व्याकरणमहाभाष्य · भाग 281300
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {1।67} उपसर्गपूर्वनियमे अड्व्यवाये उपसङ्ख्यानम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {2।67} उपसर्गपूर्वस्य नियमे अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {3।67} न्यविशत व्यक्रीणीत .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {4।67} किम् पुनः कारणात् न सिध्यति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {5।67} अटा व्यवहितत्वात् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {6।67} ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {7।67} न सिध्यति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {8।67} अङ्गस्य हि अट् उच्यते विकरणान्तम् च अङ्गम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {9।67} सः असौ सङ्घातभक्तः न शक्यः धातुग्रहणेन ग्रहीतुम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {10।67} एवम् तर्हि इदम् इह सम्प्रधार्यम् : अट् क्रियताम् विकरणः इति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {11।67} किम् अत्र कर्तव्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {12।67} परत्वात् अट् आगमः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {13।67} नित्याः विकरणाः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {14।67} कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {15।67} अट् अपि नित्यः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {16।67} कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {17।67} अनित्यः अट् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {18।67} अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {19।67} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {20।67} एवम् तर्हि इदम् इह सम्प्रधार्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {21।67} अट् क्रियताम् लादेशः इति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {22।67} किम् अत्र कर्तव्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {23।67} परत्वात् अट् आगमः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {24।67} नित्यः लादेशः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {25।67} कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {26।67} नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः भविष्यति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {27।67} नित्यत्वात् लादेशस्य आत्मनेपदे अट् आगमः इति चेत् अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {28।67} नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {29।67} अट् अपि नित्यनिमित्तः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {30।67} कृते अपि लदेशे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {31।67} अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {32।67} तस्मात् उपसङ्ख्यानम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {33।67} तस्मात् उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {34।67} न कर्तव्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {35।67} अन्तरङ्गः तर्हि लादेशः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {36।67} न एतत् विवदामहे अन्तरङ्गः न अन्तरङ्गः इति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {37।67} अस्तु अयम् नित्यः अन्तरङ्गः च .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {38।67} अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति : विकरणाः अट् आगमः नियमः इति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {39।67} तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {40।67} तत् तु न लभ्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {41।67} अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {42।67} तत् तु न लभ्यम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {43।67} किम् कारणम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {44।67} आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {45।67} अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {46।67} तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {47।67} ननु च ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {48।67} पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {49।67} न एषः दोषः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {50।67} यत् तावत् उच्यते आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {51।67} भवेत् सिद्धम् यत्र विकरणाः नित्याः आङ्गम् अनित्यम् तत्र आङ्गात् पूर्वम् विकरणाः स्युः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {52।67} यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आङ्गम् तावत् भवति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {53।67} यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {54।67} अस्तु अत्र आट् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {55।67} आटि कृते साट्कस्य ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {56।67} ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {57।67} न एषः दोषः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {58।67} चक्रकेषु इष्टतः व्यवस्था .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {59।67} अथ वा नेः इति न एषा पञ्चमी .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {60।67} का तर्हि .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {61।67} विशेषणषष्ठी .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {62।67} नेः यः विशिः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {63।67} कः च नेः विशिः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {64।67} विशेष्यः .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {65।67} व्यवहितः च अपि शक्यते विशेषयितुम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {66।67} अथ वा निः अपि पदम् विशिः अपि पदम् .पदविधिः च समर्थामाम् .
(प्_1,3.60.2) क_इ,285.22-287.5 रो_इइ,263-268 {67।67} व्यवहिते अपि सामर्थ्यम् भवति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {1।22} किम् इदम् पूर्वग्रहणम् सनपेक्षम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {2।22} प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {3।22} आहोस्वित् योगापेक्षम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {4।22} प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {5।22} किम् च अतः .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {6।22} यदि सनपेक्षम् निमित्तम् अविशेषितम् भवति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {7।22} पूर्ववत् सनः न ज्ञायते किमन्तात् भवितव्यम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {8।22} अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {9।22} बुभुक्षते उपयुयुक्षते इति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {10।22} यथा इच्छसि तथा अस्तु .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {11।22} अस्तु तावत् सनपेक्षम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {12।22} ननु च उक्तम् निमित्तम् अविशेषितम् भवति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {13।22} निमित्तम् च विशेषितम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {14।22} कथम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {15।22} सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {16।22} पूर्ववत् सनः आत्मनेपदम् भवति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {17।22} कुतः सनः इति .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {18।22} अथ वा पुनः अस्तु योगापेक्षम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {19।22} ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {20।22} विधिः च प्रकॢप्तः .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {21।22} कथम् .
(प्_1,3.62.1) क_इ,287.7-15 रो_इइ,268-269 {22।22} उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {1।50} किमर्थम् पुनः इदम् उच्यते .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {2।50} पूर्ववत् सनः इति शदिम्रियत्यर्थम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {3।50} शदिम्रियत्यर्थः अयम् आरम्भः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {4।50} शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {5।50} इतरथा हि ताभ्याम् सनन्ताभ्याम् आत्मनेपदप्रतिषेधः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {6।50} इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {7।50} शिशित्सति मुमूर्षति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {8।50} कथम् पुनः पूर्ववत् सनः इति अनेन शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः शक्यः विज्ञातुम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {9।50} वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {10।50} तत् यथा : उशीनरवत् मद्रेषु यवाः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {11।50} सन्ति न सन्ति इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {12।50} मातृवत् अस्याः कलाः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {13।50} सन्ति न सन्ति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {14।50} एवम् इह अपि पूर्ववत् भवति न भवति इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {15।50} न भवति इति वाक्यशेषम् समर्थयिष्यामहे .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {16।50} यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {17।50} यदि तर्हि शदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {18।50} आसिसिषते शिशयिषते .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {19।50} अथ विध्यर्थः शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {20।50} यथा इच्छसि तथा अस्तु .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {21।50} अस्तु तावत् प्रतिषेधार्थः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {22।50} ननु च उक्तम् विधिः न प्रकल्पते इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {23।50} विधिः च प्रकॢप्तः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {24।50} कथम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {25।50} एतत् एव ज्ञापयति सनन्तात् आत्मनेपदम् भवति इति यत् अयम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् शास्ति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {26।50} अथ वा पुनः अस्तु विध्यर्थः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {27।50} ननु च उक्तम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {28।50} न एषः दोषः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {29।50} प्रकृतम् सनः न इति अनुवर्तिष्यते .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {30।50} क्व प्रकृतम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {31।50} ज्ञाश्रुस्मृदृशाम् सनः न अनोः ज्ञः .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {32।50} सकर्मकात् सनः न .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {33।50} प्रत्याङ्भ्याम् श्रुवः सनः न .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {34।50} शदेः शितः सनः न .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {35।50} म्रियतेः लुङ्लिङोः च सनः न इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {36।50} इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {37।50} एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् अविशेषितम् भवति इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {38।50} न एव वा पुनः अत्र शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {39।50} किम् कारणम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {40।50} शदेः शितः इति उच्यते न च शदिः एव आत्मनेपदस्य निमित्तम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {41।50} किम् तर्हि .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {42।50} शित् अपि निमित्तम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {43।50} अथ अपि शदिः एव शित्परः तु निमित्तम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {44।50} न च अयम् सन्परः शित्परः भवति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {45।50} यत्र तर्हि शित् न आश्रीयते म्रियतेः लुङ्लिङोः च इति .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {46।50} अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {47।50} किम् तर्हि .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {48।50} लुङ्लिङौ अपि निमित्तम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {49।50} अथ अपि म्रियतिः एव लुङ्लिङ्परः तु निमित्तम् .
(प्_1,3.62.2) क_इ,287.16-288.17 रो_इइ,269-271 {50।50} न च अयम् सन्परः लुङ्लिङ्परः भवति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {1।27} किम् पुनः पूर्वस्य यत् आत्मनेपददर्शनम् तत् सनन्तस्य अपि अतिदिश्यते .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {2।27} एवम् भवितुम् अर्हति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {3।27} पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {4।27} पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {5।27} गुपादीनाम् न प्राप्नोति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {6।27} जुगुप्सते मीमांसते इति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {7।27} न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {8।27} सिद्धम् तु पूर्वस्य लिङ्गातिदेशात् .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {9।27} सिद्धम् एतत् .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {10।27} कथम् .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {11।27} पूर्वस्य यत् आत्मनेपदलिङ्गम् तत् सनन्तस्य अपि अतिदिश्यते .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {12।27} कृञादिषु तु लिङ्गप्रतिषेधः .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {13।27} कृञादिषु तु लिङ्गप्रतिषेधः वक्तव्यः .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {14।27} अनुचिकीर्षति पराचिकीर्षति इति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {15।27} अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {16।27} ननु च उक्तम् पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {17।27} न एषः दोषः .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {18।27} अनुबन्धकरणसामर्थ्यात् भविष्यति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {19।27} अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {20।27} तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {21।27} यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {22।27} न एषः दोषः .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {23।27} अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {24।27} यम् समुदायम् यः अवयवः न व्यभिचरति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {25।27} सनम् च न व्यभिचरति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {26।27} णिचम् पुनः व्यभिचरति .
(प्_1,3.62.3) क_इ,288.18-289.8 रो_इइ,271-272 {27।27} तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {1।21} प्रत्ययग्रहणम् णिजर्थम् .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {2।21} प्रत्ययस्य ग्रहणम् कर्तव्यम् .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {3।21} पूर्ववत् प्रत्ययात् इति वक्तव्यम् .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {4।21} किम् प्रयोजनम् .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {5।21} णिजर्थम् .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {6।21} णिजन्तात् अपि यथा स्यात् इति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {7।21} आकुस्मयते विकुस्मयते हृणीयते महीयते इति. तत्र कः दोषः .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {8।21} तत्र हेतुमण्णिचः प्रतिषेधः .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {9।21} तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {10।21} आसयति शाययति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {11।21} सूत्रम् च भिद्यते .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {12।21} यथान्यासम् एव अस्तु .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {13।21} कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति. अनुबन्धकरणसामर्थ्यात् भविष्यति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {14।21} अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {15।21} तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {16।21} यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति हृणीययति महीययति अत्र अपि प्राप्नोति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {17।21} अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {18।21} यम् समुदायम् यः अवयवः न व्यभिचरति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {19।21} यकम् च न व्यभिचरति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {20।21} णिचम् तु व्यभिचरति .
(प्_1,3.62.4) क_इ,289.9-21 रो_इइ,273 {21।21} तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {1।23} कृञ्ग्रहणम् किमर्थम् .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {2।23} इह मा भूत् .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {3।23} ईहामास ईहामासतुः ईहामासुः .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {4।23} कथम् च अत्र अस्तेः अनुप्रयोगः भवति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {5।23} प्रत्याहारग्रहणम् तत्र विज्ञायते .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {6।23} कथम् पुनः ज्ञायते तत्र प्रत्याहारग्रहणम् इति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {7।23} इह कृञ्ग्रहणात् .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {8।23} इह कस्मात् प्रत्याहारग्रहणम् न भवति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {9।23} इह एव कृञ्ग्रहणात् .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {10।23} अथ इह कस्मात् न भवति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {11।23} उदुम्भाम् चकार उदुब्जाम् चकार .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {12।23} ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् पश्यामः .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {13।23} न ब्रूमः अनेन इति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {14।23} किम् तर्हि .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {15।23} स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {16।23} न एषः दोषः .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {17।23} इह नियमार्थम् भविष्यति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {18।23} आम्प्रत्ययवत् एव इति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {19।23} यदि नियमार्थम् विधिः न प्रकल्पते .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {20।23} ईहाम् चक्रे ऊहाम् चक्रे इति .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {21।23} विधिः च प्रकॢप्तः .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {22।23} कथम् पूर्ववत् इति वर्तते .
(प्_1,3.63) क_इ,289.23-290.6 रो_इइ,274 {23।23} आम्प्रत्ययवत् पूर्ववत् च इति .
(प्_1,3.64) क_इ,290.8-9 रो_इइ,275 {1।4} स्वराद्युपसृष्टात् इति वक्तव्यम् .
(प्_1,3.64) क_इ,290.8-9 रो_इइ,275 {2।4} उद्युङ्क्ते अनुयुङ्क्ते .
(प्_1,3.64) क_इ,290.8-9 रो_इइ,275 {3।4} अपरः आह : स्वराद्यन्तोपसृष्टात् इति वक्तयम् .
(प्_1,3.64) क_इ,290.8-9 रो_इइ,275 {4।4} प्रयुङ्क्ते नियुङ्क्ते निनियुङ्क्ते .
(प्_1,3.65) क_इ,290.11-13 रो_इइ,275 {1।4} किमर्थम् विदेशस्थस्य ग्रहणम् क्रियते न समः गमादिषु एव उच्येत .
(प्_1,3.65) क_इ,290.11-13 रो_इइ,275 {2।4} समः क्ष्णुवः सकर्मकार्थम् .
(प्_1,3.65) क_इ,290.11-13 रो_इइ,275 {3।4} सकर्मकार्थः अयम् आरम्भः .
(प्_1,3.65) क_इ,290.11-13 रो_इइ,275 {4।4} अकर्मकात् इति हि तत्र अनुवर्तते
(प्_1,3.66) क_इ,290.15-17 रो_इइ,275 {1।7} अनवनकौटिल्ययोः इति वक्तव्यम् .
(प्_1,3.66) क_इ,290.15-17 रो_इइ,275 {2।7} इह अपि यथा स्यात् .
(प्_1,3.66) क_इ,290.15-17 रो_इइ,275 {3।7} प्रभुजति वाससी निभुजति जानुशिरसी इति .
(प्_1,3.66) क_इ,290.15-17 रो_इइ,275 {4।7} तत् तर्हि वक्तव्यम् .
(प्_1,3.66) क_इ,290.15-17 रो_इइ,275 {5।7} न वक्तव्यम् .
(प्_1,3.66) क_इ,290.15-17 रो_इइ,275 {6।7} यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् .
(प्_1,3.66) क_इ,290.15-17 रो_इइ,275 {7।7} न च अस्य भुजेः अवनम् अनवनम् च अर्थः
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {1।59} णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः णेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {2।59} इतरथा हि सर्वप्रसङ्गः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {3।59} इतरथा हि सर्वत्र प्रसङ्गः स्यात् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {4।59} इह अपि प्रसज्येत : आरोहन्ति हस्तिनम् हस्तिपकाः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {5।59} आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {6।59} तत् तर्हि वक्तव्यम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {7।59} न वक्तव्यम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {8।59} कस्मात् न भवति : आरोहन्ति हस्तिनम् हस्तिपकाः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {9।59} आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {10।59} एवम् वक्ष्यामि .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {11।59} णेः आत्मनेपदम् भवति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {12।59} ततः अणौ यत् कर्म णौ चेत् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {13।59} अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {14।59} ततः सः कर्ता .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {15।59} कर्ता चेत् सः भवति णौ इति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {16।59} यदि एवम् कर्मकार्यम् भवति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {17।59} तत्र कर्मकर्तृत्वात् सिद्धम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {18।59} कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् वचनम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {19।59} कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {20।59} कर्मापदिष्टौ यक्चिणौ मा भूताम् इति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {21।59} न वा यक्चिणोः प्रतिषेधात् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {22।59} न वा एषः दोषः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {23।59} किम् कारणम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {24।59} यक्चिणोः प्रतिषेधात् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {25।59} प्रतिषिध्येते अत्र यक्चिणौ .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {26।59} यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {27।59} यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {28।59} तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति : उत्पुच्छयते पुच्छम् स्वयम् एव .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {29।59} उदपुप्पुच्छत पुच्छम् स्वयम् एव .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {30।59} अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन : यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उप्सङ्ख्यानम् इति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {31।59} सः च अवश्यम् प्रतिषेधः आश्रयितव्यः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {32।59} इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {33।59} अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {34।59} गणयति गणम् गोपालकः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {35।59} गणयति गणः स्वयम् एव .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {36।59} आत्मनेपदस्य च .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {37।59} आत्मनेपदस्य च प्रतिषेधः वक्तव्यः : गणयति गणः स्वयम् एव .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {38।59} आत्मनेपदप्रतिषेधार्थम् तु .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {39।59} आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {40।59} गणयति गणः स्वयम् एव .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {41।59} इष्यते एव अत्र आत्मनेपदम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {42।59} किम् इष्यते एव आहोस्वित् प्राप्नोति अपि .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {43।59} इष्यते च प्राप्नोति च .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {44।59} कथम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {45।59} अणौ इत् कस्य इदम् णेः ग्रहणम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {46।59} यमात् णेः प्राक् कर्म कर्ता वा विद्यते .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {47।59} न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {48।59} इदम् तर्हि प्रयोजनम् : अनाध्याने इति वक्ष्यामि इति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {49।59} इह मा भूत् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {50।59} स्मरति वनगुल्मस्य कोकिलः .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {51।59} स्मरयति एनम् वनगुल्मः स्वयम् एव .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {52।59} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {53।59} कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {54।59} एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् आत्मनेपदम् इति .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {55।59} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {56।59} पश्यन्ति भृत्याः राजानम् .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {57।59} दर्शयते भृत्यान् राजा .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {58।59} दर्शयते भृत्यैः राजा .
(प्_1,3.67.1) क_इ,290.19-292.8 रो_इइ,276-284 {59।59} अत्र आत्मनेपदम् सिद्धम् भवति .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {1।14} आत्मनः कर्मत्वे प्रतिषेधः .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {2।14} आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {3।14} हन्ति आत्मानम् .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {4।14} घातयति आत्मा इति .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {5।14} सः तर्हि वक्तव्यः .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {6।14} न वा ण्यन्ते अन्यस्य कर्तृत्वात् .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {7।14} न वा वक्तव्यः .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {8।14} किम् कारणम् .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {9।14} ण्यन्ते अन्यस्य कर्तृत्वात् .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {10।14} अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {11।14} कथम् .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {12।14} द्वौ आत्मनौ अन्तरात्मा शरीरात्मा च .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {13।14} अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति .
(प्_1,3.67.2) क_इ,292.9-16 रो_इइ,285 {14।14} शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {1।30} स्वरितञितः इति किमर्थम् .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {2।30} याति वाति द्राति प्साति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {3।30} स्वरितञितः इति शक्यम् अकर्तुम् .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {4।30} कस्मात् न भवति याति वाति द्राति प्साति इति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {5।30} कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {6।30} ते एवम् विज्ञास्यामः .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {7।30} येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {8।30} न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {9।30} तथाजातीयकाः खलु आचार्येण स्वरितञितः पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {10।30} अथ अभिप्रायग्रहणम् किमर्थम् .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {11।30} स्वरितञितः कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {12।30} लूञ् लुनीते पूञ् पुनीते .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {13।30} इह न स्यात् .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {14।30} यज् यजते वप् वपते .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {15।30} अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {16।30} अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {17।30} तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {18।30} कर्त्रभिप्राये क्रियाफले इति किमर्थम् .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {19।30} पचन्ति भक्तकाराः .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {20।30} कुर्वन्ति कर्मकाराः .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {21।30} यजन्ति याजकाः .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {22।30} कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {23।30} अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रैति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {24।30} याजकाः यजन्ति गाः लप्स्यामहे इति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {25।30} कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {26।30} एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रैति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {27।30} तत्र प्रकर्षगतिः विज्ञास्यते .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {28।30} साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रैति इति .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {29।30} न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते .
(प्_1,3.72) क_इ,292.18-293.9 रो_इइ,286-290 {30।30} याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {1।29} शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {2।29} शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः वक्तव्यः .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {3।29} भिद्यते कुशूलः स्वयम् एव .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {4।29} छिद्यते रज्जुः स्वयम् एव .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {5।29} एवम् तर्हि शेषे इति वक्ष्यामि .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {6।29} सप्तम्या चेत् प्रकृतेः . सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {7।29} आस्ते शेते च्यवन्ते प्लवन्ते .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {8।29} सिद्धम् तु उभयनिर्देशात् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {9।29} सिद्धम् एतत् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {10।29} कथम् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {11।29} उभयनिर्देशः कर्तव्यः .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {12।29} शेषात् शेषे इति वक्तव्यम् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {13।29} कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {14।29} कर्तृग्रहणम् अनुपराद्यर्थम् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {15।29} अनुपराद्यर्थम् एतत् स्यात् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {16।29} इह मा भूत् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {17।29} अनुक्रियते स्वयम् एव .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {18।29} पराक्रियते स्वयम् एव इति .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {19।29} सिध्यति .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {20।29} सुत्रम् तर्हि भिद्यते .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {21।29} यथान्यासम् एव अस्तु .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {22।29} ननु च उक्तम् शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः इति .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {23।29} न एषः दोषः .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {24।29} कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {25।29} तत् प्रकृतम् इह अनुवर्तिष्यते .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {26।29} शेषात् कर्तरि कर्तरि इति .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {27।29} किम् इदम् कर्तरि कर्तरि इति .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {28।29} कर्ता एव यः कर्ता तत्र यथा स्यात् .
(प्_1,3.78) क_इ,293.11-25 रो_इइ,291-292 {29।29} कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {1।31} किमर्थम् इदम् उच्यते .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {2।31} परस्मैपदप्रतिषेधात् कृञादिषु विधानम् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {3।31} परस्मैपदप्रतिषेधात् कृञादिषु परस्मैपदम् विधीयते .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {4।31} प्रतिषिध्यते तत्र परस्मैपदम् स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {5।31} अस्ति प्रयोजनम् एतत् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {6।31} किम् तर्हि इति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {7।31} तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {8।31} तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {9।31} किम् कारणम् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {10।31} अप्रतिषिद्धत्वात् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {11।31} न हि आत्मनेपदम् प्रतिषिध्यते .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {12।31} किम् तर्हि .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {13।31} परस्मैपदम् अनेन विधीयते .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {14।31} न वा द्युतादिभ्यः वावचनात् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {15।31} न वा एषः दोषः .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {16।31} किम् कारणम् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {17।31} द्युतादिभ्यः वावचनात् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {18।31} यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् ज्ञापयति आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {19।31} आत्मनेपदनियमे वा प्रतिषेधः .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {20।31} आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {21।31} स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {22।31} अनुपराभ्याम् कृञः न इति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {23।31} सिध्यति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {24।31} सूत्रम् तर्हि भिद्यते .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {25।31} यथान्यासम् एव अस्तु .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {26।31} ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {27।31} परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {28।31} अथ वा इदम् तावत् अयम् प्रष्टव्यः .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {29।31} स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {30।31} आत्मनेपदेन बाध्यते .
(प्_1,3.79) क_इ,294.2-19 रो_इइ,292-293 {31।31} यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते .
(प्_1,3.86) क_इ,294.21 रो_इइ,294 {1।2} बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् .
(प्_1,3.86) क_इ,294.21 रो_इइ,294 {2।2} सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {1।23} अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {2।23} अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {3।23} इह अपि यथा स्यात् : चेतयमाणम् प्रयोजयति चेतयति इति .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {4।23} यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {5।23} अकर्मकग्रहणम् अण्यन्तविशेषणम् यथा विज्ञायेत .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {6।23} अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् विशेषणम् स्यात् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {7।23} णेः इति वर्तते .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {8।23} ण्यन्तविशेषणम् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {9।23} तत्र कः दोषः .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {10।23} इह एव स्यात् : चेतयमानम् प्रयोजयति चेतयति इति .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {11।23} इह न स्यात् : आसयति शाययति इति .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {12।23} सिद्धम् तु अतस्मिन् णौ इति वचनात् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {13।23} सिद्धम् एतत् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {14।23} कथम् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {15।23} अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {16।23} सिध्यति .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {17।23} सूत्रम् तर्हि भिद्यते .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {18।23} यथान्यासम् एव अस्तु .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {19।23} ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {20।23} न एषः दोषः .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {21।23} अणौ इति कस्य इदम् णेः ग्रहणम् .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {22।23} यस्माण् णेः प्राक् कर्म कर्ता वा विद्यते .
(प्_1,3.88) क_इ,294.23-295.10 रो_इइ,294-295 {23।23} न च एतस्माण् णेअः प्राक् कर्म कर्ता वा विद्यते .
(प्_1,3.89) क_इ,295.13-14 रो_इइ,295-296 {1।3} पादिषु धेटः उपसङ्ख्यानम् .
(प्_1,3.89) क_इ,295.13-14 रो_इइ,295-296 {2।3} पादिषु धेटः उपसङ्ख्यानम् कर्तव्यम् .
(प्_1,3.89) क_इ,295.13-14 रो_इइ,295-296 {3।3} धापयते शिशुमेक समीची .
(प्_1,3.93) क_इ,295.16-19 रो_इइ,296. {1।5} किमर्थः चकारः .
(प्_1,3.93) क_इ,295.16-19 रो_इइ,296. {2।5} स्यसनोः इति एतत् अनुकृष्यते .
(प्_1,3.93) क_इ,295.16-19 रो_इइ,296. {3।5} यदि तर्हि न अन्तरेण चकारम् अनुङ्र्त्तिः भवति द्युद्भ्यः लुङि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः .
(प्_1,3.93) क_इ,295.16-19 रो_इइ,296. {4।5} अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण .
(प्_1,3.93) क_इ,295.16-19 रो_इइ,296. {5।5} एवम् सर्वे चकाराः प्रत्याख्यायन्ते.
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {1।17} किमर्थम् इदम् उच्यते .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {2।17} अन्यत्र सञ्ज्ञासमावेशान्नियमार्थम् वचनम् .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {3।17} अन्यत्र सञ्ज्ञासमावेशः भवति .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {4।17} क्वान्यत्र .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {5।17} लोके व्याकरणे च .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {6।17} लोके तावत् .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {7।17} इन्द्रः शक्रः पुरुहूतः पुरन्दरः .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {8।17} कन्दुः कोष्ठः कुशूलः इति .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {9।17} एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {10।17} व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानाम् समावेशः भवति .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {11।17} पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {12।17} अन्यत्र सञ्ज्ञासमावेशात् एतस्मात् कारणात् आ कडारात् अपि सञ्ज्ञानाम् समावेशः प्राप्नोति .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {13।17} इष्यते च एका एव सञ्ज्ञा स्यात् इति .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {14।17} तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {15।17} एवमर्थम् इदम् उच्यते .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {16।17} अस्ति प्रयोजनम् एतत् .
(प्_1,4.1.1) क_इ,296.2-10 रो_इइ,297-298 {17।17} किम् तर्हि इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {1।162} कथम् त्वेतत्सूत्रम् पठितव्यम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {2।162} किम् आ कडारात् एका सञ्ज्ञा इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {3।162} कुतः पुनः अयम् सन्देहः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {4।162} उभयथा हि आचार्येण शिष्याः सूत्रम् प्रतिपादिताः : केचित् आ कडारात् एका सञ्ज्ञा इति , केचित् प्राक् कडारात् परम् कार्यम् इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {5।162} कः च अत्र विशेषः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {6।162} तत्र एकसञ्ज्ञाधिकारे तद्वचनम् . तत्र एकसञ्ज्ञाधिकारे तत् वक्तव्यम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {7।162} किम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {8।162} एका सञ्ज्ञा भवति इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {9।162} ननु च यस्य अपि परङ्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {10।162} परार्थम् मम भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {11।162} विप्रतिषेधे च इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {12।162} मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {13।162} सरूपाणाम् एकशेषः एकविभक्तौ इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {14।162} सञ्ज्ञाधिकारः च अयम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {15।162} तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {16।162} तत्र एतावत् वाच्यम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {17।162} आ कडारात् एका .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {18।162} किम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {19।162} एका सञ्ज्ञा भवति इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {20।162} अङ्गसञ्ज्ञया भपदसञ्ज्ञयोः असमावेशः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {21।162} अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {22।162} सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {23।162} बाभ्रव्यः माण्डव्य इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {24।162} अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयाताम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {25।162} परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {26।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {27।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {28।162} पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {29।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {30।162} एवम् स वक्ष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {31।162} यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदम् नः क्ये सिति च .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {32।162} स्वादिषु असर्वनामस्थाने यचि भम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {33।162} तस्य अन्ते प्रत्यये अङ्गमिति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {34।162} तत्र आरम्भसामर्थ्याच् च भपदसञ्ज्ञे परङ्कार्यत्वात् च अङ्गसञ्ज्ञा भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {35।162} ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {36।162} कथम् .अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {37।162} पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {38।162} कर्मधारयत्वे तत्पुरुषग्रहणम् . कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {39।162} तत्पुरुषः समानाधिकरणः कर्मधारयः इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {40।162} एकसञ्ज्ञाधिकारः इति चोदितम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {41।162} अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {42।162} परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {43।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {44।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {45।162} पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {46।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {47।162} एवम् स वक्ष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {48।162} पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {49।162} एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {50।162} तत्र आरम्भसामर्थ्यात् च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {51।162} ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {52।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {53।162} अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {54।162} पर्यायः प्रसज्येत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {55।162} एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {56।162} तत्पुरुषत्वे द्विगुचग्रहणम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {57।162} तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {58।162} तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {59।162} अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {60।162} परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {61।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {62।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {63।162} पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा. कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {64।162} एवं स वक्ष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {65।162} तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {66।162} एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {67।162} तत्र आरम्भसामर्थ्यात् च द्विगुसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {68।162} ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {69।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {70।162} अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {71।162} पर्यायः प्रसज्येत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {72।162} एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {73।162} गतिदिवःकर्महेतुमत्सु चग्रहणम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {74।162} गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {75।162} उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {76।162} अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञाम् बाधेत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {77।162} परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {78।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {79।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {80।162} पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {81।162} अत्र आरम्भसामर्थ्यात् च उपसर्गसञ्ज्ञा परङ्कार्यत्वात् च गतिसञ्ज्ञा भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {82।162} ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {83।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {84।162} अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {85।162} पर्यायः प्रसज्येत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {86।162} एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {87।162} गतिसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {88।162} सावकाशा गतिसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {89।162} कः अवकाशः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {90।162} ऊर्यादीनि अवकाशः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {91।162} प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {92।162} गति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {93।162} दिवः कर्म .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {94।162} साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {95।162} अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञाम् बाधेत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {96।162} परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {97।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {98।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {99।162} पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {100।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {101।162} एवम् स वक्ष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {102।162} दिवः साधकतमम् कर्म .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {103।162} ततः करणम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {104।162} करणसञ्ज्ञाम् च भवति साधकतमम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {105।162} दिव इति निवृत्तम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {106।162} तत्र आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा परङ्कार्यत्वात् च करणसञ्ज्ञा भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {107।162} ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {108।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {109।162} अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {110।162} पर्यायः प्रसज्येत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {111।162} एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {112।162} दिवः कर्म .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {113।162} हेतुमत् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {114।162} स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {115।162} अक्रियमाणे हि चकारे अनवकाशा हेतुसञ्ज्ञा कर्तृसञ्ज्ञाम् बाधेत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {116।162} परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {117।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोर्भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {118।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {119।162} पूर्वा तस्य हेतुसञ्ज्ञा परा कर्तृसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {120।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {121।162} एवम् स वक्ष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {122।162} स्वतन्त्रः प्रयोजकः हेतुः इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {123।162} ततः कर्ता .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {124।162} कर्तृसञ्ज्ञः च भवति स्वतन्त्रः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {125।162} प्रयोजकः इति निवृत्तम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {126।162} तत्र आरम्भसामर्थ्यात् च हेतुसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {127।162} ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि कर्तृसञ्ज्ञापूर्विका हेतुसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {128।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {129।162} अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {130।162} पर्यायः प्रसज्येत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {131।162} एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {132।162} गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {133।162} गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे बाधेयाताम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {134।162} गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {135।162} परवचने हि नियमानुपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {136।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {137।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {138।162} पूर्वे तस्य नदीघिसञ्ज्ञे परे गुरुलघुसञ्ज्ञे .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {139।162} तत्र आरम्भसामर्थ्यात् च नदीघिसञ्ज्ञे परङ्कार्यत्वात् च गुरुलघुसञ्ज्ञे भविष्यतः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {140।162} ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि नदीघिसंघिसञ्ज्ञापूर्विके गुरुलघुसञ्ज्ञे .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {141।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {142।162} अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {143।162} पर्यायः प्रसज्येत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {144।162} एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {145।162} परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा . परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा बाधेत .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {146।162} परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {147।162} यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः सञ्ज्ञयोः भावः सिद्धः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {148।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {149।162} पूर्वा तस्य पुरुषसञ्ज्ञा परा परस्मैपदसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {150।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {151।162} एवं स वक्ष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {152।162} तिङः त्रीणि त्रीणि प्रथममध्योत्तमाः इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {153।162} एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {154।162} तत्र आरम्भसामार्थ्यात् च पुरुषसञ्ज्ञा परङ्कार्यत्वात् च परस्मैपदसञ्ज्ञा भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {155।162} ननु च यस्य अपि एकसञ्ज्ञाधिकरः तस्य अपि परस्मैपदसञ्ज्ञापूर्विका पुरुषसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {156।162} कथम् .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {157।162} अनुवृत्तिः क्रियते .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {158।162} पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {159।162} परस्मैपदसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {160।162} सावकाशा परस्मैपदसञ्ज्ञा .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {161।162} कः अवकाशः .
(प्_1,4.1.2) क_इ,296.11-299.20 रो_इइ,298-308 {162।162} शतृक्वसू अवकाशः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {1।73} परवचने सिति पदं भम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {2।73} परवचने सिति पदम् भसञ्ज्ञमपि प्राप्नोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {3।73} अयम् ते योनिः ऋत्वियः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {4।73} प्रजम् विन्दाम ऋत्विजयाम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {5।73} आरम्भसामर्थ्यात् च पदसञ्ज्ञा परङ्कार्यत्वात् च भसञ्ज्ञा प्राप्नोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {6।73} गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {7।73} गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् अपि प्राप्नोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {8।73} आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा प्राप्नोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {9।73} न एषः दोषः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {10।73} आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायाम् कर्तृसञ्ज्ञा भवति इति यत् अयम् हृक्रोः अन्यतरस्याम् इति अन्तरस्याङ्ग्रहणम् करोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {11।73} शेषवचनम् च घिसञ्ज्ञानिवृत्त्यर्थम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {12।73} शेषग्रहणम् च कर्तव्यम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {13।73} शेषः घि असखि इति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {14।73} किम् प्रयोजनम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {15।73} घिसाञ्ज्ञानिवृत्त्यर्थम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {16।73} नदीसञ्ज्ञायाम् घिसञ्ज्ञा मा भूत् इति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {17।73} शकट्यै पद्धत्यै बुद्धयै धेन्वै .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {18।73} इतरथा हि परङ्कार्यत्वात् च घिसञ्ज्ञा आरम्भसामर्थ्यात् च ङिति ह्रस्वः च इति नदीसञ्ज्ञा .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {19।73} न वा असम्भवात् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {20।73} न वा असम्भवात् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {21।73} न वा कर्तव्यम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {22।73} नदीसञ्ज्ञायाम् घिसञ्ज्ञा कस्मात् न भवति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {23।73} असम्भवात् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {24।73} कः असौ असम्भवः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {25।73} ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {26।73} ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणेन भवितव्यम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {27।73} तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञाभावः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {28।73} तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञा न भविष्यति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {29।73} किम् कारणम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {30।73} आश्रयाभावात् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {31।73} आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् यणादेशाभावः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {32।73} आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् एवम् उच्यते यणादेशः अपि न प्राप्नोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {33।73} न एषः दोषः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {34।73} नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञाभावः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {35।73} नद्याश्रयः यणादेशः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {36।73} यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालम् यणादेशेन भवितव्यम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {37।73} नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {38।73} बहुव्रीह्यर्थम् तु . बह्व्रीहिप्रतिषेधार्थम् तु शेषग्रहणम् कर्तव्यम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {39।73} शेषः बवुव्रीहिः इति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {40।73} किं प्रयोजनम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {41।73} प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु . अव्ययीभावे .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {42।73} उन्मत्तगङ्गम् लोहितगङ्गम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {43।73} उपमाने .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {44।73} शस्त्रीश्यामा कुमुदश्येनी .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {45।73} द्विगु .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {46।73} पञ्चगवम् दशगवम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {47।73} कृल्लोपे .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {48।73} निष्कौशाम्बिः निर्वाराणसिः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {49।73} तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहिप्रतिषेधः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {50।73} तत्र शेषवचनात् दोषः भवति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {51।73} सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {52।73} सङ्ख्या .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {53।73} द्वीरावतीकः देशः त्रीरावतीकः देशः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {54।73} समानाधिकरण .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {55।73} वीर्पुरुषकः ग्रामः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {56।73} नञ्समासे .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {57।73} अब्राह्मणकः देशः अवृषलकः देशः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {58।73} कृल्लोपे च शेषवचनात् प्रादिभिः न बहुव्रीहिः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {59।73} कृल्लोपे च शेषवचनात् प्रादिभिः न प्राप्नोति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {60।73} प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {61।73} अथ एकसञ्ज्ञाधिकारे कथम् सिध्यति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {62।73} एकसञ्ज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {63।73} एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः भविष्यति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {64।73} एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {65।73} एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {66।73} निष्कौशाम्बिः निर्वाराणसिः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {67।73} तत्पुरुषः अत्र बाधकः भविष्यति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {68।73} तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः . तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {69।73} प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {70।73} सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {71।73} सिद्धमेतत् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {72।73} कथम् .
(प्_1,4.1.3) क_इ,299.21-301.20 रो_इइ,308-313 {73।73} प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {1।48} कानि पुनः अस्य योगस्य प्रयोजनानि .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {2।48} प्रयोजनम् ह्रस्वसञ्ज्ञाम् दीर्घप्लुतौ .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {3।48} ह्रस्वसञ्ज्ञाम् दीर्घप्लुतसञ्ज्ञे बाधेते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {4।48} तिङ्सार्वधातुकम् लिङ्लिटोः आर्धधातुकम् .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {5।48} तिङः सार्वधातुकसञ्ज्ञाम् लिङ्लिटोःआर्धधातुसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {6।48} अपत्यम् वृद्धम् युवा .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {7।48} अपत्यम् वृद्धम् यवुसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {8।48} घिम् नदी .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {9।48} घिसञ्ज्ञाम् नदीसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {10।48} लघु गुरु .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {11।48} लघुसञ्ज्ञाम् गुरुसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {12।48} पदम् भम् .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {13।48} पदसञ्ज्ञाम् भसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {14।48} अपादाद्नम् उत्तराणि धनुषा विध्यति कंसपात्र्याम् भुङ्क्ते गाम् दोग्धि धनुः विध्यति इति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {15।48} अपादानसञ्ज्ञाम् उत्तराणि कारकाणि बाधन्ते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {16।48} क्व .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {17।48} धनुषा विध्यति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {18।48} कंसपात्र्याम् भुङ्क्ते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {19।48} गाम् दोग्धि .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {20।48} धनुः विध्यति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {21।48} धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति अपादानसञ्ज्ञा प्राप्नोति साधकतमम् करणम् इति च करणसञ्ज्ञा .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {22।48} करणसञ्ज्ञा परा सा भवति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {23।48} कंसपात्र्याम् भुङ्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणम् इति च अधिकरणसञ्ज्ञा .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {24।48} अधिकरणसञ्ज्ञा परा सा भवति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {25।48} गाम् दोग्धि इति अत्र अपायुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमम् कर्म .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {26।48} इति च कर्मसञ्ज्ञा .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {27।48} कर्मसञ्ज्ञा परा सा भवति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {28।48} धनुः विध्यति इति अत्र अपाययुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {29।48} कर्तृसञ्ज्ञा परा सा भवति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {30।48} क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् . क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञाम् बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {31।48} करणम् पराणि साधु असिः छिनत्ति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {32।48} करणसञ्ज्ञाम् पराणि आणि बाधन्ते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {33।48} क्व .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {34।48} धनुः विध्यति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {35।48} असिः छिनत्ति इति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {36।48} अधिकरणम् कर्म गेहम् प्रविशति . अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {37।48} क्व .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {38।48} गेहम् प्रविशति इति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {39।48} अधिकरणम् कर्ता स्थाली पचति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {40।48} अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {41।48} क्व .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {42।48} स्थाली पचति इति .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {43।48} अध्युपसृष्टम् कर्म . अध्युपसृष्टम् कर्म अधिकरणसञ्ज्ञाम् बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {44।48} गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {45।48} गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {46।48} परस्मैपदम् आत्मनेपदम् . परस्मैपदसञ्ज्ञाम् आत्मनेपदसञ्ज्ञा बाधते .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {47।48} समाससञ्ज्ञाः च .
(प्_1,4.1.4) क_इ,301.21-303.14 रो_इइ,313-317 {48।48} समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {1।27} अर्थवत् प्रातिपदिकम् . अर्थवत् प्रातिपदिकसञ्ज्ञम् भवति .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {2।27} गुणवचनम् च .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {3।27} गुणवचनसञ्ज्ञम् च भवति अर्थवत् .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {4।27} समासकृत्तद्धिताव्ययसर्वनाम असर्वलिङ्गा जातिः .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {5।27} 41॥समास । समाससञ्ज्ञा च वक्तव्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {6।27} कृत् .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {7।27} कृत्सञ्ज्ञा च वक्तव्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {8।27} तद्धित .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {9।27} तद्धितसञ्ज्ञा च वक्तव्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {10।27} अव्यय .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {11।27} अव्ययसञ्ज्ञा च वक्तव्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {12।27} सर्वनाम .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {13।27} सर्वनामसञ्ज्ञा च वक्तव्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {14।27} असर्वलिङ्गा जातिः इति एतत् च वक्तव्यम् .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {15।27} सङ्ख्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {16।27} सङ्ख्यासञ्ज्ञा च वक्तव्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {17।27} डु च .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {18।27} डुसञ्ज्ञा च वक्तव्या .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {19।27} का पुनः डुसञ्ज्ञा .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {20।27} षट्सञ्ज्ञा .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {21।27} एकद्रव्योपनिवेशिनी सञ्ज्ञा .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {22।27} एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत् च वक्तव्यम् .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {23।27} किमर्थम् इदमुच्यते .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {24।27} यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {25।27} सन्ति च एव अत्र काः चित् अपूर्वाः सञ्ज्ञाः .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {26।27} अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् .
(प्_1,4.1.5) क_इ,303.15-304.9 रो_इइ,317-319 {27।27} गुणवचनसञ्ज्ञायाः च एताभिः बाधनम् यथा स्यात् इति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {1।86} विप्रतिषेधः इति कः अयम् शब्दः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {2।86} विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {3।86} इतरेतरप्रतिषेधः विप्रतिषेधः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {4।86} अन्योन्यप्रतिषेधः विप्रतिषेधः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {5।86} कः पुनः विप्रतिषेधः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {6।86} द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {7।86} द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {8।86} क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {9।86} वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {10।86} किम् च स्यात् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {11।86} एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रसङ्गः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {12।86} एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {13।86} इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {14।86} कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {15।86} न एतत् विप्रतिषिद्धम् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {16।86} यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {17।86} तृजादिभिः तुल्यम् . तृजादिभिः तुल्यम् पर्यायः प्राप्नोति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {18।86} तत् यथा तृजादयः पर्यायेण भवन्ति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {19।86} किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {20।86} अनवयप्रसङ्गात् प्रतिपदम् विधेः च .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {21।86} अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {22।86} अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {23।86} अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {24।86} किम् कारणम् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {25।86} तुल्यबलत्वात् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {26।86} तुल्यबले हि उभे शास्त्रे .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {27।86} तत् यथा .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {28।86} द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {29।86} सः तयोः पर्यायेण कार्यम् करोति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {30।86} यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {31।86} किम् पुनः कारणम् उभयोः न करोति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {32।86} यौगपद्यासम्भवात् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {33।86} न अस्ति यौगपद्येन सम्भवः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {34।86} तत्र प्रतिपत्त्यर्थम् वचनम् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {35।86} तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {36।86} तव्यदादीनाम् तु अप्रसिद्धिः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {37।86} तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {38।86} न हि किम् चित् तव्यदादिषु नियमकारि शास्त्रम् आरभ्यते येन तव्यदादयः स्युः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {39।86} यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {40।86} न एषः दोषः .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {41।86} अनवकाशाः तव्यदादयः उच्यन्ते च .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {42।86} ते वचनात् भविष्यन्ति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {43।86} यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {44।86} एतावत् इह सूत्रम् विप्रतिषेधे परम् इति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {45।86} पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {46।86} पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात् सिद्धम् इति .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {47।86} किम् पुनः इयता सूत्रेण उभयम् लभ्यम् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {48।86} लभ्यम् इति आह .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {49।86} कथम् .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {50।86} इह भवता द्वौ हेतू व्यपदिष्टौ .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {51।86} तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च .
(प्_1,4.2.1) क_इ,304.11-306.10 रो_इइ,319-325 {52।86} तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0