व्याकरणमहाभाष्य · भाग 12211228
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {16।17} कथम् तर्हि .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {17।17} णः उपदेशः अस्य सः अयम् णोपदेशः णोपदेशस्य इति
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {1।13} हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {2।13} हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {3।13} प्रहिणोति प्रमीणीते .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {4।13} वचनात् भविष्यति .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {5।13} अस्ति वचने प्रयोजनम् .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {6।13} किम् .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {7।13} प्रहिणुतः प्रमीणाति .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {8।13} सिद्धम् अचः स्थानिवत्त्वात् . सिद्धम् एतत् .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {9।13} कथम् .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {10।13} अचः स्थानिवत्त्वात् .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {11।13} स्थानिवद्भावात् अत्र णत्वम् भविष्यति .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {12।13} प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवत् इति .
(प्_8,4.15) क_इइइ,458.3-10 रो_व्,499 {13।13} दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {1।17} लोट् इति किमर्थम् .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {2।17} प्रहिमानि कुलानि .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {3।17} प्रवपानि मांसानि .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {4।17} आनि लोड्ग्रहणानर्थक्यम् अर्थवद्ग्रहणात् .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {5।17} आनि लोड्ग्रहणम् अनर्थकम् .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {6।17} किम् कारणम् .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {7।17} अर्थवद्ग्रहणात् .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {8।17} अर्थवतः आनिशब्दस्य ग्रहणम् न एषः अर्थवान् .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {9।17} अनुपसर्गात् वा . अथ वा यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् आनिशब्दम् प्रति क्रियायोगः .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {10।17} इह अपि तर्हि न प्राप्नोति .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {11।17} प्रयाणि परियाणि इति .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {12।17} अत्र अपि न आनिशब्दम् प्रति क्रियायोगः .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {13।17} आनिशब्दम् प्रति अत्र क्रियायोगः .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {14।17} कथम् .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {15।17} यत्क्रिययुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {16।17} कथम् तर्हि .
(प्_8,4.16) क_इइइ,458.11-22 रो_व्,499 {17।17} या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {1।13} नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {2।13} नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {3।13} प्रण्यगदत् परिण्यगदत् .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {4।13} आङा च इति वक्तव्यम् .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {5।13} प्रण्यागदत् .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {6।13} ननु च अयम् अट् गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {7।13} न सिध्यति .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {8।13} अङ्गस्य अट् उच्यते विकरणान्तम् च अङ्गम् सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुम् .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {9।13} एवम् तर्हि अड्व्यवाये इति वर्तते .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {10।13} क्व प्रकृतम् .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {11।13} अट्कुप्वाङ्नुम्व्यवाये अपि इति .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {12।13} तत् वै कार्यिविशेषणम् निमित्तविशेषणेन च इह अर्थः .
(प्_8,4.17) क_इइइ,459.1-10 रो_व्,500 {13।13} तत्र अपि निमित्तविशेषणम् एव
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {1।18} अन्तग्रहणम् किमर्थम् .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {2।18} अनितेः अन्तग्रहणम् सम्बुद्ध्यर्थम् .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {3।18} अनितेः अन्तग्रहणम् क्रियते सम्बुद्ध्यर्थम् .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {4।18} हे प्राण् .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {5।18} अप्ररः आह .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {6।18} अनितेः अन्तः पदान्तस्य .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {7।18} अनितेः अन्तग्रहणम् क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {8।18} यः वा तस्मात् अनन्तरः . अथ वा अयम् अन्तशब्दः अस्ति एव अवयववाची .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {9।18} तत् यथा : वस्त्रान्तः वसनान्तः इति .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {10।18} अस्ति सामीप्ये वर्तते .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {11।18} तत् यथा .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {12।18} उदकान्तम् गतः .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {13।18} उदकसमीपम् गतः इति गम्यते .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {14।18} तत् यः सामीप्ये वर्तते तस्य ग्रहणम् विज्ञायते .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {15।18} अनितेः समीपे यः रेफः तस्मात् नस्य यथा स्यात् .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {16।18} प्राणिति .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {17।18} इह मा भूत् .
(प्_8,4.19-20) क_इइइ,459.11-22 रो_व्,500-501 {18।18} पर्यनिति
(प्_8,4.21) क_इइइ,460.1-3 रो_व्,501 {1।3} साभ्यासस्य द्वयोः इष्टम् .
(प्_8,4.21) क_इइइ,460.1-3 रो_व्,501 {2।3} साभ्यासस्य द्वयोः णत्वम् इष्यते .
(प्_8,4.21) क_इइइ,460.1-3 रो_व्,501 {3।3} प्राणिणिषति
(प्_8,4.22) क_इइइ,460.4-7 रो_व्,501 {1।5} अत्पूर्वस्य इति किमर्थम् .
(प्_8,4.22) क_इइइ,460.4-7 रो_व्,501 {2।5} प्रघ्नन्ति परिघ्नन्ति .
(प्_8,4.22) क_इइइ,460.4-7 रो_व्,501 {3।5} हन्तेः अत्पूर्वस्य वचने उक्तम् .
(प्_8,4.22) क_इइइ,460.4-7 रो_व्,501 {4।5} किम् उक्तम् .
(प्_8,4.22) क_इइइ,460.4-7 रो_व्,501 {5।5} कुव्यवाये हादेशेषु प्रतिषेधः इति
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {1।12} कथम् इदम् विज्ञयते .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {2।12} ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {3।12} आहोस्वित् ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {4।12} किम् च अतः .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {5।12} यदि विज्ञयते ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतम् अत्र अपि प्राप्नोति .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {6।12} अथ विज्ञायते ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {7।12} उभयथा च प्रक्रमे दोषः भवति .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {8।12} प्र नः* मुञ्चतम् , प्र नः मुञ्चतम् .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {9।12} प्र* उ नः , प्र उ नः .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {10।12} भाविनि अपि ओति न इष्यते .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {11।12} भाविनि अपि ओकारे णत्वम् न इष्यते .
(प्_8,4.28) क_इइइ,460.8-16 रो_व्,502 {12।12} एवम् तर्हि उपसर्गात् बहुलम् इति वक्तव्यम्
(प्_8,4.29) क_इइइ,460.17-19 रो_व्,503 {1।3} कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् .
(प्_8,4.29) क_इइइ,460.17-19 रो_व्,503 {2।3} कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,4.29) क_इइइ,460.17-19 रो_व्,503 {3।3} निर्विण्णः अहम् अनेन वासेन
(प्_8,4.30) क_इइइ,461.1-7 रो_व्,503 {1।6} णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् .
(प्_8,4.30) क_इइइ,461.1-7 रो_व्,503 {2।6} णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,4.30) क_इइइ,461.1-7 रो_व्,503 {3।6} प्राप्यमाणम् प्राप्यमानम् .
(प्_8,4.30) क_इइइ,461.1-7 रो_व्,503 {4।6} तद्विधानात् सिद्धम् . विहितविशेषणम् णिग्रहणम् .
(प्_8,4.30) क_इइइ,461.1-7 रो_व्,503 {5।6} ण्यन्तात् यः विहितः इति .
(प्_8,4.30) क_इइइ,461.1-7 रो_व्,503 {6।6} अडधिकारात् वा . अथ वा अड्व्यवाये इति वर्तते
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {1।37} किमर्थम् इदम् उच्यते न कृत्यचः इति एव सिद्धम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {2।37} नियमार्थः अयम् आरम्भः .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {3।37} इजादेः एव च सनुम्कात् न अन्यस्मात् सनुम्कात् इति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {4।37} क्व मा भूत् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {5।37} प्रमङ्कनम् परिमङ्कनम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {6।37} सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {7।37} सनुमः णत्वे अवधारणस्य अप्राप्तिः .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {8।37} किम् कारणम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {9।37} विधेयभावात् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {10।37} कैमर्थक्यात् नियमः भवति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {11।37} विधेयम् न अस्ति इति कृत्वा .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {12।37} इह च अस्ति विधेयम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {13।37} किम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {14।37} ण्यन्तात् विभाषा प्राप्ता तत्र नित्यम् णत्वम् विधेयम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {15।37} तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {16।37} सिद्धम् तु प्रतिषेधाधिकारे सनुम्ग्रहणात् . सिद्धम् एतत् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {17।37} कथम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {18।37} प्रतिषेधाधिकारे सनुम्ग्रहणात् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {19।37} प्रतिषेधाधिकारे सनुम्ग्रहणम् कर्तव्यम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {20।37} न भाभूपूकमिगमिप्यायिवेपिसनुमाम् इति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {21।37} इह अपि तर्हि न प्राप्नोति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {22।37} प्रेङ्गणम् प्रेङ्गणीयम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {23।37} कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् . कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् कर्तव्यम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {24।37} सिध्यति सूत्रम् तर्हि भिद्यते .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {25।37} यथान्यासम् एव अस्तु .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {26।37} ननु च उक्तम् सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् इति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {27।37} न एषः दोषः .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {28।37} हलः इति वर्तते .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {29।37} क्व प्रकृतम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {30।37} हलश्चेजुपधात् इति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {31।37} तत् वै तत्र आदिविशेषणम् अन्तविशेषणेन च इह अर्थः .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {32।37} कथम् पुनः ज्ञायते तत्र आदिविशेषणम् इति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {33।37} इजुपधात् इति उच्यते अत्र न अर्थः अन्तविशेषणेन .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {34।37} तत्र आदिविशेषणम् सत् इह अन्तविशेषणम् भविष्यति .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {35।37} कथम् .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {36।37} इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन .
(प्_8,4.32) क_इइइ,461.8-462.6 रो_व्,503-504 {37।37} अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एतत् अनुवर्तिष्यते
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {1।9} भादिषु पूञ्ग्रहणम् .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {2।9} भादिषु पूञ्ग्रहणम् कर्तव्यम् .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {3।9} इह मा भूत् .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {4।9} प्रपवणम् सोमस्य इति .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {5।9} ण्यन्तस्य च उपसङ्ख्यनम् . ण्यन्तस्य च उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {6।9} किम् पूञः एव .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {7।9} न इति आह .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {8।9} अविशेषेण .
(प्_8,4.34) क_इइइ,462.7-12 रो_व्,505 {9।9} प्रभापनम् परिभापनम्
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {1।11} षात् पदादिपरवचनम् .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {2।11} षात्पदादिपरग्रहणम् कर्तव्यम् .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {3।11} इह एव यथा स्यात् .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {4।11} निष्पानम् दुष्पानम् .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {5।11} इह मा भूत् .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {6।11} ससर्पिष्केण सयजुष्केण .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {7।11} तत् तर्हि वक्तव्यम् .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {8।11} न वक्तव्यम् .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {9।11} न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदान्तात् इति .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {10।11} कथम् तर्हि .
(प्_8,4.35) क_इइइ,462.13-17 रो_व्,505 {11।11} पदे अन्तः पदान्तः पदान्तात् इति
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {1।8} नशेः अशः .
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {2।8} नशेः अशः इति वक्तव्यम् .
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {3।8} इह अपि यथा स्यात् .
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {4।8} प्रनङ्क्ष्यति परिनङ्क्ष्यति .
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {5।8} तत् तर्हि वक्तव्यम् .
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {6।8} न वक्तव्यम् .
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {7।8} इह नशेः षः इति इयता सिद्धम् .
(प्_8,4.36) क_इइइ,462.18-22 रो_व्,505 {8।8} सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तस्य एतत् प्रयोजनम् षान्तभूतपूर्वस्य अपि यथा स्यात्
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {1।9} पदव्यवाये अतद्धिते .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {2।9} पदव्यवाये अतद्धिते इति वक्तव्यम् .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {3।9} इह मा भूत् .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {4।9} आर्द्रगोमयेण शुष्कगोमयेण इति .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {5।9} तत् तर्हि वक्तव्यम् .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {6।9} न वक्तव्यम् .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {7।9} न एवम् विज्ञायते पदेन व्यवाये पदव्यवाये इति .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {8।9} कथम् तर्हि .
(प्_8,4.38) क_इइइ,463.1-5 रो_व्,506 {9।9} पदे व्यवायः पदव्यवायः पद्व्यवाये इति
(प्_8,4.39) क_इइइ,463.6-7 रो_व्,506 {1।1} अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः
(प्_8,4.40) क_इइइ,463.8-11 रो_व्,506 {1।5} किमर्थम् तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत .
(प्_8,4.40) क_इइइ,463.8-11 रो_व्,506 {2।5} आनन्तर्यमात्रे श्चुत्वम् यथा स्यात् .
(प्_8,4.40) क_इइइ,463.8-11 रो_व्,506 {3।5} यज्ञः राज्ञः याच्ञा .
(प्_8,4.40) क_इइइ,463.8-11 रो_व्,506 {4।5} अथ सङ्ख्यातानुदेशः कस्मात् न भवति .
(प्_8,4.40) क_इइइ,463.8-11 रो_व्,506 {5।5} आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यत् अयम् शात् प्रतिषेधम् शास्ति
(प्_8,4.41) क_इइइ,463.12-15 रो_व्,507 {1।5} किमर्थम् त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत .
(प्_8,4.41) क_इइइ,463.12-15 रो_व्,507 {2।5} आनन्तर्यमात्रे ष्टुत्वम् यथा स्यात् .
(प्_8,4.41) क_इइइ,463.12-15 रो_व्,507 {3।5} पेष्टा लेढा .
(प्_8,4.41) क_इइइ,463.12-15 रो_व्,507 {4।5} अथ सङ्ख्यातानुदेशः कस्मात् न भवति .
(प्_8,4.41) क_इइइ,463.12-15 रो_व्,507 {5।5} आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यत् अयम् तोःषि इति प्रतिषेधम् शास्ति
(प्_8,4.42) क_इइइ,463.16-18 रो_व्,507 {1।4} अनाम् इति किम् .
(प्_8,4.42) क_इइइ,463.16-18 रो_व्,507 {2।4} षण्णाम् भवति कश्यपः .
(प्_8,4.42) क_इइइ,463.16-18 रो_व्,507 {3।4} अत्यल्पम् इदम् उच्यते अनाम् इति .
(प्_8,4.42) क_इइइ,463.16-18 रो_व्,507 {4।4} अनान्नवतिनगरीणाम् च इति वक्तव्यम् : षण्णाम् , षण्णवतिः , षण्णगरी
(प्_8,4.45) क_इइइ,464.1-4 रो_व्,507 {1।4} यरः अनुनासिके प्रत्यये भाषायाम् नित्यवचनम् .
(प्_8,4.45) क_इइइ,464.1-4 रो_व्,507 {2।4} यरः अनुनासिके प्रत्यये भाषायाम् नित्यम् इति च वक्तव्यम् .
(प्_8,4.45) क_इइइ,464.1-4 रो_व्,507 {3।4} वाङ्मयम् .
(प्_8,4.45) क_इइइ,464.1-4 रो_व्,507 {4।4} त्वङ्मयम् इति
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {1।19} द्विर्वचने यणः मयः . द्विर्वचने यणः मयः इति वक्तव्यम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {2।19} किम् उदाहरणम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {3।19} यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकम् इति उदहरणम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {4।19} अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {5।19} शरः खयः .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {6।19} शरः खयः इति वक्तव्यम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {7।19} किम् उदाहरणम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {8।19} यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {9।19} अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरम् अप्स्सराः इति उदाहरणम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {10।19} अवसाने च . अवसाने च द्वे भवतः इति वक्तव्यम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {11।19} वाक्क् वाक् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {12।19} त्वक्क् त्वक् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {13।19} स्रुक्क् स्रुक् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {14।19} तत् तर्हि वक्तव्यम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {15।19} न वक्तव्यम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {16।19} न अयम् प्रसज्यप्रतिषेधः .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {17।19} अचि न इति .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {18।19} किम् तर्हि पर्युदसः अयम् .
(प्_8,4.47) क_इइइ,464.5-17 रो_व्,507-508 {19।19} यत् अन्यत् अचः इति
(प्_8,4.48) क_इइइ,464.18-20 रो_व्,508 {1।3} न आदिनि आक्रोशे पुत्रस्य इति तत्परे च .
(प्_8,4.48) क_इइइ,464.18-20 रो_व्,508 {2।3} न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यम् .
(प्_8,4.48) क_इइइ,464.18-20 रो_व्,508 {3।3} पुत्रपुत्रादिनि
(प्_8,4.48) क_इइइ,464.21-22 रो_व्,508 {1।4} वा हतजग्धपरे च .
(प्_8,4.48) क_इइइ,464.21-22 रो_व्,508 {2।4} वा हतजग्धपरे इति वक्तव्यम् .
(प्_8,4.48) क_इइइ,464.21-22 रो_व्,508 {3।4} पुत्रहती पुत्त्रहती .
(प्_8,4.48) क_इइइ,464.21-22 रो_व्,508 {4।4} पुत्रजग्धी पुत्त्रजग्धी
(प्_8,4.48) क_इइइ,465.1-3 रो_व्,508 {1।3} चयः द्वितीयाः शरि पौष्करसादेः .
(प्_8,4.48) क_इइइ,465.1-3 रो_व्,508 {2।3} चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन .
(प्_8,4.48) क_इइइ,465.1-3 रो_व्,508 {3।3} वथ्सः , ख्षीरम् , अफ्सराः
(प्_8,4.61) क_इइइ,465.4-6 रो_व्,509 {1।3} उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् .
(प्_8,4.61) क_इइइ,465.4-6 रो_व्,509 {2।3} उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,4.61) क_इइइ,465.4-6 रो_व्,509 {3।3} अघ्न्ये दूरम् उत्कन्द
(प्_8,4.61) क_इइइ,465.7 रो_व्,509 {1।2} रोगे च इति वक्तव्यम् .
(प्_8,4.61) क_इइइ,465.7 रो_व्,509 {2।2} उत्कन्दकः रोगः
(प्_8,4.63) क_इइइ,465.8-10 रो_व्,509 {1।5} छत्वम् अमि तच्छ्लोकेन तच्छ्मश्रुणा इति प्रयोजनम् .
(प्_8,4.63) क_इइइ,465.8-10 रो_व्,509 {2।5} छत्वम् अमि इति वक्तव्यम् .
(प्_8,4.63) क_इइइ,465.8-10 रो_व्,509 {3।5} किम् प्रयोजनम् .
(प्_8,4.63) क_इइइ,465.8-10 रो_व्,509 {4।5} तच्छ्लोकेन .
(प्_8,4.63) क_इइइ,465.8-10 रो_व्,509 {5।5} तच्छ्मश्रुणा इति
(प्_8,4.65) क_इइइ,465.11-15 रो_व्,509 {1।7} सवर्णग्रहणम् किमर्थम् .
(प्_8,4.65) क_इइइ,465.11-15 रो_व्,509 {2।7} झरः झरि सवर्णग्रहणम् समसङ्ख्यप्रतिषेधार्थम् .
(प्_8,4.65) क_इइइ,465.11-15 रो_व्,509 {3।7} झरः झरि सवर्णग्रहणम् क्रियते समसङ्ख्यप्रतिषेधार्थम् .
(प्_8,4.65) क_इइइ,465.11-15 रो_व्,509 {4।7} सङ्ख्यातानुदेशः मा भूत् इति .
(प्_8,4.65) क_इइइ,465.11-15 रो_व्,509 {5।7} किम् च स्यात् .
(प्_8,4.65) क_इइइ,465.11-15 रो_व्,509 {6।7} इह न स्यात् .
(प्_8,4.65) क_इइइ,465.11-15 रो_व्,509 {7।7} शिण्ढि पिण्ढि इति
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {1।51} किमर्थम् इदम् उच्यते .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {2।51} अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {3।51} किम् पुनः कारणम् विवृतः उपदिश्यते .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {4।51} आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {5।51} आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {6।51} आदेशार्थम् तावत् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {7।51} वृक्षाभ्याम् , देवदत्ता3 .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {8।51} आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {9।51} सवर्णार्थम् च .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {10।51} अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {11।51} आकारस्य तथा ह्रस्वः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {12।51} तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {13।51} अस्ति प्रयोजनम् एतत् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {14।51} किम् तर्हि इति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {15।51} अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः . अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {16।51} खट्वा माला .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {17।51} न एषः दोषः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {18।51} यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {19।51} आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् . आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {20।51} केषाम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {21।51} उदात्तानुदात्तस्वरितानुनासिकानाम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {22।51} सिद्धम् तु तपरनिर्देशात् . सिद्धम् एतत् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {23।51} कथम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {24।51} तपरनिर्देशात् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {25।51} तपरनिर्देशः कर्तव्यः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {26।51} अत् अ* इति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {27।51} अपरः आह : अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {28।51} अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः : खट्वा माला .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {29।51} न एषः दोषः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {30।51} दीर्घोच्चारणसामर्थ्यात् न भविष्यति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {31।51} इदम् तर्हि प्रयोजनम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {32।51} वृक्षाभ्याम् प्लक्षाभ्याम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {33।51} अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {34।51} इदम् तर्हि .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {35।51} अपि काकः श्येनायते .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {36।51} ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {37।51} अस्ति अन्यत् दीर्घवचने प्रयोजनम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {38।51} किम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {39।51} दधीयति मधूयति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {40।51} अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {41।51} केषाम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {42।51} उदात्तानुदात्तस्वरितानुनासिकानाम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {43।51} सिद्धम् तु तपरनिर्देशात् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {44।51} सिद्धम् एतत् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {45।51} कथम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {46।51} तपरनिर्देशात् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {47।51} तपरनिर्देशः कर्तव्यः .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {48।51} अत् अत् इति .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {49।51} एकशेषनिर्देशात् वा स्वरभिन्नानाम् भगवतः पाणिनेः सिद्धम् . एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {50।51} एकशेषनिर्देसः अयम् .
(प्_8,4.68) क_इइइ,465.16-467.3 रो_व्,509-512 {51।51} अ , अ , अ इति
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0