भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 3.86

3.86.86

षडशीतितमः सर्गः

3.86.1

श्रीभानुरुवाच ।
कल्पनाम्नि महादेव ह्यस्तने दिवसे तव ।
तले कैलासशैलस्य जम्बूद्वीपैककोणके

3.86.2

सुवर्णजटनाम्ना यस्त्वत्पुत्रैर्जनितप्रजैः ।
मण्डलं कल्पितं श्रीमदनल्पसुखसुन्दरम्

3.86.3

तत्राभूदतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
इन्दुनामातिशान्तात्मा कश्यपस्य कुलोद्भवः

3.86.4

तस्मिंस्तदा निवसतो नित्यं स्वजनमण्डले ।
तस्य प्राणसमा भार्या काचित्तस्यां महात्मनः

3.86.5

न बभूवात्मजस्तस्य मरुभूमौ तृणं यथा ।
न व्यराजत सा भार्या तस्य निष्फलपुष्पिता

3.86.6

ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा ।
तौ ततो दंपती खिन्नौ पुत्रार्थे तपसे गिरेः

3.86.7

कैलासस्यांशमारूढौ रूढाविव नवद्रुमौ ।
भूतैरनावृते शून्ये तस्मिन्कैलासकुञ्जके

3.86.8

तेपतुस्तौ तपो घोरं जलाहारौ तरुस्थिती ।
एकं पानीयचुलकं पीत्वा दिवसपर्यये

3.86.9

निस्पन्दमुत्थितौ वार्क्षी वृत्तिमाश्रित्य संस्थितौ ।
तस्थतुस्तौ तदा तत्र तावत्कालं तरुव्रतौ

3.86.10

यावत्त्रेता द्वापरं च युगे द्वे एव ते गते ।
ततस्तुष्टोऽभवद्देवस्तयोः शशिकलाधरः

3.86.11

दिनातपातापितयोरिन्दुः कुमुदयोरिव ।
आजगाम तमुद्देशं यत्र तौ विप्रदंपती

3.86.12

सलतापादपं देशं पुष्पाकर इवेश्वरः ।
दंपती तौ वृषारूढं सोमं सोमार्धशेखरम्

3.86.13

फुल्लाननौ ददृशतुः कुमुदे शशिनं यथा ।
तौ तं प्रणेमतुर्देव तुषारामलमीश्वरम्

3.86.14

द्यावापृथिव्यावुदितं परिपूर्णमिवोहुपम् ।
तर्जयन्पवनाधूतनववृक्षाननस्वरम्

3.86.15

मृदूहामस्मितस्पन्दि प्रोवाचाथ वचः शिवः ।
ईश्वर उवाच ।
वरं विप्र गृहाणाशु तुष्टोऽस्मि तव वाञ्छितम्

3.86.16

मधुमासरसाक्रान्तवृक्षवन्मुदितो भव ।
विप्र उवाच ।
भगवन्देवदेवेश दश पुत्रा महाधियः

3.86.17

भव्या भवन्तु मे भूयः शोको येन न बाधते ।
भानुरुवाच ।
अथैवमस्त्विति प्रोच्य जगामान्तर्धिमीश्वरः

3.86.18

व्योम्नि वारिनिधिर्ह्रादं कृत्वेवोर्मिमहावपुः ।
ततस्तौ दम्पती तुष्टौ शिवलब्धवरौ गृहम्

3.86.19

गतौ गीर्वाणसदृशौ खमिवोमामहेश्वरौ ।
तत्रासौ ब्राह्मणी गेहे बभूवोदारगर्भिणी

3.86.20

बभौ पूर्णोदरा श्यामा मेघलेखेव वारिणा ।
कालेऽथ सुषुवे पुत्रान्प्रतिपच्चन्द्रकोमलान्

3.86.21

दशबालांस्ततो मुग्धान्वसुधेव नवाङ्कुरान् ।
कृतब्राह्मणसंस्कारा वृद्धिमीयुर्महौजसः

3.86.22

स्वल्पेनैव हि कालेन प्रावृषेव नवाम्बुदाः ।
ते सप्तवर्षवयसो बभूवुर्ज्ञातवाङ्मयाः

3.86.23

विरेजुस्तेजसा तत्र नभसीवामला ग्रहाः ।
अथ कालेन महता तेषां तौ पितरौ तदा

3.86.24

संजग्मतुस्तनुं त्यक्त्वा स्वां गतिं गतिकोविदौ ।
मातापितृभ्यां रहिता दश ते ब्राह्मणास्ततः

3.86.25

ययुः कैलासशिखरं गृहं संत्यज्य खेदिनः ।
तत्र संचिन्तयामासुरुद्विग्नास्ते वितन्धवाः

3.86.26

किं स्यादिह परं श्रेय ऊचुश्चेदं परस्परम् ।
किमिह स्यात्समुचितं भ्रातरः किमदुःखदम्

3.86.27

किं महत्त्वं किमैश्वर्यं किं महाविभवं शुभम् ।
किं तदेतज्जनैश्वर्यं सामन्तो हि महेश्वर

3.86.28

सामन्तसंपत्किंनाम राजानो हि महेश्वराः ।
का नाम संपद्भूपानां सम्राडिह महेश्वरः

3.86.29

किं नाम तन्महेन्द्रत्वं यन्मुहूर्तं प्रजापतेः । ॥
विनश्यति न यत्कल्पे किं स्यात्तदिह शोभनम्

3.86.30

भाषमाणेष्वथैतेषु ज्येष्ठो भ्राता महामतिः ।
गम्भीरवागुवाचेदं मृगयूथान्मृगो यथा

3.86.31

ऐश्वर्याणां हि सर्वेषामाकल्पं न विनाशि यत् ।
रोचते भ्रातरस्तन्मे ब्रह्मत्वमिह नेतरत्

3.86.32

एतदुक्तं तदखिला द्विजपुत्रास्त उत्तमाः ।
वचोभिरैन्दवास्तत्र साधु साध्वित्यपूजयन्

3.86.33

ऊचुश्चेदं कथं तात सर्वदुःखोपमार्जनम् ।
पद्मासनं जगत्पूज्यं विरञ्चित्वमवाप्नुमः

3.86.34

भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः ।
मदुक्तं सर्व एवेमे भवन्तः पालयन्तु वै

3.86.35

पद्मासनगतो भास्वान्ब्रह्माहमिति तेजसा ।
सृजामि संहरामीति ध्यानमस्तु चिराय वः

3.86.36

अग्रजेनेति कथिते बाढं कृत्वा त उत्तमाः ।
ध्यानाधीनधियस्तस्थुः सहैव ज्यायसा रसात्

3.86.37

लिपिकर्मार्पिताकारा ध्यानासक्तधियश्च ते ।
अन्तस्थेनैव मनसा चिन्तयामासुरादृताः

3.86.38

अथ उत्फुल्लकमलकोशवक्रोन्नतासनः ।
ब्रह्माहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः

3.86.39

यज्ञक्रियाक्रमवतः साङ्गोपाङ्गा महर्षयः ।
सरस्वत्याथ गायत्र्या युक्ता वेदा नरा इमे

3.86.40

लोकपालपराक्रान्तः संचरत्सिद्धमण्डलः ।
अयमुद्दामसौभाग्यः स्वर्गः स्वरविभूषितः

3.86.41

पर्वतद्वीपजलधिकाननैः समलंकृतम् ।
इदं भूमण्डलं चैव त्रिलोकीकर्णकुण्डलम्

3.86.42

एतत्पातालकुहरं दैत्यदानवभोजितम् ।
अमृतस्त्रीगणाकीर्णं गृहं गगनकोटरम्

3.86.43

अयमिन्द्रो महाबाहुः प्रजालंकृतदोत्तमः ।
त्रैलोक्यनगरीमेकः पाति पावनयज्ञभुक्

3.86.44

दीप्रजालवरत्राभिरवष्टभ्याथ दिग्गणम् ।
क्रमेण प्रतपन्त्येते भानवो भूरिभानवः

3.86.45

लोकपाला इमे लोकं रक्षन्ति शुद्धवृत्तयः ।
मर्यादाभिरतुच्छाभिर्गोपाला गोगणं यथा

3.86.46

उन्मज्जन्ति निमज्जन्ति प्रस्फुरन्ति पतन्ति च ।
तरङ्गा इव तोयानामिमाः प्रतिदिनं प्रजाः

3.86.47

सृजामीममहं सर्गं संहरामि तथादृतः ।
अयमात्मनि तिष्ठामि शाम्यामि भुवनेश्वरः

3.86.48

अयं संवत्सरो यात इदं परिणतं युगम् ।
सृष्टेरयमसौ कालः स्वयं संहरणस्य च

3.86.49

अयमेव गतः कल्पो ब्राह्मी रात्रिरियं तता ।
अयमात्मनि तिष्ठामि पूर्णात्मा परमेश्वरः

3.86.50

इति भावितया बुद्ध्या ते द्विजा अथ ऐन्दवाः ।
दशाद्रिवृत्तयस्तस्थुः समुत्कीर्णा इवोपलात्

3.86.51

अधिगतकमलासनक्रमास्ते
परिगलितेतरतुच्छवृत्तिजालाः ।
सततमतितरां कुशासनस्था-
श्चिरमिति पङ्कजकल्पने विरेजुः

3.86.86

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० ए० ऐन्दवसमाधानं नाम षडशीतितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc