भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 3.116

3.116.116

षोडशोत्तरशततमः सर्गः

3.116.1

श्रीराम उवाच ।
राजसूयफलं प्राप्तं लवणेन किल प्रभो ।
प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे

3.116.2

श्रीवसिष्ठ उवाच ।
यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम् ।
तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान्

3.116.3

अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि ।
किमेतदिति यत्नेन पृष्टश्च लवणेन च

3.116.4

चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः ।
श्रृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम्

3.116.5

राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम् ।
आपद्दुःखं प्राप्नुवन्ति नानाकारव्यथामयम्

3.116.6

अतः शक्रेण गगनाद्दुःखाय लवणस्य सः ।
प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः

3.116.7

राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम् ।
अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम्

3.116.8

तस्मात्प्रत्यक्षमेवैतद्राम नात्र संदेहोऽस्ति । मनो
हि विलक्षणानां क्रियाणां कर्तृ भोक्तृ च तदेव
निर्घृष्य संशोध्य चित्तरत्नमिह हिमकणमिवातपेन
विलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि ।
चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि ।
सा विचित्रकेन्द्रजालवशादिदमुत्पादयति । अवि-
द्याचित्तजीवबुद्धिशब्दानां भेदो नास्ति वृक्षतरुश-
ब्दयोरिवेति ज्ञात्वा चित्तमेवविकल्पनं कुरु । अभ्यु-
दिते चित्तवैमल्यार्कबिम्बे सकलङ्कविकल्पोत्थदोष-
तिमिरापहरणं न तदस्ति राघव यन्न दृश्यते
यन्नात्मीक्रियते यन्न परित्यज्यते यन्न म्रियते यन्ना-
त्मीयं यन्न परकीयं सर्वं सर्वदा सर्वो भवतीति
परमार्थः

3.116.9

भावराशिस्तथा बोधः सर्वो यात्येकपिण्डताम् ।
विचित्रमृद्भाण्डगणो यथाऽपक्वो जले स्थितः

3.116.10

श्रीराम उवाच ।
एवं मनःपरिक्षये सकलसुखदुःखानामन्तः प्राप्यत
इति भवता प्रोक्तं तत्कथं महात्मंश्चपलवृत्तिरूप-
स्यास्य मनसोऽसत्ता भवति

3.116.11

श्रीवसिष्ठ उवाच ।
रघुकुलेन्दो श्रृणु मनःप्रशमने युक्तिं, यां ज्ञात्वा
स्वस्वाचारदूरे मनःसंधिरयमेष्यसि

3.116.12

इह हि तावद्ब्रह्मणः सर्वभूतानां त्रिविधोत्पत्ति-
रिति तत्पूर्वोक्तम्

3.116.13

तत्रेदंप्रथमया मनःकल्पनया देहीति सा ब्रह्म-
रूपिणी संकल्पमयी भूत्वा यदेव संकल्पयति तदेव
पश्यति तेनेदं भुवनाडम्बरं कल्प्यते

3.116.14

तत्रजननमरणसुखदुःखमोहादिकं संसरणं कल्प-
यन्ती कल्पानुरचना बहुनाममन्थरं स्थित्वा स्वयं
विलीयते हिमकणिकेवातपगता

3.116.15

कालोदितः संकल्पवशात् पुनरन्यतया जायते
सापि पुनर्विलीयते पुनरप्युदेति सैवेति भूयो-
भूयोऽनुसंसरन्ती स्वयमुपशाम्यति

3.116.16

इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु च
समतीता भविष्यन्तीति सन्ति चेतरा अनन्ता
यासां संख्यापि न विद्यते

3.116.17

एवमस्यां तादृशि वर्तमानायामीश्वरादागत्यजीवो
यथा जीव्यते विमुच्यते तच्छ्रुणु

3.116.18

ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थिताकाशश-
क्तिमवलम्ब्य तत्रस्थपवनतानुपातिनी घनसंक-
लत्वं गच्छति

3.116.19

ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकर-
णतां नीत्वा सात्वसूक्ष्मा प्रकृतिर्भूत्वा गगनपवन-
तेजोरूपतासंकल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिं
विशन्ती प्राणिनां गर्भतां च गच्छति

3.116.20

जायते तस्मात्ततः पुरुषः संपद्यते

3.116.21

तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्या-
ग्रहणं कर्तव्यं गुरवोऽनुगन्तव्याः

3.116.22

ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायत्ते

3.116.23

स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेय-
विचार उत्पद्यते

3.116.24

तादृग्विवेकवति संकलिताभिमाने
पुंसि स्थिते विमलसत्त्वमयाग्न्यजातौ ।
सप्तात्मिकावतरति क्रमशः शिवाय
चेतःप्रकाशनकरी ननु योगभूमिः

3.116.116

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षो० उत्पत्तिप्रकरणे साधकजन्मावतारो नाम षोडशोत्तरशततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc