भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 3.41

3.41.1

श्रीवसिष्ठ उवाच । ॥
तयोः प्रविष्टयोर्देव्योः पद्मसद्म बभूव तत् ।
चन्द्रद्वयोदयोद्द्योतधवलोदरसुन्दरम्

3.41.2

कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् । ।
तत्प्रभावेन निद्रालुनृपेतरनराङ्गनम्

3.41.3

सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् ।
सवसन्तं वनमिव फुल्लं प्रातीरवाम्बुजम्

3.41.4

तयोर्देहप्रभापूरैः शशिनिस्यन्दशीतलैः ।
आह्लादितोऽसौ बुबुधे राजोक्षित इवामृतैः

3.41.5

आसनद्वयविश्रान्तं स ददर्शाप्सरोद्वयम् ।
मेरुशृङ्गद्वये चन्द्रबिम्बद्वयमिवोदितम्

3.41.2

निमेषमिव संचिन्त्य स विस्मितमना नृपः ।
उत्तस्थौ शयनाच्छेषादिव चक्रगदाधरः

3.41.7

परिसंयमितालम्बिमाल्यहाराधराम्बरः ।
पुष्पाहार इवोत्फुल्लं जग्राह कुसुमाञ्जलिम्

3.41.8

उपधानप्रदेशस्थात्स्वयं पटलकोटरात् ।
बद्धपद्मासनो भूमौ भूत्वोवाचेदमानतः

3.41.9

जयतां जन्मदोस्थित्यदाहदोषशशिप्रभे ।
देव्यौ बाह्यान्तरतमोविद्रावणरविप्रभे

3.41.10

तयोरुक्त्वेति तत्याज पादयोः कुसुमाञ्जलिम् ।
तीरद्रुमो विकसितः पद्मिन्यो पद्मयोरिव

3.41.11

लीलायै भूपजन्माथ वक्तुं मन्त्रिणमीश्वरी ।
बोधयामास पार्श्वस्थं संकल्पेन सरस्वती

3.41.12

प्रबुद्धोप्सरसौ दृष्ट्वा प्रणम्य कुसुमाञ्जलिम् ।
तयोः पादेषु संत्यज्य विवेश पुरतो नतः

3.41.13

उवाच देवी हे राजन्कस्त्वं कस्य सुतः कदा ।
इह जात इति श्रुत्वा स मन्त्री वाक्यमब्रवीत्

3.41.14

देव्यौ युष्मत्प्रसादोऽयं भवत्योरपि यत्पुरः ।
वक्तुं शक्नोमि तद्देव्यौ श्रूयेतां जन्म मत्प्रभोः

3.41.15

आसीदिक्ष्वाकुवंशोत्थो राजा राजीवलोचनः ।
श्रीमान्कुन्दरथो नाम दोश्छायाच्छादितावनिः

3.41.16

तस्याभूदिन्दुवदनः पुत्रो भद्ररथाभिधः ।
तस्य विश्वरथः पुत्रस्तस्य पुत्रो बृहद्रथः

3.41.17

तस्य सिन्धुरथः पुत्रस्तस्य शैलरथः सुतः ।
तस्य कामरथः पुत्रस्तस्य पुत्रो महारथः

3.41.18

तस्य विष्णुरथः पुत्रस्तस्य पुत्रो नभोरथः ।
अयमस्मत्प्रभुस्तस्य पुत्रः पूर्णामलाकृतिः

3.41.19

अमृतापूरितजनः क्षीरोदस्येव चन्द्रमाः ।
महद्भिः पुण्यसंभारैर्विदूरथ इति श्रुतः

3.41.20

जातो मातुः सुमित्राया गौर्या गुह इवापरः ।
पितास्य दशवर्षस्य दत्त्वा राज्यं वनं गतः

3.41.21

पालयत्येष भूपीठं ततः प्रभृति धर्मतः ।
भवत्यावद्यसंप्राप्ते फलिते सुकृतद्रुमे

3.41.22

देव्यौ दीर्घतपःक्लेशशतैर्दुष्प्रापदर्शने ।
इत्ययं वसुधाधीशो विदूरथ इति श्रुतः

3.41.23

अद्य युष्मत्प्रसादेन परां पावनतां गतः ।
इत्युक्त्वा संस्थिते तूष्णीं मन्त्रिण्यवनिपे तथा

3.41.24

कृताञ्जलौ नतमुखे बद्धपद्मासनेऽवनौ ।
राजन्स्मर विवेकेन पूर्वजातिमिति स्वयम्

3.41.25

वदन्ती मूर्ध्नि पस्पर्श तं करेण सरस्वती ।
अथ हार्दं तमो मायापद्मस्य क्षयमाययौ

3.41.26

सुविकासं च हृदयं ज्ञप्तिस्पर्शोदयेऽभवत् ।
सस्मार पूर्ववृत्तान्तमन्तः स्फुरदिव स्थितम्

3.41.27

त्यक्तदेहैकराज्यत्वं लीलाविलसितान्वितम् ।
ज्ञात्वा प्रज्ञप्तिवृत्तान्तं लीलायास्तु विजृम्भितम्

3.41.28

आत्मोदन्तं बभूवासावुह्यमान इवार्णवे ।
उवाचात्मनि संसारे बत मायेयमातता

3.41.29

परिज्ञाता प्रसादेन देव्योरिह मयाधुना ।
राजोवाच ।
हे देव्यौ किमिदं नाम दिनमेकं मृतस्य मे

3.41.30

गतमद्येह जातानि वयो वर्षाणि सप्ततिः ।
स्मराम्यनेककार्याणि स्मरामि प्रपितामहम्

3.41.31

स्मरामि बाल्यं तारुण्यं मित्रं बन्धुपरिच्छदम् ।
ज्ञप्तिरुवाच ।
राजन्मृतिमहामोहमूर्च्छायाः समनन्तरम्

3.41.32

तस्मिँल्लोकान्तरेऽतीते तस्मिन्नेव मुहूर्तके ।
तस्मिन्नेव गृहे चास्मिन्नेव व्योम्न्यपि सद्मनि

3.41.33

अयं तस्य गृहस्यान्तर्व्योमन्येव किल स्थिते ।
गिरिग्रामकविप्रस्य गृहेऽन्तर्भूप मण्डपः

3.41.34

तस्यान्तरेऽयमाभाति प्रत्येकं च जगद्गृहम् ।
किल ब्राह्मणगेहान्तर्जीवस्ते मदुपास्थितः

3.41.35

तत्रैव तस्य भूपीठं तस्मिंश्च किल मण्डपे ।
तस्यैव च गृहस्यान्तरिदं संसारमण्डलम्

3.41.36

तन्नैवेदं तव गृहं स्थितमारम्भमन्थरम् ।
तत्रैव चेतसि तव निर्मलाकाशनिर्मले

3.41.37

प्रतिभामागतमिदं व्यवहारभ्रमाततम् ।
यथेदं नाम मे जन्म तथेक्ष्वाकुकुलं मम

3.41.38

एवंनामान एते मे पुराभूवन्पितामहाः ।
जातोऽहमभवं बालो दशवर्षस्य मे पिता

3.41.39

परिव्राड्विपिनं यात इह राज्येऽभिषिच्य माम् ।
ततो दिग्विजयं कृत्वा कृत्वा राज्यमकण्टकम्

3.41.40

अमीभिर्मन्त्रिभिः पौरैः पालयामि वसुन्धराम् ।
यज्ञक्रियाक्रमवतो धर्मे पालयतः प्रजाः

3.41.41

वयसः समतीतानि मम वर्षाणि सप्ततिः ।
इदं परबलं प्राप्तं मम दारुणविग्रहः

3.41.42

युद्धं कृत्वेदमायातो गृहमस्मिन्यथास्थितम् ।
इमे देव्यौ गृहे प्राप्ते ममैते पूजयाम्यहम्

3.41.43

पूजिता हि प्रयच्छन्ति देवताः स्वसमीहितम् ।
ममेयमेतयोरेका ज्ञानं जातिस्मृतिप्रदम्

3.41.44

इह दत्तवती देवी भाब्जस्येव विकासनम् ।
इदानीं कृतकृत्योऽस्मि जातोऽस्मि गतसंशयः

3.41.3

शाम्यामि परिनिर्वामि सुखमासे च केवलम् ।
इतीयमातता भ्रान्तिर्भवतो भूरिसंभ्रमा

3.41.46

नानाचारविहाराढ्या सलोकान्तरसंचरा ।
यस्मिन्नेव मुहूर्ते त्वं मृतिमभ्यागतः पुरा

3.41.47

तदैव प्रतिभैषा ते स्वयमेवोदिता हृदि ।
एकामावर्तचलनां त्यक्त्वा दत्ते यथाऽपराम्

3.41.48

क्षिप्रमेव नदीवाहो वित्प्रवाहस्तथैव च ।
आवर्तान्तरसंमिश्रो यथावर्तः प्रवर्तते

3.41.49

कदाचिदेवं सर्गश्रीर्मिश्राऽमिश्रा च वर्धते ।
तस्मिन्मृतिमुहूर्ते ते प्रतिभानमुपागतम्

3.41.50

एतज्जालमसद्रूपं चिद्भानोः समुपस्थितम् ।
यथा स्वप्नमुहूर्तेऽन्तः संवत्सरशतभ्रमः

3.41.51

यथा संकल्पनिर्माणे जीवनं मरणं पुनः ।
यथा गन्धर्वनगरे कुड्यमण्डनवेदनम्

3.41.52

यथा नौयानसंरम्भे वृक्षपर्वतवेपनम् ।
यथा स्वधातुसंक्षोभे पूर्वपर्वतनर्तनम्

3.41.53

यथा समञ्जसं स्वप्ने स्वशिरःप्रविकर्तनम् ।
मिथ्यैवैवमियं प्रौढा भ्रान्तिराततरूपिणी

3.41.54

वस्तुतस्तु न जातोऽसि न मृतोऽसि कदाचन ।
शुद्धविज्ञानरूपस्त्वं शान्त आत्मनि तिष्ठसि

3.41.56

पश्यसीवैतदखिलं न च पश्यसि किंचन ।
सर्वात्मकतया नित्यं प्रकचस्यात्मनात्मनि ॥
महामणिरिवोदार आलोक इव भास्वरः ।
वस्तुतस्तु न भूपीठमिदं न च भवानयम्

3.41.57

न चेमे गिरयो ग्रामा न चैते न च वै वयम् ।
गिरिग्रामकविप्रस्य मण्डपाकाशके किल

3.41.58

तल्लीलाभर्तृदाराढ्यं जगदाभाति भास्वरम् ।
तत्र लीलाराजधानी मण्डपामण्डिताकृतिः

3.41.59

भाति तस्योदरे व्योम्नि तदेवं विदितं जगत् ।
तस्मिञ्जगति गेहेऽन्तर्यस्मिन्वयमिह स्थिताः

3.41.60

एवं तेषां मण्डपानां व्योमाव्योमैव निर्मलम् ।
तथैव मण्डपेष्वस्ति न मही न च पत्तनम्

3.41.61

न वनानि न शैलौघा न मेघसरिदर्णवाः ।
केवलं तत्र निःशून्ये विहरन्ति गृहे जनाः

3.41.62

न पश्यन्ति जना नापि पार्थिवा न च भूधराः ।
विदूरथ उवाच ।
एवं चेत्तत्कथं देवि ममेहानुचरा इमे

3.41.63

संपन्ना आत्मना सन्ति ते किमात्मनि नोऽथवा ।
जगत्स्वप्नार्थवद्भाति तस्य स्वप्ननरादयः

3.41.64

कथमात्मनि सत्याः स्युर्न सत्या वेति मे वद ।
श्रीसरस्वत्युवाच ।
राजन्विदितवेद्येषु शुद्धबोधैकरूपिषु

3.41.65

न किंचिदेतत्सद्रूपं चिद्व्योमात्मसु जागतम् ।
शुद्धबोधात्मनो भाति कृतो नाम जगद्भ्रमः

3.41.66

रज्ज्वां सर्पभ्रमे शान्ते पुनः सर्पभ्रमः कुतः ।
असद्भावे परिज्ञाते कुतः सत्ता जगद्भ्रमे

3.41.67

परिज्ञाते मृगजले पुनर्जलमतिः कुतः ।
स्वप्नकाले परिज्ञाते स्वे स्वप्नमरणं कुतः ।
स्वस्वप्ने स्वप्नमृतिभीरमृतस्यैव जायते

3.41.68

बुद्धस्य शुद्धस्य शरन्नभःश्रीः
स्वच्छावदातातितताशयस्य ।
अहं जगच्चेति कुशब्दकार्थो
न वस्तुतः सोऽङ्ग हि वाचिकं तत्

3.41.69

इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम

3.41.41

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने भ्रान्तिविचारवर्णनं नामैकचत्वारिशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc