभिमन्तृत्वान्नानाता स्वयमेव हि

4.10.49

देहवासनया चेतस्त्वन्यानि स्वानि चेच्छया ।
पार्थिवानि शरीराणि ह्यसन्ति परिपश्यति

4.10.4.10.50

आलोकयति चेत्सत्यं तदा सत्यमयीं मनः ।
शरीरभावनां त्यक्त्वा परामायाति निर्वृतिम्

4.10.51

तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते ।
स्वमनोरथमार्गेण दूराद्दूरतरं गतम्

4.10.52

इममौशनसं त्यक्त्वा देहं मन्दरकन्दरे ।
प्रयातो वैबुधं सद्म नीडोड्डीनः खगो यथा

4.10.53

तत्र मन्दरगुञ्जेषु पारिजाततलेषु च ।
नन्दनोद्यानखण्डेषु लोकपालपुरेषु च

4.10.54

मुने चतुर्युगान्यष्टौ विश्वाचीं देवसुन्दरीम् ।
असेवत महातेजाः षट्पदः पद्मिनीमिव

4.10.55

तीव्रसंवेगसंपन्नस्वसंकल्पोपकल्पिते ।
अथ पुण्यक्षये जाते नीहार इव शार्वरे

4.10.56

प्रम्लानकुसुमोत्तंसः खिन्नाङ्गावयवोल्लसः ।
स पपात तया सार्धं कालपक्वं फलं यथा

4.10.57

वैबुधं तत्परित्यज्य नभस्येव शरीरकम् ।
भूताकाशमथासाद्य वसुधायां व्यजायत

4.10.58

आसीद्विप्रो दशार्णेषु कोसलेषु महीपतिः ।
धीवरोऽथ महाटव्यां हंसस्त्रिपथगातटे

4.10.59

सूर्यवंशे नृपः पौण्ड्रः सौरशाल्वेषु देशिकः ।
कल्पं विद्याधरः श्रीमान्धीमानथ मुनेः सुतः

4.10.4.10.60

मद्रेष्वथ महीपालस्ततस्तापसबालकः ।
वासुदेव इति ख्यातः समङ्गायास्तटे स्थितः

4.10.61

अन्यास्वपि विचित्रासु वासनावशतः स्वयम् ।
विषमास्वेव पुत्रस्ते चचारान्तरयोनिषु

4.10.62

अभूद्विन्ध्यनगे भूयः किरातः कैकटेषु च ।
सौवीरेष्वथ सामन्तस्त्रिगर्तेषु च गर्दभः

4.10.63

वंशगुल्मः किरातेषु हरिणश्चीनजङ्गले ।
सरीसृपस्तालवृक्षे तमाले वनकुक्कुटः

4.10.64

अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः ।
प्रजजाप पुरा विद्यां विद्याधरपुरप्रदाम्

4.10.65

तेनासावभवद्ब्रह्मन्व्योम्नि विद्याधरो महान् ।
हारकुण्डलकेयूरलीलानिचयलालकः

4.10.66

नायिकानलिनीभानुः पुष्पचाप इवापरः ।
विद्याधरीणां दयितो गन्धर्वपुरभूषणः

4.10.67

स कल्पावधिमासाद्य द्वादशादित्यधामनि ।
जगाम भस्मशेषत्वं शलभः पावके यथा

4.10.68

जगन्निर्माणरहिते स्फारे नभसि सा ततः ।
वासना तस्य बभ्राम निर्नीडा विहगी यथा

4.10.69

अथ कालेन संजाते विचित्रारम्भकारिणि ।
संसाररचनारम्भे ब्राह्मे रात्रिविपर्यये

4.10.4.10.70

सा मुने वासना तस्य वातव्याचलिता सती ।
कृते ब्राह्मणतामेत्य जातोऽद्य वसुधातले

4.10.71

वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः ।
जातो मतिमतां मध्ये समधीताखिलश्रुतिः

4.10.72

कल्पं विद्याधरो भूत्वा नद्यास्त्वथ महामुने ।
तपश्चरति ते पुत्रः समङ्गायास्तटे स्थितः

4.10.73

विविधविषयवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु ।
जगति जठरयोनिषु प्रयातो गहनतरासु च काननस्थलीषु

4.10.10

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने कालवचनं नाम दशमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc