भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 2.14

2.14.14

चतुर्दशः सर्गः

2.14.1

श्रीवसिष्ठ उवाच ।
शास्त्रावबोधामलया धिया परमपूतया ।
कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः

2.14.2

विचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम् ।
दीर्घसंसाररोगस्य विचारो हि महौषधम्

2.14.3

आपद्वनमनन्तेहापरिपल्लविताकृति ।
विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति

2.14.4

मोहेन बन्धुनाशेषु संकटेषु शमेषु च ।
सर्वं व्याप्तं महाप्राज्ञ विचारो हि सतां गतिः

2.14.5

न विचारं विना कश्चिदुपायोऽस्ति विपश्चिताम् ।
विचारादशुभं त्यक्त्वा शुभमायाति धीः सताम्

2.14.6

बलं बुद्धिश्च तेजश्च प्रतिपत्तिः क्रियाफलम् ।
फलन्त्येतानि सर्वाणि विचारेणैव धीमताम्

2.14.7

युक्तायुक्तमहादीपमभिवाञ्छितसाधकम् ।
स्फारं विचारमाश्रित्य संसारजलधिं तरेत्

2.14.8

आलूनहृदयाम्भोजान्महामोहमतङ्गजान् ।
विदारयति शुद्धात्मा विचारो नाम केसरी

2.14.9

मूढाः कालवशेनेह यद्गताः परमं पदम् ।
तद्विचारप्रदीपस्य विजृम्भितमनुत्तमम्

2.14.10

राज्यानि संपदः स्फारा भोगो मोक्षश्च शाश्वतः ।
विचारकल्पवृक्षस्य फलान्येतानि राघव

2.14.11

या विवेकविकासिन्यो मतयो महतामिह ।
न ता विपदि मज्जन्ति तुम्बकानीव वारिणि

2.14.12

विचारोदयकारिण्या धिया व्यवहरन्ति ये ।
फलानामत्युदाराणां भाजनं हि भवन्ति ते

2.14.13

मूर्खहृत्काननस्थानामाशाप्रथमरोधिनाम् ।
अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः

2.14.14

कज्जलक्षोदमलिना मदिरामदधर्मिणी ।
अविचारमयी निद्रा यातु ते राघव क्षयम्

2.14.15

महापदतिदीर्घेषु सद्विचारपरो नरः ।
न निमज्जति मोहेषु तेजोराशिस्तमःस्विव

2.14.16

मानसे सरसि स्वच्छे विचारकमलोत्करः ।
नूनं विकसितो यस्य हिमवानिव भाति सः

2.14.17

विचारविकला यस्य मतिर्मान्द्यमुपेयुषः ।
तस्योदेत्यशनिश्चन्द्रान्मुधा यक्षः शिशोरिव

2.14.18

दुःखखण्डकमस्थूलं विपन्नवलतामधुः ।
राम दूरे परित्याज्यो निर्विवेको नराधमः

2.14.19

ये केचन दुरारम्भा दुराचारा दुराधयः ।
अविचारेण ते भान्ति वेतालास्तमसा यथा

2.14.20

अविचारिणमेकान्तवनद्रुमसधर्मकम् ।
अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह

2.14.21

विविक्तं हि मनो जन्तोराशावैवश्यवर्जितम् ।
परां निर्वृतिमभ्येति पूर्णचन्द्र इवात्मनि

2.14.22

विवेकितोदिता देहे सर्वं शीतलयत्यलम् ।
अलंकरोति चात्यन्तं ज्योत्स्नेव भुवनं यथा

2.14.23

परमार्थपताकाया धियो धवलचामरम् ।
विचारो राजते जन्तो रजन्यामिव चन्द्रमाः

2.14.24

विचारचारवो जीवा भासयन्तो दिशो दश ।
भान्ति भास्करवन्नूनं भूयो भवभयापहाः

2.14.25

बालस्य स्वमनोमोहकल्पितः प्राणहारकः ।
रात्रौ नभसि वेतालो विचारेण विलीयते

2.14.26

सर्वं एव जगद्भावा अविचारेण चारवः ।
अविद्यमानसद्भावा विचारविशरारवः

2.14.27

पुंसो निजमनोमोहकल्पितोऽनल्पदुःखदः ।
संसारचिरवेतालो विचारेण विलीयते

2.14.28

समं सुखं निराबाधमनन्तमनपाश्रयम् ।
विद्धीमं केवलीभावं विचारोच्चतरोः फलम्

2.14.29

अचलस्थितितोदारा प्रकटाभोगतेजसा ।
तेन निष्कामतोदेति शीततेवेन्दुनोदिता

2.14.30

स्वविचारमहौषध्या साधुश्चित्तनिषण्णया ।
तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति

2.14.31

तत्पदालम्बनं चेतः स्फारमाभासमागतम् ।
नास्तमेति न चोदेति खमिवातिततान्तरम्

2.14.32

न ददाति न चादत्ते न चोन्नमति शाम्यति ।
केवलं साक्षिवत्पश्यञ्जगदाभोगि तिष्ठति

2.14.33

न च शाम्यति नाप्यन्तर्नापि बाह्येऽवतिष्ठति ।
न च नैष्कर्म्यमादत्ते न च कर्मणि मज्जति

2.14.34

उपेक्षते गतं वस्तु संप्राप्तमनुवर्तते ।
न क्षुब्धो न च वाऽक्षुब्धो भाति पूर्ण इवार्णवः

2.14.35

एवं पूर्णेन मनसा महात्मानो महाशयाः ।
जीवन्मुक्ता जगत्यस्मिन्विहरन्तीह योगिनः

2.14.36

उषित्वा सुचिरं कालं धीरास्ते यावदीप्सितम् ।
ते तमन्ते परित्यज्य यान्ति केवलतां तताम्

2.14.37

कोऽहं कस्य च संसार इत्यापद्यपि धीमता ।
चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना

2.14.38

कार्यसंकटसंदेहं राजा जानाति राघव ।
निष्फलं सफलं वापि विचारेणैव नान्यथा

2.14.39

वेदवेदान्तस्रिद्धान्तस्थितयः स्थितिकारणम् ।
निर्णीयन्ते विचारेण दीपेन च भुवो निशि

2.14.40

अनष्टमन्धकारेषु बहुतेजःस्वजिह्मितम् ।
पश्यत्यपि व्यवहितं विचारश्चारुलोचनम्

2.14.41

विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।
दिव्यचक्षुर्विवेकात्मा जयत्यखिलवस्तुषु

2.14.42

परमात्ममयी मान्या महानन्दैकसाधिनी ।
क्षणमेकं परित्याज्या न विचारचमत्कृतिः

2.14.43

विचारचारुपुरुषो महतामपि रोचते ।
परिपक्वचमत्कारं सहकारफलं यथा

2.14.44

विचारकान्तमतयो नानेकेषु पुनःपुनः ।
लुठन्ति दुःखश्वभ्रेषु ज्ञाताध्वगतयो नराः

2.14.45

नच रौति तथा रोगी नानर्थशतजर्जरः ।
अविचारविनष्टात्मा यथाऽज्ञः परिरोदिति

2.14.46

वरं कर्दममेकत्वं मलकीटकता वरम् ।
वरमन्धगुहाहित्वं न नरस्याविचारिता

2.14.47

सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् । ।
सर्वदौस्थित्यसीमान्तमविचारं परित्यजेत्

2.14.48

नित्यं विचारयुक्तेन भवितव्यं महात्मना ।
तथान्धकूपे पततां विचारो ह्यवलम्बनम्

2.14.49

स्वयमेवात्मनात्मानमवष्टभ्य विचारतः ।
संसारमोहजलधेस्तारयेत्स्वमनोमृगम्

2.14.50

कोऽहं कथमयं दोषः संसाराख्य उपागतः ।
न्यायेनेति परामर्शो विचार इति कथ्यते

2.14.51

अन्धान्धमोहसुधनं चिरं दुःखाय केवलम् ।
कृतं शिलाया हृदयं दुर्मतेश्चाविचारिणः

2.14.52

भावाभावग्रहोत्सर्गदृशामिह हि राघव ।
न विचारादृते तत्त्वं ज्ञायते साधु किंचन

2.14.53

विचाराज्ज्ञायते तत्त्वं तत्त्वाद्विश्रान्तिरात्मनि ।
अतो मनसि शान्तत्वं सर्वदुःखपरिक्षयः

2.14.54

सफलता फलते भुवि कर्मणां
प्रकटतां किल गच्छति उत्तमाम् ।
स्फुटविचारदृशैव विचारिता
शमवते भवते च विरोचताम्

2.14.14

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे विचारनिरूपणं नाम चतुर्दशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc