भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 12011220

(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {6।41} यदि अनुवर्तते सत्वम् अपि प्राप्नोति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {7।41} अथ निवृत्तम् नमस्पुरसोर्गत्योः इति अत्र सकारग्रहणम् कर्तव्यम् .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {8।41} तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {9।41} किम् च अतः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {10।41} यदि अनुवर्तते षत्वम् अपि प्राप्नोति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {11।41} अथ निवृत्तम् इदुदुपधस्य च अप्रत्यस्य इति अत्र षकारग्रहणम् कर्तव्यम् .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {12।41} तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {13।41} किम् च अतः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {14।41} यदि अनुवर्तते सत्वम् अपि प्राप्नोति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {15।41} अथ निवृत्तम् तिरसः अन्यतरस्याम् इति अत्र सकारग्रहणम् कर्तव्यम् .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {16।41} तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {17।41} किम् च अतः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {18।41} यदि अनुवर्तते षत्वम् अपि प्राप्नोति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {19।41} अथ निवृत्तम् द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यंसमासे अनुत्तरपदस्थस्य इति षकारग्रहणम् कर्तव्यम् .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {20।41} तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {21।41} किम् च अतः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {22।41} यदि अनुवर्तते सत्वम् अपि प्राप्नोति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {23।41} अथ निवृत्तम् अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इति सकारग्रहणम् कर्तव्यम् .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {24।41} यथा इच्छसि तथा अस्तु .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {25।41} अस्तु तावत् अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {26।41} ननु च उक्तम् निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {27।41} न एषः दोषः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {28।41} आचार्यप्रवृत्तिः ज्ञापयति न योगे योगः असिद्धः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {29।41} किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति यत् अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति असमासेपिग्रहणम् करोति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {30।41} अथ वा पुनः अस्तु इणः उत्तरस्य विसर्जनीयस्य षत्वम् विधीयते .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {31।41} ननु च उक्तम् सत्वम् अपि अनुवर्तते उताहो न किम् च अतः यदि अनुवर्तते सत्वम् अपि प्राप्नोति इति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {32।41} न एषः दोषः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {33।41} सम्बन्धम् अनुवर्तिष्यते .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {34।41} सः अपदादौ .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {35।41} इणःषः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {36।41} नमस्पुरसोः गत्योः सकारः इणः उत्तरस्य षकारः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {37।41} इदुदुपधस्य च अप्रत्ययस्य षकारः नमस्पुरसोः गत्योः सकारः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {38।41} तिरसः अन्यतरस्याम् सकारः इदुदुपधस्य च अप्रत्ययस्य षकारः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {39।41} द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोःसामर्थ्ये नित्यम्समासेऽनुत्तरपदस्थस्य इति षकारः तिरसः अन्यतरस्याम् सकारः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {40।41} अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {41।41} सकारः अनुवर्तते षकारग्रहणम् निवृत्तम्
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {1।12} इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {2।12} इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः वक्तव्यः .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {3।12} पुंस्कामा मुहुःकामः इति .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {4।12} वृद्धिभूतानाम् षत्वम् वक्तव्यम् .

(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {5।12} दौष्कुल्यम् नैष्पुरुष्यम् .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {6।12} प्लुतानाम् तादौ च . प्लुतानाम् तादौ च कुप्वोः च इति वक्तव्यम् .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {7।12} सर्पि3ष्टर .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {8।12} बर्ही3ष्टर नि3ष्कुल दु3ष्पुरुष .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {9।12} न वा बहिरङ्गलक्षणत्वात् . न वा वक्तव्यम् .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {10।12} किम् कारणम् .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {11।12} बहिरन्गलक्षणत्वात् वृद्धेः .
(प्_8,3.41.1) क_इइइ,434.1-10 रो_व्,456-457 {12।12} बहिरङ्गलक्षणा वृद्धिः
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {1।9} इह कस्मात् न भवति .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {2।9} पितुः करोति .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {3।9} मातुः करोति .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {4।9} अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {5।9} अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {6।9} लुप्यते अत्र प्रत्ययविसर्जनीयः रात्सस्य इति .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {7।9} एवम् तर्हि .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {8।9} भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य .
(प्_8,3.41.2) क_इइइ,434.10-16 रो_व्,457-458 {9।9} यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {1।39} द्विस्त्रिश्चतुर्ग्रहणम् किमर्थम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {2।39} इह मा भूत् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {3।39} पञ्चकृत्वः करोति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {4।39} अथ कृत्वोर्थग्रहणम् किमर्थम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {5।39} इह मा भूत् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {6।39} चतुष्कपालः चतुष्कण्टकः इति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {7।39} न एतत् अस्ति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {8।39} अस्तु एतेन विभाषा पूर्वेण नित्यः विधिः भविष्यति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {9।39} न अप्राप्ते पूर्वेण इयम् विभाषा आरभ्यते सा यथा एव इह बाधिका भवति चतुः करोति चतुष्करोति इति एवम् चतुष्कपाले अपि बाधिका स्यात् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {10।39} न अत्र पूर्वेण षत्वम् प्राप्नोति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {11।39} किम् कारणम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {12।39} अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {13।39} लुप्यते प्रत्ययविसर्जनीयः रात्सस्य इति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {14।39} तस्मात् कृत्वोर्थग्रहणम् कर्तव्यम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {15।39} द्विस्त्रिश्चतुर्ग्रहणम् शक्यमवक्तुम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {16।39} कस्मात् न भवति पञ्चकृत्वः करोति इति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {17।39} इदुदुपधस्य इति वर्तते .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {18।39} न एवम् शक्यम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {19।39} अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोऽर्थग्रहणेन विसर्जनीयः विशेष्येत .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {20।39} तत्र कः दोषः .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {21।39} इह एव स्यात् द्विष्करोति द्विः करोति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {22।39} इह न स्यात् चतुष्करोति चतुः करोति इति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {23।39} द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोऽर्थग्रहणे द्विस्त्रिश्चतुरः विशेष्यन्ते .

(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {24।39} द्विस्त्रिश्चतुर्णाम् कृत्रोऽर्थे वर्तमानानाम् यः विसर्जनीयः इति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {25।39} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {26।39} पदस्य इति वर्तते तत् कृत्वोऽर्थग्रहणेन विशेषयिष्यः .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {27।39} पदस्य कृत्वोऽर्थे वर्तमानस्य यः विसर्जनीयः इति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {28।39} कृत्वसुजर्थे षत्वम् ब्रवीति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {29।39} कस्मात् चतुष्कपाले मा .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {30।39} षत्वम् विभाषया भूत् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {31।39} ननु सिद्धम् तत्र पूर्वेण .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {32।39} सिद्धे हि अयम् विधत्ते चतुरः षत्वम् तदा अपि क्र्त्वोऽर्थे .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {33।39} लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयः हि .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {34।39} एवम् सति तु इदानीम् द्विः त्रिः चतुः इति अनेन किम् कार्यम् .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {35।39} अन्यः हि न इदुदुपधः कृत्वोऽर्थे कः चित् अपि अस्ति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {36।39} अक्रियमाणे ग्रहणे विसर्जनीयः तदा विशेष्येत .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {37।39} चतुरः न सिध्यति तदा रेफस्य विसर्जनीयः हि .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {38।39} तस्मिन् तु गृह्यमाणे युक्तम् चतुरः विशेषणम् भवति .
(प्_8,3.43) क_इइइ,434.17-18 रो_व्,458-460 {39।39} प्रकृतम् पदम् तदन्तम् तस्य अपि विशेषणम् न्याय्यम्
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {1।29} अनुत्तरपदस्थस्य इति किमर्थम् .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {2।29} परमसर्पिःकुण्डिका .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {3।29} अथ इदानीम् अनेन मुक्ते पूर्वेण षत्वम् विभाषा कस्मात् न भवति इसुसोः सामर्थ्ये इति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {4।29} नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {5।29} तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {6।29} व्यपेक्षासामर्थ्ये पूर्वयोगः न च अत्र व्यपेक्षासामर्थ्यम् .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {7।29} किम् पुनः कारणम् व्यपेक्षासामर्थ्यम् आश्रीयते न पुनः एकार्थीभावः यथा अन्यत्र .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {8।29} ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत . ऐकार्थ्ये सामर्थ्ये सति वाक्ये षत्वम् न स्यात् : सर्पिष् करोति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {9।29} सर्पिः करोति इति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {10।29} तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {11।29} अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः . यदि कृदन्तम् एतत् ततः अधिकस्य षत्वम् न प्राप्नोति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {12।29} किम् कारणम् .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {13।29} प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {14।29} वाक्ये अपि तर्हि न प्राप्नोति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {15।29} परमसर्पिष्करोति परमसर्पिः करोति इति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {16।29} वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत . यत् अयम् अनुत्तरपदस्थस्य इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वाक्ये विभाषा इति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {17।29} अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् . अथ अव्युत्पन्नम् प्रातिपदिकम् ततः नित्ये षत्वे प्राप्ते इयम् विभाषा आरभ्यते .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {18।29} सिद्धम् च मे समासे .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {19।29} षत्वम् .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {20।29} किमर्थम् तर्हि इदम् उच्यते .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {21।29} प्रतिषेधार्थः तु यत्नः अयम् . अनुत्तरपदस्थस्य इति प्रतिषेधम् वक्ष्यामि इति .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {22।29} नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {23।29} तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {24।29} ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत .

(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {25।29} तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {26।29} अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {27।29} वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {28।29} अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् .
(प्_8,3.45) क_इइइ,435.20-436.24 रो_व्,460-462 {29।29} सिद्धम् च मे समासे प्रतिषेधार्थः तु यत्नः अयम् .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {1।12} अथ मूर्धन्यग्रहणम् किमर्थम् न अपदान्तस्य षः भवति इति एव उच्येत .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {2।12} तत्र अयम् अपि अर्थः षकारग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {3।12} क्व प्रकृतम् .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {4।12} इणःषः इति .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {5।12} न एवम् शक्यम् .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {6।12} अवश्यम् मूर्धन्यग्रहणम् कर्तव्यम् इहार्थम् उत्तरार्थम् च .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {7।12} इहार्थम् तावत् .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {8।12} इणःषीध्वंलुङ्लिटाम्धोऽङ्गात् इति अत्र ंऊर्धन्यग्रहणम् न कर्तव्यम् भवति .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {9।12} उत्तरार्थम् च .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {10।12} रषाभ्यान्नोणःसमानपदे इति अत्र णकारग्रहणम् न कर्तव्यम् भवति .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {11।12} तत्र अयम् अपि अर्थः पदान्तस्य न इति प्रतिषेधः न वक्तव्यः भवति .
(प्_8,3.55) क_इइइ,436.25-437.6 रो_व्,463 {12।12} अपदान्ताभिसम्बद्धम् मूर्धन्यग्रहणम् अनुवर्तते .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {1।27} सग्रहणम् किमर्थम् न सहेः साडः मूर्धन्यः भवति इति एव उच्येत .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {2।27} सहेः साडः मूर्धन्यः भवति इति उच्यमाने अन्त्यस्य प्रसज्येत .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {3।27} ननु च अन्त्यस्य मूर्धन्यवचने प्रयोजनम् न अस्ति इति कृत्वा सकारस्य भविष्यति .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {4।27} कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सकारस्य भविष्यति .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {5।27} न पुनः आकारस्य स्यात् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {6।27} स्थने अन्तरतमः भवति इति सकारस्य भविष्यति .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {7।27} भवेत् प्रकृतितः अन्तरतमनिर्वृत्तौ सत्याम् सिद्धम् स्यात् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {8।27} आदेशतः तु अन्तरतमनिर्वृत्तौ सत्याम् आकारस्य प्रसज्येत .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {9।27} तस्मात् सकारग्रहणम् कर्तव्यम् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {10।27} उत्तरार्थम् च सकारग्रहणम् क्रियते .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {11।27} आदेशप्रत्यययोः सकारस्य यथा स्यात् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {12।27} इह मा भूत् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {13।27} चितम् , स्तुतम् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {14।27} अथ सहिग्रहणम् किमर्थम् न साडः सः भवति इति एव उच्येत .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {15।27} सहेः एव साड्रूपम् भवति न अन्यस्य .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {16।27} यदि एवं .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {17।27} साडः षत्वे समानशब्दप्रतिषेधः .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {18।27} साडः षत्वे समानशब्दानाम् प्रतिषेधः वक्तव्यः .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {19।27} साडः दण्डः. साडः वृश्चिकः इति .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {20।27} अर्थवद्ग्रहणात् सिद्धम् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {21।27} अर्थवतः साड्शब्दस्य ग्रहणम् न च एषः अर्थवान् .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {22।27} अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः . अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः वक्तव्यः .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {23।27} सह अडेन साडः साडस्य अपत्यम् साडिः अत्र प्राप्नोति .

(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {24।27} न वक्तव्यः .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {25।27} षत्वतुकोः एकादेशस्य असिद्धत्वात् न एषः साड्शब्दः .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {26।27} एवम् अपि सह डेन सडः सडस्य अपत्रम् साडिः अत्र प्राप्नोति .
(प्_8,3.56) क_इइइ,438.1-19 रो_व्,464-465 {27।27} तस्मात् सहिग्रहणम् कर्तव्यम्
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {1।24} नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {2।24} नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {3।24} निंस्से निंस्स्व इति .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {4।24} तत् तर्हि वक्तव्यम् .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {5।24} न वक्तव्यम् .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {6।24} नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {7।24} किम् वक्तव्यम् एतत् .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {8।24} न हि .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {9।24} कथम् अनुच्यमानम् गंस्यते .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {10।24} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {11।24} तत् यथा .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {12।24} गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {13।24} ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {14।24} तत् यथा .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {15।24} गर्गाः शतम् दण्ड्यन्ताम् .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {16।24} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {17।24} एवम् तर्हि .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {18।24} योगविभागात् सिद्धम् . योगविभागः करिष्यते .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {19।24} नुम्व्यवाये .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {20।24} ततः विसर्जनीयव्यवाये .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {21।24} ततः शर्व्यवाये .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {22।24} सः तर्हि योगविभागः कर्तव्यः .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {23।24} न कर्तव्यः .
(प्_8,3.57-58) क_इइइ,438.20-439.9 रो_व्,465-466 {24।24} प्रत्येकम् व्यवायशब्दः परिसमाप्यते
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {1।11} आदेशप्रत्यययोः षत्वे सरकः प्रतिषेधः . आदेशप्रत्यययोः षत्वे सरकः प्रतिषेदः वक्तव्यः : कृसरः , धूसरः .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {2।11} अत्यल्पम् इदम् उच्यते : सरकः इति .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {3।11} सरगादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : वर्सम् तर्सम् इति .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {4।11} तत् तर्हि वक्तव्यम् .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {5।11} न वक्तव्यम् .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {6।11} उणादयः अव्युत्पन्नानि प्रातिपदिकानि .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {7।11} न वै एतत् षत्वे शक्यम् विज्ञातुम् उणदयः अव्युत्पन्नानि प्रातिपदिकानि इति .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {8।11} इह हि न स्यात् .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {9।11} सर्पिषः यजुषः इति .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {10।11} एवम् तर्हि .
(प्_8,3.59.1) क_इइइ,439.10-18 रो_व्,466-467 {11।11} बहुलवचनात् सिद्धम् . बहुलम् प्रत्ययसञ्ज्ञा भवति
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {1।47} किम् पुनः इयम् अवयवषष्ठी : आदेशस्य यः सकारः प्रत्ययस्य यः सकारः इति .

(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {2।47} आहोस्वित् समानाधिकरणा : आदेशः यः सकारः प्रत्ययः यः सकारः इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {3।47} कः च अत्र विशेषः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {4।47} आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {5।47} आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः वक्तव्यः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {6।47} बिसम् बिसम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {7।47} मुसलम् मुसलम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {8।47} समानाधिकरणानाम् च अप्राप्तिः . समानाधिकरणानाम् च षत्वस्य अप्राप्तिः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {9।47} एषः , अकार्षीत् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {10।47} अस्तु तर्हि समानाधिकरणा .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {11।47} यदि समानाधिकरणा सिषेच सुष्वाप , अत्र न प्राप्नोति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {12।47} न धातुद्विर्वचने स्थाने द्विर्वचनम् शक्यम् आस्थातुम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {13।47} इह अपि हि प्रसज्येत सरीसृप्यते इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {14।47} तस्मात् तत्र द्विःप्रयोगः द्विर्वचनम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {15।47} इह तर्हि करिष्यति हरिष्यति प्रत्ययः यः सकारः इति षत्वम् न प्राप्नोति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {16।47} अस्तु तर्हि आदेशः यः सकारः प्रत्ययस्य यः सकारः इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {17।47} इह तर्हि अकार्षीत् प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {18।47} मा भूत् एवम् आदेशः यः सकारः इति एवम् भविष्यति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {19।47} इह तर्हि : जोषिषत् , मन्दिषत् इति प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {20।47} एषः अपि इटि कृते प्रत्ययस्य सकारः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {21।47} इह तर्हि इन्द्रः मा वक्षत् सः , सः देवन् यक्षत् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {22।47} नानाविभक्तीनाम् च समासानुपपत्तिः . नानाविभक्तीनाम् च समासः न उपपद्यते आदेशप्रत्यययोः इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {23।47} योगविभागात् सिद्धम् . योगविभागः करिष्यते .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {24।47} आदेशस्य षः भवति इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {25।47} ततः प्रत्ययसकारस्य षः भवति इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {26।47} स तर्हि योगविभागः कर्तव्यः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {27।47} न कर्तव्यः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {28।47} कथम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {29।47} अस्तु तावत् अवयवषष्ठी .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {30।47} ननु च उक्तम् आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {31।47} न एषः दोषः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {32।47} द्विःप्रयोगः द्विर्वचनम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {33।47} यत् अपि उच्यते समानाधिकरणानाम् च अप्राप्तिः इति व्यपदेशिवद्भावेन भविष्यति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {34।47} अथ वा पुनः अस्तु समानाधिकरणा .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {35।47} कथम् करिष्यति हरिष्यति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {36।47} आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् षत्वम् इति यत् अयम् सात्पदाद्योः इति सात्प्रतिषेधम् शास्ति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {37।47} अथ वा पुनः अस्तु आदेशः यः सकारः प्रत्ययस्य यः सकारः इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {38।47} कथम् इन्द्रः मा , वक्षत् सः देवान् यक्षत् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {39।47} व्यपदेशिवद्भावेन भविष्यति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {40।47} सः तर्हि व्यपदेशिवद्भावः वक्तव्यः .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {41।47} न वक्तव्यः .

(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {42।47} उक्तम् वा . किम् उक्तम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {43।47} तत्र व्यपदेशिवद्वचनम् एकाचः द्वे प्रथमार्थम् षत्वे च आदेशसम्प्रत्ययार्थम् अवचनात् लोकविज्ञनात् सिद्धम् इति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {44।47} यत् अपि नानाविभक्तीनाम् च समासानुपपत्तिः इति आचार्यप्रवृत्तिः ज्ञापयति नानाविभक्त्योः एषः समासः इति यत् अयम् शासिवसिघसीनाञ्च इति घसिग्रहणम् करोति .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {45।47} कथम् कृत्वा ज्ञापकम् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {46।47} यदि हि आदेशस्य यः सकारः इति एवम् स्यात् घसिग्रहणम् अनर्थकम् स्यात् .
(प्_8,3.59.2) क_इइइ,439.19-441.5 रो_व्,467-469 {47।47} पश्यति तु आचार्यः आदेशः यः सकारः तस्य षत्वम् इति ततः घसिग्रहणम् करोति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {1।35} स्तौतिणिग्रहणम् किमर्थम् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {2।35} अस्तौतिण्यन्तानाम् मा भूत् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {3।35} सिसिक्षति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {4।35} अथ एवकारः किमर्थः .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {5।35} नियमार्थः .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {6।35} स्थौतिण्यन्तानाम् एव न अन्येषाम् इति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {7।35} न एतत् अस्ति प्रयोजनम् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {8।35} सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारकरणम् नियमार्थः भविष्यति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {9।35} इष्टतः अवधारणार्थः तर्हि .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {10।35} यथा एवम् विज्ञायेत स्तौतिण्योः एव षणि इति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {11।35} मा एवम् विज्ञायि स्तौतिण्योः षणि एव इति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {12।35} इह न स्यात् तुष्टाव .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {13।35} अथ षणि इति किमर्थम् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {14।35} सेषीव्यते .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {15।35} कः विनते अनुरोधः .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {16।35} अविनते नियमः मा भूत् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {17।35} सुषुप्सति इति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {18।35} कः सानुबन्धे अनुरोधः .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {19।35} षशब्दमात्रे नियमः मा भूत् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {20।35} सुषुपिषे इन्द्रम् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {21।35} सुषुपिषे इह इति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {22।35} अभ्यासात् इति किमर्थम् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {23।35} अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् उपसर्गात् या प्राप्तिः तस्याः नियमः मा भूत् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {24।35} अभिषिषिक्षति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {25।35} न एतत् अस्ति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {26।35} असिद्धम् उपसर्गात् षत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {27।35} इदम् तर्हि प्रयोजनम् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {28।35} सनि यः अभ्यासः तस्मात् या प्राप्तिः तस्याः नियमः यथा स्यात् यङि यः अभ्यासः तस्मात् या प्राप्तिः तत्र नियमः मा भूत् इति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {29।35} सोषुप्यतेः सन् सोषुपिषते .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {30।35} अथ वा अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् धातोः या प्राप्तिः तस्याः नियमः मा भूत् .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {31।35} अधीषिषति .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {32।35} ननु च षणि इति उच्यते .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {33।35} षणि इति न एषा परसप्तमी शक्या विज्ञातुम् सन्यङन्तम् हि द्विरुच्यते .
(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {34।35} तस्मात् एषा सत्सप्तमी षणि सति इति .

(प्_8,3.61) क_इइइ,441.6-21 रो_व्,470-471 {35।35} सत्सप्तमी चेत् प्राप्नोति
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {1।13} किमर्थम् इदम् उच्यते .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {2।13} स्थादिषु अभ्यासवचनम् नियमार्थम् .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {3।13} नियमार्थः अयम् आरम्भः .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {4।13} स्थादिषु एव अभ्यासस्य यथा स्यात् .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {5।13} इह मा भूत् .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {6।13} अभिसुसूषति .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {7।13} अथ किमर्थम् अभ्यासेन च इति उच्यते .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {8।13} तद्व्यवाये च अषोपदेशार्थम् . तद्व्यवाये अभ्यासव्यवाये च अषोपदेशस्य अपि यथा स्यात् .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {9।13} अभिषिषेणयिषति .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {10।13} अवर्णार्थम् षणि प्रतिषेधार्थम् च . अवणार्थम् तवत् .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {11।13} अभितष्ठौ .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {12।13} षणि प्रतिषेधार्थम् .
(प्_8,3.64) क_इइइ,441.22-442.8 रो_व्,472 {13।13} अभिषिषिक्षति
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {1।23} उपसर्गात् षत्वे निसः उपसङ्ख्यानम् अनिणन्तत्वात् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {2।23} उपसर्गात् षत्वे निसः उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {3।23} निःषुणोति निःषिञ्चति .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {4।23} किम् पुनः कारणम् न सिध्यति .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {5।23} अनिणन्तत्वात् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {6।23} इणन्तात् उपसर्गात् षत्वम् उच्यते न च निस्* इणन्तः .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {7।23} न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषकः उपसर्गः धातुः च .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {8।23} न वा वक्तव्यम् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {9।23} किम् कारणम् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {10।23} वर्णाश्रयत्वात् षत्वस्य .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {11।23} वर्णाश्रयम् षत्वम् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {12।23} तद्विशेषकः उपसर्गः धातुः च .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {13।23} न एवम् विज्ञायते इणन्तात् उपसर्गात् इति .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {14।23} कथम् तर्हि .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {15।23} इणः उत्तरस्य सकारस्य सः चेत् इण् उपसर्गस्य सः चेत् सकारः सुनोत्यादीनाम् इति .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {16।23} तत्र शर्व्यवाये इति एव सिद्धम् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {17।23} यदि एवम् धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {18।23} तत्र कः दोषः .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {19।23} इह अपि प्राप्नोति .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {20।23} विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {21।23} धातूपसर्गयोः च अभिसम्बन्धः कृतः .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {22।23} कथम् .
(प्_8,3.65.1) क_इइइ,442.9-21 रो_व्,473-474 {23।23} सुनोत्यादिभिः अत्र उपसर्गम् विशेषयिष्यामः सुनोत्यादीनाम् यः उपसर्गः तस्य यः इण् इति
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {1।10} सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् अधिकत्वात् .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {2।10} सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {3।10} अभिषावयति .

(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {4।10} किम् कारणम् .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {5।10} अधिकत्वात् .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {6।10} व्यतिरिक्तः सुनोत्यादिः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {7।10} न वा अवयवस्य अनन्यत्वात् . न वा वक्तव्यम् .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {8।10} किम् कारणम् .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {9।10} अवयवस्य अनन्यत्वात् .
(प्_8,3.65.2) क_इइइ,442.21-443.4 रो_व्,474 {10।10} अवयवः अत्र अनन्यः
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {1।16} नामधातोः तु प्रतिषेधः .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {2।16} नामधातोः तु प्रतिषेधः वक्तव्यः .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {3।16} सावकम् इच्छति अभिसावकीयति परिसावकीयति .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {4।16} न वा अनुपसर्गत्वात् . न वा वक्तव्यः .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {5।16} किम् कारणम् .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {6।16} अनुपसर्गत्वात् .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {7।16} यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र सुनोतिम् प्रति क्रियायोगः .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {8।16} किम् तर्हि सावकीयतिम् प्रति .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {9।16} इह अपि तर्हि न प्राप्नोति : अभिषावयति .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {10।16} अत्र अपि न सुनोतिम् प्रति क्रियायोगः .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {11।16} किम् तर्हि सावयतिम् प्रति .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {12।16} सुनोतिम् प्रति अत्र क्रियायोगः .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {13।16} कथम् .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {14।16} न असौ एवम् प्रेष्यते सुनु अभि इति .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {15।16} किम् तर्हि .
(प्_8,3.65.3) क_इइइ,443.5-443.12 रो_व्,474-475 {16।16} उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते अभिषुणु इति
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {1।12} अप्रतेः इति वर्तते उताहो निवृत्तम् .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {2।12} निवृत्तम् इति आह .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {3।12} कथम् ज्ञायते .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {4।12} योगविभागकरणसामर्थ्यात् .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {5।12} इतरथा हि सदिस्तम्भ्योः अप्रतेः इति एव ब्रूयात् .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {6।12} अस्ति अन्यत् योगविभागकरणे प्रयोजनम् .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {7।12} किम् .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {8।12} अवाच्चालम्बनाविदूर्वयोः इति वक्ष्यति तत् स्तम्भेः एव यथा स्यात् सदेः मा भूत् इति .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {9।12} न एतत् अस्ति प्रयोजनम् .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {10।12} एकयोगे अपि सति यस्य आलम्बनाविदूर्ये स्तः तस्य भविष्यति .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {11।12} कस्य च आलम्बनाविदूर्ये स्तः .
(प्_8,3.67) क_इइइ,443.13-18 रो_व्,475 {12।12} स्तम्भेः एव
(प्_8,3.72) क_इइइ,443.19-23 रो_व्,475 {1।7} अथ यः प्राणी अप्राणी च कथम् तत्र भवितव्यम् .
(प्_8,3.72) क_इइइ,443.19-23 रो_व्,475 {2।7} अनुष्यन्देते मत्स्योदके इति .
(प्_8,3.72) क_इइइ,443.19-23 रो_व्,475 {3।7} आहोस्वित् अनुस्यन्देते मत्स्योदके इति .
(प्_8,3.72) क_इइइ,443.19-23 रो_व्,475 {4।7} यदि तावत् अप्राणी विधिना आश्रीयते अस्ति अत्र अप्राणी इति कृत्वा भवितव्यम् षत्वेन .
(प्_8,3.72) क_इइइ,443.19-23 रो_व्,475 {5।7} अथ प्राणी प्रतिषेधेन आश्रीयते अस्ति अत्र प्राणी इति कृत्वा भवितव्यम् प्रतिषेएधेन .

(प्_8,3.72) क_इइइ,443.19-23 रो_व्,475 {6।7} किम् पुनः अत्र अर्थसतत्त्वम् .
(प्_8,3.72) क_इइइ,443.19-23 रो_व्,475 {7।7} देवाः ज्ञातुम् अर्हन्ति
(प्_8,3.74) क_इइइ,444.1-4 रो_व्,476 {1।5} अनिष्ठायाम् इति वर्तते उताहो निवृत्तम् .
(प्_8,3.74) क_इइइ,444.1-4 रो_व्,476 {2।5} निवृत्तम् इति आह .
(प्_8,3.74) क_इइइ,444.1-4 रो_व्,476 {3।5} कथम् ज्ञायते .
(प्_8,3.74) क_इइइ,444.1-4 रो_व्,476 {4।5} योगविभागकरणसामर्थ्यात् .
(प्_8,3.74) क_इइइ,444.1-4 रो_व्,476 {5।5} इतरथा हि विपरिभ्याम् च स्कन्देः अनिष्ठायाम् इति एव ब्रूयात्
(प्_8,3.78-79) क_इइइ,444.5-9 रो_व्,476 {1।4} इण्ग्रहणम् किमर्थम् .
(प्_8,3.78-79) क_इइइ,444.5-9 रो_व्,476 {2।4} इण्ग्रहणम् ढत्वे कवर्गनिवृत्त्यर्थम् .
(प्_8,3.78-79) क_इइइ,444.5-9 रो_व्,476 {3।4} इण्घ्रहणम् क्रियते कवर्गात् ढत्वम् मा भूत् इति .
(प्_8,3.78-79) क_इइइ,444.5-9 रो_व्,476 {4।4} पक्षीध्वम् यक्षीध्वम्
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {1।45} किम् पुनः इदम् इण्ग्रहणम् प्रत्ययविशेषणम् : इणः उत्तरेषाम् षीध्वंलुङ्लिटाम् यः धकारः इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {2।45} आहोस्वित् धकारविशेषणम् : इणः उत्तरस्य धकारस्य सः चेत् षीध्वंलुङ्लिटाम् धकारः इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {3।45} कः च अत्र विशेषः .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {4।45} तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् . तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् न प्राप्नोति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {5।45} लुलुविढ्वे लुलुविध्वे इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {6।45} किम् कारणम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {7।45} परादित्वात् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {8।45} इट् परादिः .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {9।45} वचनात् भविष्यति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {10।45} अस्ति वचने प्रयोजनम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {11।45} किम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {12।45} अलविढ्वम् अलविध्वम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {13।45} अस्तु तर्हि धकारविशेषणम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {14।45} धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {15।45} धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषा न प्राप्नोति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {16।45} लविषीढ्वम् लविषीध्वम् इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {17।45} वचनात् भविष्यति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {18।45} अस्ति वचने प्रयोजनम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {19।45} किम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {20।45} लुलुविढ्वे लुलुविध्वे इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {21।45} इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः . इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वम् प्राप्नोति : पक्षीध्वम् , यक्षीध्वम् इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {22।45} न एषः दोषः .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {23।45} अङ्गात् इति वक्ष्यामि .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {24।45} अङ्गग्रहणात् च दोषः .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {25।45} इह न प्राप्नोति : उपदिदीयिध्वे , उपदिदीयिढ्वे .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {26।45} यः हि अत्र अङ्गान्त्यः इण् न तस्मात् उत्तरः इट् यस्मात् च उत्तरः इट् न असौ अङ्गान्त्यः इण् इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {27।45} यथा इच्छसि तथा अस्तु .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {28।45} अस्तु तावत् प्रत्ययविशेषणम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {29।45} ननु च उक्तम् तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् लुलुविढ्वे लुलुविध्वे इति .

(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {30।45} वचनात् भविष्यति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {31।45} ननु च उक्तम् अस्ति वचने प्रयोजनम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {32।45} किम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {33।45} अलविढ्वम् अलविध्वम् इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {34।45} यत् एतस्मिन् योगे लिड्ग्रहणम् तदनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {35।45} अथ वा पुनः अस्तु धकारविशेषणम् इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {36।45} ननु च उक्तम् धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः लविषीढ्वम् लविषीध्वम् इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {37।45} वचनात् भविष्यति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {38।45} ननु च उक्तम् अस्ति वचने प्रयोजनम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {39।45} किम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {40।45} लुलुविढ्वे लुलुविध्वे इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {41।45} यत् एतस्मिन् योगे षीध्वङ्ग्रहणम् तत् अनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {42।45} यत् अपि उच्यते इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः इति अङ्गात् इति वक्ष्यामि .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {43।45} ननु च उक्तम् अङ्गग्रहणात् च दोषः इति .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {44।45} पूर्वस्मिन् योगे यत् अङ्गग्रहणम् तत् उत्तरत्र निवृत्तम् .
(प्_8,3.79) क_इइइ,444.10-445.14 रो_व्,476-478 {45।45} अथ वा पूर्वस्मिन् योगे इण्ग्रहणम् प्रत्ययविशेषणम् उत्तरत्र धकारविशेषणम्
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {1।16} अग्नेः दीर्घात् सोमस्य .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {2।16} अग्नेः दीर्घात् सोमस्य इति वक्तव्यम् .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {3।16} अग्नीषोमौ .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {4।16} इतरथा हि अनिष्टप्रसङ्गः . इतरथा हि अनिष्टम् प्रसज्येत .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {5।16} अग्निसोमौ माणवकौ इति .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {6।16} तत् तर्हि वक्तव्यम् .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {7।16} न वक्तव्यम् .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {8।16} गौणमुख्ययोः मुख्ये सम्प्रतिप्रत्तिः .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {9।16} तत् यथा .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {10।16} गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {11।16} कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {12।16} गौः तिष्ठति .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {13।16} गाम् आनय इति .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {14।16} अर्थाश्रये एतत् एवम् भवति .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {15।16} यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति .
(प्_8,3.82) क_इइइ,445.15-23 रो_व्,478-479 {16।16} शब्दाश्रये च वृद्ध्यात्वे
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {1।9} सान्ताभ्याम् च इति वक्तव्यम् .
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {2।9} इह अपि यथा स्यात् .
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {3।9} मातुःष्वसा मातुःस्वसा .
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {4।9} पितुःष्वसा पितुःस्वसेति .
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {5।9} मातुः पितुः इति सान्तग्रहणानर्थक्यम् एकदेशविकृतस्य अनन्यत्वात् .
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {6।9} मातुः पितुः इति सान्तग्रहणम् अनर्थकम् .
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {7।9} किम् कारणम् .
(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {8।9} एकदेशविकृतस्य अनन्यत्वात् .

(प्_8,3.85) क_इइइ,446.1-6 रो_व्,480 {9।9} एकदेशविकृतम् अनन्यवत् भवति इति सान्तस्य अपि भविष्यति
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {1।20} अस्तिग्रहणम् किमर्थम् .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {2।20} इह मा भूत् .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {3।20} अनुसृतम् , विसृतम् इति .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {4।20} न एतत् अस्ति प्रयोजनम् .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {5।20} यद्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् सकारम् प्रति क्रियायोगः .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {6।20} इह अपि तर्हि न प्राप्नोति अभिषन्ति विषन्ति इति न हि अस्तिः क्रियावचनः .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {7।20} कः पुनः आह न अस्तिः क्रियावचनः इति .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {8।20} क्रियावचनः अस्तिः .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {9।20} आतः च क्रियावचनः व्यत्यनुषते कर्तरिकर्मव्यतिहारे इति अनेन आत्मनेपदम् भवति .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {10।20} कर्मव्यतिहारः च कः .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {11।20} क्रियाव्यतिहारः .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {12।20} प्रादुःशब्दात् तर्हि मा भूत् .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {13।20} प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {14।20} उपसर्गात् तर्हि स्यतेः मा भूत् इति .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {15।20} इष्यते उपसर्गात् स्यतेः षत्वम् .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {16।20} आतश् च इष्यते .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {17।20} एवम् हि आह : उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वङ्जाम् इति .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {18।20} प्रादुःशब्दात् तर्हि स्यतेः मा भूत् इति .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {19।20} प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते .
(प्_8,3.87) क_इइइ,446.7-18 रो_व्,480-481 {20।20} इदम् तर्हि प्रयोजनम् इह मा भूत् : अनुसूतेः अप्रत्ययः अनुसूः अनुस्वः अपत्यम् आनुसेयः
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {1।25} किमर्थम् स्वपेः सुपिभूतस्य ग्रहणम् क्रियते .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {2।25} सुपेः षत्वम् स्वपेः मा भूत् .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {3।25} सुपेः षत्वम् उच्यते तत् स्वपेः मा भूत् इति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {4।25} सुस्वप्नः विस्वप्नक् इति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {5।25} विसुष्वाप इति केन न . विसुष्वाप इति अत्र कस्मात् न भवति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {6।25} हलादिशेषात् न सुपिः . हलादिशेषे कृते न एषः सुपिः भवति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {7।25} इदम् इह सम्प्रधार्यम् .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {8।25} हलादिशेषः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {9।25} परत्वात् हलादिशेषः .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {10।25} इष्टम् पूर्वम् प्रसारणम् . इष्यते हलादिशेषात् पूर्वम् सम्प्रसारणम् .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {11।25} आतः च इष्यते .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {12।25} एवम् हि आह : अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {13।25} एवम् तर्हि स्थादिषु अभ्यासस्य इति एतस्मात् नियमात् न भविष्यति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {14।25} स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः . प्राक् सितसंशब्दनात् सः नियमः उत्तरः च सुपिः पठ्यते .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {15।25} एवम् तर्हि अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {16।25} अनर्थके विषुषुपुः . यदि अर्थवतः ग्रहणम् विषुषुपुः इति न सिध्यति .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {17।25} न एषः दोषः .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {18।25} कथम् .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {19।25} सुपिभूतः द्विः उच्यते . सुपिभुतस्य द्विर्वचनम् .

(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {20।25} सुपेः षत्वम् स्वपेः मा भूत् .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {21।25} विसुष्वाप इति केन न .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {22।25} हलादिशेषात् न सुपिः .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {23।25} इष्टम् पूर्वम् प्रसारणम् .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {24।25} स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः .
(प्_8,3.88) क_इइइ,446.19-447.20 रो_व्,481-483 {25।25} अनर्थके विषुषुपुः सुपिभूतः द्विः उच्यते .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {1।11} कपिष्ठलः गोत्रप्रकृतौ .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {2।11} कपिष्ठलः गोत्रप्रकृतौ इति वक्तव्यम् .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {3।11} गोत्रे इति उच्यमाने इह एव स्यात् .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {4।11} कापिष्ठलिः .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {5।11} इह न स्यात् .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {6।11} कपिष्ठलः कापिष्ठलायनः .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {7।11} तत् तर्हि वक्तव्यम् .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {8।11} न वक्तव्यम् .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {9।11} न एवम् विज्ञायते कपिष्ठलः इति गोत्रे निपात्यते इति .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {10।11} कथम् तर्हि .
(प्_8,3.91) क_इइइ,447.21-448.2 रो_व्,483-484 {11।11} गोत्रे यः कपिष्ठलशब्दः तस्य षत्वम् निपात्यते यत्र वा तत्र वा इति
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {1।11} स्थः इति किम् इदम् धातुग्रहणम् आहोस्वित् रूपग्रहणम् .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {2।11} किम् च अतः .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {3।11} यदि धातुग्रहणम् गोस्थानम् इति अत्र प्राप्नोति .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {4।11} अथ रूपग्रहणम् सव्येष्ठाः , परमेष्ठी , सव्येष्ठा सारथिः इति अत्र न प्राप्नोति .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {5।11} यथा इच्छसि तथा अस्तु .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {6।11} अस्तु तावत् धातुग्रहणम् .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {7।11} कथम् गोस्थानम् इति .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {8।11} सवनादिषु पाठः करिष्यते .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {9।11} अथ वा पुनः अस्तु रूपग्रहणम् .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {10।11} कथम् सव्येष्ठाः , पर्मेष्ठी , सव्येष्ठा सारथिः इति .
(प्_8,3.97) क_इइइ,448.3-9 रो_व्,484 {11।11} स्थः स्थास्थिन्स्थॄणाम् इति वक्तव्यम्
(प्_8,3.98) क_इइइ,448.10-11 रो_व्,485 {1।1} अविहितलक्षणः मूर्धन्यः सुषामादिषु द्रष्टव्यः
(प्_8,3.101) क_इइइ,448.12-14 रो_व्,485 {1।3} ह्रस्वात् तादौ तिङि प्रतिषेधः .
(प्_8,3.101) क_इइइ,448.12-14 रो_व्,485 {2।3} ह्रस्वात् तादौ तिङि प्रतिषेधः वक्तव्यः .
(प्_8,3.101) क_इइइ,448.12-14 रो_व्,485 {3।3} भिन्द्युस्तराम् छिन्द्युस्तराम् इति
(प्_8,3.105) क_इइइ,448.15-18 रो_व्,485 {1।5} स्तुतस्तोमयोः छन्दसि अनर्थकम् वचनम् पूर्वपदात् इति सिद्धत्वात् .
(प्_8,3.105) क_इइइ,448.15-18 रो_व्,485 {2।5} स्तुतस्तोमयोः छन्दसि वचनम् अनर्थकम् .
(प्_8,3.105) क_इइइ,448.15-18 रो_व्,485 {3।5} किम् कारणम् .
(प्_8,3.105) क_इइइ,448.15-18 रो_व्,485 {4।5} पूर्वपदात् इति सिद्धत्वात् .
(प्_8,3.105) क_इइइ,448.15-18 रो_व्,485 {5।5} पूर्वपदात् इति एव सिद्धम्
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {1।20} सनोतेः अनः इति च .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {2।20} किम् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {3।20} वचनम् अनर्थकम् इति एव .

(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {4।20} किम् कारणम् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {5।20} पूर्वपदात् इति सिद्धत्वात् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {6।20} नियमार्थम् तर्हि इदम् वक्तव्यम् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {7।20} सनोतेः अनकारस्य एव यथा स्यात् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {8।20} इह मा भूत् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {9।20} गोसनिम् इति .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {10।20} सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिकृतत्वात् सिद्धम् . सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिषु पाठः करिष्यते .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {11।20} सनर्थम् तु . सनर्थम् तु इदम् वक्तव्यम् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {12।20} सिसनिषति .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {13।20} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {14।20} स्तौतिण्योरेवषण्यभ्यासात् इति एतस्मात् नियमात् न भविष्यति .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {15।20} ण्यर्थम् तर्हि इदम् वक्तव्यम् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {16।20} सिसानयिषति .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {17।20} कथम् पुनः अण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यः विज्ञातुम् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {18।20} सामर्थ्यात् .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {19।20} अण्यन्तस्य प्रतिषेधवचने प्रयोजनम् न अस्ति इति कृत्वा ण्यन्ते विज्ञास्यते .
(प्_8,3.108) क_इइइ,449.1-13 रो_व्,485-486 {20।20} अथ वा अयम् अस्ति अण्यन्तः : सिसनिषतेः अप्रत्ययः सिसनीः
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {1।11} किमर्थम् सवादिषु अश्वसनिशब्दः पठ्यते .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {2।11} पूर्वपदात् इति षत्वम् प्राप्नोति .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {3।11} तद्बाधनार्थम् .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {4।11} न एतत् अस्ति प्रयोजनम् .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {5।11} इणन्तात् इति तत्र अनुवर्तते अनिणन्तः च अयम् .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {6।11} न एव प्राप्नोति न अर्थः प्रतिषेधेन .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {7।11} एवम् तर्हि सिद्धे सति यत् सवनादिषु अश्वसनिशब्दम् पठति तत् ज्ञापयति आचार्यः अनिणन्तात् अपि षत्वम् भवति इति .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {8।11} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {9।11} जलाषाहम् माषः इति एतत् सिद्धम् भवति .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {10।11} अथ वा एकदेशविकृतार्थः अयम् आरम्भः .
(प्_8,3.110) क_इइइ,449.14-20 रो_व्,486 {11।11} अश्वषाः इति
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {1।9} उपसर्गात् इति या प्राप्तिः भवितव्यम् तस्याः प्रतिषेधेन उताहो न .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {2।9} न भवितव्यम् .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {3।9} किम् कारणम् .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {4।9} उपसर्गात् षत्वम् प्रतिषेधविषये आरभ्यते तत् यथा एव पदादिलक्षणम् प्रतिषेधम् बाधते एवम् सिचः यङि इति एतम् अपि बाधते .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {5।9} न बाधते .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {6।9} किम् कारणम् .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {7।9} येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वम् आरभ्यते सिचः यङि इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {8।9} अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उपसर्गात् षत्वम् पदादिलक्षणम् प्रतिषेधम् बाधिष्यते सिचः यङि इति एतम् न बाधिष्यते .
(प्_8,3.112) क_इइइ,450.1-8 रो_व्,486-487 {9।9} तस्मात् अभिसेसिच्यते इति भवितव्यम्
(प्_8,3.115) क_इइइ,450.9-11 रो_व्,487 {1।4} किमर्थम् सहिः सोढभूतः गृह्यते .
(प्_8,3.115) क_इइइ,450.9-11 रो_व्,487 {2।4} यत्र अस्य एतत् रूपम् तत्र यथा स्यात् .
(प्_8,3.115) क_इइइ,450.9-11 रो_व्,487 {3।4} इह मा भूत् .

(प्_8,3.115) क_इइइ,450.9-11 रो_व्,487 {4।4} परिषहते इति
(प्_8,3.116) क_इइइ,450.12-16 रो_व्,487 {1।6} स्तम्भुसिवुसहाम् चङि उपसर्गात् .
(प्_8,3.116) क_इइइ,450.12-16 रो_व्,487 {2।6} स्तम्भुसिवुसहाम् चङि उपसर्गात् इति वक्तव्यम् .
(प्_8,3.116) क_इइइ,450.12-16 रो_व्,487 {3।6} किम् प्रयोजनम् .
(प्_8,3.116) क_इइइ,450.12-16 रो_व्,487 {4।6} उपसर्गात् या प्राप्तिः तस्याः प्रतिषेधः यथा स्यात् .
(प्_8,3.116) क_इइइ,450.12-16 रो_व्,487 {5।6} अभ्यासात् या प्राप्तिः तस्याः प्रतिषेधः मा भूत् इति .
(प्_8,3.116) क_इइइ,450.12-16 रो_व्,487 {6।6} पर्यसीषहत्
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {1।9} सनि किम् उदाहरणम् .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {2।9} सुसूषति .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {3।9} न एतत् अस्ति प्रयोजनम् .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {4।9} स्तौतिण्योः एव षणि इति एतस्मात् नियमात् न भविष्यति .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {5।9} इदम् तर्हि .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {6।9} अभिसुसूषति .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {7।9} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {8।9} स्थादिष्वभ्यासेनचाभ्यासस्य इति एतस्मात् नियमात् न भविष्यति .
(प्_8,3.117) क_इइइ,450.17-21 रो_व्,487 {9।9} इदम् तर्हि प्रयोजनम् : अभिसुसूषतेः अप्रत्ययः अभिसुसूः
(प्_8,3.118) क_इइइ,451.1-3 रो_व्,487 {1।3} सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यनम् .
(प्_8,3.118) क_इइइ,451.1-3 रो_व्,487 {2।3} सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,3.118) क_इइइ,451.1-3 रो_व्,487 {3।3} परिषस्वजे
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {1।44} रषाभ्याम् णत्वे ऋकारग्रहणम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {2।44} रषाभ्याम् णत्वे ऋकारग्रहणम् कर्तव्यम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {3।44} रषाभ्याम् नः णः समानपदे ऋकारात् च इति वक्तव्यम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {4।44} इह अपि यथा स्यात् : मातॄणाम् , पितॄणाम् इति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {5।44} तत् तर्हि वक्तव्यम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {6।44} न वक्तव्यम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {7।44} यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {8।44} न सिध्यति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {9।44} किम् कारणम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {10।44} न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {11।44} एकदेशे नुडादिषु च उक्तम् . किम् उक्तम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {12।44} अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् इति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {13।44} तस्मात् गृह्यन्ते .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {14।44} एवम् अपि न सिध्यति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {15।44} किम् कारणम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {16।44} अननन्तरत्वात् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {17।44} यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {18।44} अड्व्यवाये इति एवम् भविष्यति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {19।44} न सिध्यति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {20।44} किम् कारणम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {21।44} वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते .

(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {22।44} ये व्यपवृक्ताः अपि वर्णाः भवन्ति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {23।44} यत् च अत्र रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {24।44} एवम् तर्हि योगविभागः करिष्यते .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {25।44} रषाभ्याम् नः णः समानपदे .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {26।44} ततः व्यवाये .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {27।44} व्यवाये च रषाभ्याम् नः णः भवति इति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {28।44} ततः अट्कुप्वाङ्नुम्भिः इति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {29।44} इदम् इदानीम् किमर्थम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {30।44} नियमार्थम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {31।44} एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {32।44} अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् णत्वम् इति यत् अयम् क्षुभ्नादिषु नृनमनशब्दम् पठति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {33।44} न एतत् अस्ति ज्ञापकम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {34।44} वृद्ध्यर्थम् एतत् स्यात् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {35।44} नार्नमनिः इति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {36।44} यत् तर्हि तत्र एव तृप्नोतिशब्दम् पठति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {37।44} यत् च अपि नृनमनशब्दम् पठति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {38।44} ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {39।44} बहिरङ्गा वृद्धिः .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {40।44} अन्तरङ्गम् णत्वम् .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {41।44} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {42।44} अथ वा उपरिष्टात् योगविभागः करिष्यते .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {43।44} ऋतः नः णः भवति .
(प्_8,4.1) क_इइइ,452.1-20 रो_व्,488-490 {44।44} ततः छन्दसि अवग्रहात् ऋतः इति एव
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {1।20} अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {2।20} अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {3।20} आदर्शेन अक्षदर्शेन .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {4।20} न वा अन्येन व्यपेतत्वात् . न वा वक्तव्यः .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {5।20} किम् कारणम् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {6।20} अन्येन व्यपेतत्वात् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {7।20} अन्येन अत्र व्यवायः .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {8।20} यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {9।20} अटा एव व्यवाये भवति .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {10।20} किम् वक्तव्यम् एतत् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {11।20} न हि .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {12।20} कथम् अनुच्यमानम् गंस्यते .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {13।20} अड्ग्रहणसामर्थ्यात् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {14।20} यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {15।20} व्यवाये नः णः भवति इति एव ब्रूयात् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {16।20} अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {17।20} किम् .

(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {18।20} यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {19।20} कृत्स्नम् मृत्स्ना इति .
(प्_8,4.2.1) क_इइइ,452.21-453.8 रो_व्,490-491 {20।20} यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात्
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {1।19} तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {2।19} तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {3।19} अर्केण अर्घेण .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {4।19} यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {5।19} क्व अन्यत्र .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {6।19} नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {7।19} किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {8।19} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {9।19} तत् यथा .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {10।19} गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {11।19} ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {12।19} तत् यथा .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {13।19} गर्गाः शतम् दण्ड्यन्ताम् इति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {14।19} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {15।19} यदि एवम् एकेन व्यवाये न प्राप्नोति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {16।19} किरिणा रिरिणा इति .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {17।19} उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {18।19} तत् यथा .
(प्_8,4.2.2) क_इइइ,453.9-17 रो_व्,491 {19।19} गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {1।22} कुव्यवाये हादेशेषु प्रतिषेधः .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {2।22} कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {3।22} किम् प्रयोजनम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {4।22} प्रयोजनम् वृत्रघ्नः स्रुघ्नः प्राघानि इति . हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणम् न कर्तव्यम् भवति .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {5।22} नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः . नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {6।22} प्रेन्वनम् प्रेन्वनीयम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {7।22} अनागमे च णत्वम् . अनागमे च णत्वम् वक्तव्यम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {8।22} तृम्पणीयम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {9।22} अनुस्वारव्यवायवचनात् तु सिद्धम् . अनुस्वारव्यवाये नः णः भवति इति वक्तव्यम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {10।22} तदनुस्वारग्रहणम् कर्तव्यम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {11।22} न कर्तव्यम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {12।22} क्रियते न्यासे एव .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {13।22} नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {14।22} इह अपि तर्हि प्राप्नोति .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {15।22} प्रेन्वनम् प्रेन्वनीयम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {16।22} अनुस्वारविशेषणम् नुम्ग्रहणम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {17।22} नुमः यः अनुस्वारः इति .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {18।22} इह अपि तर्हि न प्राप्नोति .

(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {19।22} तृम्पणम् तृम्पणीयम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {20।22} एवम् तर्हि अयोगवाहानाम् अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {21।22} यदि एवम् न अर्थः नुम्ग्रहणेन .
(प्_8,4.2.3) क_इइइ,453.18-454.7 रो_व्,491-492 {22।22} अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम्
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {1।11} पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {2।11} पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् कर्तव्यम् .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {3।11} किम् प्रयोजनम् .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {4।11} तद्धितपूर्वपदस्थाप्रतिषेधार्थम् . तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत् .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {5।11} खारपायणः करणप्रियः .. तत् तर्हि वक्तव्यम् .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {6।11} न वक्तव्यम् .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {7।11} पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {8।11} सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् भवति .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {9।11} तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति पूर्वपदम् इति एतत् भवति तत्स्थस्य नियमः इति .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {10।11} किम् च प्रति एतत् भवति .
(प्_8,4.3.1) क_इइइ,454.8-16 रो_व्,493 {11।11} उत्तरपदम् प्रति
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {1।25} सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमप्रतिषेधः .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {2।25} सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमस्य अयम् प्रतिषेधः विज्ञायते अगः इति .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {3।25} तत्र कः दोषः .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {4।25} तत्र नित्यम् णत्वप्रसङ्गः . तत्र पूर्वेण सञ्ज्ञायाम् च असञ्ज्ञायाम् च नित्यम् णत्वम् प्राप्नोति .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {5।25} योगविभागात् सिद्धम् . योगविभागः करिष्यते .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {6।25} पूर्वपदात् सञ्ज्ञायाम् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {7।25} ततः अगः .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {8।25} गान्तात् पूर्वपदात् या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {9।25} अप्रतिषेधः वा यथा सर्वनामसञ्ज्ञायाम् . न वा अर्थः प्रतिषेधेन .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {10।25} णत्वम् कस्मात् न भवति .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {11।25} यथा सर्वनामसञ्ज्ञायाम् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {12।25} उक्तम् च सर्वनामसञ्ज्ञायाम् सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः इति .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {13।25} यथा पुनः तत्र निपातनम् क्रियते सर्वादीनि सर्वनामानि इति इह इदानीम् किम् निपातनम् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {14।25} इह अपि निपातनम् अस्ति .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {15।25} किम् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {16।25} अणृगयनादिभ्यः इति .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {17।25} न एव वा पुनः अत्र पूर्वेण णत्वम् प्राप्नोति .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {18।25} किम् कारणम् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {19।25} समानपदे इति उच्यते न च एतत् समानपदम् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {20।25} समासे कृते समानपदम् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {21।25} समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {22।25} किम् वक्तव्यम् एतत् .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {23।25} न हि .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {24।25} कथम् अनुच्यमानम् गंस्यते .
(प्_8,4.3.2) क_इइइ,454.17-455.9 रो_व्,493-494 {25।25} समानग्रहणसामर्थ्यात्. यदि हि यत् समानम् च असमानम् च तत्र स्यात् समनग्रहणम् अनर्थकम् स्यात्

(प्_8,4.6) क_इइइ,455.10-12 रो_व्,494 {1।5} द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यम् .
(प्_8,4.6) क_इइइ,455.10-12 रो_व्,494 {2।5} इह मा भूत् .
(प्_8,4.6) क_इइइ,455.10-12 रो_व्,494 {3।5} देवदारुवनम् .
(प्_8,4.6) क_इइइ,455.10-12 रो_व्,494 {4।5} इरिकादिभ्यः प्रतिषेधः वक्तव्यः .
(प्_8,4.6) क_इइइ,455.10-12 रो_व्,494 {5।5} इरिकावनम् तिमिरवनम्
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {1।9} अदन्तात् अदन्तस्य इति वक्तव्यम् .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {2।9} इह मा भूत् .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {3।9} दीर्घाह्नी शरत् इति .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {4।9} तत् तर्हि वक्तव्यम् .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {5।9} न वक्तव्यम् .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {6।9} न एषा अहन्शब्दात् षष्ठी .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {7।9} का तर्हि .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {8।9} अह्नशब्दात् प्रथमा पूर्वसूत्रनिर्देशः च .
(प्_8,4.7) क_इइइ,455.13-16 रो_व्,494-495 {9।9} अथ वा युवादिषु पाठः करिष्यते
(प्_8,4.8) क_इइइ,455.17-21 रो_व्,495 {1।6} आहितोपस्थितयोः इति वक्तव्यम् .
(प्_8,4.8) क_इइइ,455.17-21 रो_व्,495 {2।6} इह अपि यथा स्यात् .
(प्_8,4.8) क_इइइ,455.17-21 रो_व्,495 {3।6} इक्षुवाहणम् शरवाहणम् .
(प्_8,4.8) क_इइइ,455.17-21 रो_व्,495 {4।6} अपरः आह : वाहनम् वाह्यात् इति वक्तव्यम् .
(प्_8,4.8) क_इइइ,455.17-21 रो_व्,495 {5।6} यदा हि गर्गाणाम् वाहनम् अपविद्धम् तिष्ठति तदा मा भूत् .
(प्_8,4.8) क_इइइ,455.17-21 रो_व्,495 {6।6} गर्गवाहनम् इति
(प्_8,4.10) क_इइइ,456.1-4 रो_व्,495 {1।4} वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् .
(प्_8,4.10) क_इइइ,456.1-4 रो_व्,495 {2।4} वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,4.10) क_इइइ,456.1-4 रो_व्,495 {3।4} गिरिणदी गिरिनदी .
(प्_8,4.10) क_इइइ,456.1-4 रो_व्,495 {4।4} चक्रणितम्बा चक्रनितम्बा
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {1।13} प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {2।13} प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् कर्तव्यम् .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {3।13} किम् प्रयोजनम् .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {4।13} असमासान्तप्रतिषेधार्थम् .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {5।13} असमासान्तस्य मा भूत् .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {6।13} गर्गभगिनी दक्षभगिनी इति .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {7।13} न वा भवति गर्गभगिणी इति .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {8।13} भवति यदा एतत् वाक्यम् गर्गाणाम् भगः गर्गभगः गर्गभगः अस्याः अस्ति इति .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {9।13} यदा तु एतत् वाक्यम् भवति गर्गाणाम् भगिनी गर्गभगिनी इति तदा न भवितव्यम् .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {10।13} तदा मा भूत् इति .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {11।13} यदि समासान्तग्रहणम् क्रियते माषवापिणी वृईहिवापिणी अत्र न प्राप्नोति .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {12।13} लिङ्गविशिष्टग्रहणे च उक्तम् . किम् उक्तम् .
(प्_8,4.11) क_इइइ,456.5-14 रो_व्,495-496 {13।13} गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् प्राक् सुबुत्पत्तेः इति
(प्_8,4.11) क_इइइ,456.15-17 रो_व्,496 {1।3} तत्र युवादिप्रतिषेधः .
(प्_8,4.11) क_इइइ,456.15-17 रो_व्,496 {2।3} तत्र युवादीनाम् प्रतिषेदः वक्तव्यः .
(प्_8,4.11) क_इइइ,456.15-17 रो_व्,496 {3।3} आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरत् इति

(प्_8,4.13) क_इइइ,456.18-457.2 रो_व्,496-497 {1।5} अथ इह कथम् भवितव्यम् .
(प्_8,4.13) क_इइइ,456.18-457.2 रो_व्,496-497 {2।5} माषकुम्भवापेण व्रीहिकुम्भवापेण इति .
(प्_8,4.13) क_इइइ,456.18-457.2 रो_व्,496-497 {3।5} किम् नित्यम् णत्वेन भवितव्यम् आहोस्वित् विभाषया .
(प्_8,4.13) क_इइइ,456.18-457.2 रो_व्,496-497 {4।5} यदा तावत् एतत् वाक्यम् भवति कुम्भस्य वापः कुम्भवापः माषाणाम् कुम्भवापः माषकुम्भवाप इति तदा नित्यम् णत्वेन भवितव्यम् .
(प्_8,4.13) क_इइइ,456.18-457.2 रो_व्,496-497 {5।5} यदा तु एतत् वाक्यम् भवति माषाणाम् कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यम्
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {1।20} असमासग्रहणम् किमर्थम् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {2।20} समासे इति वर्तते असमासे अपि यथा स्यात् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {3।20} प्रणमति परिणमति .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {4।20} क्व पुनः समासग्रहणम् प्रकृतम् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {5।20} पूर्वपदात्सञ्ज्ञायामगः इति .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {6।20} कथम् पुनः तेन समासग्रहणम् शक्यम् विज्ञातुम् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {7।20} पूर्वपदग्रहणसामर्थ्यात् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {8।20} समासे एव एतत् भवति पूर्वपदम् उत्तरपदम् इति .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {9।20} अथ अपिग्रहणम् किमर्थम् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {10।20} समासे अपि यथा स्यात् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {11।20} प्रणामकः परिणामकः .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {12।20} यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {13।20} निवृत्तम् पूर्वपदात् इति .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {14।20} अविशेषेण उपसर्गात् णत्वम् वक्ष्यामि .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {15।20} समासे नियमात् न प्राप्नोति .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {16।20} असिद्धम् उपसर्गात् णत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {17।20} एवम् तर्हि सिद्धे सति यत् असमासे अपिग्रहणम् करोति तत् ज्ञापयति आचार्यः न योगे योगः असिद्धः .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {18।20} किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {19।20} किम् एतस्य ज्ञपने प्रयोजनम् .
(प्_8,4.14.1) क_इइइ,457.3-14 रो_व्,497-498 {20।20} यत् तत् उक्तम् निष्कृतम् निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति सः न दोषः भवति
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {1।17} णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {2।17} अगमकः निर्देशः अनिर्देशः .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {3।17} यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशम् प्रति क्रियायोगः .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {4।17} एवम् तर्हि आह अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति न च णोपदेशम् प्रति उपसर्गः अस्ति तत्र वचनात् भविष्यति .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {5।17} वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः . वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः वक्तव्यः .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {6।17} प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः इति .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {7।17} सिद्धम् तु यम् प्रति उपसर्गः तत्स्थस्य इति वचनात् . सिद्धम् एतत् .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {8।17} कथम् .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {9।17} यम् प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यम् .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {10।17} सिध्यति .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {11।17} सूत्रम् तर्हि भिद्यते .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {12।17} यथान्यासम् एव अस्तु .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {13।17} ननु च उक्तम् णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः इति .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {14।17} न एषः दोषः .
(प्_8,4.14.2) क_इइइ,457.15-458.2 रो_व्,498 {15।17} णोपदेशः इति न एवम् विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc