भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 1.33

1.33.33

त्रयस्त्रिंशः सर्गः

1.33.1

सिद्धा ऊचुः ।
पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना ।
निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः

1.33.2

नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः ।
आगच्छताश्वविघ्नेन सर्व एव महर्षयः

1.33.3

पतामः परितः पुण्यामेतां दाशरथीं सभाम् ।
नीरन्ध्रां कनकोद्योतां पद्मिनीमिव षट्पदाः

1.33.4

श्रीवाल्मीकिरुवाच ।
इत्युक्ता सा समस्तैव व्योमवासनिवासिनी ।
तां पपात सभां तत्र दिव्या मुनिपरम्परा

1.33.5

अग्रस्थितमनुत्सृष्टरणद्वीणं मुनीश्वरम् ।
पयः पीनघनश्यामं व्यासमेव किलान्तरा

1.33.6

भृग्वंगिरःपुलस्त्यादिमुनिनायकमण्डिता ।
च्यवनोद्दालकोशीरशरलोमादिमालिता

1.33.7

परस्परपरामर्शदुःसंस्थानमृगाजिना ।
लोलाक्षमालावलया सुकमण्डलुधारिणी

1.33.8

तारावलिरिव व्योम्नि तेजःप्रसरपाटला ।
सूर्यावलिरिवान्योन्यं भासिताननमण्डना

1.33.9

रत्नावलिरिवान्योन्यं नानावर्णकृतांगिका ।
मुक्तावलिरिवान्योन्यं कृतशोभातिशायिनी

1.33.10

कौमुदीवृष्टिरन्येव द्वितीयेवार्कमण्डली ॥
संभृतेवातिकालेन पूर्णचन्द्रपरम्परा

1.33.11

ताराजाल इवाम्भोदो व्यासो यत्र विराजते ।
तारौघ इव शीतांशुर्नारदोऽत्र विराजते

1.33.12

देवेष्विव सुराधीशः पुलस्त्योऽत्र विराजते ।
आदित्य इव देवानामंगिरास्तु विराजते

1.33.13

अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसाम् ।
उत्तस्थौ मुनिसंपूर्णा तदा दाशरथी सभा

1.33.14

मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः ।
परस्परवृतांगाभा भासयन्तो दिशो दश

1.33.15

वेणुदण्डावृतकरा लीलाकमलधारिणः ।
दूर्वांकुराक्रान्तशिखाः सचूडामणिमूर्धजाः

1.33.16

जटाजूटैश्च कपिला मौलिमालितमस्तकाः ।
प्रकोष्ठगाक्षवलया मल्लिकावलयान्विताः

1.33.17

चीरवल्कलसंवीताः स्रक्कौशेयावगुण्ठिताः ।
विलोलमेखलापाशाश्चलन्मुक्ताकलापिनः

1.33.18

वसिष्ठविश्वामित्रौ तान्पूजयामासतुः क्रमात् ।
अर्घ्यैः पाद्यौर्वचोभिश्च सर्वानेव नभश्चरान्

1.33.19

वसिष्ठविश्वामित्रौ ते पूजयामासुरादरात् ।
अर्घ्यैः पाद्यैर्वचोभिश्च नभश्चरमहागणाः

1.33.20

सर्वादरेण सिद्धौघं पूजयामास भूपतिः ।
सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया

1.33.21

तैस्तैः प्रणयसंरम्भैरन्योन्यं प्राप्तसत्क्रियाः ।
उपाविशन्विष्टरेषु नभश्चरमहीचराः

1.33.22

वचोभिः पुष्पवर्षेण साधुवादेन चाभितः ।
रामं ते पूजयामासुः पुरः प्रणतमास्थितम्

1.33.23

आसांचक्रे च तत्रासौ राज्यलक्ष्मीविराजितः ।
विश्वामित्रो वसिष्ठश्च वामदेवोऽथ मन्त्रिणः

1.33.24

नारदो देवपुत्रश्च व्यासश्च मुनिपुंगवः ।
मरीचिरथ दुर्वासा मुनिरांगिरसस्तथा

1.33.25

क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः ।
वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुंगवः

1.33.26

उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा

1.33.27

एते चान्ये च बहवो वेदवेदांगपारगाः ।
ज्ञातज्ञेया महात्मान आस्थितास्तत्र नायकाः

1.33.28

वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः ।
इदमूचुरनूचाना राममानमिताननम्

1.33.29

अहो बत कुमारेण कल्याणगुणशालिनी ।
वागुक्ता परमोदारा वैराग्यरसगर्भिणी

1.33.30

परिनिष्ठितवक्तव्यं सबोधमुचितं स्फुटम् ।
उदारं प्रियमार्यार्हमविह्नलमपि स्फुटम्

1.33.31

अभिव्यक्तपदं स्पष्टमिष्टं स्पष्टं च तुष्टिमत् ।
करोति राघवप्रोक्तं वचः कस्य न विस्मयम्

1.33.32

शतादेकतमस्यैव सर्वोदारचमत्कृतिः ।
ईप्सितार्थार्पणैकान्तदक्षा भवति भारती

1.33.33

कुमार त्वां विना कस्य विवेकफलशालिनी ।
परं विकासमायाति प्रज्ञाशरलतातता

1.33.34

प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता ।
प्रज्वलत्यसमालोककारिणी स पुमान्स्मृतः

1.33.35

रक्तमांसास्थियन्त्राणि बहून्यतितराणि च ।
पदार्थानभिकर्षन्ति नास्ति तेषु सचेतनः

1.33.36

जन्ममृत्युजरादुःखमनुयान्ति पुनःपुनः ।
विमृशन्ति न संसारं पशवः परिमोहिताः

1.33.37

कथंचित्क्वचिदेवैको दृश्यते विमलाशयः ।
पूर्वापरविचारार्हो यथायमरिमर्दनः

1.33.38

अनुत्तमचमत्कारफलाः सुभगमूर्तयः ।
भव्या हि विरला लोके सहकारद्रुमा इव

1.33.39

सम्यग्दृष्टजगद्यात्रा स्वविवेकचमत्कृतिः ।
अस्मिन्मान्यमतावन्तरियमद्येव दृश्यते

1.33.40

सुभगाः सुलभारोहाः फलपल्लवशालिनः ।
जायन्ते तरवो देशे न तु चन्दनपादपाः

1.33.41

वृक्षाः प्रतिवनं सन्ति नित्यं सफलपल्लवाः ।
नत्वपूर्वचमत्कारो लवङ्गः सुलभः सदा

1.33.42

ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी ।
पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः

1.33.43

अस्मिन्नुद्दामदौरात्म्यदैवनिर्माणनिर्मिते ।
द्विजेन्द्रा दग्धसंसारे सारो ह्यत्यन्तदुर्लभः

1.33.44

यतन्ते सारसंप्राप्तौ ये यशोनिधयो धियः ।
धन्या धुरि सतां गण्यास्त एव पुरुषोत्तमाः

1.33.45

न रामेण समोऽस्तीह दृष्टो लोकेषु कश्चन ।
विवेकवानुदारात्मा न भावी चेति नो मतिः

1.33.46

सकललोकचमत्कृतिकारिणो-
ऽप्यभिमतं यदि राघवचेतसः ।
फलति नो तदिमे वयमेव हि
स्फुटतरं मुनयो हतबुद्धयः

1.33.33

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे नभश्चरमहीचरसंमेलनं नाम त्रयस्त्रिंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc