भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 1.31

1.31.31

एकत्रिंशः सर्गः

1.31.1

श्रीराम उवाच ।
प्रोच्चवृक्षचलत्पत्रलम्बाम्बुलवभङ्गुरे ।
आयुषीशानशीतांशुकलामृदुनि देहके

1.31.2

केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।
वागुरावलये जन्तोः सुहृत्सुजनसंगमे

1.31.3

वासनावातवलिते कदाशातडिति स्फुटे ।
मोहोग्रमिहिकामेघे घनं स्फूर्जति गर्जति

1.31.4

नृत्यत्युत्ताण्डवं चण्डे लोले लोभकलापिनि ।
सुविकासिनि सास्फोटे ह्यनर्थकुटजद्रुमे

1.31.5

क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।
अश्रान्तस्यन्दसंचारे कुतोऽप्युपरिपातिनि

1.31.6

क उपायो गतिः का वा का चिन्ता कः समाश्रयः ।
केनेयमशुभोदर्का न भवेज्जीविताटवी

1.31.7

न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
सुधियस्तुच्छमप्येतद्यन्नयन्ति न रम्यताम्

1.31.8

अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः ।
कथं सुस्वादुतामेति नीरसो मूढतां विना

1.31.9

आशाप्रतिविपाकेन क्षीरस्नानेन रम्यताम् ।
उपैति पुष्पशुभ्रेण मधुनेव वसुंधरा

1.31.10

अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।
मनश्चन्द्रमसः केन तेन कामकलङ्कितात्

1.31.11

दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।
केनेव व्यवहर्तव्यं संसारवनवीथिषु

1.31.12

रागद्वेषमहारोगा भोगपूगा विभूतयः ।
कथं जन्तुं न बाधन्ते संसारार्णवचारिणम्

1.31.13

कथं च धीरवर्याग्नौ पततापि न दह्यते ।
पावके पारदेनेव रसेन रसशालिना

1.31.14

यस्मात्किल जगत्यस्मिन्व्यवहारक्रिया विना ।
न स्थितिः संभवत्यब्धौ पतितस्याजला यथा

1.31.15

रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।
कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया

1.31.16

मनोमननशालिन्याः सत्ताया भुवनत्रये ।
क्षयो युक्तिं विना नास्ति ब्रूत तामलमुत्तमाम्

1.31.17

व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।
अथवा व्यवहारस्य ब्रूत तां युक्तिमुत्तमाम्

1.31.18

तत्कथं केन वा किं वा कृतमुत्तमचेतसा ।
पूर्वं येनैति विश्रामं परमं पावनं मनः

1.31.19

यथा जानासि भगवंस्तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः

1.31.20

अथवा तादृशी युक्तिर्यदि ब्रह्मन्न विद्यते ।
न वक्ति मम वा कश्चिद्विद्यमानामपि स्फुटम्

1.31.21

स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् ।
तदहं त्यक्तसर्वेहो निरहंकारतां गतः

1.31.20

न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेऽम्बरम् ।
करोमि नाहं व्यापारं स्नानदानाशनादिकम्

1.31.23

न च तिष्ठामि कार्येषु संपत्स्वापद्दशासु च ।
न किंचिदपि वाञ्छामि देहत्यागादृते मुने

1.31.24

केवलं विगताशङ्को निर्ममो गतमत्सरः ।
मौन एवेह तिष्ठामि लिपिकर्मस्विवार्पितः

1.31.25

अथ क्रमेण संत्यज्य प्रश्वासोच्छ्वाससंविदः ।
संनिवेशं त्यजामीममनर्थं देहनामकम्

1.31.26

नाहमस्य न मे नान्यः शाम्याम्यस्नेहदीपवत् ।
सर्वमेव परित्यज्य त्यजामीदं कलेवरम्

1.31.27

श्रीवाल्मीकिरुवाच ।
इत्युक्तवानमलशीतकराभिरामो
रामो महत्तरविचारविकासिचेताः ।
तूष्णीं बभूव पुरतो महतां घनानां
केकारवं श्रमवशादिव नीलकण्ठः

1.31.31

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवप्रश्रो नामैकत्रिंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc