भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 2.5

2.5.1

श्रीवसिष्ठ उवाच ।
प्रवृत्तिरेव प्रथमं यथाशास्त्रविहारिणाम् ।
प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम्

2.5.2

मनसा वाञ्छते यच्च यथाशास्त्रं न कर्मणा ।
साध्यते मत्तलीलासौ मोहनी नार्थसाधनी

2.5.3

यथा संयतते येन तथा तेनानुभूयते ।
स्वकर्मैवेति चास्तेऽन्या व्यतिरिक्ता न दैवदृक्

2.5.4

उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम् ।
तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम्

2.5.55

द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ ।
प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राल्पवीर्यवान्

2.5.6

अतः पुरुषयत्नेन यतितव्यं यथा तथा ।
पुंसा तन्त्रेण सद्योगाद्येनाश्वद्यतनो जयेत्

2.5.7

द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ ।
आत्मीयश्चान्यदीयश्च जयत्यतिबलस्तयोः

2.5.8

अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् ।
अनर्थकर्तृ बलवत्तत्र ज्ञेयं स्वपौरुषम्

2.5.9

परं पौरुषमाश्रित्य दन्तैर्दन्तान्विचूर्णयन् ।
शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत्

2.5.10

प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः ।
बलादधस्पदीकार्या प्रत्यक्षादधिका न सा

2.5.11

तावत्तावत्प्रयत्नेन यतितव्यं सुपौरुषम् ।
प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम्

2.5.12

दोषः शाम्यत्यसंदेहं प्राक्तनोऽद्यतनैर्गुणैः ।
दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्य गुणैः क्षयः

2.5.13

असद्दैवमधःकृत्वा नित्यमुद्रिक्तया धिया ।
संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि

2.5.14

न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः ।
उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये

2.5.15

संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् ।
पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात्

2.5.16

प्रत्यहं प्रत्यवेक्षेत देहं नश्वरमात्मनः ।
संत्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम्

2.5.17

किंचित्कान्तान्नपानादिकलिलं कोमलं गृहे ।
व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात्

2.5.18

शुभेन पौरुषेणाशु शुभमासाद्यते फलम् ।
अशुभेनाशुभं नित्यं दैवं नाम न किंचन

2.5.19

प्रत्यक्षमानमुत्सृज्य योऽनुमानमुपैत्यसौ ।
स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायते

2.5.20

दैवं संप्रेरयति मामिति दग्धधियां मुखम् ।
अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर्निवर्तते

2.5.21

तस्मात्पुरुषयत्नेन विवेकं पूर्वमाश्रयेत् ।
आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत्

2.5.22

चित्ते चिन्तयतामर्थं यथाशास्त्रं निजेहितैः ।
असंसाधयतामेव मूढानां धिग्दुरीप्सितम्

2.5.23

पौरुषं च नवानन्तं न यत्नमभिवाच्छ्यते ।
न यत्नेनापि महता प्राप्यते रत्नमश्मतः

2.5.24

यथा घटः परिमितो यथा परिमितः पटः ।
नियतः परिमाणस्थः पुरुषार्थस्तथैव च

2.5.25

स च सच्छास्त्रसत्सङ्गसदाचारैर्निजं फलम् ।
ददातीति स्वभावोऽयमन्यथा नार्थसिद्धये

2.5.26

स्वरूपं पौरुषस्यैतदेवं व्यवहरन्नरः ।
याति निष्फलयत्नत्वं न कदाचन कश्चन

2.5.27

दैन्यदारिद्र्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम्

2.5.28

आबाल्यादलमभ्यस्तैः शास्त्रसत्सङ्गमादिभिः ।
गुणैः पुरुषयत्नेन स्वार्थः संप्राप्यते यतः

2.5.29

इति प्रत्यक्षतो दृष्टमनुभूतं श्रुतं कृतम् ।
दैवात्तमिति मन्यन्ते ये हतास्ते कुबुद्धयः

2.5.30

आलस्यं यदि न भवेज्जगत्यनर्थः
को न स्याद्बहुधनको बहुश्रुतो वा ।
आलस्यादियमवनिः ससागरान्ता
संपूर्णा नरपशुभिश्च निर्धनैश्च

2.5.31

बाल्ये गतेऽविरतकल्पितकेलिलोले
दोर्दण्डमण्डितवयःप्रभृति प्रयत्नात् ।
सत्सङ्गमैः पदपदार्थविशुद्धबुद्धिः
कुर्यान्नरः स्वगुणदोषविचारणानि

2.5.32

वाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरेण सहाजगाम

2.5.5

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे पौरुषस्थापनं नाम पञ्चमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc