भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 3.80

3.80.80

अशीतितमः सर्गः

3.80.1

श्रीवसिष्ठ उवाच ।
महानिशि महारण्ये महाराक्षसकन्यया ।
इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ

3.80.2

मन्त्र्युवाच ।
शृणु तोयदसंकाशे प्रश्नमेतं भिनद्मि ते ।
अनुक्रमात्मकं मत्तं गजेन्द्रमिव केसरी।

3.80.3

भवत्या परमात्मैष कथितः कमलेक्षणे ।
अनयैव वचोभङ्ग्या प्रश्नविद्बोधयोग्यया

3.80.4

अनाख्यत्वादगम्यत्वान्मनः षष्ठेन्द्रियस्थितेः ।
चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः

3.80.5

चिदणोः परमस्यान्तः सदिवासदिवापि वा ।
बीजेऽन्तर्द्रुमसत्तेव स्फुरतीदं जगत्स्थितम्

3.80.6

सत्किंचिदनुभूतित्वात्सर्वात्मकतया स्वतः ।
तदात्मकतया पूर्वं भावाः सत्तां किलागताः

3.80.7

आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः ।
अतीन्द्रियत्वान्नो किंचित्स एवाणुरनन्तकः

3.80.8

सर्वात्मकत्वाद्भुक्ते च तेन किंचिन्न किंचन ।
चिदणोः प्रतिभा सा स्यादेकस्यानेकतोदिता ।
असत्येव यथा हेम्नः कटकादि तथा परे

3.80.9

एषोऽणुः परमाकाशः सूक्ष्मत्वादप्यलक्षितः ।
मनःषष्ठेन्द्रियातीतः स्थितः सर्वात्मकोऽपि सन्

3.80.3.80.10

सर्वात्मकत्वान्नैवासौ शून्यो भवति कर्हिचित् ।
यदस्ति न तदस्तीति वक्ता मन्ता इति स्मृतः

3.80.11

कयाचिदपि युक्त्येह सतोऽसत्त्वं न युज्यते ।
सर्वात्मा स्वात्मगुप्तेन अपूरेणेव दृश्यते

3.80.12

चिन्मात्राणुः स एवेह सर्वं किंचिन्मनःस्थितम् ।
न किंचिदिन्द्रियातीत रूपत्वादमलः स्थितः

3.80.13

स एव चैकोऽनेकश्च सर्वसत्त्वात्मवेदनात् ।
स एवेदं जगद्धत्ते जगत्कोशस्तथैव हि

3.80.14

इमाश्चित्तमहाम्भोधौ त्रिजगल्लववीचयः ।
प्रज्ञास्तस्मिन्कचन्त्यप्सु द्रवत्वाच्चक्रता इव

3.80.13

चित्तेन्द्रियाद्यलभ्यत्वात्सोऽणुः शून्यस्वरूपवत् ।
स्वसंवेदनलभ्यत्वादशून्यं व्योमरूप्यपि

3.80.16

सोऽहं भवानेव भवान्संपन्नोऽद्वैतवेदनात् ।
स भवान्न भवेन्नाहं जातो बोधबृहद्वपुः

3.80.17

त्वंताहंतात्मकं सर्वं विनिगीर्यावबोधतः ।
न त्वं नाहं न सर्वं च सर्वं वा भवति स्वयम्

3.80.18

गच्छन्न गच्छत्येषोऽणुर्योजनौघगतोऽपि सन् ।
संवित्त्या योजनौघत्वं तस्याणोरन्तरे स्थितम्

3.80.19

न गच्छत्येष यातोऽपि संप्राप्तोऽपि च नागतः ।
स्वसत्ताकाशकोशान्तर्वासित्वाद्देशकालयोः

3.80.3.80.20

गम्यं यस्य शरीरस्थं क्व किलासौ प्रयाति हि ।
कुचकोटरगः पुत्रः किं मात्रान्यत्र वीक्ष्यते

3.80.21

गम्यो यस्य महादेशो यावत्संभवमक्षयः ।
अन्तस्थः सर्वकर्तुर्हिं स कथं क्वेव गच्छति

3.80.22

यथा देशान्तरप्राप्ते कुम्भे वक्त्रसमुद्रिते ।
तदाकाशस्य गमनागमने न तथात्मनः

3.80.23

चित्तता स्थाणुता स्वान्तर्यदा स्तोऽनुभवात्मिके ।
चेतनस्य जडस्यैव तदासौ द्वयमेव च

3.80.24

यदा चेतनपाषाणसत्तैकात्मैकचिद्वपुः ।
तदा चेतन एवासौ पाषाण इव राक्षसि

3.80.25

परमव्योम्न्यनाद्यन्ते चिन्मात्रपरमात्मना ।
विचित्रं त्रिजगच्चित्रं तेनेदमकृतं कृतम्

3.80.26

तत्संवित्त्या वह्निसत्ता तेनात्यक्तानलाकृतिः ।
सर्वगोऽप्यदहत्येव स जगद्द्रव्यपावकः

3.80.27

प्रज्वलद्भास्वराकारान्निर्मलाद्गगनादपि ।
प्रज्वलच्चेतनैकात्मा तस्मादग्निः स जायते

3.80.28

संवेदनाद्यदर्कादिप्रकाशस्य प्रकाशकः ।
न नश्यत्यात्मभारूपो महाकल्पाम्बुदैरपि

3.80.29

अनेत्रलभ्योऽनुभवरूपो हृद्गृहदीपकः ।
सर्वसत्ताप्रदोऽनन्तः प्रकाशः परमः स्मृतः

3.80.3.80.30

प्रवर्ततेऽस्मदालोको मनःषष्ठेन्द्रियातिगात् ।
येनान्तरापि वस्तूनां दृष्टा दृश्यचमत्कृतिः

3.80.31

लतागुल्माङ्कुरादीनामनक्षाणां च पोषकः ।
उत्सेधवेदनाकारः प्रकाशोऽनुभवात्मकः

3.80.32

कालाकाशक्रियासत्ता जगत्तत्रास्ति वेदने ।
स्वामी कर्ता पिता भोक्ता आत्मत्वाच्च न किंचन

3.80.33

अणुत्वमजहत्सोऽणुर्जगद्रत्नसमुद्गकः ।
मातृमानप्रमेयात्म जगन्नास्तीति केवले

3.80.34

स एव सर्वजगति सर्वत्र कचति स्फुटम् ।
यदा जगत्त्समुद्गेऽस्मिंस्तदासौ परमो मणिः

3.80.35

दुर्बोधत्वात्तमः सोऽणुश्चिन्मात्रत्वात्प्रकाशदृक् ।
सोऽस्ति संवित्तिरूपत्वादक्षातीतस्तथा न सन्

3.80.36

दूरे सोऽनक्षलभ्यत्वाच्चिदूपत्वान्न दूरगः ।
सर्वसंवेदनाच्छैलो ह्यसावेवाणुरेव सन्

3.80.37

तत्संवेदनमात्रं यत्तदिदं भासते जगत् ।
न सत्यमस्ति शैलादि तेनाणावेव मेरुता

3.80.38

निमेषप्रतिभासो हि निमेष इति कथ्यते ।
कल्पेति प्रतिभासो हि कल्पशब्देन कथ्यते

3.80.39

कल्पक्रियाविलासो हि निमेषः प्रतिभासते ।
बहुयोजनकोटिस्थं मनस्येव महापुरम्

3.80.3.80.40

निमेषजठरे कल्पसंभवः समुदेति हि ।
महानगरनिर्माणं मुकुरेऽन्तरिवामले

3.80.41

निमेषकल्पशैलादिपूरयोजनकोटयः ।
यत्राऽणावेव विद्यन्ते तत्र द्वैतैक्यते कुतः

3.80.42

कृतवान्प्रागिदमहमिति बुद्धावुदेति हि ।
क्षणात्सत्यमसत्यं च दृष्टान्तः स्वप्नविभ्रमः

3.80.43

दुःखे कालः सुदीर्घो हि सुखे लघुतरः सदा ।
रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य चोदिता

3.80.44

निश्चयो य उदेत्यन्तः सत्यात्मा सत्य एव च ।
हेम्नीव कटकादित्वं स एव चिति राजते

3.80.45

न निमेषोऽस्ति नो कल्पो नादूरं न च दूरता ।
चिदणुप्रतिभैवैवं स्थितान्यान्यान्यवस्तुवत्

3.80.46

प्रकाशतमसोर्दूरादूरयोः क्षणकल्पयोः ।
एकचिद्देहयोरेव न भेदोऽस्ति मनागपि

3.80.47

प्रत्यक्षमक्षसारत्वादप्रत्यक्षं ततोऽतिगम् ।
दृश्यत्वेनैष वोदेति चेता द्रष्टैव सद्वपुः

3.80.48

यावत्कटकसंवित्तिस्तावन्नास्तीव हेमता ।
यावच्च दृश्यतापत्तिस्तावन्नास्तीव सा कला

3.80.49

कटकत्वेऽकृतेऽदृष्टे सुवर्णत्वमिवाततम् ।
केवलं निर्मलं शुद्धं ब्रह्मैव परिदृश्यते

3.80.3.80.50

सर्वत्वादेव सद्रूपो दुर्लक्ष्यत्वादसद्वपुः ।
चेतनश्चेतनात्मत्वाच्चेत्यासंभवतस्त्वचित्

3.80.51

चिच्चमत्कारमात्रात्मन्यस्मिंश्चित्प्रतिभात्मनि ।
जगत्यनिलवृक्षाभे चिच्चेत्यकलने कुतः

3.80.52

यथा तापस्य पीनस्य भासनं मृगतृष्णिका ।
एवं पीवरमद्वैतं तथा चिद्भासनं जगत्

3.80.53

अर्कांशुभिः सूक्ष्मतरनिर्माणं यदनामयम् ।
अस्तितानास्तिते तत्र कल्पादेरिव कैव धीः

3.80.54

माययांशुकणाङ्के खे यथा कचति काञ्चनम् ।
तथा जगदिदं भाति चिच्चेत्यकलने कुतः ॥.

3.80.55

स्वप्नगन्धर्वसंकल्पनगरे कुड्यवेदनम् ।
न सन्नासद्यथा तद्वद्विद्धि दीर्घभ्रमं जगत्

3.80.56

तथा चैवंविधन्यायभावनाभ्यासनिर्मलात् ।
चिदाकाशेन निर्याति यथा भूतार्थदर्शिनः

3.80.57

न कुड्याकाशयोर्भेदो दृश्यसंवेदनादृते ।
आब्रह्मजीवकलनाद्यद्रूढं रूढमेव च

3.80.58

प्रतिभासाच्चिदाकाशे सत्त्वशून्यं भवन्ति ताः ।
प्रकचन्ति ह्यनिर्भाव्याः प्रभापिण्ड इव प्रभाः

3.80.59

पृथक्तामतिभासस्य स्वचमत्कारयोगतः ।
सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत्

3.80.3.80.60

बीजमन्तस्थवृक्षत्वं नानाऽनाना यथैकदृक् ।
तथाऽसंख्यजगद्ब्रह्म शान्तमाकाशकोशवत्

3.80.61

बीजस्यान्तस्थवृक्षस्य व्योमाद्वैता स्थितिर्यथा ।
ब्रह्मणोऽन्तस्थजगतः साक्षित्वाच्चित्स्थितिस्तथा

3.80.62

शान्तं समस्तमजमेकमनादिमध्यं
नेहास्ति काचन कलाकलना कथंचित् ।
निर्द्वन्द्वशान्तमतिरेकमनेकमच्छ-
माभासरूपमजमेकविकासमास्ते

3.80.80

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे क० प्रश्नभेदनं नामाशीतितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc