भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 3.58

3.58.1

श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे ज्ञप्तिर्जीवं वैदूरथं पुनः ।
संकल्पेन रुरोधाशु मनसः स्पन्दनं यथा

3.58.2

लीलोवाच ।
वद देवि कियान्कालो गतोऽस्यामिह मन्दिरे ।
समाधौ मयि लीनायां महीपाले शवे स्थिते

3.58.3

ज्ञाप्तिरुवाच ।
इह मासस्त्वतिक्रान्त इह दास्याविमे तव ।
रक्षार्थं वासगृहके स्वपतोऽवहिते स्थिते

3.58.4

शृणु देहस्य किंवृत्तं तवेह वरवर्णिनि ।
शरीरं तव पक्षेण तत्क्लिन्नं बाष्पतां गतम्

3.58.5

निर्जीवं पतितं भूमौ संशुष्कमिव पल्लवम् ।
काष्ठकुड्योपमो जातः शवस्तु हिमशीतलः

3.58.6

ततो मन्त्रिभिरागत्य मृतैवेयमिति स्वयम् ।
क्लेदालोकाद्विनिर्णीय भूयो निष्कासितं गृहात्

3.58.7

बहुनात्र किमुक्तेन नीत्वा चन्दनदारुभिः ।
चितौ संक्षिप्य सघृतं सहसा भस्मसात्कृतम्

3.58.8

ततो राज्ञी मृतेत्युच्चैः कृत्वा रोदनमाकुलम् ।
परिवारस्तवाशेषं कृतवानौर्ध्वदेहिकम्

3.58.9

इदानीं त्वामिहालोक्य सशरीरामुपागताम् ।
परलोकादागतेति महच्चित्रं भविष्यति

3.58.10

त्वं तु तेन शरीरेण सत्यसंकल्पतः सुते ।
दृश्यसे स्ववदातेन चित्रं तत्र तवोपरि

3.58.11

यद्वासना त्वमभवो देहं प्रति तदेव ते ।
रूपमभ्युदितं बाले तेन प्राक्सदृशं तव

3.58.12

स्ववासनानुसारेण सर्वः सर्वं हि पश्यति ।
दृष्टान्तोऽत्राविसंवादी बालवेतालदर्शनम्

3.58.13

आतिवाहिकदेहासि संपन्ना सिद्धसुन्दरि ।
विस्मृतस्त्वेव देहोऽसौ प्राक्तनोऽनपवासनः

3.58.14

रूढातिवाहिकदृशः प्रशाम्यत्याधिभौतिकः ।
बुधस्य दृश्यमानोऽपि शरन्मेघ इवाम्बरे

3.58.15

रूढातिवाहिकीभावः सर्वो भवति देहकः ।
निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः

3.58.16

सद्वासनस्य रूढायामातिवाहिकसंविदि ।
देहो विस्मृतिमायाति गर्भसंस्थेव यौवने

3.58.17

एकत्रिंशेऽद्य दिवसे प्राप्ता वयमिहाम्बरे ।
प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना

3.58.18

तदेहि यावल्लीलायै लीले संकल्पलीलया ।
आत्मानं दर्शयावोऽस्यै व्यवहारः प्रवर्तताम्

3.58.19

श्रीवसिष्ठ उवाच ।
आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते ।
ज्ञप्त्या देव्या ततस्तत्र दृश्ये दीप्ते बभूवतुः

3.58.20

सा विदूरथलीलाथ समाकुलविलोचना ।
गृहमालोकयामास तत्तेजःपुञ्जभास्वरम्

3.58.21

चन्द्रबिम्बादिवोत्कीर्णं धौतं हेमद्रवैरिव ।
ज्वालाया द्रवशीतायास्तत्प्रभाद्रवभित्तिमत्

3.58.22

गृहमालोक्य पुरतो लीलाज्ञप्ती विलोक्य ते ।
उत्थाय संभ्रमवती तयोः पादेषु सापतत्

3.58.23

मज्जयायागते देव्यौ जयतां जीवनप्रदे ।
इह पूर्वमहं प्राप्ता भवत्योर्मार्गशोधिनी

3.58.24

इत्युक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः ।
उपाविशन्विष्टरेषु लतामेरुशिरःस्विव

3.58.25

ज्ञप्तिरुवाच ।
सुते वद कथं प्राप्ता त्वमिमं देशमादितः ।
किं वृत्तं ते त्वया दृष्टं किमिवाध्वनि कुत्र वा

3.58.26

विदूरथलीलोवाच ।
देवि तस्मिन्प्रदेशे सा जातमूर्च्छा तदाभवम् ।
द्वितीयेन्दोः कलेवाहं कल्पान्तज्वालया हता

3.58.27

न चेतितं मया किंचित्समं विषममेव च ।
ततस्तरलपक्ष्मान्ते विनिमील्य विलोचने

3.58.28

ततो मरणमूर्च्छान्ते पश्यामि परमेश्वरि ।
यावदभ्युदितास्म्याशु प्लुता च गगनोदरे

3.58.29

भूताकाशेऽनिलरथं समारूढास्म्यहं ततः ।
आनीता गन्धलेखेव तेनाहमिममालयम्

3.58.30

देवि पश्यामि सदनं नायकेनाभ्यलंकृतम् ।
दीप्तदीपं विविक्तं च महार्हशयनान्वितम्

3.58.31

पतिमालोकयामीमं यावदेष विदूरथः ।
शेते कुसुमगुप्ताङ्गो मधुः पुष्पवने यथा

3.58.32

अथ संग्रामसंरम्भश्रमार्तोऽयं स्वपित्यलम् ।
इति निद्रा मया सेयं देवेश्वरि न वारिता

3.58.33

अनन्तरमिमं देशं प्राप्ते देव्याविमे त्विति ।
यथानुभूतं कथितं मदनुग्रहकारिणि

3.58.34

ज्ञप्तिरुवाच ।
हे हंसहारिगामिन्यौ लीले ललितलोचने ।
उत्थापयामो नृपतिं शवतल्पतलादिमम्

3.58.35

इत्युक्त्वा मुमुचे जीवमामोदमिव पद्मिनी ।
ससमीरलताकारस्तन्नासानिकटं ययौ

3.58.36

घ्राणकोशं विवेशान्तर्वंशरन्ध्रमिवानिलः ।
स्ववासनाशतान्यन्तर्दधदब्धिर्मणीनिव

3.58.37

अन्तस्थजीवं वदनं तस्य तत्कान्तिमाययौ ।
पद्मस्यावग्रहे पद्मं सुवृष्ट इव वारिणि

3.58.38

क्रमादङ्गानि सर्वाणि सरसानि चकाशिरे ।
तस्य पुष्पाकर इव लताजालानि भूभृतः

3.58.39

अथाबभौ कलापूर्णः स राकायामिवोडुराट् ।
भासयन्भुवनं भूरि वदनेन्दुमरीचिभिः

3.58.40

स्फुरयामास सोऽङ्गानि रसवन्ति मृदूनि च ।
कनकोज्वलकान्तीनि पल्लवानीव माधवः

3.58.41

उन्मीलयामास दृशौ विमलालोलतारके ।
हारिण्यौ सुभगाभोगे चन्द्रार्कौ भुवनं यथा

3.58.42

उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिर्वृद्धिमानिव ।
उवाच कः स्थित इति घनगम्भीरनिःस्वनम्

3.58.43

लीलाद्वयमथास्याग्रे प्रोवाचादिश्यतामिति ।
स ददर्श पुरो नम्रं लीलाद्वयमवस्थितम्

3.58.44

समाचारं समाकारं समरूपं समस्थिति ।
समवाक्यं समोद्योगं समानन्दं समोदयम्

3.58.45

का त्वं केयं कुतश्चेयमित्याह स विलोकयन् ।
तस्मै लीलाह हे देव श्रूयतां यद्वदाम्यहम्

3.58.46

महिला तव लीलाहं प्राक्तनी सहधर्मिणी ।
वागर्थस्येव संपृक्ता स्थिता संश्लेषशालिनी

3.58.47

इयं लीला द्वितीया ते महिला हेलया मया ।
उपार्जिता त्वदर्थेन प्रतिबिम्बमयी शुभा

3.58.48

शिरोभागोपविष्टेयं पाहि हैममहासने ।
एषा सरस्वती देव त्रैलोक्यजननी शिवा

3.58.49

अस्माकं पुण्यसंभारैरिह साक्षादुपागता ।
अनयेमे पराल्लोकादिहानीते महीपते

3.58.50

इत्याकर्ण्य समुत्थाय राजा राजीवलोचनः ।
लम्बमाल्याम्बरधरः पपात ज्ञप्तिपादयोः

3.58.51

सरस्वति नमस्तुभ्यं देवि सर्वहितप्रदे ।
प्रयच्छ वरदे मेधां दीर्घमायुर्धनानि च

3.58.52

इत्युक्तवन्तं हस्तेन पस्पर्श ज्ञप्तिदेवता ।
सरस्वत्युवाच ।
त्वं पुत्राभिमतार्थाढ्यो भवेति भवनान्वितः

3.58.53

सर्वापदः सकलदुष्कृतदृष्टयश्च
गच्छन्तु वः शममनन्तसुखानि सम्यक् ।
आयान्तु नित्यमुदिता जनता भवन्तु
राष्ट्रेस्थिराश्च विलसन्तु सदैव लक्ष्म्यः

3.58.58

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने पद्मजीवनं नामाष्टपञ्चाशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc