भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 3.20

3.20.1

श्रीदेव्युवाच ।
स ते भर्ताद्य संपन्नो द्विजो भूपत्वमागतः ।
या सावरुन्धती नाम ब्राह्मणी सा त्वमङ्गने

3.20.2

इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती ।
चक्रवाकाविव नवौ भुवि जातौ शिवाविव

3.20.3

एष ते कथितः सर्वः प्राक्तनः संसृतिक्रमः ।
भ्रान्तिमात्रकमाकाशमेवं जीवस्वरूपधृक्

3.20.4

भ्रमादस्माच्चिदाकाशे भ्रमोऽयं प्रतिबिम्बितः ।
असत्य एव वा सत्यो भवतोर्भवभङ्गदः

3.20.5

तस्माद्भान्तिमयः कः स्यात्कोवा भ्रान्त्युज्झितो भवेत्
सर्गो निरर्गलानर्थबोधान्नान्यो विजृम्भते

3.20.6

श्रीवसिष्ठ उवाच ।
इत्याकर्ण्य चिरं चारु विस्मयोत्फुल्ललोचना ।
भूत्वोवाच वचो लीला लीलालसपदाक्षरम्

3.20.7

लीलोवाच ।
देवि भोस्त्वद्वचो मिथ्या कथं संपन्नमीदृशम् ।
क्व विप्रजीवः स्वगृहे क्वेमे वयमिह स्थिताः

3.20.8

तादृग्लोकान्तरं सा भूस्ते शैलास्ता दिशो दश ।
कथं भान्ति गृहस्यान्तर्मद्भर्ता येष्ववस्थितः

3.20.9

मत्त ऐरावतो बद्धः सर्षपस्येव कोटरे ।
मशकेन कृतं युद्धं सिंहौघैरणुकोटरे

3.20.10

पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना ।
स्वप्नाब्दगर्जितं श्रुत्वा चित्रं नृत्यन्ति बर्हिणः

3.20.11

असमंजसमेवैतद्यथा सर्वेश्वरेश्वरि ।
तथा गृहान्तः पृथिवी शैलाश्चेत्यसमञ्जसम्

3.20.12

यथावदेतद्देवेशि कथयामलया धिया ।
प्रसादानुगृहीते हि नोद्विजन्ते महौजसः

3.20.13

श्रीदेव्युवाच ।
नाहं मिथ्या वदामीदं यथावच्छृणु सुन्दरि ।
भेदनं नियतीनां हि क्रियते नास्मदादिभिः

3.20.14

विभिद्यमानामन्येन स्थापयाम्यहमेव याम् ।
मर्यादां तां मया भिन्नां कोऽपरः पालयिष्यति

3.20.15

सग्रामद्विजजीवात्मा तस्मिन्नेव स्वसद्मनि ।
व्योम्न्येवेदं महाराष्ट्रं व्योमात्मैव प्रपश्यति

3.20.16

प्राक्तनी सा स्मृतिर्लुप्ता युवयोरुदितान्यथा ।
स्वप्ने जाग्रत्स्मृतिर्यद्वदेतन्मरणमङ्गने

3.20.17

यथा स्वप्ने त्रिभुवनं संकल्पे त्रिजगद्यथा ।
यथा कथार्थसंग्रामो मरुभूमौ जलं यथा

3.20.18

तस्य ब्राह्मणगेहस्य सशैलवनपत्तना ।
इयमन्तः स्थिता भूमिः संकल्पादर्शयोरिव

3.20.19

असत्यैवेयमाभाति सत्येव घनसर्गता ।
तस्मात्सत्यावभासस्य चिद्व्योम्नः कोशकोटरे

3.20.20

असत्याद्यत्समुत्पन्नं स्मृत्या नाम तदप्यसत् ।
मृगतृष्णातरङ्गिण्यां तरङ्गोऽपि न सद्यतः

3.20.21

इदं त्वदीयं सदनं तद्गेहाकाशकोशगम् ।
विद्धि मां त्वां च सर्वं च तच्चिद्व्योमैव केवलम्

3.20.22

स्वप्नसंभ्रमसंकल्पस्वानुभूतिपरम्पराः ।
प्रमाणान्यत्र मुख्यानि संबोधाय प्रदीपवत्

3.20.23

स्थितो ब्राह्मणगेहान्तर्द्विजजीवस्तदम्बरे ।
ससमुद्रवना पृथ्वी स्थिताब्ज इव षट्पदः

3.20.24

तस्याः कस्मिंश्चिदेकस्मिन्पेलवे कोणकोटरे ।
इदं पत्तनदेहादि केशोण्ड्रक इवाम्बरे

3.20.25

तस्मिन्नस्मिन्पुरे तन्वि तदेव सदनं स्थितम् ।
तस्मात्किं त्रसरेण्वन्तर्जगद्वृन्दमिव स्थितम्

3.20.26

परमाणौ परमाणौ सन्ति वत्से चिदात्मनि ।
अन्तरन्तर्जगन्तीति किंत्वेतन्नाम शङ्क्यते

3.20.27

लीलोवाच ।
अष्टमे दिवसे विप्रः स मृतः परमेश्वरि ।
गतो वर्षगणोऽस्माकं मातः कथमिदं भवेत्

3.20.28

श्रीदेव्युवाच ।
देशदैर्घ्यं यथा नास्ति कालदैर्घ्यं तथाङ्गने ।
नास्त्येवेति यथान्यायं कथ्यमानं मया शृणु

3.20.29

यथैतत्प्रतिभामात्रं जगत्सर्गावभासनम् ।
तथैतत्प्रतिभामात्रं क्षणकल्पावभासनम्

3.20.30

क्षणकल्पं जगत्सर्वं त्वत्तामत्तात्मजन्मनाम् ।
यथावत्प्रतिभासस्य वक्ष्ये क्रममिमं शृणु

3.20.31

अनुभूय क्षणं जीवो मिथ्यामरणमूर्च्छनम् ।
विस्मृत्य प्राक्तनं भावमन्यं पश्यति सुव्रते

3.20.32

तदेवोन्मेषमात्रेण व्योम्न्येव व्योमरूप्यपि ।
आधेयोऽयमिहाधारे स्थितोऽहमिति चेतति

3.20.33

हस्तपादादिमान्देहो ममायमिति पश्यति ।
यदेव चेतति वपुस्तदेवेदं स पश्यति

3.20.34

एतस्याहं पितुः पुत्रो वर्षाण्येतानि सन्ति मे ।
इमे मे बान्धवा रम्या ममेदं रम्यमास्पदम्

3.20.35

जातोऽहमभवं बालो वृद्धिं यातोऽहमीदृशः ।
बान्धवाश्चास्य मे सर्वे तथैव विचरन्त्यमी

3.20.36

चित्ताकाशघनैकत्वात्स्वेऽप्यन्येऽपि भवन्ति ते ।
एवं नामोदितेऽप्यस्य चित्ते संसारखण्डके

3.20.37

न किंचिदप्यभ्युदितं स्थितं व्योमैव निर्मलम् ।
स्वप्ने द्रष्टरि यद्वच्चित्तद्वद्दृश्ये चिदेव सा

3.20.38

सर्वगैकतया यस्मात्सा स्वप्ने दृष्टदर्शना ।
यथा स्वप्ने तथोदेति परलोकदृगादिभिः

3.20.39

परलोके यथोदेति तथैवेहाभ्युदेति सा ।
तत्स्वप्नपरलोकेह लोकानामसतां सताम्

3.20.40

न मनागपि भेदोऽस्ति वीचीनामिव वारिणि ।
अतो जातमिदं विश्वमजातत्वादनाशि च

3.20.41

स्वरूपत्वात्तु नास्त्येव यच्च भाति चिदेव सा ।
यथैव चेत्यनिर्हीणा परमव्योमरूपिणी

3.20.42

सचेत्यापि तथैवैषा परमव्योमरूपिणी ।
तस्माच्चेत्यमतो नान्यद्वीचित्वादीव वारितः

3.20.43

वीचित्वं च रसे नास्ति शशशृङ्गवदेव हि ।
सैव चेत्यमिवापन्ना स्वभावादच्युताप्यलम्

3.20.44

तस्मान्नास्त्येव दृश्योऽर्थः कुतोऽतो द्रष्टृदृश्यधीः ।
निमिषेणैव जीवस्य मृतिमोहादनन्तरम्

3.20.45

त्रिजगद्दृश्यसर्गश्रीः प्रतिभामुपगच्छति ।
यथादेशं यथाकालं यथारम्भं यथाक्रमम्

3.20.46

यथोत्पादं यथामातृ यथापितृ यथौरसम् ।
यथावयो यथासंविद्यथास्थानं यथेहितम्

3.20.47

यथाबन्धु यथाभृत्यं यथेहास्तमयोदयम् ।
अजात एव जातोऽहमिति चेतति चिद्वपुः

3.20.48

देशकालक्रियाद्रव्यमनोबुद्धीन्द्रियादि च ।
झटित्येव मृतेरन्ते वपुः पश्यति यौवने

3.20.49

एषा माता पिता ह्येष बालोऽभूवमहं त्विति ।
नानुभूतोऽनुभूतो वा यः स्यात्स्मृतिमयः क्रमः

3.20.50

पश्चादुदेत्यसौ तस्य पुष्पस्येव फलोदयः ।
निमिषेणैव मे कल्पो गत इत्यनुभूयते

3.20.51

रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रे तथा ह्यभूत् ।
कान्ताविरहिणामेकं वासरं वत्सरायते

3.20.52

मृतो जातोऽहमन्यो मे पितेति स्वप्नतास्विव ।
अभुक्तस्यैव भोगस्य भुक्तधीरुपजायते

3.20.53

भुक्तेऽप्यभुक्तधीर्दृष्टमित्यलङ्कितवादिषु ।
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।
विप्रलम्भोऽपि लाभश्च मदस्वप्नादिसंविदि

3.20.54

तैक्ष्ण्यं यथा मरिचबीजकणे स्थितं स्वं
स्तम्भेषु चारचितपुत्रकजालमन्तः ।
दृश्यं त्वनन्यदिदमेवमजेऽस्ति शान्तं
तस्यास्तिबन्धनविमोक्षदृशः कुतः काः

3.20.20

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने परमार्थवर्णनं नाम विंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc