भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 1.8

1.8.1

अष्टमः सर्गः
वाल्मीकिरुवाच ।
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमासीन्निश्चेष्टः सदैन्यं चेदमब्रवीत्

1.8.2

ऊनषोडशवर्षोऽयं रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः

1.8.3

इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो ।
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम्

1.8.4

इमे हि शूरा विक्रान्ता भृत्या मन्त्रविशारदाः ।
अहं चैषां धनुष्पाणिर्गोप्ता समरमूर्धनि

1.8.5

एभिः सहैव वीराणां महेन्द्रमहतामपि ।
ददामि युद्धं मत्तानां करिणामिव केसरी

1.8.6

बालो रामस्त्वनीकेषु न जानाति बलाबलम् ।
अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः

1.8.7

न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः ।
नवास्त्रैः शूरकोटीनां तज्ज्ञः समरभूमिषु

1.8.8

केवलं पुष्पखण्डेषु नगरोपवनेषु च ।
उद्यानवनकुञ्जेषु सदैव परिशीलनम्

1.8.9

विहर्तुमेष जानाति सह राजकुमारकैः ।
कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु

1.8.10

अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् ।
हिमेनेव हि पद्माभः संपन्नो हरिणः कृशः

1.8.11

नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनिम् ।
अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम्

1.8.12

सदारः सहभृत्योऽहं तत्कृते मुनिनायक ।
शरदीव पयोवाहो नूनं निःसारतां गतः

1.8.13

ईदृशोऽसौ सुतो बाल आधिनाऽथ वशीकृतः ।
कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः

1.8.14

अपि बालाङ्गनासङ्गादपि साधो सुधारसात्।
राज्यादपि सुखायैव पुत्रस्नेहो महामते

1.8.15

ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः ।
पुत्रस्नेहेन सन्तोऽपि कुर्वते तानसंशयम्

1.8.16

असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम्।
न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु

1.8.17

राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।
रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा

1.8.18

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।
जीवितुं जीविताकांक्षी च रामं नेतुमर्हसि

1.8.19

नववर्षसहस्राणि मम जातस्य कौशिक ।
दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रका मया

1.8.20

प्रधानभूतस्तेष्वेव रामः कमललोचनः ।
तं विनेह त्रयोऽप्यन्ये धारयन्ति न जीवितम्

1.8.21

स एव रामो भवता नीयते राक्षसान्प्रति ।
यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम्

1.8.22

चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा ।
ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि

1.8.23

निशाचरबलं हन्तुं मुने यदि तवेप्सितम् ।
चतुरङ्गसमायुक्तं मया सह बलं नय

1.8.24

किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते ।
कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम्

1.8.25

कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् ।
मामकैर्बालकैर्ब्रह्मन्मया वा कूटयोधिनाम्

1.8.26

सर्वं मे शंस भगवन्यथा तेषां महारणे ।
स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः

1.8.27

श्रूयते हि महावीर्यो रावणो नाम राक्षसः ।
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः

1.8.28

स चेत्तव मखे विघ्नं करोति किल दुर्मतिः ।
तत्संग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः

1.8.29

काले काले पृथग्ब्रह्मन्भूरिवीर्यविभूतयः ।
भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः

1.8.30

अद्यास्मिंस्तु वयं काले रावणादिषु शत्रुषु ।
न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः

1.8.31

तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके ।
मम चैवाल्पभाग्यस्य भवान्हि परदैवतम्

1.8.32

देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि

1.8.33

महावीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः

1.8.34

अयमन्यतमः कालः पेलवीकृतसज्जनः ।
राघवोऽपि गतो दैन्यं यतो वार्धकजर्जरः

1.8.35

अथवा लवणं ब्रह्मन्यज्ञघ्नं तं मधोः सुतम् ।
कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम्

1.8.36

सुन्दोपसुन्दयोश्चैव पुत्रौ वैवस्वतोपमौ ।
यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम्

1.8.37

अथ नेष्यसि चेद्ब्रह्मंस्तद्धतोऽस्म्यहमेव ते ।
अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः

1.8.38

इत्युक्त्वा मृदु वचनं रघूद्वहोऽसौ
कल्लोले मुनिमतसंशये निमग्नः ।
नाज्ञासीत्क्षणमपि निश्चयं महात्मा
प्रोद्वीचाविव जलधौ स मुह्यमानः

1.8.8

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दशरथवाक्यं नामाष्टमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc