व्याकरणमहाभाष्य · भाग 11611180
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {12।26} दध्याश .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {13।26} मध्वाश .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {14।26} एवम् तर्हि योगविभागः करिष्यते .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {15।26} उदात्तयणः परस्य अनुदात्तस्य स्वरितः भवति .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {16।26} ततः स्वरितयणः .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {17।26} स्वरितयणः च परस्य अनुदात्तस्य स्वरितः भवति .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {18।26} उदात्तयणः इति एव .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {19।26} अथ वा स्वरितग्रहणम् न करिष्यते .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {20।26} केन इदानीम् स्वरितयणः परस्य अनुदात्तस्य स्वरितः भविष्यति .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {21।26} उदात्तयणः इति एव .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {22।26} ननु च स्वरितयणा व्यवहितत्वात् न प्राप्नोति .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {23।26} स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {24।26} अथ वा न एवम् विज्ञायते स्वरितस्य यण् स्वरितयण् स्वरितयणः इति .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {25।26} कथम् तर्हि .
(प्_8,2.4) क_इइइ,388.16-389.6 रो_व्,362-364 {26।26} स्वरिते यण् स्वरितयण् स्वरितयणः इति
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {1।14} स्वरितग्रहणम् शक्यम् अकर्तुम् .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {2।14} कथम् .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {3।14} अनुदात्ते परतः पदादौ वा उदात्तः इति एव सिद्धम् .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {4।14} केन इदानीम् स्वरितः भविष्यति .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {5।14} गाङ्गे अनूपे इति .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {6।14} आन्तर्यतः उदात्तानुदात्तयोः एकादेशः स्वरितः भविष्यति .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {7।14} इदम् तर्हि प्रयोजनम् तेन वर्ज्यमानता मा भूत् .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {8।14} अथ क्रियमाणे अपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मात् न भवति .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {9।14} कन्या अनूपे इति .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {10।14} बहिरङ्गलक्षणत्वात् .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {11।14} असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एवम् न भविष्यति .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {12।14} यथा एव तर्हि क्रियमाणे स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता न भवति एवम् अक्रियमाणे अपि न भविष्यति .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {13।14} तस्मात् न अर्थः स्वरितग्रहणेन .
(प्_8,2.6.1) क_इइइ,389.7-15 रो_व्,364-365 {14।14} बहिरङ्गलक्षणत्वात् सिद्धम्
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {1।208} एकादेशस्वरः अन्तरङ्गः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {2।208} एकादेशस्वरः अन्तरङ्गः सिद्धः वक्तव्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {3।208} किम् प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {4।208} अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् . अय् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {5।208} वृक्षे इदम् प्लक्षे इदम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {6।208} उदात्तानुदात्तयोः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {7।208} तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {8।208} तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः अयादेशः यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {9।208} अवादेशः न अस्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {10।208} आय् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {11।208} कुमार्यै इदम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {12।208} उदात्तानुदात्तयोः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {13।208} तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {14।208} तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आयादेशः यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {15।208} न एतत् अस्ति प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {16।208} एकादेशे कृते उदात्तयणोहल्पूर्वात् इति उदात्तत्वम् भविष्यति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {17।208} इदम् इह सम्प्रधार्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {18।208} उदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {19।208} परत्वात् उदात्तत्वम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {20।208} नित्यः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {21।208} कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {22।208} एकादेशः अपि अनित्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {23।208} अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {24।208} अन्तरङ्गः तर्हि एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {25।208} का अन्तरङ्गता .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {26।208} वर्णौ आश्रित्य एकादेशः पदस्य उदात्तत्वम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {27।208} एवम् तर्हि इदम् इह सम्प्रधार्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {28।208} आट् क्रियताम् उदात्तत्वम् इति किम् अत्र कर्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {29।208} परत्वात् आडागमः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {30।208} नित्यम् उदात्तत्वम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {31।208} कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {32।208} आट् अपि नित्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {33।208} कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {34।208} अनित्यः आट् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {35।208} अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {36।208} उदात्तत्वम् अपि अनित्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {37।208} अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते प्राप्नोति शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {38।208} उभयोः अनित्ययोः परत्वात् आडागमः आटि कृते अन्तरङ्गः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {39।208} आव् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {40।208} वृक्षविदम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {41।208} उदात्तानुदात्तयोः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {42।208} तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {43।208} तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आवादेशः यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {44।208} एकादेशस्वर .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {45।208} गाङ्गे अनूपे इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {46।208} उदात्तानुदात्तयोः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {47।208} तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {48।208} तस्य सिद्धत्वम् वक्तव्यम् स्वरितोवानुदात्तेपदादौ इति एतत् यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {49।208} शतृस्वर .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {50।208} तुदति नुदति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {51।208} उदात्तानुदात्तयोः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {52।208} तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {53।208} तस्य सिद्धत्वम् वक्तव्यम् शतुः अनुमः नद्यजादिः अन्तोदात्तात् इति एषः स्वरः यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {54।208} न एतत् अस्ति प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {55।208} आचार्यप्रवृत्तिः ज्ञापयति सिद्धः एकादेशस्वरः शतृस्वरः इति यत् अयम् अनुमः इति प्रतिषेधम् शास्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {56।208} कथम् कृत्वा ज्ञापकम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {57।208} न हि अन्तरेण उदात्तानुदात्तोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {58।208} ननु च इदम् अस्ति यन्ती वन्ती .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {59।208} एतत् अपि निघाते कृते न अन्तरेण उदात्तानुदात्तयोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {60।208} इदम् इह सम्प्रधार्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {61।208} निघातः क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {62।208} परत्वात् निघातः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {63।208} नित्यः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {64।208} कृते अपि निघाते प्राप्नोति अकृते अपि प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {65।208} एकादेशः अपि अनित्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {66।208} अन्यथास्वरस्य कृते निघाते प्राप्नोति अन्यथास्वरस्य अकृते निघाते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {67।208} अन्तरङ्गः तर्हि एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {68।208} का अन्तरङ्गता .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {69।208} वर्णौ आश्रित्य एकादेशः पदस्य निघातः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {70।208} निघातः अपि अन्तरङ्गः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {71।208} कथम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {72।208} उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {73।208} उभयोः अन्तरङ्गयोः परत्वात् निघातः निघाते कृते एतत् अपि न अन्तरेण उदात्तानुदात्तयोः एकादेशम् अन्तोदात्तम् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {74।208} शतृस्वर .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {75।208} एकानुदात्त .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {76।208} तुदन्ति लिखन्ति. उदात्तानुदात्तयोः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {77।208} तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {78।208} तस्य सिद्धत्वम् वक्तव्यम् तेन वर्ज्यमानता यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {79।208} सर्वानुदात्त .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {80।208} ब्राह्मणाः तुदन्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {81।208} ब्राह्मणाः लिखन्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {82।208} उदात्तानुदात्तयोः एकादेशः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {83।208} तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {84।208} तस्य सिद्धत्वम् वक्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {85।208} किम् प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {86।208} तिङतिङः इति निघातः यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {87।208} किम् उच्यते अन्तरङ्गः इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {88।208} यः हि बहिरङ्गः असिद्धः एव असौ भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {89।208} प्रपचतिति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {90।208} सोमसुत् पचतिति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {91।208} तत् तर्हि वक्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {92।208} न वक्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {93।208} सर्वत्र एव नुम्प्रतिषेधः ज्ञापकः सिद्धः एकादेशस्वरः अन्तरङ्गः इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {94।208} संयोगान्तलोपः रोः उत्त्वे हरिवः मेदिनम् त्वा . संयोगान्तलोपः रोः उत्त्वे सिद्धः वक्तव्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {95।208} किम् प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {96।208} हरिवः मेदिनम् त्वा .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {97।208} संयोगान्तलोपस्य असिद्धत्वात् हशि इति उत्त्वम् न प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {98।208} प्लुतिः च . प्लुतिः च उत्त्वे सिद्धा वक्तव्या .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {99।208} सुस्रोत3 अत्र नु असि इति अत्र प्लुतेः असिद्धत्वात् अतः अति इति उत्त्वम् प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {100।208} अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {101।208} न एतत् अस्ति प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {102।208} क्रियते न्यासे एव .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {103।208} सिज्लोपः एकादेशे . सिज्लोपः एकादेशे सिद्धः वक्तव्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {104।208} अलावीत् अपावीत् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {105।208} सिज्लोपस्य असिद्धत्वात् सवर्णदीर्घत्वम् न प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {106।208} यदि पुनः इडादेः सिचः लोपः उच्येत .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {107।208} न एवम् शक्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {108।208} इह हि मा हि लावित् मा हि पावित् यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {109।208} इटि पुनः सति उक्तम् एतत् अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशे उदात्तेनोदात्तः इति उदात्तत्वम् सिद्धम् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {110।208} संयोगादिलोपः संयोगान्तलोपे . संयोगादिलोपः संयोगान्तस्य लोपे सिद्धः वक्तव्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {111।208} काष्ठतट् कूटतट् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {112।208} संयोगादिलोपस्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {113।208} न एषः दोषः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {114।208} उकम् एतत् अपवादः वचनप्रामाण्यात् इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {115।208} निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु . निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धः वक्तव्यः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {116।208} वृक्णः वृक्णवान् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {117।208} निष्ठादेशस्य असिद्धत्वात् झलि इति षत्वम् प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {118।208} स्वर .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {119।208} क्षिवः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {120।208} निष्ठादेशस्य असिद्धत्वात् निष्ठाचद्व्यजनात् इति एषः स्वरः न प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {121।208} प्रत्यय .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {122।208} क्षीवेण तरति क्षीविकः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {123।208} निष्ठादेशस्य असिद्धत्वात् द्व्यचः ठन् इति ठन् न प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {124।208} इड्विधि .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {125।208} निष्ठादेशस्य असिद्धत्वात् वलादिलक्षणः इट् प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {126।208} ननु च यः प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {127।208} इदम् तर्हि प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {128।208} ओलस्जी लग्नः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {129।208} निष्ठादेशः सिद्धः वक्तव्यः नेड्वशिकृति इति इट्प्रतिषेधः यथा स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {130।208} ईदित्करणम् न कर्तव्यम् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {131।208} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {132।208} क्रियते एतत् न्यासे एव .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {133।208} वस्वादिषु दत्वम् सौ दीर्घत्वे . वस्वादिषु दत्वम् सौ दीर्घत्वे सिद्धम् वक्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {134।208} उखास्रत् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {135।208} पर्णध्वत् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {136।208} दत्वस्य असिद्धत्वात् अत्वसन्तस्य इति दीर्घत्वम् प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {137।208} अधातोः इति न वक्तव्यम् भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {138।208} न एतत् अस्ति प्रयोजनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {139।208} क्रियते न्यासे एव .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {140।208} अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे . अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {141।208} अमी अत्र .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {142।208} अमी आसते .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {143।208} अमू अत्र .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {144।208} अमू आसाते .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {145।208} ईत्त्वोत्वयोः असिद्धत्वात् एचः इति अयावेकादेशाः प्राप्नुवन्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {146।208} किम् उच्यते बहिष्पदलक्षणे इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {147।208} यः हि अन्यः असिद्धः एव असौ भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {148।208} अमुया अमुयोः इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {149।208} प्रगृह्यसञ्ज्ञायाम् च . प्रगृह्यसञ्ज्ञायाम् च सिद्धे वक्तव्ये .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {150।208} अमी अत्र .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {151।208} अमी आसते .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {152।208} अमू अत्र .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {153।208} अमू आसाते .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {154।208} ईत्त्वोत्वयोः असिद्धत्वात् अदसोमात् इति प्रगृह्यसञ्ज्ञा न प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {155।208} किम् अर्थम् इदम् उभयम् उच्यते न प्रगृह्यसञ्ज्ञायाम् इति एव स्वरे अपि बहिष्पदलक्षणे चोदितम् स्यात् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {156।208} पुरस्तात् इदम् आचार्येण दृष्टम् स्वरे बहिष्पदलक्षणे इति तत् पठितम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {157।208} ततः उत्तरकालम् इदम् दृष्टम् प्रगृह्यसञ्ज्ञायाम् च इति तद् अपि पठितम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {158।208} न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {159।208} प्लुतिः तुग्विधौ छे . प्लुतिः तुग्विधौ छे सिद्धा वकव्या .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {160।208} अग्न3इ च्छत्त्रम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {161।208} पट3उ च्छत्त्रम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {162।208} प्लुतेः असिद्धत्वात् छेच इति तुक् न प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {163।208} किम् उच्यते छे इति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {164।208} यः हि अन्यः असिद्धः एव असौ भवति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {165।208} अग्निचि3त् सोमसु3त् . श्चुत्वम् धुट्त्वे . श्चुत्वम् धुट्त्वे सिद्धम् वक्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {166।208} अट् श्च्योतति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {167।208} पट् स्च्योतति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {168।208} श्चुत्वस्य असिद्धत्वात् डःसिधुट् इति धुट् प्रसज्येत .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {169।208} अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः . अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः सिद्धम् वक्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {170।208} बभणतुः बभणुः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {171।208} अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {172।208} उचिच्छिषति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {173।208} अभ्यासादेशस्य असिद्धत्वात् छेच इति तुक् प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {174।208} द्विर्वचने परसवर्णत्वम् . द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {175।208} सय्ंयन्ता सव्ंवत्सरः तल्ं लोकम् यल्ं लोकम् इति परसवर्णस्य असिद्धत्वात् यरः इति द्विर्वचनम् न प्राप्नोति .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {176।208} पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि . पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {177।208} लत्व गरः गरः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {178।208} गलः गलः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {179।208} लत्व. घत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {180।208} द्रोग्धा द्रोग्धा .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {181।208} द्रोढा द्रोढा .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {182।208} घत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {183।208} नत्व. नुन्नः नुन्नः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {184।208} नुत्तः नुत्तः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {185।208} नत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {186।208} रुत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {187।208} अभिनः अभिनः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {188।208} अभिनत् अभिनत् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {189।208} रुत्व षत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {190।208} मातुःष्वसा मातुःष्वसा .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {191।208} मातुःस्वसा मातुःस्वसा पितुःष्वसा पितुःष्वसा .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {192।208} पितुःस्वसा पितुःस्वसा .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {193।208} षत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {194।208} णत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {195।208} माषवापाणि माषवापाणि .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {196।208} माषवापानि माषवापानि .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {197।208} णत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {198।208} अनुनासिक .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {199।208} नाङ्नयनम् नाङ्नयनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {200।208} वाग्नयनम् वाग्नयनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {201।208} अनुनासिक .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {202।208} छत्व .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {203।208} वाक्छयनम् वाक्छयनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {204।208} वाक्शयनम् वाक्शयनम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {205।208} उभयथा च अयम् दोषः यदि अपि स्थाने द्विर्वचनम् अथ अपि द्विःप्रयोगः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {206।208} कथम् .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {207।208} यदि तावत् स्थाने द्विर्वचनम् सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य लत्वाद्यभावः .
(प्_8,2.6.2) क_इइइ,389.16-394.4 रो_व्,365-375 {208।208} अथ द्विःप्रयोगः असिद्धत्वात् लत्वादीनि निवर्तेरन्
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {1।10} अन्तग्रहणम् किमर्थम् .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {2।10} नलोपे अन्तग्रहणम् पदाधिकारस्य विशेषणत्वात् .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {3।10} नलोपे अन्तग्रहणम् क्रियते .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {4।10} किम् कारणम् .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {5।10} पदाधिकारस्य विशेषणत्वात् .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {6।10} पदाधिकारः विशेषणम् .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {7।10} कथम् .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {8।10} पदस्य इति न एषा स्थानषष्ठी .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {9।10} का तर्हि .
(प्_8,2.7.1) क_इइइ,394.5-9 रो_व्,375 {10।10} विशेषणषष्ठी
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {1।20} अह्नः नलोपप्रतिषेधः .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {2।20} अह्नः नलोपप्रतिषेधः वक्तव्यः .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {3।20} अहोभ्याम् अहोभिः इति .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {4।20} सः तर्हि प्रतिषेधः वक्तव्यः .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {5।20} न वक्तव्यः .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {6।20} रुः अत्र बाधकः भविष्यति .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {7।20} असिद्धः रुः तस्य असिद्धत्वात् नलोपः प्राप्नोति .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {8।20} अनवकाशः रुः नलोपम् बाधिष्यते .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {9।20} सावकाशः रुः .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {10।20} कः अवकाशः .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {11।20} अनन्त्यः अकारः .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {12।20} आचार्यप्रवृत्तिः ज्ञापयति न अनन्त्यस्य रुः भवति इति यत् अयम् अहन्ग्रहणम् करोति .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {13।20} अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् वचनम् . अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् एतत् स्यात् .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {14।20} हे अहः इति .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {15।20} यत् तर्हि रुत्वम् शास्ति .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {16।20} एतत् अपि सम्बुद्ध्यर्थम् एव स्यात् .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {17।20} हे दीर्घाहः अत्र .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {18।20} यत् तर्हि रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् करोति तत् ज्ञापयति आचार्यः न अनन्त्यस्य रुः भवति इति .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {19।20} कथम् कृत्वा ज्ञापकम् .
(प्_8,2.7.2) क_इइइ,394.10-19 रो_व्,375-376 {20।20} न हि अस्ति विशेषः रूपरात्रिरथन्तरेषु अनन्त्यस्य रौ वा रे वा
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {1।36} न ङिसम्बुद्ध्योः अनुत्तरपदे .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {2।36} न ङिसम्बुद्ध्योः अनुत्तरपदे इति वक्तव्यम् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {3।36} इह मा भूत् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {4।36} चर्मणि तिला अस्य चर्मतिलः इति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {5।36} राजन् वृन्दारक राजवृन्दारक इति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {6।36} वा नपुंसकानाम् . वा नपुंसकानाम् इति वक्तव्यम् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {7।36} हे चर्म हे चर्मन् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {8।36} हे वर्म हे वर्मन् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {9।36} तत् तर्हि अनुत्तरपदे इति वक्तव्यम् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {10।36} न वक्तव्यम् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {11।36} न ङिसम्बुद्ध्योः इति उच्यते न च अत्र ङिसम्बुद्धी पश्यामः .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {12।36} प्रत्ययलक्षणेन .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {13।36} न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {14।36} न क्वचित् ङिः लोपेन लुप्यते सर्वत्र लुमता एव .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {15।36} यथा एव इह भवति आर्द्रे चर्मन् लोहिते चर्मन् इति एवम् इह अपि स्यात् चर्मणि तिला अस्य चर्मतिलः इति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {16।36} तस्मात् उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {17।36} एवम् तर्हि ङ्यर्थेन तावत् न अर्थः .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {18।36} भत्वात् तु ङौ प्रतिषेधानर्थक्यम् . ङौ प्रतिषेधः अनर्थकः .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {19।36} किम् कारणम् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {20।36} भत्वात् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {21।36} भसञ्ज्ञा अत्र भविष्यति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {22।36} यदि तर्हि भसञ्ज्ञा अत्र भवति रथन्तरे सामन् इति अत्र अल्लोपः अनः इति अल्लोपः प्राप्नोति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {23।36} न एषः दोषः .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {24।36} उक्तम् उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते तद् यथा सः सुष्टुभा सः ऋक्वता गणेन पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {25।36} एवम् इह अपि पदत्वात् अल्लोपः न भत्वात् नलोपः न भविष्यति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {26।36} तस्मात् न अर्थः ङिग्रहणेन .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {27।36} सम्बुद्ध्यर्थेन च अपि न अर्थः .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {28।36} कथम् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {29।36} सम्बुद्ध्यन्तानाम् असमासः .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {30।36} राजवृन्दारक इति .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {31।36} किम् वक्तव्यम् एतत् .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {32।36} न हि .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {33।36} कथम् अनुच्यमानम् गंस्यते .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {34।36} इह समानार्थेन वाक्येन भवितव्यम् समासेन च यः च इह अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन गम्यते .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {35।36} अवयवसम्बोधनम् वाक्येन गम्यते समुदायसम्बोधनम् समासेन .
(प्_8,2.8) क_इइइ,394.20-395.18 रो_व्,377-378 {36।36} वा नपुंसकानाम् इति एतत् वक्तव्यम् एव
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {1।10} अनन्त्ययोः अपि निष्ठामतुपोः आदेशः .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {2।10} निष्ठामतुपोः आदेशः अनन्त्ययोः अपि इति वक्तव्यम् .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {3।10} भिन्नवन्तौ भिन्नवन्तः .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {4।10} वृक्षवन्तौ वृक्षवन्तः .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {5।10} न वक्तव्यम् .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {6।10} वचनात् भविष्यति .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {7।10} अस्ति वचने प्रयोजनम् .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {8।10} किम् .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {9।10} भिन्नवान् छिन्नवान् .
(प्_8,2.9, 42) क_इइइ,395.19-24 रो_व्,378 {10।10} वृक्षवान् प्लक्षवान्
(प्_8,2.9) क_इइइ,396.1-5 रो_व्,378-379 {1।6} नार्मते प्रतिषेधः .
(प्_8,2.9) क_इइइ,396.1-5 रो_व्,378-379 {2।6} नार्मते प्रतिषेधः वक्तव्यः .
(प्_8,2.9) क_इइइ,396.1-5 रो_व्,378-379 {3।6} नृमतः नार्मतः इति .
(प्_8,2.9) क_इइइ,396.1-5 रो_व्,378-379 {4।6} उक्तम् वा . किम् उक्तम् .
(प्_8,2.9) क_इइइ,396.1-5 रो_व्,378-379 {5।6} निष्ठामतुपोः तावत् उक्तम् न वा पदाधिकारस्य विशेषणत्वात् इति .
(प्_8,2.9) क_इइइ,396.1-5 रो_व्,378-379 {6।6} नार्मते अपि उक्तम् न वा बहिरङ्गलक्षणत्वात् इति
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {1।11} किम् अयम् एकयोगः आहोस्वित् नानायोगौ .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {2।11} किम् च अतः .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {3।11} यदि एकयोगः हीवती कपीवती अत्र न प्राप्नोति .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {4।11} अथ नानायोगौ इक्षुमती द्रुमती अत्र अपि प्राप्नोति .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {5।11} यथा इच्छसि तथा अस्तु .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {6।11} अस्तु तावत् एकयोगः .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {7।11} कथम् अहीवती कपीवती .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {8।11} आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् वत्वम् इति यत् अयम् अन्तोऽवत्याः ईवत्याः इति आह .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {9।11} अथ वा पुनः अस्तु नानायोगौ .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {10।11} ननु च उक्तम् इक्षुमती द्रुमती अत्र अपि प्राप्नोति इति .
(प्_8,2.11-12) क_इइइ,396.6-13 रो_व्,379 {11।11} यवादिषु पाथः करिष्यते
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {1।28} छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणम् ते सप्तर्षिमन्तम् इति अत्र अपि प्राप्नोति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {2।28} न एषः दोषः .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {3।28} न एवम् विज्ञायते छन्दसि इरः इति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {4।28} कथम् तर्हि .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {5।28} छन्दसि ईरः इति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {6।28} एवम् अपि त्विषीमान् पतीमान् इति अत्र अपि प्राप्नोति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {7।28} न एषः दोषः .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {8।28} विहितविशेषणम् ईकारग्रहङम् .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {9।28} ईकारान्तात् यः विहितः इति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {10।28} एवम् अपि सूरम् ते द्यावापृथिवीमन्तम् इति अत्र अपि प्राप्नोति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {11।28} इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {12।28} एवम् तर्हि परिगणनम् कर्तव्यम् .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {13।28} त्रिहर्यधिपत्यग्निरे .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {14।28} त्रिवतीः याज्यानुवाक्याः भवन्ति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {15।28} त्रि .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {16।28} हरि .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {17।28} हरिवः मेदिनम् त्वा .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {18।28} हरि .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {19।28} अधिपति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {20।28} अधिपतिवतीः जुहोति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {21।28} अधिपति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {22।28} अग्नि .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {23।28} चरुः अग्निवान् इव .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {24।28} अग्नि .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {25।28} रे .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {26।28} आ रेवन् एतु नो विश इति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {27।28} यदि तर्हि परिगणनम् क्रियते सरस्वतीवान् भारतीवान् अपूपवान् दधिवान् चरुः इति अत्र न प्राप्नोति .
(प्_8,2.15) क_इइइ,396.14-397.2 रो_व्,379-380 {28।28} एवम् तर्हि छन्दसि इरः बहुलम् इति वक्तव्यम्
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {1।46} यदि पुनः अयम् नुट् पूर्वान्तः क्रियेत .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {2।46} अनः नुकि विनामरुविधिप्रतिषेधः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {3।46} अनः नुकि सति विनामः विधेयः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {4।46} अक्षण्वान् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {5।46} पदान्तस्य न इति प्रतिषेधः प्राप्नोति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {6।46} रुः च प्रतिषेध्यः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {7।46} सुपथिन्तरः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {8।46} नश्छव्यप्रशान् इति रुः प्राप्नोति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {9।46} अस्तु तर्हि परादिः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {10।46} परादौ वत्वप्रतिषेधः अवग्रहः च . यदि परादिः वत्वस्य प्रतिषेधः वक्तव्यः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {11।46} अक्षण्वान् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {12।46} मादुपधायाश्चमतोर्वोऽयवादिभ्यः इति वत्वम् प्राप्नोति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {13।46} अवग्रहः च अनिष्टे देशे प्राप्नोति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {14।46} अक्षण्वान् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {15।46} अस्तु तर्हि पूर्वान्तः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {16।46} ननु च उक्तम् अनः नुकि विनामरुविधिप्रतिषेधः इति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {17।46} भत्वात् सिद्धम् . भसञ्ज्ञा वक्तव्या .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {18।46} यदि तर्हि भसञ्ज्ञा अल्लोपोऽनः इति अल्लोपः प्राप्नोति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {19।46} अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि . अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {20।46} इह तर्हि सुपथिन्तरः नान्तस्य टिः तद्धिते लुप्यते इति लोपः प्राप्नोति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {21।46} घग्रहणम् च . घग्रहणम् च कर्तव्यम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {22।46} तत् तर्हि इदम् बहु वक्तव्यम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {23।46} नुक् वक्तव्यः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {24।46} भसञ्ज्ञा च वक्तव्या .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {25।46} अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {26।46} घग्रहणम् च कर्तव्यम् इति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {27।46} न कर्तव्यम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {28।46} यत् तावत् उच्यते नुक् वक्तव्यः इति नुकः एषः परिहारः भत्वात् सिद्धम् इति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {29।46} भसञ्ज्ञा वक्तव्या इति क्रियते न्यासे एव अयस्मयादीनि छन्दसि इति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {30।46} यत् अपि उच्यते अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि घग्रहणम् च कर्तव्यम् इति न कर्तव्यम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {31।46} उभयसञ्ज्ञानि अपि हि छन्दांसि दृश्यन्ते .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {32।46} तत् यथा .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {33।46} सः सुष्टुभा स ऋक्वता गणेन .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {34।46} पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {35।46} एवम् इह अपि पदत्वात् अल्लोपटिलोपौ न भत्वात् विनामरुविधिप्रतिषेधौ भविष्यतः .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {36।46} सिध्यति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {37।46} सूत्रम् तर्हि भिद्यते .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {38।46} यथान्यासम् एव अस्तु .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {39।46} ननु च उक्तम् परादौ वत्वप्रतिषेधः अवग्रहः च इति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {40।46} यत् तावत् उच्यते वत्वप्रतिषेधः इति निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {41।46} यः तर्हि निर्दिश्यते तस्य न प्राप्नोति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {42।46} किम् कारणम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {43।46} नुटा व्यवहितत्वात् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {44।46} असिद्धः नुट् तस्य असिद्धत्वात् भविष्यति .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {45।46} अवग्रहे अपि न लक्षणेन पदकाराः अनुवर्त्याः पदकारैः नाम लक्षणम् अनुवर्त्यम् .
(प्_8,2.16) क_इइइ,397.3-398.10 रो_व्,380-382 {46।46} यथालक्षणम् पदम् कर्तव्यम्
(प्_8,2.17) क_इइइ,398.11-15 रो_व्,382 {1।5} ईत् रथिनः .
(प्_8,2.17) क_इइइ,398.11-15 रो_व्,382 {2।5} रथिनः ईत् वक्तव्यः .
(प्_8,2.17) क_इइइ,398.11-15 रो_व्,382 {3।5} रथीतरः .
(प्_8,2.17) क_इइइ,398.11-15 रो_व्,382 {4।5} भूरिदाव्नः तुट् . भुरिदाव्नः तुट् वक्तव्यः .
(प्_8,2.17) क_इइइ,398.11-15 रो_व्,382 {5।5} भूरिदावत्तरः जनः
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {1।15} कृपणादीनाम् प्रतिषेधः वक्तव्यः .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {2।15} कृपणः कृपाणः कृपीटम् .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {3।15} वालमूललघ्वलमड्गुलीनाम् वा लः रम् आपद्यते इति वक्तव्यम् .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {4।15} अश्ववालः अश्ववारः .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {5।15} मूलदेवः मूरदेवः .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {6।15} वरुणस्य लघुस्यदः वरुणस्य रघुस्यदः .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {7।15} अलम् भक्ताय अरम् भक्ताय .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {8।15} सुबाहुः स्वङ्गुलिः सुबाहुः स्वङ्गुरिः .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {9।15} सञ्ज्ञाछन्दसोः वा कपिलकादीनाम् इति वक्तव्यम् .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {10।15} कपिरकः कपिलकः .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {11।15} तिल्विरीकः तिल्विलीकः .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {12।15} रोमाणि लोमानि .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {13।15} पांसुरम् पांसुलम् .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {14।15} कर्म कल्म .
(प्_8,2.18) क_इइइ,398.16-23 रो_व्,382-383 {15।15} शुक्रः शुक्लः
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {1।28} किम् इदम् अयतिग्रहणम् रेफविशेषणम् : अयतिपरस्य रेफस्य लः भवति सः चेत् उपसर्गस्य भवति इति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {2।28} आहोस्वित् उपसर्गविशेषणम् : अयतिपरस्य उपसर्गस्य यः रेफः तस्य लः भवति इति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {3।28} कः च अत्र विशेषः .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {4।28} रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {5।28} रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {6।28} पल्ययते .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {7।28} वचनात् भविष्यति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {8।28} अस्ति वचने प्रयोजनम् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {9।28} किम् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {10।28} प्लायते पलायते .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {11।28} अस्तु तर्हि उपसर्गविशेषणम् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {12।28} उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः . उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः भवति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {13।28} प्लायते पलायते .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {14।28} एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {15।28} अन्तादिवत् भावेन व्यपवर्गः .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {16।28} उभयतः आश्रये न अन्तादिवत् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {17।28} एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {18।28} प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {19।28} दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {20।28} अथ वा पुनः अस्तु रेफविशेषणम् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {21।28} ननु च उक्तम् रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् इति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {22।28} वचनात् भविष्यति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {23।28} ननु च उक्तम् अस्ति वचने प्रयोजनम् किम् प्लायते पलायते इति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {24।28} अत्र अपि अकारेण व्यवहितत्वात् न प्राप्नोति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {25।28} एकादेशे कृते न अस्ति व्यवधानम् .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {26।28} एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {27।28} प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति .
(प्_8,2.19) क_इइइ,399.1-19 रो_व्,383-384 {28।28} दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {1।13} णौ उपसङ्ख्यानम् कर्तव्यम् .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {2।13} इह अपि यथा स्यात् .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {3।13} निगार्यते निगाल्यते .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {4।13} किम् पुनः कारणम् न सिध्यति .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {5।13} अचि इति उच्यते न च अत्र अजादिम् पश्यामः .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {6।13} प्रत्ययलक्षणेन .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {7।13} वर्णाश्रये न अस्ति प्रत्ययलक्षणम् .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {8।13} एवम् तर्हि स्थानिवद्भावात् भविष्यति .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {9।13} प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {10।13} अतः उत्तरम् पठति .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {11।13} गिरतेः लत्वे णौ उक्तम् .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {12।13} किम् उक्तम् .
(प्_8,2.21) क_इइइ,399.20-400.2 रो_व्,385 {13।13} तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति
(प्_8,2.22.1) क_इइइ,400.3-4 रो_व्,385 {1।3} योगे च इति वक्तव्यम् .
(प्_8,2.22.1) क_इइइ,400.3-4 रो_व्,385 {2।3} इह अपि यथा स्यात् .
(प्_8,2.22.1) क_इइइ,400.3-4 रो_व्,385 {3।3} परियोगः पलियोगः
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {1।27} सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {2।27} सङि इति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {3।27} किम् प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {4।27} प्रयोजनम् गिरौ गिरः पयः धावति द्विष्टराम् दृषत्स्थानम् काष्ठशक्स्थाता क्रुञ्चा धुर्यः इति . गिऋऔ गिरः इति अत्र अचिविभाषा इति लत्वम् प्राप्नोति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {5।27} सङि इति वचनात् न भवति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {6।27} न एतत् अस्ति प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {7।27} उक्तम् एतत् धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {8।27} पयः धावति इति अत्र धिच इति सलोपः प्राप्नोति सङि इति वचनात् न भवति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {9।27} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {10।27} वक्ष्यति एतत् धिसकारे सिचः लोपः इति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {11।27} द्विष्टराम् इति अत्र ह्रस्वात् अङ्गात् इति सलोपः प्राप्नोति सङि इति वचनात् न भवति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {12।27} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {13।27} अत्र अपि सिचः इति एव अनुवर्तिष्यते .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {14।27} दृषत्स्थानम् इति अत्र झलोझलि इति सलोपः प्राप्नोति सङि इति वचनात् न भवति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {15।27} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {16।27} अत्र अपि सिचः इति एव अनुवर्तिष्यते .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {17।27} काष्ठशक्स्थाता इति अत्र स्कोःसंयोगाद्योरन्तेच इति ककारलोपः प्राप्नोति सङि इति वचनात् न भवति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {18।27} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {19।27} काष्ठशक् एव न अस्ति कुतः यः काष्ठशकि तिष्ठेत् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {20।27} क्रुञ्चा इति अत्र चोःकुः झलि इति कुत्वम् प्राप्नोति सङि इति वचनात् न भवति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {21।27} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {22।27} निपातनात् एतत् सिद्धम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {23।27} किम् निपातनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {24।27} ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् इति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {25।27} धुर्यः इति अत्र हलिच इति दीर्घत्वम् प्राप्नोति सङि इति वचनात् न भवति .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {26।27} एतत् अपि न अस्ति प्रयोजनम् .
(प्_8,2.22.2) क_इइइ,400.5-24 रो_व्,385-387 {27।27} नभकुर्छुराम् इति प्रतिषेधः भविष्यति .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {1।10} संयोगान्तस्य लोपे यणः प्रतिषेधः . संयोगान्तस्य लोपे यणः प्रतिषेधः वक्तव्यः .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {2।10} दधि अत्र मधु अत्र इति .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {3।10} संयोगादिलोपे च यणः प्रतिषेधः वक्तव्यः .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {4।10} काकी अर्थम् वासी अर्थम् .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {5।10} न वा झलः लोपात् .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {6।10} न वा वक्तव्यः .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {7।10} किम् कारणम् .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {8।10} झलः लोपात् .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {9।10} झलः लोपः संयोगान्तलोपः वक्तव्यः .
(प्_8,2.23.1) क_इइइ,401.1-9 रो_व्,387-388 {10।10} बहिरङ्गलक्षणत्वात् वा . अथ वा बहिरङ्गः यणादेशः अन्तरङ्गः लोपः असिद्धम् बहिरङ्गम् अन्तरङ्गे
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {1।34} संयोगान्तलोपे सग्रहणम् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {2।34} संयोगान्तलोपे सग्रहणम् कर्तव्यम् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {3।34} संयोगान्तलोपः सस्य च इति वक्तव्यम् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {4।34} इह अपि यथा स्यात् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {5।34} श्रेयान् भूयान् ज्यायान् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {6।34} किम् पुनः कारणम् न सिध्यति .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {7।34} परत्वात् रुः प्राप्नोति .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {8।34} असिद्धः रुः तस्य असिद्धत्वात् लोपः भविष्यति .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {9।34} न सिध्यति .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {10।34} किम् कारणम् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {11।34} रुविधानस्य अनवकाशत्वात् . अनवकासः रुः लोपम् बाधेत .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {12।34} सावकाशः रुः .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {13।34} कः अवकाशः .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {14।34} पयः शिरः .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {15।34} ननु च अत्र अपि जश्त्वम् प्राप्नोति .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {16।34} सः यथा एव रुः जश्त्वम् बाधते एवम् लोपम् अपि बाधेत .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {17।34} न बाधते .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {18।34} किम् कारणम् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {19।34} येन नाप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते जश्त्वे रुः आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {20।34} योगविभागात् सिद्धम् . अथ वा योगविभागः करिष्यते .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {21।34} एवम् वक्ष्यामि .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {22।34} संयोगान्तस्य लोपः अरात् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {23।34} संयोगान्तस्य लोपः भवति अरात् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {24।34} ततः सस्य .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {25।34} सस्य च लोपः भवति संयोगान्तस्य .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {26।34} किम् अर्थम् पुनः इदम् उच्यते .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {27।34} प्रतिषिद्धार्थम् रुबाधनार्थम् च .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {28।34} अथ वा यत् एतत् रात् सस्य इति सग्रहणम् तत् पुरस्तात् अपक्रक्ष्यते .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {29।34} संयोगान्तस्य लोपः .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {30।34} ततः सस्य .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {31।34} सस्य च संयोगान्तस्य लोपः भवति .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {32।34} ततः रात् .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {33।34} रात् सस्य एव संयोगान्तस्य लोपः भवति .
(प्_8,2.23.2) क_इइइ,401.10-402.2 रो_व्,388-389 {34।34} अथ वा रात् सस्य इति अत्र संयोगान्तस्य लोपः इति एतत् अनुवर्तिष्यते
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {1।62} धि सकारे सिचः लोपः .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {2।62} धि सकारे सिचः लोपः वक्तव्यः .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {3।62} किम् प्रयोजनम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {4।62} चकाद्धि इति प्रयोजनम् . इह मा भूत् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {5।62} चकाद्धि पलितम् शिरः .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {6।62} यदि तर्हि सिचः लोपः इति उच्यते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {7।62} आशाध्वम् तु कथम् ते स्यात् . आशाध्वम् इति अत्र न प्राप्नोति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {8।62} जश्त्वम् सस्य भविष्यति . जश्त्वम् अत्र सकारस्य भविष्यति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {9।62} सर्वत्र एवम् प्रसिद्धम् स्यात् . सर्वत्र एवम् जश्त्वेन सिद्धम् स्यात् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {10।62} इह अपि आयन्ध्वम् अरन्ध्वम् इति जश्त्वेन एव सिद्धम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {11।62} श्रुतिः च अपि न भिद्यते . श्रुतिकृतः च अपि न कः चित् भेदः भवति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {12।62} लुङः च अपि न मूर्धन्ये ग्रहणम् . तत्र अयम् अपि अर्थः इणःषीध्वंलुङ्लिटान्धोऽङ्गात् इति अत्र लुङ्ग्रहणम् न कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {13।62} इह अपि अच्योड्ढ्वम् अप्लोड्ढ्वम् इति षत्वे सिचः धस्य ष्टुत्वे च कृते जश्त्वेन सिद्धम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {14।62} सेटि दुष्यति . सेटि दोषः भवति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {15।62} इदम् एव रूपम् स्यात् अलविड्ढ्वम् इदम् न स्यात् अलविध्वम् इति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {16।62} तस्मात् सिचः ग्रहणम् कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {17।62} यदि तर्हि सिचः ग्रहणम् क्रियते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {18।62} घसिभस्योः न सिध्येत् तु . घसिभस्योः न सिध्यति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {19।62} सग्धिः च मे सपीतिः च मे, बब्धाम् ते हरी धानाः इति अत्र न प्राप्नोति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {20।62} तस्मात् सिज्ग्रहणम् न तत् . तस्मात् धिच इति अत्र सिचः ग्रहणम् न कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {21।62} कथम् चकाद्धि पलितम् शिरः इति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {22।62} एवम् तर्हि सिज्ग्रहणम् कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {23।62} कथम् सग्धिः च मे सपीतिः च मे , बब्धम् ते हरी धानाः इति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {24।62} इह तावत् सग्धिः इति न एतत् घसेः रूपम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {25।62} किम् तर्हि सघेः एतत् रूपम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {26।62} बब्धाम् ते हरी धानाः इति न एतत् भसेः रूपम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {27।62} किम् तर्हि बन्धेः एतत् रूपम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {28।62} छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे . अथ वा छान्दसः वर्णलोपः भविष्यति यथा इष्कर्तारमध्वरे .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {29।62} तत् यथा .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {30।62} तुभ्येदम् अग्ने .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {31।62} तुभ्यम् इदम् अग्ने इति प्राप्ते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {32।62} आम्बानाम् चरुः .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {33।62} नाम्बानाम् चरुः इति प्राप्ते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {34।62} आव्याधिनीः उगणाः .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {35।62} आव्याधिनीः सुगणाः इति प्राप्ते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {36।62} इष्कर्तारम् अध्वरस्य .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {37।62} निष्कर्तारम् इति प्राप्ते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {38।62} शिवा उद्रस्य भेषजी .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {39।62} शिवा रुद्रस्य भेषजीति प्राप्ते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {40।62} तस्मात् सिज्ग्रहणम् कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {41।62} न कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {42।62} यत् एतत् रात्सस्य इति सकारग्रहणम् तत् सिचः ग्रहणम् विज्ञास्यते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {43।62} कथम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {44।62} रात्सस्य इति उच्यते न च अन्यः रेफात् परः सकारः अस्ति अन्यत् अतः सिचः .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {45।62} ननु च अयम् अस्ति मातुः पितुः इति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {46।62} तस्मात् सिचः ग्रहणम् कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {47।62} न कर्तव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {48।62} कस्मात् न भवति चकाद्धि पलितम् शिरः इति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {49।62} इष्टम् एव एतत् सङ्गृहीतम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {50।62} चकाधि इति एव भवितव्यम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {51।62} धि सकारे सिचः लोपः .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {52।62} चकाद्धि इति प्रयोजनम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {53।62} आशाध्वम् तु कथम् ते स्यात् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {54।62} जश्त्वम् सस्य भविष्यति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {55।62} सर्वत्र एवम् प्रसिद्धम् स्यात् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {56।62} श्रुतिः च अपि न भिद्यते .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {57।62} लुङः च अपि न मूर्धन्ये ग्रहणम् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {58।62} सेटि दुष्यति .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {59।62} घसिभस्योः न सिध्येत् तु .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {60।62} तस्मात् सिज्ग्रहणम् न तत् .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {61।62} छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे .
(प्_8,2.25) क_इइइ,402.3-403.24 रो_व्,389-391 {62।62} दादेः धातोः घः .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {1।8} इह दोग्धा दोग्धुम् इति घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {2।8} न एषः दोषः .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {3।8} उक्तम् एतत् अपवादः वचनप्रामाण्यात् इति .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {4।8} अथ वा एवम् वक्ष्यामि .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {5।8} हः ढः अदादेः .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {6।8} हः ढः भवति अदादेः .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {7।8} ततः धातोः घः इति .
(प्_8,2.32.1) क_इइइ,403.25-404.2 रो_व्,392 {8।8} दादेः इति अनुवर्तते न इति निवृत्तम्
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {1।14} दादेः इति उच्यते तत्र इदम् न सिध्यति .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {2।14} अधोक् .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {3।14} क्व तर्हि स्यात् .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {4।14} मा स्म धोक्. न एषः दोषः .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {5।14} धातोः इति न एषा दादिसमानाधिकरणा षष्ठी .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {6।14} दादेः धातोः इति .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {7।14} का तर्हि .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {8।14} अवयवयोगा एषा षष्ठी .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {9।14} धातोः यः दादिः अवयवः इति .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {10।14} सा च अवश्यम् अवयवयोगा षष्ठी विज्ञेया उत्तरार्था .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {11।14} किम् प्रयोजनम् .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {12।14} एकाचः बशः भष् झषन्तस्य स्ध्वोः इति इह अपि यथा स्यात् : गर्दभयतेः अप्रत्ययः गर्धप् इति .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {13।14} यदि अवयवयोगा षष्ठी दोग्धा दोग्धुम् इति अत्र न प्राप्नोति .
(प्_8,2.32.2) क_इइइ,404.3-8 रो_व्,392-393 {14।14} एषः अपि व्यपदेशिवद्भावेन धातोः दादिः अवयवः भवति .
(प्_8,2.32.3) क_इइइ,404.9-11 रो_व्,393 {1।6} हृग्रहोः भः छन्दसि हस्य .
(प्_8,2.32.3) क_इइइ,404.9-11 रो_व्,393 {2।6} हृग्रहोः छन्दसि हस्य भत्वम् वक्तव्यम् .
(प्_8,2.32.3) क_इइइ,404.9-11 रो_व्,393 {3।6} गर्दभेन सम्भरति .
(प्_8,2.32.3) क_इइइ,404.9-11 रो_व्,393 {4।6} मरुत् अस्य ग्रभीता .
(प्_8,2.32.3) क_इइइ,404.9-11 रो_व्,393 {5।6} सामिधेन्यः जभ्रिरे .
(प्_8,2.32.3) क_इइइ,404.9-11 रो_व्,393 {6।6} उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन्
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {1।22} किमर्थः चकारः .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {2।22} स्ध्वोः इति एतत् अनुकृष्यते .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {3।22} न एतत् अस्ति प्रयोजनम् .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {4।22} सिद्धम् स्ध्वोः पूर्वेण एव .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {5।22} न सिध्यति .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {6।22} किम् कारणम् .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {7।22} अबशादित्वात् .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {8।22} ननु च जश्त्वे कृते बशादिः .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {9।22} असिद्धम् जश्त्वम् तस्य असिद्धत्वात् न बशादिः .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {10।22} एवम् तर्हि सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {11।22} एत्त्वतुकोः ग्रहणम् न करिष्यते .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {12।22} अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {13।22} एवम् अपि अझषन्तत्वात् न प्राप्नोति .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {14।22} लोपे कृते झषन्तः .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {15।22} स्थानिवद्भावात् न झषन्तः .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {16।22} अतः उत्तरम् पठति .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {17।22} दधः तथोः अनुकर्षणानर्थक्यम् स्थानिवत्प्रतिषेधात् . दधः तथोः अनुकर्षणम् अनर्थकम् .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {18।22} किम् कारणम् .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {19।22} स्थानिवत्प्रतिषेधात् .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {20।22} प्रतिषिध्यते अत्र स्थनिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {21।22} स च अवश्यम् प्रतिषेधः आश्रयितव्यः .
(प्_8,2.38.1) क_इइइ,404.12-24 रो_व्,393 {22।22} इतरथा हि अलोपे प्रतिषेधः . यः हि मन्यते अनुकर्षणसामर्थ्यात् मे अत्र भवति अलोपे तेन प्रतिषेधः वक्तव्यः स्यात् : दधाति दधासि
(प्_8,2.38.2) क_इइइ,405.1-2 रो_व्,394 {1।3} तथोः च अपि ग्रहणम् शक्यम् अकर्तुम् .
(प्_8,2.38.2) क_इइइ,405.1-2 रो_व्,394 {2।3} कथम् .
(प्_8,2.38.2) क_इइइ,405.1-2 रो_व्,394 {3।3} झलि झषन्तस्य इति उच्यते तथोः च अयम् झलि झषन्तः भवति न अन्यत्र
(प्_8,2.38.3) क_इइइ,405.3-7 रो_व्,394 {1।5} अथ अपि एतत् न अस्ति पूर्वत्रासिद्धे न स्थानिवत् इति एवम् अपि न एव अर्थः अनुकर्षणार्थेन चकारेण न अपि तथोः ग्रहणेन .
(प्_8,2.38.3) क_इइइ,405.3-7 रो_व्,394 {2।5} आनन्तर्यम् इह आश्रीयते झलि झषन्तस्य इति .
(प्_8,2.38.3) क_इइइ,405.3-7 रो_व्,394 {3।5} क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् न एव सन्निपातकृतम् न अपि शास्त्रकृतम् .
(प्_8,2.38.3) क_इइइ,405.3-7 रो_व्,394 {4।5} लोपे सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् .
(प्_8,2.38.3) क_इइइ,405.3-7 रो_व्,394 {5।5} यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {1।12} अधः इति किमर्थम् .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {2।12} धत्तः .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {3।12} धत्थः .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {4।12} अधः इति शक्यम् अकर्तुम् .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {5।12} कस्मात् न भवति धत्तः धत्थः इति .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {6।12} जश्त्वे योगविभागः करिष्यते .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {7।12} इदम् अस्ति दधस्तथोश्च इति .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {8।12} ततः वक्ष्यामि झलाम् जशः .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {9।12} झलाम् जशः भवन्ति दधः तथोः .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {10।12} ततः अन्ते .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {11।12} अन्ते च झलाम् जशः भवन्ति .
(प्_8,2.40) क_इइइ,405.8-12 रो_व्,394 {12।12} तत्र जश्त्वे कृते अझषन्तत्वात् न भविष्यति .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {1।13} रदाभ्याम् इति किमर्थम् .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {2।13} चरितम् मुदितम् .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {3।13} ननु च रदाभ्याम् इति उच्यमाने अपि अत्र प्राप्नोति .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {4।13} अत्र अपि रेफदकाराभ्याम् परा निष्ठा .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {5।13} न रेफदकाराभ्याम् निष्ठा विशेष्यते .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {6।13} किम् तर्हि .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {7।13} तकारः विशेष्यते .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {8।13} रफदकाराभ्याम् उत्तरस्य तकारस्य नः भवति स चेत् निष्ठायाः इति .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {9।13} अथ पूर्वग्रहणम् किमर्थम् .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {10।13} निष्ठादेशे पूर्वग्रहणम् परस्य आदेशप्रतिषेधार्थम् .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {11।13} निष्ठादेशे पूर्वग्रहणम् क्रियते परस्य आदेशः मा भूत् इति .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {12।13} भिन्नवद्भ्याम् भिन्नवद्भिः .
(प्_8,2.42.1) क_इइइ,406.1-10 रो_व्,395 {13।13} पञ्चमीनिर्दिष्टात् हि परस्य . पञ्चमीनिर्दिष्टात् हि परस्य इति परस्य प्राप्नोति
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {1।32} वृद्धिनिमित्तात् प्रतिषेधः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {2।32} वृद्धिनिमित्तात् प्रतिषेधः वक्तव्यः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {3।32} किम् प्रयोजनम् .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {4।32} प्रयोजनम् कार्तिक्षैतिफौल्लयः . कार्तिः इति वृद्धौ कृतायाम् रदाभ्याम् इति नत्वम् प्राप्नोति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {5।32} क्षैतिः इति वृद्धौ कृतायाम् क्षियोदीर्घात् इति नत्वम् प्राप्नोति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {6।32} फौल्लिः इति वृद्धौ कृतायाम् उदुपधत्वसन्नियोगेन लत्वम् उच्यमानम् न प्राप्नोति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {7।32} अथ उच्यमाने अपि प्रतिषेधे वृद्धिनिमित्तात् इति कथम् इदम् विज्ञायते .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {8।32} वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {9।32} आहोस्वित् वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {10।32} किम् च अतः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {11।32} यदि विज्ञायते वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति क्षैतिः सङ्गृहीतः कार्तिः असङ्गृहीतः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {12।32} अथ विज्ञायते वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {13।32} उभयथा च फौल्लिः असङ्गृहीतः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {14।32} यथा इच्छसि तथा अस्तु .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {15।32} अस्तु तावत् वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {16।32} ननु च उक्तम् क्षैतिः सङ्ग्र्हीतः कार्तिः असङ्गृहीतः इति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {17।32} कार्तिः च सङ्गृहीतः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {18।32} कथम् .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {19।32} वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {20।32} अथ वा पुनः अस्तु वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {21।32} ननु च उक्तम् कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः इति .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {22।32} क्षैतिः च सङ्गृहीतः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {23।32} कथम् .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {24।32} यत् तत् वृद्धिशास्त्रम् तस्मिन् वृद्धिशब्दः वर्तते .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {25।32} सः तर्हि प्रतिषेधः वक्तव्यः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {26।32} न वा बहिरङ्गलक्षणत्वात् . न वा वक्तव्यम् .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {27।32} किम् कारणम् .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {28।32} बहिरङ्गलक्षणत्वात् .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {29।32} बहिरङ्गा वृद्धिः .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {30।32} अन्तरङ्गम् नत्वम् .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {31।32} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_8,2.42.2) क_इइइ,406.11-407.7 रो_व्,396-397 {32।32} एवम् च कृत्वा लत्वम् अपि सिद्धम् भवति फौल्लिः इति
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {1।14} ऋकारल्वादिभ्यः क्तिन्निष्ठावत् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {2।14} ऋकारल्वादिभ्यः क्तिन् निष्ठावत् भवति इति वक्तव्यम् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {3।14} कीर्णिः गीर्णिः .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {4।14} लूनिः धूनिः .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {5।14} दुग्वोः दीर्घः च . दुग्वोः दीर्घः च इति वक्तव्यम् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {6।14} आदूनः विगूनः .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {7।14} पूञः विनाशे . पूञः विनाशे इति वक्तव्यम् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {8।14} पूनाः यवाः .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {9।14} विनाशे इति किमर्थम् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {10।14} पूतम् धान्यम् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {11।14} सिनोतेः ग्रासकर्मकर्तृकस्य . सिनोतेः ग्रासकर्मकर्तृकस्य इति वक्तव्यम् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {12।14} सिनः ग्रासः .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {13।14} ग्रासकर्मकर्तृकस्य इति किमर्थम् .
(प्_8,2.44) क_इइइ,407.8-18 रो_व्,397-398 {14।14} सिता पाशेन सूकरी
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {1।24} दीर्घात् इति किमर्थम् .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {2।24} अक्षितम् असि मा मे क्षेष्ठाः .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {3।24} दीर्घात् इति शक्यम् अकर्तुम् .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {4।24} कस्मात् न भवति अक्षितम् असि मा मे क्षेष्ठाः इति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {5।24} निर्देशात् एव इदम् अभिव्यक्तम् दीर्घस्य ग्रहणम् इति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {6।24} यदि ह्रस्वस्य ग्रहणम् स्यात् क्षेः इति एव ब्रूयात् .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {7।24} न अत्र निर्देशः प्रमाणं शक्यम् कर्तुम् .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {8।24} यथा एव अत्र अप्राप्ता विभक्तिः एवम् इयङादेशः अपि .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {9।24} न अत्र अप्राप्ता विभक्तिः .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {10।24} सिद्धा अत्र विभक्तिः प्रातिपदिकात् इति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {11।24} कथम् प्रातिपदिकसञ्ज्ञा .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {12।24} अर्थवत् प्रातिपदिकम् इति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {13।24} ननु च अधातुः इति प्रतिषेधः प्राप्नोति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {14।24} न एषः धातुः धातोः एषः अनुकरणः .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {15।24} यदि अनुकरणः इयङादेशः न प्राप्नोति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {16।24} प्रकृतिवत् अनुकरणम् भवति इति एवम् इयङादेशः भविष्यति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {17।24} यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते स्वाद्युत्पत्तिः न प्राप्नोति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {18।24} एवम् तर्हि आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {19।24} अथ अपि एतत् न अस्ति आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते इति एवम् अपि न दोषः .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {20।24} अवश्यम् अत्र सर्वतः नैर्देशिकी विभक्तिः वक्तव्या .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {21।24} तत् यथा .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {22।24} नेर्विशः परिव्यवेभ्यःक्रियः विपराभ्याञ्जेः इति .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {23।24} अथ अपि एतत् न अस्ति प्रकृतिवत् अनुकरणम् भवति इति एवम् अपि न दोषः .
(प्_8,2.46) क_इइइ,407.19-408.10 रो_व्,398-399 {24।24} धातोः अजादौ यत् रूपम् तत् अनुक्रियते
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {1।28} अञ्चेः नत्वे व्यक्तप्रतिषेधः .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {2।28} अञ्चेः नत्वे व्यक्तस्य प्रतिषेधः वक्तव्यः .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {3।28} व्यक्तम् अनृतम् कथयति इति .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {4।28} अञ्जिविज्ञानात् सिद्धम् . न एतत् अञ्चेः रूपम् .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {5।28} अञ्जेः एतत् रूपम् .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {6।28} अञ्चत्यर्थः वै गम्यते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {7।28} कः पुनः अञ्चत्यर्थः .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {8।28} अञ्चतिः प्रकाशने वर्तते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {9।28} अञ्चितम् गच्छति .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {10।28} प्रकाशयति आत्मानम् इति गम्यते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {11।28} न वै लोके अञ्चितम् गच्छति इति प्रकाशनम् गम्यते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {12।28} किम् तर्हि .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {13।28} समाधानम् गम्यते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {14।28} समाहितः भूत्वा गच्छति इति .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {15।28} एवम् तर्हि अञ्चतेः अङ्कः अङ्कः च प्रकाशनम् .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {16।28} अङ्किताः गावः इति उच्यते अन्याभ्यः गोभ्यः प्रकाश्यन्ते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {17।28} अञ्चत्यर्थः इति चेत् अञ्जेः तदर्थत्वात् सिद्धम् . अञ्चत्यर्थः इति चेत् अञ्जिः अपि अञ्चत्यर्थे वर्तते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {18।28} कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {19।28} कथम् अञ्जिः अञ्चत्यर्थे वर्तते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {20।28} अनेकार्थाः अपि धातवः भवन्ति .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {21।28} अस्ति पुनः क्व चित् अन्यत्र अपि अञ्जिः अञ्चत्यर्थे वर्तते .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {22।28} अस्ति इति आह .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {23।28} अञ्जेः अञ्जनम् अञ्जनम् च प्रकाशनम् .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {24।28} अङ्क्तेषिणी इति उच्यते यत् तत् सितम् च असितम् च एतत् प्रकाशयति .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {25।28} तथा अञ्जेः व्यञ्जनम् व्यञ्जनम् च प्रकाशनम् .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {26।28} यत् तत् स्नेहेन मधुरेण च जडीकृतानाम् इन्द्रियाणाम् स्वस्मिन् आत्मनि व्यवस्थापनम् सः रागः तत् व्यञ्जनम् .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {27।28} अन्वर्थम् खलु अपि निर्वचनम् .
(प्_8,2.48) क_इइइ,408.11-409.2 रो_व्,400-401 {28।28} व्यज्यते अनेन इति व्यञ्जनम् इति
(प्_8,2.50) क_इइइ,409.3-6 रो_व्,401-402 {1।5} अवाताभिधाने .
(प्_8,2.50) क_इइइ,409.3-6 रो_व्,401-402 {2।5} अवाताभिधाने इति वक्तव्यम् .
(प्_8,2.50) क_इइइ,409.3-6 रो_व्,401-402 {3।5} इह अपि यथा स्यात् .
(प्_8,2.50) क_इइइ,409.3-6 रो_व्,401-402 {4।5} निर्वाणः अग्निः वातेन .
(प्_8,2.50) क_इइइ,409.3-6 रो_व्,401-402 {5।5} निर्वाणः प्रदीपः वातेन इति
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {1।11} अनुपसर्गात् इति उच्यते तत्र इदम् न सिध्यति परिकृशम् इति .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {2।11} कृशेः कः एषः विहितः इगुपधात् .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {3।11} न एतत् निष्ठान्तम् .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {4।11} किम् तर्हि कृशः एषः इगुपधात् कः विहितः .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {5।11} स्वरे हि दोषः भवति परिकृशे . न एवम् शक्यम् .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {6।11} इह हि परिकृशः इति स्वरे दोषः स्यात् .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {7।11} अन्तस्थाथघञ्क्ताजबित्रकाणाम् .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {8।11} इति एषः स्वरः प्रसज्येत .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {9।11} पदस्य लोपः विहितः इति मतम् . एवम् तर्हि पदस्य लोपः द्रष्टव्यः .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {10।11} पर्यागतः कार्श्येन परिकृशः .
(प्_8,2.55.1) क_इइइ,409.7-16 रो_व्,402-403 {11।11} जगती अनूना भवति हि रुचिरा .
(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {1।8} फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् .
(प्_8,2.55.2) क_इइइ,409.17-24 रो_व्,403 {2।8} फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् कर्तव्यम् : उत्फुल्लः अनृतम् कथयति .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0