भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 11811200

(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {3।8} अत्यल्पम् इदम् उच्यते उत्पूर्वात् इति .
(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {4।8} उत्फुल्लसम्फुल्लयोः इति वक्तव्यम् : उत्फुल्लः , सम्फुल्लः .
(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {5।8} कृशेः कः एषः विहितः इगुपधात् .
(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {6।8} स्वरे हि दोषः भवति परिकृशे .
(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {7।8} पदस्य लोपः विहितः इति मतम् .
(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {8।8} जगति अनूना भवति हि रुचिरा .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {1।25} किम् अयम् विधिः आहोस्वित् प्रतिषेधः .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {2।25} किम् च अतः .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {3।25} यदि तावत् विधिः नकारग्रहणम् कर्तव्यम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {4।25} न कर्तव्यम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {5।25} प्रकृतम् अनुवर्तते .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {6।25} क्व प्रकृतम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {7।25} रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {8।25} तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {9।25} अथ प्रतिषेधः ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {10।25} यथा इच्छसि तथा अस्तु .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {11।25} अस्तु तावत् विधिः .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {12।25} ननु च उक्तम् नकारग्रहणम् कर्तव्यम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {13।25} न कर्तव्यम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {14।25} प्रकृतम् अनुवर्तते .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {15।25} क्व प्रकृतम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {16।25} रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {17।25} तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {18।25} सम्बन्धम् अनुवर्तिष्यते .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {19।25} अथ वा क्रियते न्यासे एव .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {20।25} द्विनकारकः निर्देशः .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {21।25} नुदविदोन्दत्राघ्राह्रीभ्यः अन्यतरस्याम् न् न ध्याख्यापॄमूर्छिमदाम् इति .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {22।25} अथ वा पुनः अस्तु प्रतिषेधः .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {23।25} ननु च उक्तम् ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति इति .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {24।25} न अनर्थकम् .
(प्_8,2.56) क_इइइ,410.1-11 रो_व्,403-404 {25।25} एतत् एव ज्ञापयति आचार्यः भवति एतस्मात् विधिः इति यत् अयम् ह्रीग्रहणम् करोति
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {1।13} बहवः इमे विदयः पठ्यन्ते .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {2।13} तत्र न ज्ञायते कस्य नित्यम् नत्वम् कस्य विभाषा कस्य प्रतिषेधः कस्य इट् इति .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {3।13} अतः उत्तरम् पठति .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {4।13} यस्य विदेः श्नशकौ तपरत्वे तनवचने तद् उ वाप्रतिषेधौ .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {5।13} श्नविकरणस्य विभाषा शविकरणस्य प्रतिषेधः .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {6।13} श्यविकरणात् नविधिः छिदितुल्यः . श्यन्विकरणात् विदेः नविधिः छिदिना तुल्यः .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {7।13} लुग्विकरणः वलि पर्यवपन्नः . लुग्विकरणः विदिः वलादौ पर्यवपन्नः .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {8।13} एष एवार्थः .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {9।13} ययोः विद्योः श्नशौ उक्तौ तयोः नत्वस्य वानञौ .

(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {10।13} ययोः तु श्यंल्लुकौ ताभ्याम् छिदिवच् च इट् च इष्यते . अपरः आह : वेत्तेः तु विदितः निष्ठा .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {11।13} विद्यतेः विन्नः इष्यते .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {12।13} विन्त्तेः विन्नः च वित्तः च वित्तः भोगेषु विन्दतेः .
(प्_8,2.58) क_इइइ,410.12-411.2 रो_व्,404-405 {13।13} भित्तम् शकलम्
(प्_8,2.59) क_इइइ,411.3-8 रो_व्,405-406 {1।7} भित्तम् शकलम् इति उच्यते तत्र इदम् न सिध्यति भित्तम् भिन्नम् इति .
(प्_8,2.59) क_इइइ,411.3-8 रो_व्,405-406 {2।7} न एषः दोषः .
(प्_8,2.59) क_इइइ,411.3-8 रो_व्,405-406 {3।7} सर्वत्र एव अत्र भिदिः विदारणसामान्ये वर्तते तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः .
(प्_8,2.59) क_इइइ,411.3-8 रो_व्,405-406 {4।7} भिन्नम् किम् भित्तम् इति .
(प्_8,2.59) क_इइइ,411.3-8 रो_व्,405-406 {5।7} तत्वम् अभिधायकम् चेत् शकलस्य अनर्थकः प्रयोगः स्यात् .
(प्_8,2.59) क_इइइ,411.3-8 रो_व्,405-406 {6।7} शकलेन च अपि अभिहिते न भवति तत्वम् निगमयामः .
(प्_8,2.59) क_इइइ,411.3-8 रो_व्,405-406 {7।7} क्विन् प्रत्ययस्य कुः
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {1।15} प्रत्ययग्रहणम् किमर्थम् न क्विनः कुः इति एव उच्येत .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {2।15} क्विनः कुः इति इयति उच्यमाने वकारस्य एव कुत्वम् प्रसज्येत .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {3।15} ननु च लोपे कृते न भविष्यति .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {4।15} अनवकाशम् कुत्वम् लोपम् बाधेत .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {5।15} सावकाशम् कुत्वम् .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {6।15} कः अवकाशः .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {7।15} अनन्त्यः .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {8।15} कथम् पुनः सति अन्त्ये अनन्त्यस्य कुत्वम् स्यात् .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {9।15} आचार्यप्रवृत्तिः ज्ञापयति नान्त्यस्य कुत्वम् भवति इति यत् अयम् क्विनः कुः इति कवर्गनिर्देशम् करोति .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {10।15} इतरथा हि तद्गुणम् एव अयम् निर्दिशेत् .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {11।15} इदम् तर्हि प्रयोजनम् येभ्यः क्विन्प्रत्ययः विधीयते तेषाम् अन्यप्रत्ययान्तानाम् अपि पदान्ते कुत्वम् यथा स्यात् .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {12।15} मा नः अस्राक् .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {13।15} मा नः अद्राक् .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {14।15} क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणम् कृतम् .
(प्_8,2.62) क_इइइ,411.9-18 रो_व्,407 {15।15} क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते .
(प्_8,2.68) क_इइइ,411.19-22 रो_व्,408 {1।3} रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् .
(प्_8,2.68) क_इइइ,411.19-22 रो_व्,408 {2।3} रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,2.68) क_इइइ,411.19-22 रो_व्,408 {3।3} अहोरूपम् अहोरात्रः अहोरथन्तरम् साम
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {1।12} असुपि रादेशे उपसर्जनसमासे प्रतिषेधः अलुकि .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {2।12} असुपि रादेशे उपसर्जनसमासे अलुकि प्रतिषेधः वक्तव्यः .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {3।12} दीर्घाहा निदाघः इति .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {4।12} सिद्धम् तु सुपि प्रतिषेधात् . सिद्धम् एतत् .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {5।12} कथम् .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {6।12} सुपि प्रतिषेधात् .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {7।12} प्रसज्य अयम् प्रतिषेधः सुपि न इति .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {8।12} इह अपि तर्हि न प्राप्नोति .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {9।12} अहन् ददाति .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {10।12} अहन् भुङ्क्ते इति .
(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {11।12} लुकि च उक्तम् . किम् उक्तम् .

(प्_8,2.69) क_इइइ,412.1-9 रो_व्,408-409 {12।12} अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {1।8} छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् .
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {2।8} छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {3।8} प्रचेतः राजन् .
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {4।8} प्रचेतर् राजन् .
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {5।8} अहरादीनाम् पत्यादिषु उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {6।8} अहर्पतिः अहःपतिः .
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {7।8} अहर्पुत्रः अहःपुत्रः .
(प्_8,2.70) क_इइइ,412.10-15 रो_व्,409 {8।8} गीर्पतिः गीःपतिः
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {1।28} इह कस्मात् न भवति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {2।28} पपिवान् तस्थिवान् इति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {3।28} सस्य इति वर्तते .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {4।28} एवम् अपि अत्र प्राप्नोति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {5।28} लोपे कृते न भविष्यति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {6।28} अनवकाशम् दत्वम् लोपम् बाधेत .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {7।28} सावकाशम् दत्वम् .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {8।28} कः अवकाशः .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {9।28} पपिवद्भ्याम् पपिवद्भिः इति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {10।28} अत्र अपि रुः प्राप्नोति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {11।28} तत् यथा एव रुम् बाधते एवम् लोपम् अपि बाधेत .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {12।28} न बाधते .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {13।28} किम् कारणम् .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {14।28} येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते रौ दत्वम् आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {15।28} यदि तर्हि सस्य इति वर्तते अनडुद्भ्याम् अनडुद्भिः इति अत्र न प्राप्नोति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {16।28} वचनात् अनडुहि भविष्यति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {17।28} यदि एवम् .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {18।28} अनडुहः दत्वे नकारप्रतिषेधः .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {19।28} अनडुहः दत्वे नकारस्य प्रतिषेधः वक्तव्यः .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {20।28} अनड्वान् .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {21।28} सिद्धम् तु प्रतिपदविधानात् नुमः . सिद्धम् एतत् .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {22।28} कथम् .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {23।28} नुमः प्रतिपदविधानसामर्थ्यात् दत्वम् न भविष्यति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {24।28} यदि तर्हि यत् यत् अनडुहः प्राप्तम् तत् तत् नुमः प्रतिपदविधानसामर्थ्यात् बाध्यते रुत्वम् अपि न प्राप्नोति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {25।28} अनड्वान् तत्र इति .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {26।28} न एषः दोषः .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {27।28} यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते .
(प्_8,2.72) क_इइइ,412.16-413.10 रो_व्,409-410 {28।28} दत्वम् च प्रति नुमः प्रतिपदविधिः अनर्थकः रोः पुनः निमित्तम् एव
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {1।15} किमर्थम् इदम् उच्यते न हलि इति एव सिद्धम् .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {2।15} न सिध्यति .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {3।15} धातोः इति तत्र वर्तते तत्र रेफवकाराभ्याम् धातुः विशेष्यते .

(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {4।15} रेफवकारान्तस्य धातोः इति .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {5।15} किम् पुनः कारणम् पूर्वस्मिन् योगे रेफवकाराभ्याम् धातुः विशेष्यते .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {6।15} इह मा भूत् .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {7।15} अग्निः वायुः इति .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {8।15} एवम् तर्हि पूर्वस्मिन् योगे यत् धातुग्रहणम् तत् उत्तरत्र निवृत्तम् .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {9।15} एवम् अपि कुर्कुरः मुर्मुरः इति अत्र अपि प्राप्नोति .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {10।15} एवम् तर्हि अनुवर्तते तत्र धातुग्रहणम् न तु रेफवकाराभ्याम् धातुः विशेष्यते .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {11।15} किम् तर्हि .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {12।15} इक् विशेष्यते .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {13।15} रेफवकारान्तस्य इकः धातोः इति .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {14।15} एवम् अपि कुर्कुरीयति मुर्मुरीयति इति अत्र प्राप्नोति .
(प्_8,2.78.1) क_इइइ,413.11-19 रो_व्,411 {15।15} तस्मात् धातुः एव विशेष्यः धातौ च विशेष्यमाणे उपधायाम् च इति वक्तव्यम्
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {1।21} उपधादीर्घत्वे अभ्यासजिव्रिचतुर्णाम् प्रतिषेधः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {2।21} उपधादीर्घत्वे अभ्यासजिवृइचतुर्णाम् प्रतिषेधः वक्तव्यः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {3।21} रिर्यतुः रिर्युः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {4।21} संविव्यतुः संविव्युः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {5।21} जिव्रः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {6।21} चतुर्यिता चतुर्यितुम् .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {7।21} उणादिप्रतिषेधः च . उणादीनाम् च प्रतिषेधः वक्तव्यः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {8।21} किर्योः गिर्योः इति .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {9।21} अभ्यासप्रतिषेधः तावत् न वक्तव्यः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {10।21} हलि इति उच्यते न च अत्र हलादिम् पश्यामः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {11।21} यणादेशे कृते प्राप्नोति .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {12।21} स्थानिवद्भावात् न भविष्यति .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {13।21} प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {14।21} न एषः अस्ति प्रतिषेधः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {15।21} उक्तम् एतत् प्रतिषेधे स्वरदिर्घयलोपेषु लोपाजादेशः इति .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {16।21} जिव्रिप्रतिषेधः च न वक्तव्यः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {17।21} उणादयः अव्युत्पन्नानि प्रातिपदिकानि .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {18।21} चतुर्यिता चतुर्यितुम् इति सुपि न इति वर्तते .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {19।21} यदि एवम् गीर्भ्याम् गीर्भिः इति अप्रसिद्धिः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {20।21} न सुपः विभक्तिविपरिणामात् गीर्भ्याम् गीर्भिः इति अदोषः .
(प्_8,2.78.2) क_इइइ,413.20-414.7 रो_व्,411-412 {21।21} उणादिप्रतिषेधः वक्तव्यः इति परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {1।28} अदसः अनोस्रेः .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {2।28} अदसः अनोस्रेः इति वक्तव्यम् .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {3।28} किम् इदम् अनोस्रेः इति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {4।28} अनोकारस्य असकारस्य अरेफकस्य इति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {5।28} अनोकारस्य .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {6।28} अदः अत्र .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {7।28} असकारस्य .

(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {8।28} अदस्यते .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {9।28} अरेफकस्य .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {10।28} अदः .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {11।28} तत् तर्हि वक्तव्यम् .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {12।28} न वक्तव्यम् .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {13।28} क्रियते न्यासे एव .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {14।28} अविभक्तिकः निर्देशः .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {15।28} अदस् , ओ , इति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {16।28} ओकारात् परः पतिषेधः पूर्वभूतः .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {17।28} ततः सकारः .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {18।28} ततः रेफः इति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {19।28} अथ वा न एवम् विज्ञायते अदसः असकारस्य इति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {20।28} कथम् तर्हि .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {21।28} अकारः अस्य सकारस्य सः अयम् असिः असेः इति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {22।28} यदि एवम् अमुमुयङ् इति न सिध्यति अदद्र्यङ् इति प्राप्नोति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {23।28} अदमुयङ् इति भवितव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {24।28} अदसः अद्रेः पृथक् मुत्वम् केचित् इच्छन्ति लत्ववत् .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {25।28} केचित् अन्त्यसदेशस्य .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {26।28} न इति एके .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {27।28} असेः हि दृश्यते .
(प्_8,2.80.1) क_इइइ,414.8-19 रो_व्,412-413 {28।28} .
(प्_8,2.80.2) क_इइइ,414.20-24 रो_व्,413 {1।7} तत्र पदाधिकारात् अपदान्तस्य अप्राप्तिः .
(प्_8,2.80.2) क_इइइ,414.20-24 रो_व्,413 {2।7} तत्र पदाधिकारात् अपदान्तस्य न प्राप्नोति .
(प्_8,2.80.2) क_इइइ,414.20-24 रो_व्,413 {3।7} अमुया अमुयोः इति .
(प्_8,2.80.2) क_इइइ,414.20-24 रो_व्,413 {4।7} सिद्धम् तु सकारप्रतिषेधात् . सिद्धम् एतत् .
(प्_8,2.80.2) क_इइइ,414.20-24 रो_व्,413 {5।7} कथम् .
(प्_8,2.80.2) क_इइइ,414.20-24 रो_व्,413 {6।7} सकारप्रतिषेधात् .
(प्_8,2.80.2) क_इइइ,414.20-24 रो_व्,413 {7।7} यत् अयम् असेः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अपदान्तस्य अपि भवति इति
(प्_8,2.80.3) क_इइइ,415.1-4 रो_व्,414 {1।5} अथ दाद्ग्रहणम् किमर्थम् .
(प्_8,2.80.3) क_इइइ,415.1-4 रो_व्,414 {2।5} दाद्ग्रहणम् अन्त्यप्रतिषेधार्थम् .
(प्_8,2.80.3) क_इइइ,415.1-4 रो_व्,414 {3।5} दाद्ग्रहणम् क्रियते अन्त्यप्रतिषेधार्थम् .
(प्_8,2.80.3) क_इइइ,415.1-4 रो_व्,414 {4।5} अलः अन्त्यस्य मा भूत् इति .
(प्_8,2.80.3) क_इइइ,415.1-4 रो_व्,414 {5।5} अमुया अमुयोः इति
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {1।12} ईत्त्वम् बहुवचनान्तस्य .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {2।12} ईत्त्वम् बहुवचनान्तस्य इति वक्तव्यम् .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {3।12} बहुवचने इति इयति उच्यमाने इह एव स्यात् .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {4।12} अमीभिः अमीषु. इह न स्यात् .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {5।12} अमी अत्र .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {6।12} अमी आसते .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {7।12} तत् तर्हि वक्तव्यम् .

(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {8।12} न वक्तव्यम् .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {9।12} न इदम् पारिभाषिकस्य बहुवचनस्य ग्रहणम् .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {10।12} किम् तर्हि .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {11।12} अन्वर्थग्रहणम् एतत् .
(प्_8,2.81) क_इइइ,415.5-10 रो_व्,414 {12।12} बहूनाम् अर्थानाम् वचनम् बहुवचनम् बहुवचने इति
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {1।22} वाक्याधिकारः किमर्थः .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {2।22} वाक्याधिकारः पदनिवृत्त्यर्थः .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {3।22} वाक्याधिकारः क्रियते पदनिवृत्त्यर्थः .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {4।22} पदाधिकारः निवर्त्यते .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {5।22} न हि काकः वाश्यते इति अधिकाराः निवर्तन्ते .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {6।22} दोषः खलु अपि स्यात् यदि वाक्याधिकारः पदाधिकारम् निवर्तयेत् .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {7।22} इष्यन्ते एव उत्तरत्र पदकार्याणि तानि न सिध्यन्ति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {8।22} नश्छव्यप्रशान् इति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {9।22} पदनिवृत्त्यर्थम् इति न एवम् विज्ञायते पदस्य निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {10।22} किम् तर्हि. पदे निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {11।22} वाक्ये यावन्ति पदानि तेषाम् सर्वेषाम् टेः प्लुतः प्राप्नोति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {12।22} इष्यते च वाक्यपदयोः अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थः वाक्याधिकारः .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {13।22} अथ टिग्रहणम् किमर्थम् .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {14।22} टिग्रहणम् अलः अन्त्यनियमे व्यञ्जनान्तार्थम् . टिग्रहणम् क्रियते अलः अन्त्यनियमे व्यञ्जनान्तस्य अपि यथा स्यात् .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {15।22} अग्निचि3त् सोमसु3त् .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {16।22} अस्ति प्रयोजनम् एतत् .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {17।22} किम् तर्हि इति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {18।22} सर्वादेशप्रसङ्गः तु . सर्वादेशः तु टेः प्लुतः प्राप्नोति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {19।22} किम् कारणम् .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {20।22} अचः इति वचनात् अन्त्यस्य न अन्त्यस्य इति वचनात् अचः न उच्यते च प्लुतः सः सर्वादेशः प्राप्नोति .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {21।22} उक्तम् वा . किम् उक्तम् .
(प्_8,2.82) क_इइइ,415.11-416.6 रो_व्,414-416 {22।22} ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {1।14} अशूद्रे इति किमर्थम् .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {2।14} कुशली असि तुषजक .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {3।14} अत्यल्पम् इदम् उच्यते : असूद्रे इति .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {4।14} अशूद्रस्त्र्यसूयकेषु . अशूद्रस्त्र्यसूयकेषु इति वक्तव्यम् .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {5।14} तत्र शूद्रे उदाहृतम् .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {6।14} स्त्रियाम् : गार्गी अहम् , भोः आयुष्मती भव गार्गि .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {7।14} असूयके : स्थाली अहम् , भोः आयुष्मान् एधि स्थालि3न् .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {8।14} न एषा मम सञ्ज्ञा स्थाली इति .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {9।14} किम् तर्हि दण्डिन्यायः मम विवक्षितः .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {10।14} सः वक्तव्यः .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {11।14} स्थाली अहम् भोः आयुष्मान् एधि स्थालिन् .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {12।14} न मम दण्डिन्यायः विवक्षितः .
(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {13।14} किम् तर्हि सञ्ज्ञा मम एषा .

(प्_8,2.83.1) क_इइइ,416.7-15 रो_व्,416-417 {14।14} असूयकः त्वम् असि जाल्म न त्वम् प्रत्यभिवादम् अर्हसि भिद्यस्व वृषल स्थालिन्
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {1।16} भोराजन्यविशाम् वा .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {2।16} भोराजन्यविशाम् वा इति वक्तव्यम् .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {3।16} देवदत्तः अहम् भोः आयुष्मान् एधि देवदत्त भो3ः .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {4।16} देवदत्त भोः .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {5।16} भोः .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {6।16} राजन्य .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {7।16} इन्द्रवर्मा अहम् भोः आयुष्मान् एधि इन्द्रवर्म3न् .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {8।16} इन्द्रवर्मन् .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {9।16} राजन्य .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {10।16} विट् .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {11।16} इन्द्रपालितः अहम् भोः आयुष्मान् एधि इन्द्रपालित3 .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {12।16} इन्द्रपालित .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {13।16} अपरः आह : .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {14।16} सर्वस्य एव नाम्नः प्रत्यभिवादे भोःशब्दः आदेशः वक्तव्यः .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {15।16} देवदत्तः अहम् भोः आयुष्मान् एधि भो3ः .
(प्_8,2.83.2) क_इइइ,416.16-22 रो_व्,417 {16।16} आयुष्मान् एधि देवदत्त3 इति वा
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {1।18} इह कस्मात् न भवति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {2।18} देवदत्त कुशली असि इति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {3।18} इह किम् चित् उच्यते किम् चित् प्रत्युच्यते .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {4।18} अप्रधानम् उच्यते प्रधानम् प्रत्युच्यते .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {5।18} तत्र प्रधानस्थस्य टिसञ्ज्ञकस्य प्लुत्या भवितव्यम् न च अत्र प्रधानस्थम् टिसञ्ज्ञम् .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {6।18} इह अपि तर्हि न प्राप्नोति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {7।18} आधेयः अग्नि3ः न आधेय3ः इति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {8।18} न एतत् विचार्यते आधेयः न आधेयः अग्निः चेत् भवति इति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {9।18} किम् तर्हि .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {10।18} इह अग्निसाधना क्रिया विचार्यते आधेयः अग्निः न आधेयः इति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {11।18} यदि एवम् द्वितीयः अग्निशब्दस्य प्रयोगः प्राप्नोति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {12।18} उक्तार्थानाम् अप्रयोगः इति न भविष्यति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {13।18} यदि एवम् आधेयशब्दस्य अपि तर्हि द्वितीयस्य प्रयोगः न प्राप्नोति उक्तार्थानाम् अप्रयोगः नाम भवति इति .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {14।18} न एषः दोषः .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {15।18} उक्तार्थानाम् अपि प्रयोगः दृश्यते .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {16।18} तत् यथा .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {17।18} अपूपौ द्वौ आनय .
(प्_8,2.83.3) क_इइइ,416.23-417.5 रो_व्,417-418 {18।18} ब्राह्मणौ द्वौ आनय इति
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {1।14} दूरात् हूते इति उच्यते दूरशब्दः च अयम् अनवस्थितपदार्थकः .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {2।14} तत् एव हि कम् चित् प्रति दूरम् कम् चित् प्रति अन्तिकम् भवति .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {3।14} एवम् हि कः चित् कम् चित् आह .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {4।14} एषः पार्श्वतः करकः तम् आनय इति .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {5।14} सः आह .

(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {6।14} उत्थाय गृहाण दूरम् न शक्ष्यामि इति .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {7।14} अपरः आह : दूरम् मथुरायाः पाटलिपुत्रम् इति .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {8।14} सः आह .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {9।14} न दूरम् इदम् अन्तिकम् इति .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {10।14} एवम् एषः दूरशब्दः अनवस्थितपदार्थकः तस्य अनवस्थितपदार्थकत्वात् न ज्ञायते कस्याम् अवस्थायाम् प्लुत्या भवितव्यम् इति .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {11।14} एवम् तर्हि ह्वयतिना अयम् निर्देशः क्रियते .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {12।14} ह्वयतिप्रसङ्गे यत् दूरम् .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {13।14} किम् पुनः तत् .
(प्_8,2.84) क_इइइ,417.6-14 रो_व्,419 {14।14} तत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेषे उपादीयमाने सन्देहः भवति श्रोष्यति न श्रोष्यति इति तत् दूरम् इह अवगम्यते
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {1।14} हैहेग्रहणम् किमर्थम् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {2।14} हैहेप्रयोगे हैहेग्रहणम् हैहयोः प्लुत्यर्थम् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {3।14} हैहेप्रयोगे ःऐहेग्रहणम् क्रियते हैहयोः प्लुतिः यथा स्यात् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {4।14} देवदत्त है3 .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {5।14} देवदत्त हे3 .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {6।14} अक्रियमाणे हि हैहेग्रहणे तयोः प्रयोगे अन्यस्य स्यात् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {7।14} अथ प्रयोगग्रहणम् किमर्थम् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {8।14} प्रयोगग्रहणम् अर्थवद्ग्रहणे अनर्थकार्थम् . प्रयोगग्रहणम् क्रियते अर्थवद्ग्रहणे अनर्थकयोः अपि यथा स्यात् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {9।14} देवदत्त है3 .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {10।14} देवदत्त हे3 .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {11।14} अथ पुनः हैहेग्रहणम् किमर्थम् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {12।14} पुनः हैहेग्रहणम् अनन्त्यार्थम् . पुनः हैहेग्रहणम् क्रियते अनन्त्ययोः अपि यथा स्यात् .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {13।14} है3 देवदत्त .
(प्_8,2.85) क_इइइ,417.15-24 रो_व्,419-420 {14।14} हे3 देवदत्त इति
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {1।15} गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतप्रसङ्गः अन्येन विहितत्वात् .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {2।15} गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतः प्राप्नोति .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {3।15} दे3वदत्त .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {4।15} किम् कारणम् .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {5।15} अन्येन विहितत्वात् .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {6।15} अन्येन हि लक्षणेन लघोः अन्त्यस्य प्लुतः विधीयते दूराद्धूतेच इति .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {7।15} न वा अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् . न वा एषः दोषः .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {8।15} किम् कारणम् .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {9।15} अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् भविष्यति .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {10।15} अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {11।15} ननु च एतत् गुर्वपेक्षम् स्यात् .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {12।15} अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि गुरोः इति .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {13।15} न इति आह .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {14।15} द्व्यपेक्षम् एतत् .
(प्_8,2.86.1) क_इइइ,418.1-10 रो_व्,420-421 {15।15} अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {1।28} अथ प्राग्वचनम् किमर्थम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {2।28} प्राग्वचनम् विभाषार्थम् .

(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {3।28} प्राग्वचनम् क्रियते विभाषा यथा स्यात् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {4।28} प्राग्वचनानर्थक्यम् च एकैकस्य इति वचनात् . प्राग्वचनम् अनर्थकम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {5।28} किम् कारणम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {6।28} एकैकस्य इति वचनात् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {7।28} एकैकग्रहणम् क्रियते तत् विभाषार्थम् भविष्यति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {8।28} अस्ति अन्यत् एकैकग्रहणस्य प्रयोजनम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {9।28} किम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {10।28} युगपत् प्लुतः मा भूत् इति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {11।28} अनुदात्तम् पदम् एकवर्जम् इति वचनात् न अस्ति यौगपद्येन सम्भवः .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {12।28} असिद्धः प्लुतः तस्य असिद्धत्वात् नियमः न प्राप्नोति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {13।28} न एषः दोषः .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {14।28} यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {15।28} कथम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {16।28} कार्यकालम् सञ्ज्ञापरिभाषम् इति यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {17।28} गुरोः अनृतः अनन्त्यस्य अपि एकैकस्य प्राचाम् .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {18।28} उपस्थितम् इदम् भवति अनुदात्तम्पदमेकवर्जम् इति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {19।28} इह अपि तर्हि समावेशः न प्राप्नोति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {20।28} देवदत्त3 .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {21।28} सिद्धासिद्धौ एतौ .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {22।28} यौ हि सिद्धौ एव असिद्धौ एव वा तयोः नियमः .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {23।28} यः तर्हि स्वरितप्लुतः तेन समावेशः प्राप्नोति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {24।28} स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु इति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {25।28} स्वरिते अपि उदात्तः अस्ति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {26।28} यः तर्हि अनुदात्तप्लुतः तेन समावेशः प्राप्नोति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {27।28} अनुदात्तम्प्रश्नान्ताभिपूजितयोः इति .
(प्_8,2.86.2) क_इइइ,418.10-24 रो_व्,421-422 {28।28} तस्मात् प्राग्वचनम् कर्तव्यम्
(प्_8,2.88) क_इइइ,419.1-5 रो_व्,422 {1।7} ये यज्ञकर्मणि इति अतिप्रसङ्गः .
(प्_8,2.88) क_इइइ,419.1-5 रो_व्,422 {2।7} ये यज्ञकर्मणि इति अतिप्रसङ्गः भवति .
(प्_8,2.88) क_इइइ,419.1-5 रो_व्,422 {3।7} इह अपि प्राप्नोति .
(प्_8,2.88) क_इइइ,419.1-5 रो_व्,422 {4।7} ये देवासः दिव्येकादश स्थ इति .
(प्_8,2.88) क_इइइ,419.1-5 रो_व्,422 {5।7} सिद्धम् तु ये यजामहे इति ब्रूह्यादिषु उपसङ्ख्यानात् . सिद्धम् एतत् .
(प्_8,2.88) क_इइइ,419.1-5 रो_व्,422 {6।7} कथम् .
(प्_8,2.88) क_इइइ,419.1-5 रो_व्,422 {7।7} येयजामहेशब्दः ब्रूह्यादिषु उपसङ्ख्येयः
(प्_8,2.89) क_इइइ,419.6-9 रो_व्,423 {1।6} प्रणवः इति उच्यते कः प्रणवः नाम .
(प्_8,2.89) क_इइइ,419.6-9 रो_व्,423 {2।6} पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रम् ओङ्कारम् त्रिमात्रम् ओकारम् वा विदधति तम् प्रणवः इति आचक्षते .
(प्_8,2.89) क_इइइ,419.6-9 रो_व्,423 {3।6} अथ टिग्रहणम् किमर्थम् .
(प्_8,2.89) क_इइइ,419.6-9 रो_व्,423 {4।6} टिग्रहणम् सर्वादेशार्थम् .
(प्_8,2.89) क_इइइ,419.6-9 रो_व्,423 {5।6} यदा ओकारः तदा सर्वादेशः यथा स्यात् .
(प्_8,2.89) क_इइइ,419.6-9 रो_व्,423 {6।6} यदा ओङ्कारः तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति
(प्_8,2.90) क_इइइ,519.13-16 रो_व्,424 {1।3} अन्तग्रहणम् किमर्थम् .

(प्_8,2.90) क_इइइ,519.13-16 रो_व्,424 {2।3} याज्या नाम ऋचः वाक्यसमुदायः तत्र यावन्ति वाक्यानि सर्वेषाम् टेः प्लुतः प्राप्नोति .
(प्_8,2.90) क_इइइ,519.13-16 रो_व्,424 {3।3} इष्यते च अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अन्तग्रहणम्
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {1।12} अग्नीत्प्रेषणे इति अतिप्रसङ्गः .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {2।12} अग्नीत्प्रेषणे इति अतिप्रसङ्गः भवति .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {3।12} इह अपि प्राप्नोति .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {4।12} अग्नीदग्नीन्विहर .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {5।12} सिद्धम् तु ओश्रावये परस्य च इति वचनात् . सिद्धम् एतत् .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {6।12} कथम् .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {7।12} ओश्रावये परस्य इति वक्तव्यम् .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {8।12} ओ3 श्रा3वय .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {9।12} आ3 श्रा3वय .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {10।12} अपरः आह : ओश्रावयाश्रावययोः इति वक्तव्यम् .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {11।12} ओ3 श्रा3वय .
(प्_8,2.92.1) क_इइइ,419.17-420.4 रो_व्,424 {12।12} अ3 श्र3वय
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {1।10} बहुलम् अन्यत्र इति वक्तव्यम् .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {2।10} उद्धर3 उद्धर .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {3।10} आहर3 आहर .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {4।10} तत् तर्हि वक्तव्यम् .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {5।10} न वक्तव्यम् .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {6।10} योगविभागः करिष्यते .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {7।10} अग्नीत्प्रेषणे परस्य च विभाषा .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {8।10} ततः पृष्ठप्रतिवचने हेः .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {9।10} विभाषा इति एव .
(प्_8,2.92.2) क_इइइ,420.5-8 रो_व्,424-425 {10।10} अपरः आह : सर्वः एव प्लुतः साहसम् अनिच्छता विभाषा वक्तव्यः
(प्_8,2.95) क_इइइ,420.9-12 रो_व्,425 {1।6} भर्त्सने पर्यायेण .
(प्_8,2.95) क_इइइ,420.9-12 रो_व्,425 {2।6} भर्त्सने पर्यायेण इति वक्तव्यम् .
(प्_8,2.95) क_इइइ,420.9-12 रो_व्,425 {3।6} चौर3 चौर .
(प्_8,2.95) क_इइइ,420.9-12 रो_व्,425 {4।6} चौर चौर3 .
(प्_8,2.95) क_इइइ,420.9-12 रो_व्,425 {5।6} कुशील3 कुशील .
(प्_8,2.95) क_इइइ,420.9-12 रो_व्,425 {6।6} कुशील कुशील3
(प्_8,2.103) क_इइइ,420.13-16 रो_व्,425 {1।6} असूयादिषु वावचनम् .
(प्_8,2.103) क_इइइ,420.13-16 रो_व्,425 {2।6} असूयादिषु वा इति वक्तव्यम् .
(प्_8,2.103) क_इइइ,420.13-16 रो_व्,425 {3।6} कन्ये3 कन्ये .
(प्_8,2.103) क_इइइ,420.13-16 रो_व्,425 {4।6} कन्ये कन्ये .
(प्_8,2.103) क_इइइ,420.13-16 रो_व्,425 {5।6} शक्तिके3 शक्तिके .
(प्_8,2.103) क_इइइ,420.13-16 रो_व्,425 {6।6} शक्तिके शक्तिके
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {1।27} किमर्थम् इदम् उच्यते .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {2।27} ऐचोः उभयविवृद्धिप्रसङ्गात् इदुतोः प्लुतवचनम् .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {3।27} ऐचोः उभयविऋद्धिप्रसङ्गात् इदुतोः प्लुतः उच्यते .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {4।27} किम् उच्यते उभयविवृद्धिप्रसङ्गात् इति यदा नित्याः शब्दाः नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः .

(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {5।27} न एषः दोषः .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {6।27} उभयविवृद्धिप्रसङ्गात् इति न एवम् विज्ञायते उभयोः विवृद्धिः उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {7।27} कथम् तर्हि .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {8।27} उभयोः विवृद्धिः अस्मिन् सः अयम् उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {9।27} इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः इति तयोः प्लुतः उच्यमाने उभयविवृद्धिः प्राप्नोति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {10।27} तत् यथा .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {11।27} अभिवर्धमानः गर्भः सर्वाङ्गपरिपूर्णः वर्धते .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {12।27} अस्ति प्रयोजनम् एतत् .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {13।27} किम् तर्हि इति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {14।27} तत्र अयथेष्टप्रसङ्गः . तत्र अयथेष्टम् प्रसज्येत .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {15।27} चतुर्मात्रः प्लुतः प्राप्नोति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {16।27} सिद्धम् तु इदुतोः दीर्घवचनात् . सिद्धम् एतत् .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {17।27} कथम् .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {18।27} इदुतोः दीर्घः भवति इति वक्तव्यम् .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {19।27} तत् एतत् कथम् कृत्वा सिद्धम् भवति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {20।27} यदि समः प्रविभागः मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {21।27} अथ हि अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः अर्धतृतीयमात्रः प्राप्नोति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {22।27} अथ हि अध्यर्धमात्रा अवर्णस्य अर्धमात्रा इवर्णोवर्णयोः अर्धचतुर्थमात्रः प्राप्नोति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {23।27} सूत्रम् च भिद्यते .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {24।27} यथान्यासम् एव अस्तु .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {25।27} ननु च उक्तम् तत्र अयथेष्टप्रसङ्गः इति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {26।27} तत्र सौर्यभगवता उक्तम् अनिष्टिज्ञः वाडवः पठति .
(प्_8,2.106) क_इइइ,420.17-421.14 रो_व्,426-427 {27।27} इष्यते एव चतुर्मात्रः प्लुतः
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {1।21} एचः प्लुतविकारे पदान्तग्रहणम् . एचः प्लुतविकारे पदान्तग्रहणम् कर्तव्यम् इह मा भूत् : भद्रम् करोषि गौ3ः इति .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {2।21} विषयपरिगणनम् च .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {3।21} विषयपरिगणनम् च कर्तव्यम् .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {4।21} प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेषु इति वक्तव्यम् .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {5।21} प्रश्नान्त .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {6।21} अगम3ः पूर्व3न् ग्राम3न् अग्निभूत3इ .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {7।21} पट3उ .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {8।21} प्रश्नान्त .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {9।21} अभिपूजित .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {10।21} सिद्धः असि माणवक अग्निभूत3इ .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {11।21} पट3उ .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {12।21} अभिपूजित .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {13।21} विचार्यमाण .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {14।21} होतव्यम् दीक्षितस्य गृह3इ .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {15।21} विचार्यमाण .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {16।21} प्रत्यभिवाद .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {17।21} आयुष्मान् एधि अग्निभूत3इ .

(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {18।21} प्रत्यभिवाद .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {19।21} याज्यान्त .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {20।21} उक्षन्नाय वशन्नाय सोमपृष्ठाय वेधसे .
(प्_8,2.107.1) क_इइइ,421.15-422.2 रो_व्,427-428 {21।21} स्तोमैः विधेम अग्नय3इ
(प्_8,2.107.2) क_इइइ,422.3-5 रो_व्,428 {1।3} आमन्त्रिते छन्दसि उपसङ्ख्यानम् .
(प्_8,2.107.2) क_इइइ,422.3-5 रो_व्,428 {2।3} आमन्त्रिते छन्दसि उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,2.107.2) क_इइइ,422.3-5 रो_व्,428 {3।3} अग्न3इ पत्नीव3ः सजुः देवेन त्वष्ट्रा सोमम् पिब
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {1।9} अथ कयोः इमौ य्वौ उच्येते .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {2।9} इदुतोः इति आह .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {3।9} तत् इदुतोः ग्रहणम् कर्तव्यम् .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {4।9} न कर्तव्यम् .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {5।9} प्र्कृतम् अनुवर्तते .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {6।9} क्व प्रकृतम् .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {7।9} पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ इति .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {8।9} तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः .
(प्_8,2.108.1) क_इइइ,422.6-10 रो_व्,428-429 {9।9} अचि इति एषा सप्तमी इदुतौ इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन्नितिनिर्दिष्टेपूर्वस्य इति
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {1।31} किमर्थम् इदम् उच्यते न इकः यण् अचि इति एव सिद्धम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {2।31} न सिध्यति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {3।31} असिद्धः प्लुतः प्लुतविकारौ च इमौ .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {4।31} सिद्धः प्लुतः स्वरसन्धिषु .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {5।31} कथम् ज्ञायते .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {6।31} यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {7।31} कथम् कृत्वा ज्ञापकम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {8।31} सतः हि कार्यिणः कार्येण भवितव्यम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {9।31} इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {10।31} दीर्घत्वम् शाकलम् च मा भूत् इति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {11।31} अग्ना3यिन्द्रम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {12।31} पटा3वुदकम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {13।31} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {14।31} आरभ्यते प्लुतपूर्वस्य यणादेशः प्लुतपुर्वस्य दीर्घशाकलप्रतिषेधार्थम् इति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {15।31} तत् न वक्तव्यम् भवति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {16।31} अवश्यम् तत् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {17।31} भो3यिन्द्र .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {18।31} भो3यिह इति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {19।31} यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {20।31} इदम् अपि अवश्यम् वक्तव्यम् स्वरार्थम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {21।31} तेन हि सति उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य इति एषः स्वरः प्रसज्येत .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {22।31} अनेन पुनः सति असिद्धत्वात् न भविष्यति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {23।31} यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् तत् न वक्तव्यम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {24।31} ननु च उक्तम् तत् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् भो3यिन्द्र भो3यिह इति .

(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {25।31} छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {26।31} यत् तर्हि न छान्दसम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {27।31} भो3यिन्द्रम् साम गायति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {28।31} एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः इति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {29।31} किम् नु यणा भवति इह न सिद्धम् य्वौ इदुतोः यत् अयम् विदधाति .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {30।31} तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ .1. इक् तु यदा भवति प्लुतपूर्वः तस्य यणम् विदधाति अपवादम् .
(प्_8,2.108.2) क_इइइ,422.11-423.4 रो_व्,429-430 {31।31} तेन तयोः च न शाकलदीर्घौ यण्स्वरबाधनम् एव तु हेतुः
(प्_8,3.1.1) क_इइइ,424.1-6 रो_व्,431 {1।7} मतुवसः रादेशे वनः उपसङ्ख्यानम् .
(प्_8,3.1.1) क_इइइ,424.1-6 रो_व्,431 {2।7} मतुवसः रादेशे वनः उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,3.1.1) क_इइइ,424.1-6 रो_व्,431 {3।7} यः त्वा आयन्तम् वसुना प्रातरित्वः .
(प्_8,3.1.1) क_इइइ,424.1-6 रो_व्,431 {4।7} इभाषा भवद्भगवदघवताम् ओत् च अवस्य . छन्दसि भाषायाम् च भवत् भगवत् अघवत् इति एतेषाम् विभाषा रुः वक्तव्यः ओत् च अवस्य वक्तव्यः .
(प्_8,3.1.1) क_इइइ,424.1-6 रो_व्,431 {5।7} भोः , भवन् .
(प्_8,3.1.1) क_इइइ,424.1-6 रो_व्,431 {6।7} भगोः , भगवन् .
(प्_8,3.1.1) क_इइइ,424.1-6 रो_व्,431 {7।7} अघोः , अघवन् इति
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {1।8} सम्बुद्धौ इति उच्यते तत्र इदम् न सिध्यति .
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {2।8} भोः ब्राह्मणाः इति .
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {3।8} तथा विभक्तौ लिङ्गविशिष्टग्रहणम् न इति इह न प्राप्नोति .
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {4।8} भोः ब्राह्मणि .
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {5।8} न एषः दोषः .
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {6।8} अव्ययम् एषः भोःशब्दः न एषा भवतः प्रवृत्तिः .
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {7।8} कथम् अव्ययत्वम् .
(प्_8,3.1.2) क_इइइ,424.6-10 रो_व्,431-432 {8।8} विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा निपातः अव्ययम् इति अव्ययसञ्ज्ञा
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {1।21} सम्पुङ्कानाम् सत्वम् .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {2।21} सम्पुङ्कानाम् सत्वम् वक्तव्यम् .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {3।21} संस्कर्ता पुंस्कामा कांस् कान् इति .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {4।21} रुविधौ हि अनिष्टप्रसङ्गः . रुविधौ हि सति अनिष्टम् प्रसज्येत .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {5।21} इह तावत् संस्कर्ता इति वा शरि इति प्रसज्येत .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {6।21} पुंस्कामा इति इदुदुपधस्य इति षत्वम् प्रसज्येत .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {7।21} कांस् कान् इति कुप्वोः ह्कः प्रसज्येत .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {8।21} तत् तर्हि वक्तव्यम् .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {9।21} न वक्तव्यम् .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {10।21} क्रियते न्यासे एव .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {11।21} समः सुटि इति द्विसकारकः निर्देशः : समः सुटि सकारः भवति .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {12।21} तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {13।21} यदि तत् अनुवर्तते नश्छव्यप्रशान् इति अत्र अपि प्राप्नोति .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {14।21} सम्बन्धम् अनुवर्तिष्यते .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {15।21} समःसुटि .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {16।21} पुमः खयि अम्परे सः भवति .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {17।21} नः छवि अप्रशान् रुः भवति पुमः खयि अम्परे सकारः .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {18।21} उभयथर्क्षु दीर्घादटिसमानपादे नॄन्पे स्वतवान्पायौ रुः भवति पुमः खयि अम्परे सकारः .

(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {19।21} कान् आम्रेडिते सकारः .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {20।21} पुमः खयि अम्परे इति निवृत्तम् .
(प्_8,3.5-6, 12) क_इइइ,424.11-416.8 रो_व्,432-434 {21।21} समः वा लोपम् एके इच्छन्ति : संस्कर्ता संस्कर्ता
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {1।22} ढलोपे अपदान्तग्रहणम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {2।22} ढलोपे अपदान्तग्रहणम् कर्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {3।22} इह मा भूत् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {4।22} श्वलिट् ढौकते .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {5।22} गुडलिट् ढौकते .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {6।22} तत् तर्हि वक्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {7।22} न वक्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {8।22} जश्त्वम् अत्र बाधकम् भविष्यति .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {9।22} जश्भावात् इति चेत् उत्तरत्र ढस्य अभावात् अपवादप्रसङ्गः . जश्भावात् इति चेत् उत्तरत्र ढकारस्य अभावात् असिद्धत्वात् अपवादः अयम् विज्ञायते .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {10।22} कस्य .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {11।22} जश्त्वस्य .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {12।22} तस्मात् सिद्धवचनम् . तस्मात् सिद्धत्वम् वक्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {13।22} कस्य .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {14।22} ष्टुत्वस्य .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {15।22} सङ्ग्रहणम् वा . सङ्ग्रहणम् वा कर्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {16।22} सङि ढः इति वक्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {17।22} तत्तर्हि वक्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {18।22} न वक्तव्यम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {19।22} आनन्तर्यम् इह आश्रीयते ढकारस्य ढकारे इति .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {20।22} क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न एव सन्निपातकृतम् न अपि शास्त्रकृतम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {21।22} ष्टुत्वे सन्निपातकृतम् आनन्तर्यम् जश्त्वे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् .
(प्_8,3.13) क_इइइ,425.9-23 रो_व्,434-435 {22।22} यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {1।29} विसर्जनीयः अनुत्तरपदे .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {2।29} विसर्जनीयः अनुत्तरपदे इति वक्तव्यम् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {3।29} इह मा भूत् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {4।29} नार्कुटः नार्पत्यः इति .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {5।29} न वा बहिरङ्गलक्षणत्वात् . न वा वक्तव्यम् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {6।29} किम् कारणम् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {7।29} बहिरङलक्षणत्वात् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {8।29} बहिरङ्गः रेफः .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {9।29} अन्तरङ्गः विसर्जनीयः .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {10।29} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {11।29} न एषः युक्तः परिहारः .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {12।29} अन्तरङ्गम् बहिरङ्गम् इति प्रतिद्वन्द्वभाविनौ एतौ पक्षौ .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {13।29} सति अन्तरङ्गे बहिरङ्गम् सति बहिरङ्गे अन्तर्गम् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {14।29} न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {15।29} किम् कारणम् .

(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {16।29} असिद्धत्वात् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {17।29} न च अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {18।29} तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {19।29} अनिमित्तम् बहिरङ्गम् अन्तरङ्गस्य .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {20।29} किम् कारणम् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {21।29} असिद्धत्वात् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {22।29} कथम् असिद्धत्वम् यावता पूर्वत्र असिद्धम् इति असिद्धा परिभाषा .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {23।29} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {24।29} कथम् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {25।29} कार्यकालम् सञ्ज्ञापरिभाषम् इति खरवसानयोर्विसर्जनीयः उपस्थितम् इदम् भवति असिद्धम् बहिरङ्गम् अन्तरङ्गे इति .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {26।29} एवम् एषा सिद्धा परिभाषा भवति .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {27।29} कुतः नु खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्र असिद्धम् इति च असिद्धम् बहिरङ्गम् अन्तरङ्गे इति च पूर्वत्रासिद्धम् इति एताम् उपमृद्य असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एतया व्यवस्था भविष्यति न पुनः असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एताम् उपमृद्य पुर्वत्रासिद्धम् इति एतया व्यवस्था स्यात् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {28।29} अतः किम् .
(प्_8,3.15) क_इइइ,426.1-19 रो_व्,435-439 {29।29} अतः अयुक्तः परिहारः न वा बहिरङ्गलक्षणत्वात् इति
(प्_8,3.16) क_इइइ,426.20-22 रो_व्,439 {1।5} किमर्थम् इदम् उच्यते न खरवसानयोः विसर्जनीयः इति एव सिद्धम् .
(प्_8,3.16) क_इइइ,426.20-22 रो_व्,439 {2।5} नियमार्थः अयम् आरम्भः .
(प्_8,3.16) क_इइइ,426.20-22 रो_व्,439 {3।5} रोः एव सुपि न अन्यस्य सुपि .
(प्_8,3.16) क_इइइ,426.20-22 रो_व्,439 {4।5} क्व मा भूत् .
(प्_8,3.16) क_इइइ,426.20-22 रो_व्,439 {5।5} गीर्षु धूर्षु
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {1।24} अश्ग्रहणम् अनर्थकम् अन्यत्र अभावात् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {2।24} अश्ग्रहणम् अनर्थकम् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {3।24} किम् कारणम् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {4।24} अन्यत्र अभावात् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {5।24} न हि अन्यत्र रुः अस्ति अन्यत् अतः अशः .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {6।24} ननु च अयम् अस्ति. छन्दःसु पयःसु इति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {7।24} किम् पुनः कारणम् सुकारपरः एव उदाह्रियते न पुनः अयम् वृक्षः तत्र प्लक्षः तत्र इति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {8।24} अस्ति अत्र विशेषः .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {9।24} विसर्जनीये कृते न भविष्यति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {10।24} इह अपि तर्हि विसर्जनीये कृते न भविष्यति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {11।24} छन्दःसु पयःस्विति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {12।24} स्थानिवद्भावात् प्राप्नोति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {13।24} ननु च इह अपि स्थानिवद्भावात् प्राप्नोति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {14।24} वृक्षः तत्र प्लक्षः तत्र इति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {15।24} अनल्विधौ स्थानिवद्भावः .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {16।24} अथ अयम् अल्विधिः स्यात् शक्यम् अश्ग्रहणम् अवक्तुम् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {17।24} बाढम् शक्यम् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {18।24} अल्विधिः तर्हि भविष्यति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {19।24} कथम् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {20।24} इदम् अस्ति रोरि इति .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {21।24} ततः वक्ष्यामि खरवसानयोः विसर्जनीयः रः .

(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {22।24} ततः रोः सुपि विसर्जनीयः रः इति एव .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {23।24} उत्तरार्थम् तर्हि अश्ग्रहणम् कर्तव्यम् हलिसर्वेषाम् हलि अशि इति यथा स्यात् .
(प्_8,3.17) क_इइइ,427.1-12 रो_व्,440-441 {24।24} इह मा भूत् : वृक्षवयतेः अप्रत्ययः वृक्षव् करोति
(प्_8,3.20) क_इइइ,427.13-16 रो_व्,442 {1।4} किमर्थम् इदम् उच्यते न लोपः शाकल्यस्य इति एव सिद्धम् .
(प्_8,3.20) क_इइइ,427.13-16 रो_व्,442 {2।4} ओकारात् लोपवचनम् नित्यार्थम् .
(प्_8,3.20) क_इइइ,427.13-16 रो_व्,442 {3।4} ओकारात् लोपवचनम् क्रियते .
(प्_8,3.20) क_इइइ,427.13-16 रो_व्,442 {4।4} नित्यार्थः अयम् आरम्भः
(प्_8,3.21) क_इइइ,427.17-21 रो_व्,442 {1।7} पदे इति किमर्थम् .
(प्_8,3.21) क_इइइ,427.17-21 रो_व्,442 {2।7} तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् .
(प्_8,3.21) क_इइइ,427.17-21 रो_व्,442 {3।7} पदे इति शक्यम् अवक्तुम् .
(प्_8,3.21) क_इइइ,427.17-21 रो_व्,442 {4।7} कस्मात् न भवति तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् इति .
(प्_8,3.21) क_इइइ,427.17-21 रो_व्,442 {5।7} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति .
(प्_8,3.21) क_इइइ,427.17-21 रो_व्,442 {6।7} उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ङमोह्रस्वादचिङमुण्नित्यम् इति अपदे मा भूत् .
(प्_8,3.21) क_इइइ,427.17-21 रो_व्,442 {7।7} दण्डिना शकटिना
(प्_8,3.26) क_इइइ,428.1-4 रो_व्,443 {1।5} यवलपरे यवलाः वा .
(प्_8,3.26) क_इइइ,428.1-4 रो_व्,443 {2।5} यवलपरे हकारे यवलाः वा इति वक्तव्यम् .
(प्_8,3.26) क_इइइ,428.1-4 रो_व्,443 {3।5} किय्ह्यः किम् ह्यः .
(प्_8,3.26) क_इइइ,428.1-4 रो_व्,443 {4।5} किव्ह्वलयति किम् ह्वलयति .
(प्_8,3.26) क_इइइ,428.1-4 रो_व्,443 {5।5} किल्ह्लादयति किम् ह्लादयति
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {1।30} इह धुडादिषु केचित् पूर्वान्ताः केचित् परादयः .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {2।30} यदि पुनः सर्वे एव पूर्वान्ताः स्युः सर्वे एव परादयः .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {3।30} कः च अत्र विशेषः .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {4।30} धुगादिषु ष्टुत्वणत्वप्रतिषेधः .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {5।30} धुगादिषु सत्सु ष्टुत्वणत्वयोः प्रतिषेधः वक्तव्यः .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {6।30} ष्टुत्वस्य तावत् .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {7।30} श्वलिट्त्साये .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {8।30} मधुलिट्त्साये .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {9।30} ष्टुनाष्टुः इति ष्टुत्वम् प्राप्नोति .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {10।30} परादौ पुनः सति नपदान्ताट्टोरनाम् इति प्रतिषेधः सिद्धः भवति .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {11।30} णत्वस्य .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {12।30} कुर्वन्नास्ते .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {13।30} कृषन्नास्ते .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {14।30} रषाभ्यान्नोणःसमानपदे इत् णत्वम् प्राप्नोति .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {15।30} परादौ पुनः सति पदान्तस्य न इति प्रतिषेधः सिद्धः भवति .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {16।30} सन्तु तर्हि परादयः .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {17।30} परादौ छत्वषत्वविधिप्रतिषेधः . यदि परादयः छत्वम् विधेयम् षत्वम् च प्रतिषेध्यम् .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {18।30} छत्वम् विधेयम् .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {19।30} कुर्वञ्च्छेते .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {20।30} कृषञ्च्छेते .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {21।30} यत् हि तत् शश्छोऽटि इति झयः पदान्तात् इति एवम् तत् .

(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {22।30} किम् पुनः कारणम् झयः पदान्तात् इति एवम् तत् .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {23।30} इह मा भूत् .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {24।30} पुरा क्रूरस्य विसृपः विरप्शिन् इति .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {25।30} षत्वम् च प्रतिषेध्यम् .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {26।30} प्रत्यङ्क्सिञ्च .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {27।30} उदङ्क्सिञ्च .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {28।30} आदेशप्रत्यययोः इति षत्वम् प्राप्नोति .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {29।30} पूर्वान्ते पुनः सति सात्पदाद्योः इति प्रतिषेधः सिद्धः भवति .
(प्_8,3.28-32) क_इइइ,428.5-429.6 रो_व्,443-444 {30।30} तस्मात् सन्तु यथान्यासम् एव केचित् पूर्वान्ताः केचित् परादयः .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {1।8} अयम् तु खलु शि तुक् छत्वार्थम् नियोगतः पूर्वान्तः कर्तव्यः तत्र कुर्वञ्च्छेते कृषञ्च्छेते इति रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {2।8} न एषः दोषः .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {3।8} श्चुत्वे योगविभागः करिष्यते .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {4।8} इदम् अस्ति क्षुभ्नादिषु न णकारः भवति .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {5।8} ततः स्तोः श्चुना .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {6।8} स्तोः श्चुना सन्निपाते न णकारः भवति .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {7।8} ततः श्चुः .
(प्_8,3.32.1) क_इइइ,429.6-10 रो_व्,444 {8।8} श्चुः च भवति स्तोः श्चुना सन्निपाते
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {1।28} ङमुटि पदादिग्रहणम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {2।28} ङमुटि पदादिग्रहणम् कर्तव्यम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {3।28} इह मा भूत् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {4।28} दण्डिना शकटिना इति .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {5।28} तत् तर्हि वक्तव्यम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {6।28} न वक्तव्यम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {7।28} पदात् इति वर्तते .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {8।28} एवम् अपि परमदण्डिना परमच्छत्त्रिणा इति प्राप्नोति .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {9।28} न एषः दोषः .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {10।28} उक्तम् एतत् उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {11।28} एवम् अपि पदात् इति वक्तव्यम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {12।28} यत् हि तत् प्रकृतम् प्राक् सुपि कुत्सनात् इति एवम् तत् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {13।28} एवम् तर्हि ङमः एव अयम् ङमुट् क्रियते .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {14।28} कथम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {15।28} पदस्य इति वर्तते ङमः इति च न एषा पञ्चमी .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {16।28} का तर्हि .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {17।28} सम्बन्धषष्ठी .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {18।28} पदान्तस्य ङमः ङमुट् भवति ह्रस्वात् उत्तरस्य अचि इति .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {19।28} यदि ङमः एव ङमुट् क्रियते कुर्वन्नास्ते कृषन्नास्ते रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {20।28} पदान्तस्य न इति प्रतिषेधः भविष्यति .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {21।28} पदान्तस्य इति उच्यते न एषः पदान्तः .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {22।28} पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {23।28} एवम् अपि न सिध्यति .

(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {24।28} किम् कारणम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {25।28} उक्तम् एतत् न वा पदाधिकारस्य विशेषणत्वात् इति .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {26।28} एवम् तर्हि पदे इति वर्तते .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {27।28} क्व प्रकृतम् .
(प्_8,3.32.2) क_इइइ,429.11-24 रो_व्,444-446 {28।28} उञि च पदे इति
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {1।9} किमर्थम् मयः उत्तरस्य उञः वः वा इति उच्यते न इकः यणचि इति एव सिद्धम् .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {2।9} न सिध्यति .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {3।9} प्रगृह्यः प्रकृत्या इति प्रकृतिभावः प्राप्नोति .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {4।9} यदि पुनः तत्र एव उच्येत इकः यणचि मयः उञः वा इति .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {5।9} न एवम् शक्यम् .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {6।9} इह हि दोषः स्यात् .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {7।9} किम्वावपनम् महत् .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {8।9} मः अनुस्वारः हलि इति अनुस्वारः प्रसज्येत .
(प्_8,3.33) क_इइइ,430.1-6 रो_व्,446 {9।9} वत्वे पुनः सति असिद्धत्वात् न भविष्यति
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {1।31} इह कस्मात् न भवति : वृक्षः , प्लक्षः इति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {2।31} संहितायाम् इति वर्तते .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {3।31} एवम् अपि अत्र प्राप्नोति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {4।31} किम् कारणम् .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {5।31} परः सन्निकर्षः संहिता इति उच्यते .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {6।31} सः यथा एव परेण परः सन्निकर्षः एवम् पूर्वेण अपि .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {7।31} एवम् तर्हि अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधिष्यते .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {8।31} अथ वा संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते : साधीयः यः परः सन्निकर्षः इति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {9।31} कः च साधीयः .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {10।31} यः पूर्वपरयोः .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {11।31} यदि एव अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधते अथ अपि संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञायते उभयथा दोषः भवति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {12।31} इष्यन्ते इतः उत्तरम् अवसाने संहिताकार्याणि तानि न सिध्यन्ति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {13।31} अणः अप्रगृह्यस्य अनुनासिकः इति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {14।31} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् खरवसानयोर्विस्जनीयः इति आह .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {15।31} इतरथा खरवसानयोः सः भवति इति एव ब्रूयात् .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {16।31} तत् च लघु भवति विसर्जनीयस्य सः इति एतत् च न वक्तव्यं भवति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {17।31} अवश्यम् शर्परेविसर्जनीयः इति अत्र प्रकृतिनिर्देशार्थम् विसर्जनीयग्रहणम् कर्तव्यम् .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {18।31} अथ इदानीम् एतत् अपि रसान्निध्यार्थम् पुरस्तात् अपक्रक्ष्यते खरवसानयोः सः इति अत्र एव एवम् अपि कुप्वोः xक्कxप्पौ च इति एवमादिना अनुक्रमणेन व्यवच्छिन्नम् भोभगोअघोअपूर्वस्ययोऽशि इति अत्र रुग्रहणम् कर्तव्यम् स्यात् .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {19।31} एवम् अपि एकम् विसर्जनीयग्रहणम् व्याजः भवति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {20।31} सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {21।31} एवम् अपि अनैकान्तिकम् ज्ञापकम् .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {22।31} एतावत् ज्ञाप्यते न सर्वस्य विजनीयस्य सत्वम् भवति इति तत्र कुतः एतत् इह भविष्यति वृक्षः तत्र प्लक्षः तत्र इति इह न भविष्यति वृक्षः प्लक्षः इति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {23।31} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न अस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् शर्परे विसर्जनीयः इति आह .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {24।31} अथ वा हलि इति वर्तते .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {25।31} क्व प्रकृतम् .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {26।31} हलि सर्वेषाम् इति .

(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {27।31} यदि तत् अनुवर्तते मयः उञः वः वा हलि च इति हलि अपि वत्वम् प्राप्नोति .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {28।31} शमु नः .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {29।31} शमु योः अस्तु .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {30।31} एवम् तर्हि विसर्जनीयस्यसः इति अत्र खरि इति अनुवर्तिष्यते .
(प्_8,3.34) क_इइइ,430.7-431.6 रो_व्,447-450 {31।31} अथ वा सम्बन्धम् अनुवर्तिष्यते
(प्_8,3.36) क_इइइ,431.7-9 रो_व्,450 {1।4} वाशर्प्रकरणे खर्परे लोपः .
(प्_8,3.36) क_इइइ,431.7-9 रो_व्,450 {2।4} वाशर्प्रकरणे खर्परे लोपः वक्तव्यः .
(प्_8,3.36) क_इइइ,431.7-9 रो_व्,450 {3।4} वृक्षाः स्थातारः .
(प्_8,3.36) क_इइइ,431.7-9 रो_व्,450 {4।4} वृक्षाः स्थातारः
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {1।32} सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {2।32} सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः वक्तव्याः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {3।32} विसर्जनीयादेशे हि शर्परयोः एव आदेशप्रसङ्गः . विसर्जनीयादेशे हि सति शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {4।32} अद्भिः प्सातम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {5।32} वासः क्षौमम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {6।32} वचनात् न भविष्यतः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {7।32} अस्ति वचने प्रयोजनम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {8।32} किम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {9।32} पुरुषः त्सरुकः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {10।32} तत् तर्हि वक्तव्यम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {11।32} न वक्तव्यम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {12।32} यत् एतत् विसर्जनीयस्य सः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवर्तिष्यते तस्मिन् च शर्परे विसर्जनीयः असिद्धः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {13।32} न असिद्धः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {14।32} कथम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {15।32} अधिकारः नाम त्रिप्रकारः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {16।32} कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वम् वेश्म अभिज्वलयति .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {17।32} अपरः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {18।32} अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {19।32} तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एतत् विसर्जनीयस्यसः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवृत्तम् सत् अन्यत् सम्पद्यते तस्मिन् च शर्परे विसर्जनीयः सिद्धः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {20।32} एवम् च क्र्त्वा शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {21।32} अद्भिः प्सातम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {22।32} वासः क्षौमम् इति .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {23।32} एवम् तर्हि योगविभागः करिष्यते .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {24।32} शर्परे विसर्जनीयः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {25।32} वा शरि .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {26।32} ततः कुप्वोः .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {27।32} कुप्वोः च शर्परयोः विसर्जनीयस्य विसर्जनीयः भवति इति .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {28।32} किमर्थम् इदम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {29।32} कुप्वोः ह्क्कह्प्पौ वक्ष्यति तद्बाधनार्थम् .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {30।32} ततः ह्क्कह्प्पौ भवतः कुप्वोः इति एव .
(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {31।32} शर्परयोः इति निवृत्तम् .

(प्_8,3.37) क_इइइ,431.10-432.7 रो_व्,450-453 {32।32} अथ वा शर्परेविसर्जनीयः इति एतत् कुप्वोः ह्क्कह्प्पौ च इति अत्र अनुवर्तिष्यते
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {1।34} सः अपदादौ अनव्ययस्य .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {2।34} सः अपदादौ अनव्ययस्य इति वक्तव्यम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {3।34} इह मा भूत् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {4।34} प्रातःकल्पम् पुनःकल्पम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {5।34} रोः काम्ये नियमार्थम् . रोः काम्ये इति वक्तव्यम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {6।34} किम् प्रयोजनम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {7।34} नियमार्थम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {8।34} रोः एव काम्ये न अन्यस्य .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {9।34} पयस्काम्यति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {10।34} क्व मा भूत् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {11।34} गीःकाम्यति पूःकाम्यति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {12।34} उपध्मानीयस्य च सत्वम् वक्तव्यम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {13।34} किम् प्रयोजनम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {14।34} अयम् उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत् रूपम् यथा स्यात् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {15।34} यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनम् प्राप्नोति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {16।34} दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {17।34} यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {18।34} असिद्धे भः उद्जेः .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {19।34} इदम् अस्ति स्तोःश्चुनाश्चुः .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {20।34} ततः वक्ष्यामि .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {21।34} भः उद्जेः .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {22।34} उद्जेः च श्चुना सन्निपाते भः भवति इति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {23।34} तत् तर्हि वक्तव्यम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {24।34} न वक्तव्यम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {25।34} निपातनात् एतत् सिद्धम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {26।34} किम् निपातनम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {27।34} भुजन्युब्जौपाण्युपतापयोः इति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {28।34} इह अपि प्राप्नोति .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {29।34} अभ्युद्गः समुद्गः .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {30।34} अकुत्वविषये निपातनम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {31।34} अथ वा न एतत् उब्जेः रूपम् .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {32।34} किम् तर्हि गमेः द्व्युपसर्गात् डः विधीयते .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {33।34} अभ्युद्गतः अभ्युद्गः .
(प्_8,3.38) क_इइइ,432.8-23 रो_व्,453-454 {34।34} समुद्गतः समुद्गः
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {1।41} किम् अविशेषेण सत्वम् उक्त्वा ततः इणः उत्तरस्य सकारस्य षत्वम् उच्यते आहोस्वित् इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {2।41} किम् च अतः .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {3।41} यदि अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {4।41} अथ इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते सत्वम् अपि अनुवर्तते उताहो न .
(प्_8,3.39) क_इइइ,432.24-433.28 रो_व्,454-456 {5।41} किम् च अतः .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc