व्याकरणमहाभाष्य · भाग 321340
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {9।49} तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {10।49} कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {11।49} कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {12।49} साधकम् निर्वर्तकम् कारकसञ्ज्ञम् भवति इति वक्तव्यम् .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {13।49} इतरथा हि अनिष्टप्रसङ्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य . इतरथा हि अनिष्टम् प्रसज्येत .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {14।49} अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {15।49} क्व .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {16।49} ग्रामस्य समीपात् आगच्छति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {17।49} न एषः दोषः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {18।49} न अत्र ग्रामः अपाययुक्तः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {19।49} किम् तर्हि .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {20।49} समीपम् .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {21।49} यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {22।49} तत् यथा ग्रामात् आगच्छति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {23।49} कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {24।49} कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य. क्व .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {25।49} ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {26।49} न एषः दोषः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {27।49} अयम् अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {28।49} तत् यथा कः चित् कम् चित् सञ्चक्ष्य आह असौ अत्र अकथितः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {29।49} असंकीर्तितः इति गम्यते .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {30।49} अस्ति अप्राधान्ये वर्तते .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {31।49} तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {32।49} तत् यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {33।49} अपादानम् च वृक्षस्य पर्णम् पतति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {34।49} अपादानसञ्ज्ञा च प्राप्नोति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {35।49} क्व .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {36।49} वृक्षस्य पर्णम् पतति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {37।49} कुड्यस्य पिण्डः पतति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {38।49} ना वा अपायस्याविवक्षितत्वात् .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {39।49} न वा एषः दोषः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {40।49} किम् कारणम् .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {41।49} अपायस्य अविवक्षितत्वात् .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {42।49} न अत्र अपायः विवक्षितः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {43।49} किम् तर्हि .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {44।49} सम्बन्धः .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {45।49} यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {46।49} तत् यथा .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {47।49} वृक्षात् पर्णम् पतति इति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {48।49} सम्बन्धस्तु तदा न विवक्षितः भवति .
(प्_1,4.23.1) क_इ,323.2-324.5 रो_इइ,376-379 {49।49} न ज्ञायते कङ्कस्य वा कुररस्य वा इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {1।93} अयम् तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {2।93} न एषः दोषः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {3।93} कारकः इति महती सञ्ज्ञा क्रियते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {4।93} सञ्ज्ञा च नाम यतः न लघीयः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {5।93} कुतः एतत् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {6।93} लघ्वर्थम् हि सञ्ज्ञाकारणम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {7।93} तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {8।93} करोति इति कारकम् इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {9।93} अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दानुपपत्तिः . अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दः न उपपद्यते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {10।93} करणम् कारकम् अधिकरणम् कारकम् इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {11।93} सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {12।93} सिद्धः करणाधिकरणयोः कर्तृभावः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {13।93} कुतः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {14।93} प्रतिकारकम् क्रियाभेदात् पचादीनाम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {15।93} पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {16।93} किम् इदम् प्रतिकारकम् इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {17।93} कारकम् कारकम् प्रति प्रतिकारकम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {18।93} कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {19।93} अधिश्रयणोदकासेचनतण्डुलावपनैधोपदकर्षणिक्रियाः प्रधानस्य कर्तुः पाकः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {20।93} अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन् एव देवदत्तः पचति इति उच्यते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {21।93} तत्र तदा पचिः वर्तते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {22।93} एषः प्रधानकर्तुः पाकः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {23।93} एतत् प्रधानकर्तुः कर्तृत्वम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {24।93} द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {25।93} द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {26।93} तत्र तदा पचिः वर्तते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {27।93} एषः धिकरणस्य पाकः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {28।93} एतत् अधिकरणस्य कर्तृत्वम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {29।93} एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {30।93} एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {31।93} तत्र तदा पचिः वर्तते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {32।93} एषः करणस्य पाकः .एतत् करणस्य कर्तृत्वम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {33।93} उद्यमननिपातनानि कर्तुः छिदिक्रिया .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {34।93} उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {35।93} तत्र तदा छिदिः वर्तते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {36।93} एषः प्रधानकर्तुः छेदः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {37।93} एतत् प्रधानकर्तुः कर्तृत्वम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {38।93} यत् तत् न तृणेन तत्परशोः छेदनम् . यत् तत् समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत् परशोः छेदनम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {39।93} अवश्यम् च एतत् एवम् विज्ञेयम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {40।93} इतरथा हि असितृणयोः छेदने अविशेषः स्यात् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {41।93} यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {42।93} यत् असिना छिद्यते तृणेन अपि तत् छिद्येत .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {43।93} अपादानादीनाम् तु अप्रसिद्धिः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {44।93} अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {45।93} यथा हि भवता करणाधिकरणयोः कर्तृत्वम् निर्दर्शितम् न तथा अपादानादीनाम् कर्तृत्वम् निदर्श्यते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {46।93} न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {47।93} न वा एषः दोषः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {48।93} किम् कारणम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {49।93} स्वतन्त्रपरतन्त्रत्वात् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {50।93} सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {51।93} तयोः पर्यायेण वचनम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {52।93} तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {53।93} वचनाश्रया च सञ्ज्ञा भविष्यति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {54।93} तत् यथा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {55।93} बलाहकात् विद्योतते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {56।93} बलाहके विद्योतते .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {57।93} बलाहकः विद्योतते इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {58।93} किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {59।93} एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {60।93} पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् निदर्शितम् अपादानीनाम् कर्तृत्वनिर्दर्शनाय .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {61।93} पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {62।93} किम् तर्हि .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {63।93} सञ्ज्ञायाः अप्रसिद्धिः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {64।93} यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् कर्तृसञ्ज्ञा एव प्राप्नोति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {65।93} अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा इति एव .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {66।93} यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् निदर्शितम् सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {67।93} यत् तत् प्रक्षालनम् परिवर्तनम् वा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {68।93} न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {69।93} कथम् तर्हि .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {70।93} सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {71।93} तत्र च सौ स्वतन्त्रा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {72।93} क्व इदानीम् परतन्त्रा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {73।93} एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {74।93} ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {75।93} तत्र असौ स्वतन्त्रा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {76।93} क्व इदानीम् परतन्त्रा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {77।93} एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {78।93} तत् यथा अमात्यादीनाम् राज्ञा सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {79।93} किम् पुनः प्रधानम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {80।93} कर्ता .कथम् पुनः ज्ञायते कर्ता प्रधानम् इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {81।93} यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {82।93} ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {83।93} न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {84।93} उभौ च अन्योन्यविशेषकौ भवतः .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {85।93} कथम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {86।93} एकद्रव्यसमवायित्वात् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {87।93} तत् यथा गार्ग्यः देवदत्तः इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {88।93} न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {89।93} उभौ च अन्योन्यविशेषकौ भवतः एकद्रव्यसमवायित्वात् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {90।93} एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {91।93} अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {92।93} एवम् च कृत्वा निर्देशः उपपन्नः भवति कारके इति .
(प्_1,4.23.2) क_इ,324.6-326.17 रो_इइ,379-386 {93।93} इतरथा हि कारकेषु इति ब्रूयात् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {1।57} ध्रुवम् इति किमर्थम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {2।57} ग्रामात् आगच्छति शकटेन .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {3।57} न एतत् अस्ति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {4।57} करणसञ्ज्ञा अत्र बाधिका भविष्यति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {5।57} इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {6।57} अत्र अपि अधिकरणसञ्ज्ञा बाधिका भविष्यति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {7।57} इदम् तर्हि वृक्षस्य पर्णम् पतति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {8।57} कुड्यस्य पिण्डः पतिति इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {9।57} जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् . जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {10।57} जुगुप्सा .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {11।57} अधर्मात् जुगुप्सते. अधर्मात् बीभत्सते .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {12।57} विराम । धर्मात् विरमति. धर्मात् निवर्तते .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {13।57} प्रमाद .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {14।57} धर्मात् प्रमाद्यति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {15।57} धर्मात् मुह्यति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {16।57} इह च उपसम्ख्यानम् कर्तव्यम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {17।57} साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {18।57} तत् तर्हि इदम् वक्तव्यम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {19।57} न वक्तव्यम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {20।57} इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {21।57} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {22।57} सः बुद्ध्या सम्प्राप्य निवर्तते .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {23।57} तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {24।57} इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {25।57} यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः पश्यति न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {26।57} सः बुद्ध्या सम्प्राप्य निवर्तते .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {27।57} तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {28।57} इह च साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {29।57} यः तैः साम्यम् गतवान् भवति सः एतत्प्रयुङ्क्ते .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {30।57} गतियुक्तेषु अपादानसञ्ज्ञा न पपद्यते अध्रुवत्वात् . गतियुक्तेषु अपादानसञ्ज्ञा न उपपद्यते .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {31।57} अश्वात् त्रस्तात् पतितः .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {32।57} रथात् प्रवीतात् पतितः .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {33।57} सार्थात् गच्छतः हीनः इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {34।57} किम् कारणम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {35।57} अध्रुवत्वात् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {36।57} न वा अध्रौव्यस्य अविविक्षितत्वात् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {37।57} न वा एषः दोषः .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {38।57} किम् कारणम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {39।57} अध्रौव्यस्य अविवक्षितत्वात् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {40।57} न अत्र अध्रौव्यम् विवक्षितम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {41।57} किम् तर्हि .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {42।57} ध्रौव्यम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {43।57} इह तावत् अश्वात् त्रस्तात् पतितः इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {44।57} यत् तदश्वे अश्वत्वम् आशुगामित्वम् तत् ध्रुवम् तत् च विवक्षितम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {45।57} रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {46।57} सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {47।57} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {48।57} धावतः पतितः .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {49।57} त्वरमाणात् पतितः इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {50।57} अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {51।57} कथम् पुनः सतः नाम अविवक्षा स्यात् .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {52।57} सतः अपि अविवक्षा भवति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {53।57} तत् यथा अलोमिका एडका .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {54।57} अनुदरा कन्य इति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {55।57} असतः च विवक्षा भवति .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {56।57} समुद्रः कुण्डिका .
(प्_1,4.24.1) क_इ,326.19-19-327.21 रो_इइ,387-392 {57।57} विन्ध्यः वर्धितकम् इति
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {1।10} अयम् योगः शक्यः अवक्तुम् .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {2।10} कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {3।10} इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {4।10} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि माम् वृकाः पश्यन्ति ध्रुवः मे मृत्युः इति .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {5।10} सः बुद्ध्या सम्प्राप्य निवर्तते .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {6।10} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {7।10} इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {8।10} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि इमम् पश्यन्ति ध्रुवम् अस्य वधबन्धपरिक्लेशाः इति .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {9।10} सः बुद्ध्या सम्प्राप्य निवर्तते .
(प्_1,4.24.2) क_इ,327.23-328.3 रो_इइ,392-393 {10।10} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् .
(प्_1,4.26) क_इ,328.5-8 रो_इइ,393 {1।5} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,4.26) क_इ,328.5-8 रो_इइ,393 {2।5} कथम् अध्ययनात् पराजयते इति .
(प्_1,4.26) क_इ,328.5-8 रो_इइ,393 {3।5} यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति .
(प्_1,4.26) क_इ,328.5-8 रो_इइ,393 {4।5} सः बुद्ध्या सम्प्राप्य निवर्तते .
(प्_1,4.26) क_इ,328.5-8 रो_इइ,393 {5।5} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {1।27} किम् उदाहरणम् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {2।27} माषेभ्यः गाः वारयति .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {3।27} भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {4।27} यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {5।27} तस्य अपि माषाः एव ईप्सिताः .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {6।27} आतः च ईप्सिताः यवेभ्य्ः गाः वारयति .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {7।27} इह कूपात् अन्धम् वारयति इति कूपे अपादानसञ्ज्ञा न प्राप्नोति .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {8।27} न हि तस्य कूपः ईप्सितः .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {9।27} कः तर्हि .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {10।27} अन्धः .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {11।27} तस्य अपि कूपः एव ईप्सितः .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {12।27} पश्यति अयम् अन्धः कूपम् मा प्रापत् इति .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {13।27} अथ वा यथा एव अस्य अन्यत्र अपश्यतः ईप्सा एवम् कूपे अपि .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {14।27} इह अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्राप्नोति .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {15।27} कर्मसञ्ज्ञात्र बाधिका भविष्यति .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {16।27} अग्नौ अपि तर्हि बाधिका स्यात् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {17।27} तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {18।27} वारणर्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {19।27} वारणार्थेषु कर्मग्रहणम् अनर्थकम् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {20।27} किम् कारणम् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {21।27} कर्तुः ईप्सिततमम् कर्म इति वचनात् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {22।27} कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {23।27} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {24।27} कथम् माषेभ्यः गाः वारयति इति .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {25।27} पश्यति अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् सस्यविनाशः सस्यविनाशे अधर्मः च एव राजभयम् च .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {26।27} सः बुद्ध्या सम्प्राप्य निवर्तते .
(प्_1,4.27) क_इ,328.10-24 रो_इइ,393-395 {27।27} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् .
(प्_1,4.28) क_इ,329.2-4 रो_इइ,396 {1।5} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,4.28) क_इ,329.2-4 रो_इइ,396 {2।5} कथम् उपाध्यायात् अन्तर्धत्ते इति .
(प्_1,4.28) क_इ,329.2-4 रो_इइ,396 {3।5} पश्यति अयम् यदि माम् उपाध्यायः पश्यति ध्रुवम् प्रेषणम् उपालम्भः वा इति .
(प्_1,4.28) क_इ,329.2-4 रो_इइ,396 {4।5} सः बुद्ध्या सम्प्राप्य निवर्तते .
(प्_1,4.28) क_इ,329.2-4 रो_इइ,396 {5।5} तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {1।30} उपयोगे इति किमर्थम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {2।30} नटस्य शृणोति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {3।30} ग्रन्थिकस्य शृणोति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {4।30} उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {5।30} एषः अपि हि उपयोगः .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {6।30} आतः च उपयोगः यत् आरम्भकाः रङ्गम् गच्छन्ति नटस्य श्रोष्यामः , ग्रन्थिकस्य श्रोष्यामः इति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {7।30} एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {8।30} तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः उपयोगः इति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {9।30} कः च साधीयः .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {10।30} यः ग्रन्थार्थयोः .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {11।30} अथ वा उपयोगः कः भवितुम् अर्हति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {12।30} यः नियमपूर्वकः .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {13।30} तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {14।30} किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {15।30} कः च अत्र विशेषः .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {16।30} आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञाप्रसङ्गः . आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञा प्राप्नोति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {17।30} अस्तु तर्हि अकारकम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {18।30} अकारकम् इति चेत् उपयोगवचनानर्थक्यम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {19।30} यदि अकारकम् उपयोगवचनम् अनर्थकम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {20।30} अस्तु तर्हि कारकम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {21।30} ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् कर्मसञ्ज्ञाप्रसङ्गः इति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {22।30} न एषः दोषः .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {23।30} परिगणनम् तत्र क्रियते .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {24।30} दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् इति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {25।30} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {26।30} कथम् उपाध्यायात् अधीते इति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {27।30} अपक्रामति तस्मात् तदध्ययनम् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {28।30} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {29।30} सत्ततत्वात् .
(प्_1,4.29) क_इ,329.6-22 रो_इइ,396-398 {30।30} अथ वा ज्योतिर्वत् ज्ञानानि भवन्ति .
(प्_1,4.30) क_इ,329.24-330.2 रो_इइ,399 {1।7} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,4.30) क_इ,329.24-330.2 रो_इइ,399 {2।7} कथम् गोमयात् वृश्चिकः जायते .
(प्_1,4.30) क_इ,329.24-330.2 रो_इइ,399 {3।7} गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति .
(प्_1,4.30) क_इ,329.24-330.2 रो_इइ,399 {4।7} अपक्रामन्ति ताः तेभ्यः .
(प्_1,4.30) क_इ,329.24-330.2 रो_इइ,399 {5।7} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति .
(प्_1,4.30) क_इ,329.24-330.2 रो_इइ,399 {6।7} सन्ततत्वात् .
(प्_1,4.30) क_इ,329.24-330.2 रो_इइ,399 {7।7} अथ वा अन्याः चन्याः च प्रादुर्भवन्ति .
(प्_1,4.31) क_इ,330.4-6 रो_इइ,399 {1।6} अयम् अपि योगः शक्यः अवक्तुम् .
(प्_1,4.31) क_इ,330.4-6 रो_इइ,399 {2।6} कथम् हिमवतः गङ्गा प्रभवति इति .
(प्_1,4.31) क_इ,330.4-6 रो_इइ,399 {3।6} अपक्रामन्ति ताः तस्मात् आपः .
(प्_1,4.31) क_इ,330.4-6 रो_इइ,399 {4।6} यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति .
(प्_1,4.31) क_इ,330.4-6 रो_इइ,399 {5।6} सन्ततत्वात् .
(प्_1,4.31) क_इ,330.4-6 रो_इइ,399 {6।6} अथ वा अन्याः चन्याः च प्रादुर्भवन्ति .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {1।17} कर्मग्रहणम् किमर्थम् .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {2।17} यम् अभिप्रैति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव सम्प्रदानसञ्ज्ञा प्रसज्येत .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {3।17} कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {4।17} कर्म निमित्तत्वेन आश्रीयते .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {5।17} अथ यम्सग्रहणम् किमर्थम् .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {6।17} कर्मणा अभिप्रैति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव सम्प्रदानसञ्ज्ञा प्रसज्येत .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {7।17} यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {8।17} यम्सग्रहणात् अभिप्रयतः सम्प्रदानसञ्ज्ञा निर्भज्यते .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {9।17} अथ अभिप्रग्रहणम् किमर्थम् .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {10।17} कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {11।17} उपाध्यायाय गाम् ददाति इति .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {12।17} इह न स्यात् .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {13।17} उपाध्यायाय गाम् अदात् .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {14।17} उपाध्यायाय गाम् दास्यति इति .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {15।17} अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {16।17} अभिः आभिमुख्ये वर्तते प्रशब्दः आदिकर्मणि .
(प्_1,4.32.1) क_इ,330.8-17 रो_इइ,400-401 {17।17} तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {1।25} क्रियाग्रहणम् अपि कर्तव्यम् .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {2।25} इह अपि यथा स्यात् .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {3।25} श्राद्धाय निगर्हते .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {4।25} युद्धाय सन्नह्यते .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {5।25} पत्ये शेते इति .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {6।25} तत् तर्हि वक्तव्यम् .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {7।25} न वक्तव्यम् .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {8।25} कथम् .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {9।25} क्रियाम् हि लोके कर्म इति उपचरन्ति .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {10।25} काम् क्रियाम् करिष्यसि .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {11।25} किम् कर्म करिष्यसि इति .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {12।25} एवम् अपि कर्तव्यम् .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {13।25} कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {14।25} क्रिया अपि कृत्रिमम् कर्म .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {15।25} न सिध्यति .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {16।25} कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {17।25} क्रिया अपि क्रियया ईप्सिततमा भवति .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {18।25} कया क्रियया .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {19।25} सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {20।25} इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {21।25} एवम् क्रिया अपि कृत्रिमम् कर्म .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {22।25} एवम् अपि कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {23।25} पशुना रुद्रम् यजते .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {24।25} पशुम् रुद्राय ददाति इति अर्थः .
(प्_1,4.32.2) क_इ,330.18-331.4 रो_इइ,401-403 {25।25} अग्नौ किल पशुः प्रक्षिप्यते तत् रुद्राय पह्रियते इति .
(प्_1,4.37) क_इ,331.6-9 रो_इइ,403-404 {1।6} किमेते एकार्थाः आहोस्वित् नानार्थाः .
(प्_1,4.37) क_इ,331.6-9 रो_इइ,403-404 {2।6} किम् च अतः .
(प्_1,4.37) क_इ,331.6-9 रो_इइ,403-404 {3।6} यदि एकार्थाः किमर्थम् पृथक् निर्दिश्यन्ते .
(प्_1,4.37) क_इ,331.6-9 रो_इइ,403-404 {4।6} अथ नानार्थाः कथम् कुपिना शक्यन्ते विशेषयितुम् .
(प्_1,4.37) क_इ,331.6-9 रो_इइ,403-404 {5।6} एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति .
(प्_1,4.37) क_इ,331.6-9 रो_इइ,403-404 {6।6} न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {1।25} तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् करणसञ्ज्ञा प्रसज्येत .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {2।25} सर्वाणि हि कारकाणि साधकानि .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {3।25} तमग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {4।25} न एतत् अस्ति प्रयोजनम् .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {5।25} पूर्वाः तावत् सञ्ज्ञाः अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च अनवकाशत्वात् च .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {6।25} इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च अपादानसञ्ज्ञा साधकत्वात् च करणसञ्ज्ञा प्राप्नोति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {7।25} तमग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {8।25} एवम् तर्हि लोकतः एतत् सिद्धम् .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {9।25} तत् यथा .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {10।25} लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {11।25} तत्र अभिरूपतमाय इति गम्यते .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {12।25} एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {13।25} तत्र साधकतमम् इति विज्ञास्यते .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {14।25} एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् ज्ञापयति आचार्यः कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {15।25} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {16।25} अपादानम् आचार्यः किम् न्याय्यम् मन्यते .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {17।25} यत्र सम्प्राप्य निवृत्तिः .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {18।25} तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {19।25} साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {20।25} कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {21।25} तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {22।25} यत्र कृत्स्नः आधारात्मा व्याप्तः भवति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {23।25} तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {24।25} गङ्गायाम् गावः कूपे गर्गर्कुलम् इति अत्र न स्यात् .
(प्_1,4.42) क_इ,331.11-332.3 रो_इइ,404-406 {25।25} कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {1।8} वसेः अश्यर्थस्य प्रतिषेधः . वसेः अश्यर्थस्य प्रतिषेधः वक्तव्यः .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {2।8} ग्राम उपवसति इति .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {3।8} सः तर्हि वक्तव्यः .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {4।8} न वक्तव्यः .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {5।8} न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {6।8} कस्य तर्हि .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {7।8} अनुपसर्गस्य .
(प्_1,4.48) क_इ,332.5-8 रो_इइ,406-407 {8।8} ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति .
(प्_1,4.49.1) क_इ,332.10-13 रो_इइ,407 {1।6} तमग्रहणम् किमर्थम् .
(प्_1,4.49.1) क_इ,332.10-13 रो_इइ,407 {2।6} कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह: अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्रसज्येत .
(प्_1,4.49.1) क_इ,332.10-13 रो_इइ,407 {3।6} न एषः दोषः .
(प्_1,4.49.1) क_इ,332.10-13 रो_इइ,407 {4।6} कर्मसञ्ज्ञा तत्र बाधिका भविष्यति .
(प्_1,4.49.1) क_इ,332.10-13 रो_इइ,407 {5।6} अग्नौ अपि तर्हि बाधिका स्यात् .
(प्_1,4.49.1) क_इ,332.10-13 रो_इइ,407 {6।6} इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {1।20} इह उच्यते ओदनम् पचति इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {2।20} यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {3।20} न एषः दोषः .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {4।20} तादर्थ्यात् ताच्छब्द्यम् भविष्यति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {5।20} ओदनार्थाः तण्डुलाः ओदनः इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {6।20} अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {7।20} उभ्यथा अपि भवितव्यम् .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {8।20} कथम् .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {9।20} इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {10।20} तण्डुलान् पचन् ओदनम् निर्वर्तयति इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {11।20} इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {12।20} तण्डुलविकारम् ओदनम् निर्वर्तयति इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {13।20} इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {14।20} सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {15।20} आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {16।20} आमन्त्र्यमाणः आह दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीय इति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {17।20} अत्र कर्मसञ्ज्ञा प्राप्नोति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {18।20} तत् हि तस्य ईप्सिततमम् भवति .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {19।20} तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः .
(प्_1,4.49.2) क_इ,332.14-25 रो_इइ,408-409 {20।20} तत् यथा भुञ्जीय अहम् ओदनम् यदि मृदुविशदः स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् भुञ्जीय पयोगुणमोदनम् भुञ्जीय इति .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {1।16} ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञाप्रसङ्गः क्रियेप्सितत्वात् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {2।16} ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञा न प्राप्नोति .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {3।16} गुडम् भक्षयति इति .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {4।16} किम् कारणम् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {5।16} क्रियेप्सितत्वात् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {6।16} क्रिया तस्य ईप्सिता .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {7।16} न वा उभयेप्सितत्वात् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {8।16} न वा एषः दोषः .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {9।16} किम् कारणम् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {10।16} उभयेप्सितत्वात् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {11।16} उभयम् तस्य ईप्सितम् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {12।16} आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {13।16} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {14।16} स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {15।16} तस्य क्रियामात्रम् ईप्सितम् .
(प्_1,4.49.3) क_इ,333.1-11 रो_इइ,410-411 {16।16} यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {1।22} किम् उदाहरणम् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {2।22} विषम् भक्षयति इति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {3।22} न एतत् अस्ति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {4।22} पूर्वेण अपि एतत् सिध्यति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {5।22} न सिध्यति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {6।22} कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {7।22} विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {8।22} कथम् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {9।22} इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि अनुनिशम्य विषभक्षणम् एव ज्यायः मन्यते .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {10।22} आतः च ईप्सितम् यत् तत् भक्षयति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {11।22} यत् तर्थि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {12।22} किम् पुनः तत् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {13।22} ग्रामान्तरम् अयम् गच्छन् चौरान् पश्यति अहिम् लङ्घयति कण्टकान् मृद्नाति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {14।22} इह ईप्सितस्य अपि कर्मसञ्ज्ञा आरभ्यते अनीप्सितस्य अपि .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {15।22} यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {16।22} ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {17।22} अत्र अपि सिद्धम् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {18।22} कथम् .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {19।22} अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {20।22} किम् तर्हि .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {21।22} पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति .
(प्_1,4.50) क_इ,333.13-23 रो_इइ,411-412 {22।22} अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {1।43} केन अकथितम् .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {2।43} अपादानादिभिः विशेषकथाभिः .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {3।43} किम् उदाहरणम् .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {4।43} दुहियाचिरुधिप्रछिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ ब्रुविशासिगुणेन च यत्सचते तत् अकीर्तितम् आचरितम् कविना .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {5।43} दुहि : गाम् दोग्धि पयः .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {6।43} न एतत् अस्ति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {7।43} कथिता अत्र पूर्वा अपादन्सञ्ज्ञा .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {8।43} दुहि .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {9।43} याचि : इदम् तर्हि पौरवम् गाम् याचते इति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {10।43} न एतत् अस्ति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {11।43} कथिता अत्र पूर्वा अपादन्सञ्ज्ञा .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {12।43} न याचनात् एव अपायः भवति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {13।43} याचितः असौ यदि ददाति ततः अपायेन युज्यते .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {14।43} याचि .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {15।43} रुधि : अन्ववरुणद्धि गाम् व्रजम् .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {16।43} न एतत् अस्ति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {17।43} कथिता अत्र पूर्वा अधिकरणसञ्ज्ञा .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {18।43} रुधि .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {19।43} प्रच्छि : माणवकम् पन्थानम् पृच्छति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {20।43} न एतत् अस्ति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {21।43} कथिता अत्र पूर्वा अपादानसञ्ज्ञा .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {22।43} न प्रश्नात् एव अपायः भवति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {23।43} पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {24।43} प्रच्छि. भिक्षि : पौरवम् गाम् भिक्षते .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {25।43} न एतत् अस्ति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {26।43} कथिता अत्र पूर्वा अपादानसञ्ज्ञा .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {27।43} न भिक्षणात् एव अपायः भवति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {28।43} भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {29।43} भिक्षि .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {30।43} चिञ् : वृक्षम् अवचिनोति फलानि .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {31।43} न एतत् अस्ति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {32।43} कथिता अत्र पूर्वा अपादानसञ्ज्ञा .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {33।43} ब्रुविशासिगुणेन च यत् सचते तत् अकीर्तितम् आचरितम् कविना .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {34।43} ब्रुविशासिगुणेन च यत् सचते सम्बध्यते तत् च दाहरणम् .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {35।43} किम् पुनः तत् .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {36।43} पुत्रम् ब्रूते धर्मम् .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {37।43} पुत्रम् अनुशास्ति धर्मम् इति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {38।43} न एतत् अस्ति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {39।43} कथिता अत्र पूर्वा सम्प्रदानसञ्ज्ञा .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {40।43} तस्मात् त्रीणि एव उदाहरणानि .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {41।43} पौरवम् गाम् याचते .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {42।43} माणवकम् पन्थानम् पृच्छति .
(प्_1,4.51.1) क_इ,333.25-334.15 रो_इइ,413-418 {43।43} पौरवम् गाम् भिक्षते इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {1।57} अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {2।57} कथिते लादयः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {3।57} कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या . कथिते लादयः चेत् स्युः षष्ट्ःईम् कुर्यात् तदा गुणे .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {4।57} कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {5।57} दुह्यते गोः पयः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {6।57} याच्यते पौरवस्य कम्बलः इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {7।57} कथम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {8।57} अकारकम् ह्यकथितत्वात् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {9।57} अकारकम् हि एतत् भवति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {10।57} किम् कारणम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {11।57} अकथितत्वात् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {12।57} कारकम् चेत् तु न अकथा .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {13।57} अथ कारकम् न अकथितम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {14।57} अथ कारके सति का कर्तव्या .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {15।57} कारकम् चेत् विजानीयात् याम् याम् मन्येत सा भवेत् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {16।57} कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {17।57} दुह्यते गोः पयः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {18।57} याच्यते पौरवात् कम्बलः इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {19।57} कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {20।57} कथिते लादिभिः अभिहिते त्वविधिः एषः भवति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {21।57} किम् इदम् त्वविधिः इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {22।57} तव विधिः त्वविधिः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {23।57} त्वमतिः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {24।57} किमिदम् त्वमतिः इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {25।57} तव मतिः त्वमतिः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {26।57} न एवम् अन्ये मन्यन्ते .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {27।57} कथम् तर्हि अन्ये मन्यन्ते .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {28।57} गुणकर्मणि लादिविधिः सपरे .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {29।57} गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {30।57} गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सः णौ इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {31।57} ध्रुवचेष्टितयुक्तिषु च अपि अगुणे तत् अनल्पमतेः वचनम् स्मरत . ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {32।57} तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {33।57} अपरः आह : प्रधानकर्मणि आख्येये लादीन् आहुः द्विकर्मणाम् . प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {34।57} अजाम् नयति ग्रामम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {35।57} अजा नीयते ग्रामम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {36।57} अजा नीता ग्रामम् इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {37।57} अप्रधाने दुहादीनाम् . अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {38।57} दुह्यते गौः पयः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {39।57} ण्यन्ते कर्तुः च कर्मणः . लादयः भवन्ति इति वक्तव्यम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {40।57} गम्यते देवदत्तः ग्रामम् यज्ञदत्तेन .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {41।57} के पुनः धातूनाम् द्विकर्मकाः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {42।57} नीवह्योः हरतेः च अपि गत्यर्थानाम् तथा एव च द्विकर्मकेषु ग्रहणम् द्रष्टव्यम् इति निश्चयः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {43।57} अजाम् नयति ग्रामम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {44।57} भारम् वहति ग्रामम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {45।57} भारम् हरति ग्रामम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {46।57} गत्यर्थानाम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {47।57} गमयति देवदत्तम् ग्रामम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {48।57} यापयति देवदत्तम् ग्रामम् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {49।57} सिद्धम् वा अपो अन्यकर्मणः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {50।57} सिद्धम् वा पुनः एतत् भवति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {51।57} कुतः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {52।57} अन्यकर्मणः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {53।57} अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {54।57} अजाम् असौ गृहीत्वा ग्रामम् नयति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {55।57} अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः भवेत् . अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {56।57} अजा नीयते ग्रामम् इति .
(प्_1,4.51.2) क_इ,334.16-335.28 रो_इइ,418-424 {57।57} परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {1।27} कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा हि अर्कर्मणाम् .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {2।27} कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् कर्मसञ्ज्ञाः भवन्ति इति वक्तव्यम् .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {3।27} काल .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {4।27} मासम् आस्ते .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {5।27} मासम् स्वपिति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {6।27} भाव .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {7।27} गोदोहम् आस्ते .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {8।27} गोदोहम् स्वपिति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {9।27} अध्वगन्तव्य .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {10।27} क्रोशम् आस्ते .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {11।27} क्रोशम् स्वपिति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {12।27} देशः च अकर्मणाम् कर्मसञ्ज्ञः भवति इति वक्तव्यम् .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {13।27} कुरून् स्वपिति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {14।27} पञ्चालान् स्वपिति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {15।27} विपरीतम् तु यत् कर्म तत् कल्म कवयः विदुः . किमिदम् कल्म इति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {16।27} अपरिसमाप्तम् कर्म कल्म .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {17।27} न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {18।27} किम् तर्हि .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {19।27} द्वितीया एव .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {20।27} यस्मिन् तु कर्मणि उपजायते अन्यत् धात्वर्थयोगा अपि च यत्र षष्ठी तत् कर्म कल्म इति च कल्म न उक्तम् धातोः हि वृत्तिः न रलत्वतः अस्ति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {21।27} एतेन कर्मसञ्ज्ञा सर्वा सिद्धा भवति कथितेन .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {22।27} तत्र ईप्सितस्य किम् स्यात् प्रयोजनम् कर्मसञ्ज्ञायाः .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {23।27} यत् तु कथितम् पुरस्तात् ईप्सिततयुक्तम् च तस्य सिद्ध्यर्थम् .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {24।27} ईप्सितम् एव तु यत् स्यात् तस्य भविष्यति कथितेन .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {25।27} अथ इह कथम् भवितव्यम् .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {26।27} नेता अश्वस्य स्रुघ्नम् इति आहोस्वित् नेता अश्वस्य स्रुघ्नस्य इति .
(प्_1,4.51.3) क_इ,336.1-17 रो_इइ,425-428 {27।27} उभयथा गोणिकापुत्रः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {1।37} शब्दकर्म इति कथम् इदम् विज्ञायते .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {2।37} शब्दः येषाम् क्रिया इति आहोस्वित् शब्दः येषाम् कर्म इति .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {3।37} कः च अत्र विशेषः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {4।37} शब्दकर्मनिर्देशे शब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः . शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {5।37} के पुनः ह्वयतादयः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {6।37} ह्वयति क्रन्दति शब्दायते .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {7।37} ह्वयति देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {8।37} ह्वाययति देवदत्तेन .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {9।37} क्रन्दति देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {10।37} क्रन्दयति देवदत्तेन .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {11।37} शब्दायते देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {12।37} शब्दाययति देवदत्तेन इति .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {13।37} शृणोत्यादीन् आम् च उपसम्ख्यानम् अशब्दक्रियत्वात् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {14।37} शृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {15।37} के पुनः शृणोत्यादयः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {16।37} शृणोति विजानाति उपलभते .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {17।37} शृणोति देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {18।37} श्रावयति देवदत्तम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {19।37} विजानाति देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {20।37} विज्ञापयति देवदत्तम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {21।37} उपलभते देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {22।37} उपलम्भयति देवदत्तम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {23।37} किम् पुनः कारणम् न सिध्यति .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {24।37} अशब्दक्रियत्वाद् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {25।37} अस्तु तर्हि शब्दः येषाम् कर्म इति .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {26।37} शब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् . शब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपसङ्ख्यानम् कर्तव्यम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {27।37} के पुनः जल्पतिप्रभृअतयः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {28।37} जल्पति विलपति आभाषते .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {29।37} जल्पति देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {30।37} जल्पयति देवदत्तम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {31।37} विलपति देवदत्तः .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {32।37} विलापयति देवदत्तम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {33।37} आभाषते देवदत्तः .आभाषयति देवदत्तम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {34।37} दृशेः सर्वत्र .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {35।37} दृशेः सर्वत्र उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {36।37} पश्यति रूपतर्कः कार्षापणम् .
(प्_1,4.52.1) क_इ,336.19-337.13 रो_इइ,429-431 {37।37} दर्शयति रूपतर्कम् कार्षापणम् .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {1।26} अदिखादिनीवहीनाम् प्रतिषेधः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {2।26} अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {3।26} अत्ति देवदत्तः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {4।26} आदयते देवदत्तेन .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {5।26} अपरः आह : सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {6।26} इदम् एकम् इष्यते : क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः : इदम् एषाम् जग्धम् .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {7।26} खादि .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {8।26} खादति देवदत्तः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {9।26} खादयति देवदत्तेन .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {10।26} नी .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {11।26} नयति देवदत्तः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {12।26} नाययति देवदत्तेन .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {13।26} वहेरनियन्तृकर्तृकस्य .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {14।26} वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम् .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {15।26} वहति भारम् देवदत्तः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {16।26} वाहयति भारम् देवदत्तेन .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {17।26} अनियन्तृकर्तृकस्य इति किमर्थम् .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {18।26} वहन्ति यवान् बलीवर्दाः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {19।26} वाहयन्ति बलीवर्दान् यवान् .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {20।26} भक्षेः अहिंसार्थस्य .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {21।26} भक्षेः अहिम्सार्थस्य इति वक्तव्यम् .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {22।26} भक्षयति पिण्डीम् देवदत्तः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {23।26} भक्षयति पिण्डीम् देवदत्तेन .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {24।26} अहिम्सार्थस्य इति किमर्थम् .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {25।26} भक्षयन्ति यवान् बलीवर्दाः .
(प्_1,4.52.2) क_इ,337.14-27 रो_इइ,431-432 {26।26} भक्षयन्ति बलीवर्दान् यवान् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {1।19} अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {2।19} अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {3।19} मासम् आस्ते देवदत्तः .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {4।19} मासम् आसयति देवदत्तम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {5।19} मासम् शेते देवदत्तः .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {6।19} मासम् शाययति देवदत्तम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {7।19} सिद्धम् तु कालकर्मकाणाम् अकर्मकवद्वचनात् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {8।19} सिद्धम् एतत् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {9।19} कथम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {10।19} कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {11।19} तत् तर्हि वक्तव्यम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {12।19} न वक्तव्यम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {13।19} अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {14।19} ते एवम् विज्ञास्यामः .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {15।19} क्व चित् ये अकर्मकाः इति .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {16।19} अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {17।19} न च एतेन कर्मणा कः चित् अपि अकर्मकः .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {18।19} अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् .
(प्_1,4.52.3) क_इ,338.1-9 रो_इइ,432-435 {19।19} न च एतत् कर्म क्व चित् अपि न भवति .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {1।10} हृक्रोः वावचने अभिवादिदृश्योः आत्मनेपदे उपसङ्ख्यानम् .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {2।10} हृक्रोर्वावचने अभिवादिदृशोः आत्मनेपदे उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {3।10} अभिवदति गुरुम् देवदत्तः .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {4।10} अभिवादयते गुरुम् देवदत्तम् .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {5।10} अभिवादयते गुरुम् देवदत्तेन .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {6।10} पश्यन्ति भृत्याः राजानम् .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {7।10} दर्शयते भृत्यान् राजा .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {8।10} दर्शयते भृत्यैः राजा .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {9।10} कथम् च अत्र आत्मनेपदम् .
(प्_1,4.53) क_इ,338.11-15 रो_इइ,435 {10।10} एकस्य णेः अणौ इ ति अपरस्य णिचः च इति .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {1।12} किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {2।12} किम् च अतः .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {3।12} तन्तुवाये प्राप्नोति .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {4।12} न एषः दोषः .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {5।12} अयम् तन्त्रशब्दः अस्ति एव विताने वर्तते .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {6।12} तत् यथा : आस्तीर्णम् तन्त्रम् .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {7।12} प्रेतम् तन्त्रम् .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {8।12} वितानः इति गम्यते .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {9।12} अस्ति प्राधान्ये वर्तते .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {10।12} तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {11।12} स्वप्रधानः इति गम्यते .
(प्_1,4.54.1) क_इ,338.17-20 रो_इइ,435-436 {12।12} तत् यः प्राधान्ये वर्तते तन्त्रशब्दः तस्य इदम् ग्रहणम् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {1।18} स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् अस्वत्रन्त्वात् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {2।18} स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {3।18} पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {4।18} किम् पुनः कारणम् न सिध्यति .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {5।18} अस्वतन्त्रत्वात् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {6।18} न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {7।18} न वा कर्तव्यम् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {8।18} किम् कारणम् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {9।18} स्वातन्त्र्यात् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {10।18} स्वतन्त्रः असौ भवति .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {11।18} इतरथा हि अकुर्वति अपि कारयति इति स्यात् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {12।18} यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {13।18} न अकुर्वत् इ इति चेत् स्वतन्त्रः .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {14।18} न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {15।18} शक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {16।18} साधीयः ज्ञापकम् भवति .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {17।18} प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति .
(प्_1,4.54.2) क_इ,338.21-339.9 रो_इइ, 436-438 {18।18} यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {1।16} प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञाप्रसिद्धिः .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {2।16} प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञायाः अप्रसिद्धिः .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {3।16} स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {4।16} न च असौ स्वतन्त्रम् प्रयोजयति .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {5।16} स्वतन्त्रत्वात् सिद्धम् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {6।16} सिद्धम् एतत् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {7।16} कथम् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {8।16} स्वतन्त्रत्वात् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {9।16} स्वतन्त्रम् असौ प्रयोजयति .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {10।16} स्वतन्त्रत्वात् सिद्धम् इति चेत् स्वतन्त्रपरतन्त्रत्वम् विप्रतिषिद्दम् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {11।16} यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {12।16} उक्तम् वा .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {13।16} किम् उक्तम् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {14।16} एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {15।16} अपरम् उक्तम् .
(प्_1,4.55) क_इ,339.11-21 रो_इइ,438-439 {16।16} न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तमसम्शयेन तुल्यम् इति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {1।26} किमर्थम् रेफाधिकः ईश्वरशब्दः गृह्यते .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {2।26} रीश्वरात् वीश्वरात् मा भूत् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {3।26} रीश्वरात् इति उच्यते वीश्वरात् मा भूत् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {4।26} शकि णमुल्कमुलौ ईश्वरे तोसुन्कसुनौ इति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {5।26} न एतत् अस्ति प्रयोजनम् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {6।26} आचार्यप्रवृत्तिः ज्ञापयति अनन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च अव्ययसञ्ज्ञाम् शास्ति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {7।26} कृत् मेजन्तः परः अपि सः .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {8।26} परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {9।26} तदर्थम् एतत् स्यात् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {10।26} यत् तर्हि अव्ययीभावस्य अव्ययसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः नन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {11।26} समासेषु अव्ययीभावः .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {12।26} समासस्य एतत् ज्ञापकम् स्यात् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {13।26} अव्ययीभावः एव समासः अव्ययसञ्ज्ञः भवति न अन्यः इति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {14।26} एवम् तर्हि लोकतः एतत् सिद्धम् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {15।26} तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {16।26} लौकिकम् च अतिवर्तते .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {17।26} द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {18।26} तस्मात् रेफादिकः ईश्वरशब्दः ग्रहीतव्यः .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {19।26} अथ प्राग्वचनम् किमर्थम् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {20।26} प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {21।26} प्राग्वचनम् क्रियते निपातसञ्ज्ञायाः अनिवृत्तिः यथा स्यात् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {22।26} अक्रियमाणे हि प्राग्वचने अनवकाशाः गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः निपातसञ्ज्ञाम् बाधेरन् .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {23।26} ताः मा बाधिषत इति प्राग्वचनम् क्रियते .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {24।26} अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः एताः सञ्ज्ञाः कस्मात् एव न बाधन्ते .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {25।26} क्रियमाणे हि प्राग्वचने सत्याम् निपातसञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते .
(प्_1,4.56) क_इ,340.2-25 रो_इइ,440-442 {26।26} तत्र वचनात् समावेशः भवति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {1।18} अयम् सत्त्वशब्दः अस्ति एव द्रव्यपदार्थकः .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {2।18} तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {3।18} अस्ति क्रियापदार्थकः .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {4।18} सद्भावः सत्त्वम् इति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {5।18} कस्य इदम् ग्रहणम् .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {6।18} द्रव्यपदार्थकस्य .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {7।18} कुतः एतत् .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {8।18} एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {9।18} किम् पुनः अयम् पर्युदासः .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {10।18} यत् अन्यत् सत्त्ववचनात् इति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {11।18} आहोस्वित् प्रसज्य अयम् प्रतिषेधः .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {12।18} सत्त्ववचने न इति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {13।18} किम् च अतः .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {14।18} यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {15।18} क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् अन्यश्च विधिना आश्रीयते .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {16।18} अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना निपातसञ्ज्ञा प्राप्नोति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {17।18} अथ प्रसज्यप्रतिषेधः न दोषः भवति .
(प्_1,4.57) क_इ,341.2-9 रो_इइ,442-444 {18।18} यथा न दोषः तथा अस्तु .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {1।9} प्रादयः इति योगविभागः .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {2।9} प्रादयः इति योगविभागः कर्तव्यः .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {3।9} प्रादयः सत्त्ववचनाः निपातसञ्ज्ञाः भवन्ति .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {4।9} ततः उपसर्गाः क्रियायोगे इति .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {5।9} किमर्थः योगविभागः .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {6।9} निपातसञ्ज्ञार्थः .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {7।9} निपातसञ्ज्ञा यथा स्यात् .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {8।9} एकयोगे हि निपातसञ्ज्ञाभावः . एकयोगे हि सति निपातसञ्ज्ञाया अभावः स्यात् .
(प्_1,4.58-59.1) क_इ,341.11-18 रो_इइ,444 {9।9} यस्मिन् एव विशेषे गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः तस्मिन् एव विशेषे निपातसञ्ज्ञा स्यात् .
(प्_1,4.58-59.2) क_इ,341.19-23 रो_इइ,445 {1।7} मरुच्छब्दस्य उप्सङ्ख्यानम् .
(प्_1,4.58-59.2) क_इ,341.19-23 रो_इइ,445 {2।7} मरुच्छब्दस्य उप्सङ्ख्यानम् कर्तव्यम् .
(प्_1,4.58-59.2) क_इ,341.19-23 रो_इइ,445 {3।7} मरुद्दत्तो मरुत्यः .
(प्_1,4.58-59.2) क_इ,341.19-23 रो_इइ,445 {4।7} अच उपसर्गात् इति तत्त्वम् यथा स्यात् .
(प्_1,4.58-59.2) क_इ,341.19-23 रो_इइ,445 {5।7} श्रच्छब्दस्य उपसम्ख्यानम् .
(प्_1,4.58-59.2) क_इ,341.19-23 रो_इइ,445 {6।7} श्रच्छब्दस्य उपसम्ख्यानम् कर्तव्यम् .
(प्_1,4.58-59.2) क_इ,341.19-23 रो_इइ,445 {7।7} श्रद्धा .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {1।8} कारिकाशब्दस्य .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {2।8} कारिकाशब्दस्य उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {3।8} कारिकाकृत्य .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {4।8} पुनश्चनसौ छन्दसि .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {5।8} पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवतः इति वक्तव्यम् .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {6।8} पुनरुत्स्यूतम् वासः देयम् .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {7।8} पुनर्निष्कृतः रथः .
(प्_1,4.60.1) क_इ,342.2-6 रो_इइ,446 {8।8} उशिक् दूतः चनोहितः .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {1।55} गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति इति वचनम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {2।55} गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञाः भवन्ति इति वक्तव्यम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {3।55} किम् प्रयोजनम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {4।55} प्रयोजनम् घञ् षट्वणत्वे .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {5।55} घञ् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {6।55} प्रवृद्धः भावः प्रभावः .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {7।55} अनुपसर्गे इति प्रतिषेधः मा भूत् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {8।55} षत्वम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {9।55} विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {10।55} उपसर्गात् इति षत्वम् मा भूत् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {11।55} णत्वम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {12।55} प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {13।55} उपसर्गादिति णत्वम् मा भूत् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {14।55} वृद्धिविधौ च धातुग्रहणानर्थक्यम् . वृद्धिविधौ च धातुग्रहणम् अनर्थकम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {15।55} उपसर्गात् ऋति धातौ इति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {16।55} तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {17।55} क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {18।55} यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {19।55} वद्विध्नभावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः भवति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {20।55} वद्विधि. यत् उद्वतः निवतः यासि बप्सत् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {21।55} वद्विधि .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {22।55} नस्भाव .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {23।55} प्रणसम् मुखम् उन्नसम् मुखम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {24।55} नस्भाव .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {25।55} अबीत्त्व .प्रेपम् परेपम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {26।55} अबित्त्व .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {27।55} स्वाङ्गादिस्वर .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {28।55} प्रस्फिक् प्रोदरः .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {29।55} स्वाङ्गादिस्वर .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {30।55} णत्व .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {31।55} प्र णः शूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {32।55} उपसर्गात् इति एते विधयः न प्राप्नुवन्ति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {33।55} वद्विधिनस्भावबीत्त्वस्वाङ्गदिस्वरणत्वेषु वचनप्रामाण्यात् सिद्धम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {34।55} अनवकाशाः एते विधयः .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {35।55} ते वचनप्रामाण्यात् भविष्यन्ति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {36।55} सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {37।55} सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {38।55} नुम्विधि : सुलभम् दुर्लभम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {39।55} उपसर्गात् इति नुम् मा भूत् इति .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {40।55} न सुदुर्भ्याम् केवलाभ्याम् .
(प्_1,4.60.2) क_इ,342.7-343.8 रो_इइ,446-448 {41।55} इति एतत् न वक्तव्यम् भवति .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0