भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 11011120

(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {19।45} अचाम् आदेः य्वाभ्याम् हि तौ .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {20।45} अचाम् आदिना अत्र य्वौ विशेषयिष्यामः .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {21।45} अचाम् आदेः यौ य्वौ इति .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {22।45} कथम् द्व्याशीतिके न तौ .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {23।45} द्व्याशीतिकः इति अत्र कस्मात् न तौ भवतः .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {24।45} यत्र वृद्धिः अचाम् आदेः तत्र ऐचौ अत्र घोः हि सा .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {25।45} तत्र अचाम् आदेः इति एवम् वृद्धिः तत्र ऐचौ उच्येते .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {26।45} अत्र घोः इति एवम् वृद्धिः .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {27।45} किम् इदम् घोः इति .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {28।45} उत्तरपदस्य इति .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {29।45} उत्तरपदाधिकारे अपि अवश्यम् ऐजागमः अनुवर्त्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रयलिन्दः इति एवमर्थम् .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {30।45} न एषः दोषः .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {31।45} उत्तरपदेन अत्र अचाम् आदि विशेषयिष्यामः अचाम् आदिना य्वौ .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {32।45} उत्तरपदस्य अचाम् आदेः यौ य्वौ इति .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {33।45} अथ कस्मात् पदान्ताभ्याम् .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {34।45} अथ किमर्थम् पदान्ताभ्याम् इति उच्यते .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {35।45} यथा इणः न भवेत् यणः .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {36।45} इणः यणादेशे मा भूत्. यतः छात्रा , याता इति .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {37।45} इह वैयाकरणः , सौवश्वः इति शाकलम् प्राप्नोति य्वोः च स्थानिवद्भावात् आयावौ प्राप्नुतः .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {38।45} शकलायावादेशेषु च उक्तम् .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {39।45} किम् उक्तम् .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {40।45} शाकले तावत् उक्तम् सिन्नित्यसमासयोः शाकलप्रतिषेधः इति .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {41।45} आयावोः किम् उक्तम् .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {42।45} अचः पूर्वविज्ञानात् ऐचोः सिद्धम् इति .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {43।45} य्वाभ्याम् परस्य अवृद्धित्वम् अपवादौ वृद्धेः हि तौ , नित्यौ ऐचौ तयोः वृद्धिः किमर्थम् न इति शिष्यते .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {44।45} यत्र य्वाभ्याम् परावृद्धिः तत्र अध्यश्वेः यथा न तौ , अचाम् आदेः य्वाभ्याम् हि तौ कथम् द्व्याशीतिके न तौ .
(प्_7,3.3) क_इइइ,317.8-318.24 रो_व्,192.4-194.11 {45।45} यत्र वृद्धिः अचाम् आदेः तत्र ऐचौ अत्र घोः हि सा , अथ कस्मात् पदान्ताभ्याम् यथा इणः न भवेत् यणः
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {1।20} अथ परस्य अवृद्धिः इति अनुवर्तते उताहो न .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {2।20} किम् च अतः .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {3।20} यदि अनुवर्तते शौवम् मांसम् टिलोपे कृते ऐजागमः न प्राप्नोति .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {4।20} अथ निवृत्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {5।20} यथ इच्छसि तथा अस्तु .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {6।20} अस्तु तावत् अनुवर्तते .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {7।20} कथ शौवम् मांसम् .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {8।20} आनुपूर्व्या सिद्धम् एतत् .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {9।20} न अत्र अकृते ऐजागमे टिलोपः प्राप्नोति .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {10।20} किम् कारणम् .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {11।20} प्रकृत्या एकाच् इति प्रकृतिभावेन भवितव्यम् .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {12।20} तत् एतत् आनुपूर्व्या सिद्धम् भवति .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {13।20} अथ वा पुनः अस्तु निवृत्तम् .

(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {14।20} ननु च उक्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति इति .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {15।20} कः पुनः अर्हति स्वाध्यायशब्दम् द्वारादिषु पठितुम् .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {16।20} एवम् किल् पठ्येत स्वम् अध्ययनम् स्वाध्यायः इति .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {17।20} तत् च न .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {18।20} सुष्ठु वा अध्ययनम् स्वाध्यायः शोभनम् वा अध्ययनम् स्वाध्यायः .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {19।20} अथ अपि स्वम् अध्ययनम् स्वाध्यायः एवम् अपि न दोषः .
(प्_7,3.4) क_इइइ,318.26-319.9 रो_व्,195.13-197.2 {20।20} अचाम् आदेः इति वर्तते .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {1।21} अयम् श्वन्शब्दः द्वारादिषु पठ्यते तत्र कः प्रसङ्गः यत् तदादेः स्यात् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {2।21} न एव प्राप्नोति न अर्थः प्रतिषेधेन .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {3।21} तदादिविधिना प्राप्नोति .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {4।21} न एव तदादिविधिः अस्ति .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {5।21} अतः उत्तरम् पठति .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {6।21} प्रतिषेधे श्वादिग्रहणम् ज्ञापकम् अन्यत्र श्वन्ग्रहणे तदादिग्रहणस्य शौवहानाद्यर्थम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {7।21} प्रतिषेधे श्वादिग्रहणम् क्रियते ज्ञापकार्थम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {8।21} किम् ज्ञाप्यम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {9।21} एतत् ज्ञापयति आचार्यः अन्यत्र श्वन्ग्रहणे तदादिविधिः भवति इति .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {10।21} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {11।21} शौवहानाद्यर्थम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {12।21} शौवहानम् नाम नगरम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {13।21} शौवादंष्ट्रः मणिः इति .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {14।21} इकारादिग्रहणम् च श्वागणिकाद्यर्थम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {15।21} इकारादिग्रहणम् च कर्तव्यम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {16।21} किम् प्रयोजनम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {17।21} श्वागणिकाद्यर्थम् .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {18।21} श्वगणेन चरति श्वागणिकः .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {19।21} तदन्तस्य च अन्यत्र प्रतिषेधः .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {20।21} तदन्तस्य च अन्यत्र प्रतिषेधः वक्तव्यः .
(प्_7,3.8) क_इइइ,319.11-22 रो_व्,197.4-198.5 {21।21} श्वाभस्त्रेः स्वम् श्वाभस्त्रम्
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {1।32} किमर्थम् इदम् उच्यते .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {2।32} अवयवात् ऋतोः इति वक्ष्यति तदुत्तरपदस्य यथा स्यात् अचाम् आदेः मा भूत् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {3।32} न एतत् अस्ति प्रयोजनम् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {4।32} अवयवात् इति पञ्चमी तत्र अन्तरेण अपि उत्तरपदग्रहणम् उत्तरपदस्य एव भविष्यति .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {5।32} उत्तरार्थम् तर्हि सुसर्वार्धात् जनपदस्य इति .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {6।32} सुसर्वार्धात् इति पञ्चमी .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {7।32} दिशः अमद्राणाम् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {8।32} दिशः इति पञ्चमी .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {9।32} प्राचाम् ग्रामनगराणाम् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {10।32} दिशः इति एव .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {11।32} सङ्ख्यायाः संवत्सरसङ्ख्यस्य च .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {12।32} सङ्ख्यायाः इति पञ्चमी .

(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {13।32} वर्षस्य अभविष्यति .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {14।32} सङ्ख्यायाः इति एव .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {15।32} परिमाणान्तस्य असञ्ज्ञाशाणयोः इति .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {16।32} सङ्ख्यायाः इति एव .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {17।32} इदम् तर्हि प्रयोजनम् जे प्रोष्ठपदानाम् उत्तरपदस्य यथा स्यात् पूर्वपदस्य मा भूत् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {18।32} प्रोष्ठपदासु जातः प्रोष्ठपादः ब्राह्मणः .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {19।32} तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {20।32} तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः भवति विप्रतिषेधेन .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {21।32} किम् प्रयोजनम् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {22।32} द्व्याशीतिकाद्यर्थम् .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {23।32} अचाम् आदिवृद्धेः अवकाशः .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {24।32} ऐतिकायनः , औपगवः .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {25।32} उत्तरपदवृद्धेः अनवकाशः .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {26।32} द्विषाष्टिकः , त्रिषाष्टिकः .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {27।32} इह उभयम् प्राप्नोति .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {28।32} द्व्याशीतिकः , त्र्याशीतिकः .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {29।32} उत्तरपदवृद्धिः भवति विप्रतिषेधेन .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {30।32} कः पुनः अत्र विशेषः अचाम् आदिवृद्धौ वा सत्याम् उत्तरपदवृद्धौ वा .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {31।32} अयम् अस्ति विशेषः .
(प्_7,3.10) क_इइइ,320.2-16 रो_व्,198.7-199.9 {32।32} यदि अत्र अचाम् आदिवृद्धिः स्यात् ऐजागमः प्रसज्येत
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {1।28} नगरग्रहणम् किमर्थम् न प्राचाम् ग्रामाणाम् इति एव सिद्धम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {2।28} न सिध्यति .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {3।28} अन्यः ग्रामः अन्यत् नगरम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {4।28} कथम् ज्ञायते .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {5।28} एवम् हि कः चित् कम् चित् पृच्छति .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {6।28} कुतः भवान् आगच्छति ग्रामात् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {7।28} सः हि आह .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {8।28} न ग्रामात् नगरात् इति .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {9।28} ननु च भो यः एव ग्रामः तत् नगरम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {10।28} कथम् ज्ञायते .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {11।28} लोकतः .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {12।28} ये हि ग्रामे विधयः न इष्यन्ते साधीयः ते नगरे न क्रियन्ते .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {13।28} तत् यथा .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {14।28} अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते सुतराम् नागरः अपि न भक्ष्यते .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {15।28} तथा ग्रामे न अध्येयम् इति साधीयः नगरे न अधीयते .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {16।28} तस्मात् यः एव ग्रामः तत् नगरम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {17।28} कथम् यत् उक्तम् एवम् हि कः चित् कम् चित् पृच्छति कुतः भवान् आगच्छति ग्रामात् सः आह न ग्रामात् नगरात् इति .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {18।28} संस्त्यायविशेषम् असौ आचष्टे .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {19।28} संस्त्यायविशेषाः हि एते ग्रामः घोषः नगरम् संवाहः इति .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {20।28} एवम् तर्हि सिद्धे सति यत् ग्रामग्रहणे नगरग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र ग्रामग्रहणे नगरग्रहणम् न भवति इति .

(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {21।28} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {22।28} विशिष्टलिङ्गः नदीदेशः अग्रामाः इति अत्र नगरप्रतिषेधः चोदितः सः न वक्तव्यः भवति .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {23।28} यदि एतत् ज्ञाप्यते उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् इति अत्र नगरग्रहणम् कर्तव्यम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {24।28} बाहीकग्रामेभ्यः च नगरग्रहणम् कर्तव्यम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {25।28} दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु नगरग्रहणम् कर्तव्यम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {26।28} इदम् चतुर्थम् ज्ञापकार्थम् .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {27।28} तत्र अतिनिर्बन्धः न लाभः .
(प्_7,3.14) क_इइइ,320.18-321.10 रो_व्,199.11-201.3 {28।28} तस्मात् यस्मिन् एव ग्रामग्रहणे नगरग्रहणम् न इष्यते तस्य प्रतिषेधः वक्तव्यः
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {1।22} संवत्सरग्रहणम् अनर्थकम् परिमाणान्तस्य इति कृतत्वात् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {2।22} संवत्सरग्रहणम् अनर्थकम् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {3।22} किम् कारणम् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {4।22} परिमाणान्तस्य इति कृतत्वात् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {5।22} परिमाणान्तस्य असञ्ज्ञाशाणयोः इति एव सिद्धम् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {6।22} ज्ञापकम् तु कालपरिमाणानाम् वृद्धिप्रतिषेधस्य .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {7।22} एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् वृद्धिः न भवति इति .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {8।22} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {9।22} द्वैरात्रिकः , त्रैरात्रिकः , अत्र वृद्धिः न भवति .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {10।22} न एतत् अस्ति प्रयोजनम् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {11।22} न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {12।22} इदम् तर्हि .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {13।22} द्वसमिकः , त्रैसमिकः .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {14।22} इदम् च अपि प्रयोजनम् द्वैरात्रिकः , त्रैरात्रिकः .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {15।22} ननु च उक्तम् न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा इति .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {16।22} अयम् अस्ति विशेषः .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {17।22} यदि अत्र उत्तरपदवृद्धिः स्यात् अचाम् आदेः वृद्धिः न स्यात् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {18।22} अपरः आह : ज्ञापकम् तु कालपरिमाणानाम् परिमाणाग्रहणस्य .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {19।22} एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् परिमाणग्रहणेन ग्रहणम् न भवति इति .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {20।22} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {21।22} अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि द्विवर्षा , त्रिवर्षा .
(प्_7,3.15) क_इइइ,321.12-25 रो_व्,201.5-18 {22।22} परिमाणपर्युदासेन पर्युदासः न भवति
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {1।10} परस्य वृद्धिः न इति अनुवर्तते उताहो न .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {2।10} किम् च अतः .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {3।10} यदि अनुवर्तते प्रवाहणेयी भार्या अस्य इति प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {4।10} अथ निवृत्तम् न दोषः भवति .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {5।10} यथा न दोषः तथा अस्तु .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {6।10} अथ वा पुनः अस्तु अनुवर्तते .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {7।10} ननु च उक्तम् प्रवाहणेयी भार्या अस्य प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति इति .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {8।10} न एषः दोषः .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {9।10} मा भूत् एवम् .
(प्_7,3.28) क_इइइ,322.2-6 रो_व्,202.2-7 {10।10} जातेः इति एवम् भविष्यति

(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {1।8} अयम् योगः शक्यः अवक्तुम् .
(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {2।8} कथम् अयाथातथ्यम् , आयथातथ्यम् , अयाथापुर्यम् , आयथापुर्यम् .
(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {3।8} यदा तावत् पूर्वपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते .
(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {4।8} न यथातथा , अयथातथा .
(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {5।8} अयथातथाभावः आयथातथ्यम् .
(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {6।8} यदा उत्तरपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते .
(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {7।8} यथातथाभावः याथातथ्यम् .
(प्_7,3.31) क_इइइ,322.8-11 रो_व्,202.9-203.3 {8।8} न याथातथ्यम् अयाथातथ्यम्
(प्_7,3.32) क_इइइ,322.13-16 रो_व्,203.5-8 {1।6} हन्तेः तकारे तद्धिते प्रतिषेधः .
(प्_7,3.32) क_इइइ,322.13-16 रो_व्,203.5-8 {2।6} हन्तेः तकारे तद्धिते प्रतिषेधः वक्तव्यः .
(प्_7,3.32) क_इइइ,322.13-16 रो_व्,203.5-8 {3।6} वार्त्रघ्नम् , भ्रौणघ्नम् .
(प्_7,3.32) क_इइइ,322.13-16 रो_व्,203.5-8 {4।6} उक्तम् वा .
(प्_7,3.32) क_इइइ,322.13-16 रो_व्,203.5-8 {5।6} किम् उक्तम् .
(प्_7,3.32) क_इइइ,322.13-16 रो_व्,203.5-8 {6।6} धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {1।17} कृद्ग्रहणम् किमर्थम् .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {2।17} इह मा भूत् .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {3।17} ददौ , दधौ .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {4।17} न एतत् अस्ति प्रयोजनम् .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {5।17} अचिण्णलोः इति वर्तते .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {6।17} यदि अचिण्णलोः इति वर्तते अदायि , अधायि इति अत्र न प्राप्नोति .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {7।17} वचनात् चिणि भविष्यति .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {8।17} अचिण्णलोः इति वर्तते .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {9।17} एवम् अपि चौडिः , बालाकिः इति अत्र प्राप्नोति .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {10।17} लोपः अत्र बाधकः भविष्यति .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {11।17} इदम् इह सम्प्रधार्यम् .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {12।17} लोपः क्रियताम् युक् इति किम् अत्र कर्तव्यम् .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {13।17} परत्वात् युक् .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {14।17} एवम् तर्हि अचाम् आदेः इति वर्तते .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {15।17} यत्र अचाम् आदिः आकारः तत्र युक् इति .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {16।17} एवम् अपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः , अत्र प्राप्नोति .
(प्_7,3.33) क_इइइ,322.18-323.4 रो_व्,203.10-204.2 {17।17} तस्मात् कृद्ग्रहणम् कर्तव्यम्
(प्_7,3.34) क_इइइ,323.5-7 रो_व्,204.4-5 {1।2} अत्यल्पम् इदम् उच्यते : अनाचमेः इति .
(प्_7,3.34) क_इइइ,323.5-7 रो_व्,204.4-5 {2।2} अवमिकमिचमीनाम् इति वक्तव्यम् : वामः , कामः , आचामः
(प्_7,3.37) क_इइइ,323.9-12 रो_व्,204.6-10 {1।5} णिच्प्रकरणे धूञ्प्रीञोः नुग्वचनम् .
(प्_7,3.37) क_इइइ,323.9-12 रो_व्,204.6-10 {2।5} णिच्प्रकरणे धूञ्प्रीञोः नुक् वक्तव्यः .
(प्_7,3.37) क_इइइ,323.9-12 रो_व्,204.6-10 {3।5} धूनयति , प्रीणयति .
(प्_7,3.37) क_इइइ,323.9-12 रो_व्,204.6-10 {4।5} पातेः लुग्वचनम् .
(प्_7,3.37) क_इइइ,323.9-12 रो_व्,204.6-10 {5।5} पालयति
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {1।11} स्थग्रहणम् किमर्थम् .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {2।11} इदम् विचारयिष्यते इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति .

(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {3।11} तत् यदा सङ्घतग्रहणम् तदा स्थग्रहणम् कर्तव्यम् इह अपि यथा स्यात् कारिका , हारिका .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {4।11} यदा हि वर्णग्रहणम् तदा केवलः ककारः प्रत्ययः न अस्ति इति कृत्वा वचनात् भविष्यति .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {5।11} अथ असुपः इति कथम् इदम् विज्ञायते .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {6।11} असुब्वतः अङ्गस्य इति .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {7।11} आहोस्वित् न चेत् सुपः परः आप् इति .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {8।11} किम् च अतः .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {9।11} यदि विज्ञायते असुब्वतः अङ्गस्य इति बहुचर्मिका अत्र न प्राप्नोति .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {10।11} अथ विज्ञायते न चेत् सुपः परः आप् इति न दोषः भवति .
(प्_7,3.44.1) क_इइइ,323.14-21 रो_व्,204-205 {11।11} यथा न दोषः तथा अस्तु
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {1।35} इदम् विचार्यते : इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {2।35} कः च अत्र विशेषः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {3।35} इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {4।35} इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकास्वु अप्राप्तिः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {5।35} एतिकाः चरन्ति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {6।35} वचनात् भविष्यति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {7।35} अस्ति वचने प्रयोजनम् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {8।35} किम् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {9।35} कारिका , हारिका .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {10।35} अस्तु तर्हि वर्णग्रहणम् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {11।35} वर्णग्रहणम् चेत् व्यवहितत्वात् अप्रसिद्धिः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {12।35} वर्णग्रहणम् चेत् व्यवहितत्वात् न प्राप्नोति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {13।35} कारिका , हारिका .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {14।35} अकारेण व्यवहितत्वात् न प्राप्नोति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {15।35} एकादेशे कृते न अस्ति व्यवधानम् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {16।35} एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {17।35} एवम् तर्हि आह अयम् प्रत्ययस्थात् कात् पूर्वस्य इति न क्व चित् अव्यवधानम् तत्र वचनात् भविष्यति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {18।35} वचनप्रामाण्यात् इति चेत् रथकट्यादिषु अतिप्रसङ्गः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {19।35} वचनप्रामाण्यात् इति चेत् रथकट्यादिषु दोषः भवति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {20।35} रथकट्या , गर्गकाम्या .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {21।35} न एषः दोषः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {22।35} येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {23।35} केन च न अव्यवधानम् वर्णेन एकेन .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {24।35} सङ्घातेन पुनः व्यवधानम् भवति न भवति च .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {25।35} अथ वा पुनः अस्तु सङ्घातग्रहणम् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {26।35} ननु च उक्तम् इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः इति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {27।35} परिहृतम् एतत् वचनात् भविष्यति इति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {28।35} ननु च उक्तम् अस्ति वचने प्रयोजनम् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {29।35} किम् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {30।35} कारिका , हारिका इति .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {31।35} अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति .

(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {32।35} अन्तादिवद्भावेन व्यपवर्गः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {33।35} उभयतः आश्रये न अन्तादिवत् .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {34।35} एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः .
(प्_7,3.44.2) क_इइइ,323.22-324.18 रो_व्,206-208 {35।35} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् अपि इत्त्वम् इति यत् अयम् न यासयोः इति प्रतिषेधम् शास्ति
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {1।11} ममक( र्: मामक)नरकयोः उपसङ्ख्यानम् अप्रत्ययस्थत्वात् .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {2।11} ममक(र्: मामक)नरकयोः उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {3।11} मामिका , नरिका .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {4।11} किम् पुनः कारणम् न सिध्यति .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {5।11} अप्रत्ययस्थत्वात् .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {6।11} त्यक्त्यपोः च प्रतिषिद्धत्वात् .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {7।11} त्यक्त्यपोः च उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {8।11} दाक्षिणात्यिका , अमात्यिका .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {9।11} किम् पुनः कारणम् न सिध्यति .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {10।11} प्रतिषिद्धत्वात् .
(प्_7,3.44.3) क_इइइ,324.19-25 रो_व्,208 {11।11} उदीचाम् आतः स्थाने यकपूर्वायाः इति प्रतिषिद्धत्वात्
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {1।48} न यत्तदोः इति वक्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {2।48} इह अपि यथा स्यात् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {3।48} यकाम् यकाम् अधीते , तकाम् तकाम् पचामहे इति .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {4।48} प्रतिषेधे त्यकनः उपसङ्ख्यानम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {5।48} प्रतिषेधे त्यकनः उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {6।48} उपत्यका , अधित्यका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {7।48} तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {8।48} न कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {9।48} आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इत्त्वम् भवति इति यत् अयम् मृदः तिकन् इति इत्त्वभूतम् निर्देशम् करोति .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {10।48} पावकादीनाम् छन्दसि उपसङ्ख्यानम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {11।48} पावकादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {12।48} हिरण्यवर्णाः श्रुचयः पावकाः , ऋक्षकाः , अलोमकाः .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {13।48} छन्दसि इति किमर्थम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {14।48} पाविका , अलोमिका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {15।48} आशिषि च .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {16।48} आशिषि च उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {17।48} जीवतात् जीवका , नन्दतात् नन्दका , भवतात् भवका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {18।48} उत्तरपदलोपे च .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {19।48} उत्तरपदलोपे च उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {20।48} देवदत्तिका , देवका , यज्ञदत्तिका , यज्ञका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {21।48} क्षिपकादीनाम् च .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {22।48} क्षिपकादीनाम् च उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {23।48} क्षिपका , ध्रुवका , धुवका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {24।48} तारका ज्योतिषि .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {25।48} तारका ज्योतिषि उपसङ्ख्यानम् कर्तव्यम् .

(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {26।48} तारका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {27।48} ज्योतिषि इति किमर्थम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {28।48} तारिका दासी .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {29।48} वर्णका तानवे .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {30।48} वर्णका तान्तवे उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {31।48} वर्णका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {32।48} तान्तवे इति किमर्थम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {33।48} वर्णिका भागुरी लोकायतस्य .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {34।48} वर्तका शकुनौ प्राचाम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {35।48} वर्तका शकुनौ प्राचाम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {36।48} वर्तका शकुनिः .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {37।48} शकुनौ इति किमर्थम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {38।48} वर्तिका भागुरी लोकायतस्य .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {39।48} प्राचाम् इति किमर्थम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {40।48} वर्तिका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {41।48} अष्टका पितृदेवत्ये .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {42।48} अष्टका पितृदेवत्ये उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {43।48} अष्टका .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {44।48} पितृदेवत्ये इति किमर्थम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {45।48} अष्टिका खारी .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {46।48} वा सूतकापुत्रकावृन्दारकाणाम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {47।48} वा सूतकापुत्रकावृन्दारकाणाम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.45.) क_इइइ,325.2-326.9 रो_व्,208.10-210.15 {48।48} सूतका , सूतिका , पुत्रका , पुत्रिका , वृन्दारका , वृन्दारिका
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {1।8} किमर्थम् स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्य इति एव उच्येत .
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {2।8} स्त्रीविषयः यः आकारः तस्य स्थाने यः अकारः तस्य प्रतिषेधः यथा स्यात् .
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {3।8} इह मा भूत् .
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {4।8} शुभम् याति इति शुभंयाः शुभंयिका , भद्रंयिका .
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {5।8} यकपूर्वे धात्वन्तप्रतिषेधः .
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {6।8} यकपूर्वे धात्वन्तप्रतिषेधः वक्तव्यः .
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {7।8} किम् प्रयोजनम् .
(प्_7,3.46) क_इइइ,326.11-16 रो_व्,211.2-7 {8।8} सुनयिका , अशोकिका , अपाकिका
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {1।11} एषाद्वे नञ्पूर्वे अनुदाहरणे असुपः इति प्रतिषेधात् .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {2।11} अथ भस्त्राग्रहणम् किमर्थम् न अभाषितपुंस्कात् इति एव सिद्धम् .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {3।11} भस्त्राग्रहणम् उपसर्जनार्थम् .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {4।11} उपसर्जनार्थः अयम् आरम्भः .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {5।11} अभस्त्रिका , अभस्त्रका .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {6।11} नञ्पूर्वग्रहणानर्थक्यम् च उत्तरपदमात्रस्य इद्वचनात् .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {7।11} नञ्पूर्वग्रहणम् च अनर्थकम् .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {8।11} किम् कारणम् .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {9।11} उत्तरपदमात्रस्य इद्वचनात् .

(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {10।11} उत्तरपदमात्रस्य इत्त्वम् वक्तव्यम् .
(प्_7,3.47) क_इइइ,326.18-327.3 रो_व्,211.9-212.3 {11।11} निर्भस्त्रका , निर्भस्त्रिका , बहुभस्त्रका , बहुभस्त्रिका
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {1।57} किम् इदम् ठादेशे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {2।57} कः च अत्र विशेषः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {3।57} ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {4।57} ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {5।57} पठिता , पठितुम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {6।57} अस्तु तर्हि सङ्घातग्रहणम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {7।57} सङ्घातग्रहणम् चेत् अणादिमाथितिकादीनाम् प्रतिषेधः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {8।57} सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः वक्तव्यः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {9।57} उणादीनाम् तावत् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {10।57} कण्ठः , वण्ठः , शण्ठः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {11।57} इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {12।57} वर्ङग्रहणे पुनः सति अल्विधिः अयम् भवति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {13।57} तस्मात् विशिष्टग्रहणम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {14।57} तस्मात् विशिष्टस्य ठकारस्य ग्रहणम् कर्तव्यम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {15।57} न कर्तव्यम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {16।57} अस्तु तावत् वर्णग्रहणम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {17।57} ननु च उक्तम् ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {18।57} न एषः दोषः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {19।57} अङ्गात् इति वर्तते .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {20।57} न वा अङ्गात् इति पञ्चमी अस्ति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {21।57} एवम् तर्हि प्रत्ययस्थस्य इति वर्तते .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {22।57} क्व प्रकृतम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {23।57} प्रत्ययस्थात् कात् पूर्वस्य अतः इत् आपि असुपः इति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {24।57} तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {25।57} अर्थात् विभक्तिविपरिणामः भविष्यति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {26।57} तत् यथा .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {27।57} उच्चानि देवदत्तस्य गृहाणि .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {28।57} आमन्त्रयस्व एनम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {29।57} देवदत्तम् इति गम्यते .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {30।57} देवदत्तस्य गावः अश्वाः हिरण्यम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {31।57} आढ्यः वैधवेयः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {32।57} देवदत्तः इति गम्यते .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {33।57} पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् प्रथमानिर्दिष्टम् द्वितीयानिर्दिष्टम् च भवति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {34।57} एवम् इह अपि पुरस्तात् पञ्चमीनिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {35।57} एवम् अपि उणादीनाम् प्रतिषेधः वक्तव्यः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {36।57} न वक्तव्यः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {37।57} उणादयः अव्युत्पन्नानि प्रातिपदिकानि .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {38।57} एवम् अपि कर्मठः इति अत्र प्राप्नोति .

(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {39।57} एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {40।57} अङ्गस्य यः ठकारः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {41।57} किम् च अङ्गस्य ठकारः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {42।57} निमित्तम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {43।57} यस्मिन् अङ्गम् इति एतत् भवति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {44।57} कस्मिन् च एतत् भवति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {45।57} प्रत्यये .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {46।57} अथ वा पुनः अस्तु सङ्घातग्रहणम् .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {47।57} ननु च उक्तम् सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः इति उणादीनाम् तावत् प्रतिषेधः न वक्तव्यः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {48।57} परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {49।57} यत् अपि उच्यते इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति इति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {50।57} न एषः दोषः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {51।57} अकारलोपस्य स्थानिवद्भावात् न भविष्यति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {52।57} न सिध्यति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {53।57} पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {54।57} अयम् अपि पूर्वविधिः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {55।57} पूर्वस्मात् अपि विधिः पूर्वविधिः इति .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {56।57} अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि न दोषः .
(प्_7,3.50) क_इइइ,328.2-329.5 रो_व्,212.7-215.1 {57।57} क्रियते न्यासे एव विशिष्टग्रहणम् ठस्य इति
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {1।8} इह कस्मात् न भवति .
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {2।8} आशिषा तरति आशिषिकः , उषा तरति औषिकः .
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {3।8} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति .
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {4।8} अथ इह कथम् भवितव्यम् .
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {5।8} दोर्भ्याम् तरति .
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {6।8} दौष्कः इति भवितव्यम् .
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {7।8} कथम् .
(प्_7,3.51) क_इइइ, 329.7-9 रो_व्,215.3-5 {8।8} यदि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {1।52} किम् इदम् ञ्णिन्नकारग्रहणम् हन्तिविशेषणम् : ञ्णिन्नकारपरस्य हन्तेः यः हकारः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {2।52} आहोस्वित् हकारविशेषणम् : ञ्णिन्नकारपरस्य हकारस्य सः चेत् हन्तेः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {3।52} कः च अत्र विशेषः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {4।52} हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {5।52} हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {6।52} घ्नन्ति , घ्नन्तु , अघ्नन् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {7।52} अस्तु तर्हि हकारविशेषणम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {8।52} हकारस्य इति चेत् ञ्णिति अप्राप्तिः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {9।52} हकारस्य इति चेत् ञ्णिति अप्राप्तिः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {10।52} घातयति घातकः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {11।52} किम् कारणम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {12।52} नकारेण व्यवहितत्वात् न प्राप्नोति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {13।52} वचनात् भविष्यति .

(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {14।52} इह अपि वचनात् प्राप्नोति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {15।52} हननम् इच्छति हननीयते हननीयतेः ण्वुल् हननीयकः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {16।52} स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {17।52} स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {18।52} घ्नन्ति , घ्नन्तु .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {19।52} वचनात् भविष्यति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {20।52} वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {21।52} वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः वक्तव्यः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {22।52} हन्ता , हन्तुम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {23।52} नकारग्रहणसामर्थ्यात् अलोपे न भविष्यति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {24।52} अस्ति अन्यत् नकारग्रहणस्य प्रयोजनम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {25।52} किम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {26।52} श्रूयमाणविशेषणम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {27।52} यत्र नकारः श्रूयते तत्र यथा स्यात् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {28।52} इह मा भूत् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {29।52} हतः हथः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {30।52} सिद्धम् तु उपधालोपे इति वचनात् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {31।52} सिद्धम् एतत् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {32।52} कथम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {33।52} उपधालोपे च इति वक्तव्यम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {34।52} सिध्यति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {35।52} सूत्रम् तर्हि भिद्यते .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {36।52} यथान्यासम् एव अस्तु .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {37।52} ननु च उक्तम् हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {38।52} वचनात् भविष्यति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {39।52} अथ वा पुनः अस्तु हकारविशेषणम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {40।52} ननु च उक्तम् हकारस्य इति चेत् ञ्णिति अप्राप्तिः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {41।52} वचनात् भविष्यति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {42।52} ननु च उक्तम् इह अपि वचनात् प्राप्नोति हननीयकः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {43।52} न एषः दोषः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {44।52} येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {45।52} न च क्व चित् धात्ववयवेन अव्यवधानम् एतेन पुनः सङ्घातेन व्यवधानम् भवति न च भवति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {46।52} यत् अपि उच्यते स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः इति वचनात् भविष्यति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {47।52} ननु च उक्तम् वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {48।52} न एषः दोषः .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {49।52} आनन्तर्यम् इह आश्रीयते हकारस्य नकारः इति .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {50।52} क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न सन्निपातकृतम् न अपि शास्त्रकृतम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {51।52} लोपे सन्निपातकृतम् आनन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् .
(प्_7,3.54) क_इइइ,329.11-330.16 रो_व्,215.7-217.13 {52।52} यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {1।16} अभ्यासात् कुत्वम् असुपः .

(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {2।16} अभ्यासात् कुत्वम् असुपः इति वक्तव्यम् .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {3।16} इह मा भूत् .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {4।16} हननम् इच्छति हननीयति हननीयतेः सन् जिहननीयिषति इति .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {5।16} तत् तर्हि वक्तव्यम् .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {6।16} न वक्तव्यम् .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {7।16} हन्तेः अभ्यासात् इति उच्यते न च एषः हन्तेः अभ्यासः .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {8।16} हन्तेः एषः अभ्यासः .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {9।16} कथम् .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {10।16} एकाचः द्वे प्रथमस्य इति .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {11।16} एवम् तर्हि हन्तेः अङ्गस्य यः अभ्यासः तस्मात् इति उच्यते न च एषः हन्तेः अङ्गस्य अभ्यासः .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {12।16} हन्तेः अङ्गस्य एषः अभ्यासः .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {13।16} कथम् .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {14।16} एकाचः द्वे प्रथमस्य इति .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {15।16} एवम् तर्हि यस्मिन् हन्तिः अङ्गम् तस्मिन् यः अभ्यासः तस्मात् इति उच्यते .
(प्_7,3.55) क_इइइ,330.18-25 रो_व्,217.15-218.8 {16।16} यस्मिन् च अत्र हन्तिः अङ्गम् न तस्मिन् अभ्यासः यस्मिन् च अभ्यासः न तस्मिन् हन्तिः अङ्गम् भवति
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {1।13} अचङि इति किमर्थम् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {2।13} प्राजीहयत् दूतम् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {3।13} हेः चङि प्रतिषेधानर्थक्यम् अङ्गान्यत्वात् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {4।13} हेः चङि प्रतिषेधः अनर्थकः .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {5।13} किम् कारणम् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {6।13} अङ्गान्यत्वात् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {7।13} ण्यन्तम् एतत् अङ्गम् अन्यत् भवति .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {8।13} लोपे कृते न अङ्गान्यत्वम् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {9।13} स्थानिवद्भावात् अङ्गान्यत्वम् एव .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {10।13} ज्ञापकम् तु अन्य्त्र ण्यधिकस्य कुत्वविज्ञानार्थम् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {11।13} एवम् तर्हि ज्ञापयति आचार्यः अन्यत्र ण्यधिकस्य कुत्वम् भवति इति .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {12।13} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_7,3.56) क_इइइ,331.2-8 रो_व्,219.2-8 {13।13} प्रजिघाययिषति इति अत्र कुत्वम् सिद्धम् भवति
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {1।8} जिग्रहणे ज्यः प्रतिषेधः .
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {2।8} जिग्रहणे ज्यः प्रतिषेधः वक्तव्यः .
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {3।8} जिज्यतुः , जिज्युः इति .
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {4।8} सः तर्हि प्रतिषेधः वक्तव्यः .
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {5।8} न वक्तव्यः .
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {6।8} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् एतस्य न भविष्यति .
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {7।8} सा तर्हि एषा परिभषा कर्तव्या .
(प्_7,3.57) क_इइइ,331.10-14 रो_व्,219.10-14 {8।8} अवश्यम् कर्तव्या अध्याप्य गतः इति एवमर्थम्
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {1।13} क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः निष्ठायाम् अनिटः कुत्ववचनात् .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {2।13} क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {3।13} अनर्थकः प्रतिषेधः अप्रतिषेधः .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {4।13} कुत्वम् कस्मात् न भवति .

(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {5।13} निष्ठायाम् अनिटः कुत्ववचनात् .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {6।13} निष्ठायाम् अनिटः कुत्वम् वक्ष्यामि सेटः च एते निष्ठायाम् .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {7।13} यदि निष्ठायाम् अनिटः कुत्वम् उच्यते कथम् शोकः समुद्रः इति .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {8।13} शुच्युब्ज्योः घञि कुत्वम् .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {9।13} शुच्युब्ज्योः घञि कुत्वम् वक्तव्यम् .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {10।13} कथम् अर्कः .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {11।13} अर्चेः कविधानात् सिद्धम् .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {12।13} न एतत् घञन्तम् .
(प्_7,3.59) क_इइइ,331.16-332.2 रो_व्,219.16-220.7 {13।13} औणादिकः एषः कशब्दः तस्मिन् आष्टमिकम् कुत्वम्
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {1।14} भुजः पाणौ .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {2।14} भुजः पाणौ इति वक्तव्यम् .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {3।14} कथम् न्युब्जः उपतापे इति .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {4।14} न्युब्जेः कर्तृत्वात् अप्रतिषेधः .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {5।14} अनर्थकः प्रतिषेधः अप्रतिषेधः .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {6।14} कुत्वम् कस्मत् न भवति .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {7।14} कर्तृत्वात् .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {8।14} न एतत् घञन्तम् .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {9।14} कर्तृप्रत्ययः एषः .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {10।14} न्युब्जति इति न्युब्जः .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {11।14} अधिकरणसाधनः वै लक्ष्यते घञ् .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {12।14} न्युब्जिताः शेरते अस्मिन् न्युब्जः उपतापे इति .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {13।14} एषः अपि हि कर्तृसाधनः एव .
(प्_7,3.61) क_इइइ,332.4-10 रो_व्,221.2-8 {14।14} न्युब्जयति इति न्युब्जः
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {1।17} प्रवचिग्रहणम् अनर्थकम् वचः अशब्दसञ्ज्ञाभावात् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {2।17} प्रवचिग्रहणम् अनर्थकम् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {3।17} किम् कारणम् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {4।17} वचोऽशब्दसञ्ज्ञाभावात् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {5।17} वचोऽशब्दसञ्ज्ञायाम् प्रतिषेधः उच्यते प्रपूर्वः च वचिः अशब्दसञ्ज्ञायाम् वर्तते .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {6।17} उपसर्गनियमार्थम् तर्हि इदम् वक्तव्यम् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {7।17} प्रपूर्वस्य एव वचेः अशब्दसञ्ज्ञायाम् प्रतिषेधः यथा स्यात् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {8।17} इह मा भूत् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {9।17} अविवाक्यम् इति .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {10।17} उपसर्गपूर्वनियमार्थम् इति चेत् अविवाक्यस्य विशेषवचनत् सिद्धम् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {11।17} विशेषे एतत् वक्तव्यम् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {12।17} अविवाक्यम् अहः इति .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {13।17} क्व मा भूत् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {14।17} अविवाच्यम् एव अन्यत् इति .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {15।17} ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {16।17} ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् कर्तव्यम् .
(प्_7,3.66) क_इइइ,332.12-21 रो_व्,221.10-222.8 {17।17} त्याज्यम्

(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {1।10} [भोज्यम् अभ्यवहार्ह्ये] .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {2।10} भोज्यम् अभ्यवहार्ये इति वक्तव्यम् .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {3।10} इह अपि यथा स्यात् .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {4।10} भोज्यः सूपः , भोज्या यवागूः इति .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {5।10} किम् पुनः कारणम् न सिध्यति .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {6।10} भक्षिः अयम् खरविशदे वर्तते तेन द्रवे न प्राप्नोति .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {7।10} न अवश्यम् भक्षिः खरविशदे एव वर्तते .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {8।10} किम् तर्हि अन्यत्र अपि वर्तते .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {9।10} तत् यथा .
(प्_7,3.69) क_इइइ,333.2-6 रो_व्,222.10-14 {10।10} अब्भक्षः , वायुभक्षः इति
(प्_7,3.70) क_इइइ,333.8-10 रो_व्,223.2-4 {1।5} वा इति शक्यम् अवक्तुम् .
(प्_7,3.70) क_इइइ,333.8-10 रो_व्,223.2-4 {2।5} कस्मात् न भवति .
(प्_7,3.70) क_इइइ,333.8-10 रो_व्,223.2-4 {3।5} तत् अग्निः अग्नये ददात् .
(प्_7,3.70) क_इइइ,333.8-10 रो_व्,223.2-4 {4।5} अस्तु अत्र लोपः आटः श्रवणम् भविष्यति तेन उभयम् सिध्यति .
(प्_7,3.70) क_इइइ,333.8-10 रो_व्,223.2-4 {5।5} दधत् रत्नानि दाशुषे , ददात् रत्नानि दाशुषे
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {1।15} [ओतः शिति] .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {2।15} ओतः शिति इति वक्तव्यम् .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {3।15} किम् प्रयोजनम् .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {4।15} उत्तरत्र शिद्ग्रहणाभावाय .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {5।15} तत्र अयम् अपि अर्थः ष्ठिवुक्लम्वाचमाम् शिति इति शिद्ग्रहणम् न कर्तव्यम् भवति .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {6।15} ननु च भोः श्यन्ग्रहणम् अपि तर्हि उत्तरार्थम् कर्तव्यम् .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {7।15} शमाम् अष्टानाम् दीर्घः श्यनि इति श्यन्ग्रहणम् न कर्तव्यम् भवति .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {8।15} अत्र अपि अस्तु शिति इति एव .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {9।15} यदि शिति इति उच्यते अनु त्वा इन्द्रः भ्रमतु मदतु अत्र अपि प्राप्नोति .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {10।15} शमादिभिः अत्र शितम् विशेषयिष्यामः .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {11।15} शमादीनाम् यः शित् इति .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {12।15} कः च शमादीनाम् शित् .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {13।15} शमादिभ्यः यः विहितः .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {14।15} एवम् अपि तस्यति , यस्यति अत्र प्राप्नोति .
(प्_7,3.71) क_इइइ,333.12-20 रो_व्,223.6-224.1 {15।15} अष्टानाम् इति वचनात् न भविष्यति
(प्_7,3.75) क_इइइ,334.2-4 रो_व्,224.3-5 {1।5} दीर्घत्वम् आङि चमः .
(प्_7,3.75) क_इइइ,334.2-4 रो_व्,224.3-5 {2।5} दीर्घत्वम् आङि चमः इति वक्तव्यम् .
(प्_7,3.75) क_इइइ,334.2-4 रो_व्,224.3-5 {3।5} आचामति .
(प्_7,3.75) क_इइइ,334.2-4 रो_व्,224.3-5 {4।5} इह मा भूत् .
(प्_7,3.75) क_इइइ,334.2-4 रो_व्,224.3-5 {5।5} उच्चमति , विचमति इति
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {1।18} इषेः छत्वम् अहलि .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {2।18} इषेः छत्वम् अहलि इति वक्तव्यम् .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {3।18} इह मा भूत् .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {4।18} इष्णाति , इष्यति .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {5।18} तत् तर्हि वक्तव्यम् .

(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {6।18} न वक्तव्यम् .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {7।18} अचि इति वर्तते .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {8।18} एवम् अपि इषाण इति अत्र प्राप्नोति .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {9।18} अथ अहलि इति उच्यमाने कस्मात् एव अत्र छत्वम् न भवति .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {10।18} न एवम् विज्ञायते न हल् अहल् अहलि इति .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {11।18} कथम् तर्हि .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {12।18} अविद्यमानः हल् अस्मिन् सः अयम् अहल् अहलि इति .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {13।18} यदि एवम् अचि इति अपि वर्तमाने न दोषः .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {14।18} न हि अचा शित् विशेष्यते .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {15।18} शिति भवति कतर्स्मिन् अचि इति .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {16।18} कथम् तर्हि .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {17।18} शिता अच् विशेष्यते .
(प्_7,3.77) क_इइइ,334.6-12 रो_व्,224.7-13 {18।18} अचि भवति कतर्स्मिन् शिति इति
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {1।12} पिबेः गुणप्रतिषेधः .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {2।12} पिबेः गुणप्रतिषेधः वक्तव्यः .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {3।12} पिबति .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {4।12} लघूपधगुणः प्राप्नोति .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {5।12} सः तर्हि प्रतिषेधः वक्तव्यः .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {6।12} न वक्तव्यः .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {7।12} गुणः कस्मात् न भवति .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {8।12} पिबिः अदन्तः .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {9।12} अदन्ते इति चेत् उक्तम् .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {10।12} किम् उक्तम् .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {11।12} धातोः अन्ते इति चेत् अनुदात्तेचबग्रहणम् इति .
(प्_7,3.78) क_इइइ,334.15-20 रो_व्,225.3-8 {12।12} अथ वा अङ्गवृत्ते पुनर्वृत्तौ अविधिः निष्ठितस्य इति एवम् न भविष्यति
(प्_7,3.79) क_इइइ,335.2-6 रो_व्,225-226 {1।6} दीर्घोच्चारणम् किमर्थम् न ज्ञाजनोः जः इति एव उच्येत .
(प्_7,3.79) क_इइइ,335.2-6 रो_व्,225-226 {2।6} का रूपसिद्धिः : जानाति , जायते .
(प्_7,3.79) क_इइइ,335.2-6 रो_व्,225-226 {3।6} अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति .
(प्_7,3.79) क_इइइ,335.2-6 रो_व्,225-226 {4।6} एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति .
(प्_7,3.79) क_इइइ,335.2-6 रो_व्,225-226 {5।6} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_7,3.79) क_इइइ,335.2-6 रो_व्,225-226 {6।6} पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {1।25} जुसि गुणे यासुट्प्रतिषेधः .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {2।25} जुसि गुणे यासुडादौ प्रतिषेधः वक्तव्यः .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {3।25} चिनुयुः , सुनुयुः इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {4।25} न वक्तव्यः .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {5।25} न एवम् विज्ञायते मिदेः गुणः जुसि च इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {6।25} कथम् तर्हि .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {7।25} मिदेः गुणः अजुसि च इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {8।25} किम् इदम् अजुसि इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {9।25} अजादौ उसि अजुसि इति .

(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {10।25} इह अपि तर्हि प्राप्नोति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {11।25} चक्रुः , जह्रुः इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {12।25} एवम् तर्हि शिति इति वर्तते .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {13।25} एवम् अपि अजुहवुः , अबिभयुः इति अत्र न प्राप्नोति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {14।25} भूतपूर्वगत्या भविष्यति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {15।25} न सिध्यति न हि उस् शिद्भूतपूर्वः .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {16।25} उस् शिद्भूतपूर्वः न अस्ति इति कृत्वा उसि यः शिद्भूतपूर्वः तस्मिन् भविष्यति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {17।25} अथ वा क्रियते न्यासे एव .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {18।25} अविभक्तिकः निर्देशः .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {19।25} न एवम् विज्ञायते मिदेः गुणः जुसि च इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {20।25} कथम् तर्हि .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {21।25} मिदेः गुणः उ जुसि इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {22।25} किम् इदम् उ जुसि इति .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {23।25} उकारादौ जुसि .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {24।25} अथ वा अचि इति वर्तते तेन जुसम् विशेषयिष्यामः .
(प्_7,3.83) क_इइइ,335.8-16 रो_व्,226 {25।25} अजादौ जुसि इति
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {1।47} इह जागरयति , जागरकः इति गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधः वक्तव्यः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {2।47} चिण्णलोः प्रतिषेधसामर्थ्यात् अन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {3।47} यत् अयम् अचिण्णलोः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न गुणाभिनिर्वृत्तस्य वृद्धिः भवति इति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {4।47} किम् पुनः अयम् पर्युदासः : यत् अन्यत् विचिण्णल्ङिद्भ्यः इति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {5।47} आहोस्वित् प्रसज्य अयम् प्रतिषेधः : विचिण्णल्ङित्सु न इति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {6।47} कः च अत्र विशेषः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {7।47} प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधप्रसङ्गः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {8।47} प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {9।47} अजागरुः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {10।47} उत्तमे च णलि .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {11।47} प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {12।47} अजागरुः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {13।47} न वा अनन्तरस्य प्रतिषेधात् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {14।47} न वा एषः दोषः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {15।47} किम् कारणम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {16।47} अनन्तरस्य प्रतिषेधात् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {17।47} अनन्तरम् यत् गुणविधानम् तस्य प्रतिषेधः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {18।47} जुसि पूर्वेण गुणविधानम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {19।47} जुसि पूर्वेण गुणः विधीयते जुसि च इति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {20।47} णलि च .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {21।47} किम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {22।47} न वा अनन्तरस्य प्रतिषेधात् इति एव .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {23।47} णलि च पूर्वेण गुणः विधीयते सार्वधातुकार्धधातुकयोः इति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {24।47} अथ वा पुनः अस्तु पर्युदासः .

(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {25।47} अतः अन्यत्र विधाने वौ अगुणत्वम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {26।47} अतः अन्यत्र विधाने वौ अगुणत्वम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {27।47} न वा पर्युदाससामर्थ्यात् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {28।47} न वा वक्तव्यम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {29।47} किम् कारणम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {30।47} पर्युदाससामर्थ्यात् अत्र गुणः न भविष्यति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {31।47} अस्ति अन्यत् पर्युदासे प्रयोजनम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {32।47} किम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {33।47} क्विबर्थम् पर्युदासः स्यात् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {34।47} शुद्धपरस्य विशब्दस्य प्रतिषेधे ग्रहणम् अनुनासिकपरः च क्वौ विशब्दः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {35।47} वस्वर्थम् तर्हि पर्युदासः स्यात् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {36।47} जागृवांसः अनु ग्मन् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {37।47} कथम् पुनः वेः पर्युदासः उच्यमानः वस्वर्थः शक्यः विज्ञातुम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {38।47} सामर्थ्यात् वस्वर्थम् इति विज्ञास्यते .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {39।47} वस्वर्थम् इति चेत् न सार्वधातुकत्वात् सिद्धम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {40।47} वस्वर्थम् इति चेत् न .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {41।47} किम् कारणम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {42।47} सार्वधातुकत्वात् सिद्धम् .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {43।47} कथम् सार्वधातुकसञ्ज्ञा .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {44।47} छान्दसः क्वसुः .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {45।47} लिट् च छन्दसि सार्वधातुकम् अपि भवति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {46।47} तत्र सार्वधातुकम् अपिन् ङित् इति ङित्त्वात् पर्युदासः भविष्यति .
(प्_7,3.85) क_इइइ,335.18-337.3 रो_व्,226.15-229.3 {47।47} अथ वा वकारस्य एव इदम् अशक्तिजेन इकारेण ग्रहणम्
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {1।28} संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {2।28} संयोगे गुरुसञ्ज्ञायाम् भेत्ता , भेत्तुम् इति गुणः न प्राप्नोति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {3।28} विध्यपेक्षम् लघोः च असौ .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {4।28} विध्यपेक्षम् लघुग्रहणम् कृतम् लघोः च असौ विहितः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {5।28} कथम् कुण्डिः न दुष्यति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {6।28} कुण्डिता , हुण्डिता अत्र कस्मात् न भवति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {7।28} धातोः नुमः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {8।28} धातोः नुम्विधौ उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् धातूपदेशावस्थायाम् एव नुम् भवति इति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {9।28} कथम् रञ्जेः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {10।28} कथम् रञ्जेः उपधालक्षणा वृद्धिः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {11।28} आश्चर्यः रागः , विचित्रः रागः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {12।28} स्यन्दिश्रन्थ्योः निपातनात् .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {13।28} यत् अयम् स्यन्दिश्रन्थ्योः अवृद्ध्यर्थम् निपातनम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् वृद्धिः इति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {14।28} अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {15।28} अनङ्लोपः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {16।28} दध्ना , सक्थ्ना .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {17।28} शिदीर्घत्वम् .

(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {18।28} कुण्डानि , वनानि .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {19।28} एवम् तर्हि अभ्यस्तस्य यत् आह अचि .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {20।28} यत् अयम् न अभ्यस्तस्य अचि पिति सार्वधातुके इति अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {21।28} लङर्थम् तत् कृतम् भवेत् .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {22।28} लङर्थम् एतत् स्यात् .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {23।28} अनेन इक् .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {24।28} क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {25।28} यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {26।28} संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति , विध्यपेक्षम् लघोः च असौ कथम् कुण्डिः न दुष्यति .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {27।28} धातोः नुमः कथम् रञ्जेः स्यन्दिश्रन्थ्योः निपातनात् , अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः .
(प्_7,3.86) क_इइइ,337.5-338.12 रो_व्,229.5-232.4 {28।28} अभ्यस्तस्य यत् आह अचि लङर्थम् तत् कृतम् भवेत् , क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {1।18} अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि पस्पशाते , चाकशीमि , वावशतीः इति दर्शनात् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {2।18} अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि वक्तव्यम् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {3।18} किम् प्रयोजनम् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {4।18} पस्पशाते , चाकशीमि .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {5।18} वावशतीः इति प्रयोगः दृश्यते .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {6।18} कपोतः शरदम् पस्पशाते .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {7।18} अहम् भुवनम् चाकशीमि .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {8।18} वावशतीः उत् आजत् इति .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {9।18} बहुलम् छन्दसि आनुषक् जुजोषत् इति दर्शनात् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {10।18} बहुलम् छन्दसि वक्तव्यम् उपधाह्रस्वत्वम् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {11।18} किम् प्रयोजनम् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {12।18} आनुषक् जुजोषत् इति दर्शनात् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {13।18} यः ते आतित्यम् आनुषक् जुजोषत् .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {14।18} यदि उपधाह्रस्वत्वम् उच्यते , प्रियाम् मयूरः प्रतिनर्नृतीति यद्वत् त्वम् नरवर नर्नृतीषि हृष्टः , अत्र गुणः प्राप्नोति .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {15।18} तस्मात् न अर्थः उपधाह्रस्वत्वेन .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {16।18} कस्मात् न भवति .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {17।18} पस्पशाते , चाकशीमि , वावशतीः इति .
(प्_7,3.87) क_इइइ,338.14-26 रो_व्,232.6-233.4 {18।18} स्पशिकशिवशयः प्रकृत्यन्तराणि
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {1।16} भूसुवोः प्रतिषेधे एकाज्ग्रहणम् बोभवीत्यर्थम् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {2।16} भूसुवोः प्रतिषेधे एकाज्ग्रहणम् कर्तव्यम् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {3।16} किम् प्रयोजनम् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {4।16} बोभवीत्यर्थम् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {5।16} इह मा भूत् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {6।16} बोभवीति .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {7।16} यदि एकाज्ग्रहणम् क्रियते अभूत् अत्र न प्राप्नोति .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {8।16} क्व तर्हि स्यात् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {9।16} मा भूत् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {10।16} तस्मात् न अर्थः एकाज्ग्रहणेन .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {11।16} कस्मात् न भवति .

(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {12।16} बोभवीति इति .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {13।16} बोभूतु इति एतत् नियमार्थम् भविष्यति .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {14।16} अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {15।16} क्व मा भूत् .
(प्_7,3.88) क_इइइ,339.2-7 रो_व्,233.6-11 {16।16} बोभवीति इति
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {1।15} किमर्थम् तृहिरागतश्नम्कः न तृहेः इम् भवति इति एव उच्येत .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {2।15} तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {3।15} तृणहिग्रहणम् श्नमि कृते इम् यथा स्यात् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {4।15} तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {5।15} तृहिग्रहणे हि सति इम्विषये श्नमः अभावः स्यात् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {6।15} किम् कारणम् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {7।15} अनवकाशत्वात् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {8।15} अनवकाशः इम् श्नमम् बाधेत .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {9।15} इदम् अयुक्तम् वर्तते .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {10।15} किम् अत्र अयुक्तम् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {11।15} तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् इति उक्त्वा ततः उच्यते तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् इति .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {12।15} तत्र वक्तव्यम् तृणहिग्रहणम् श्नमिमोः भावाय तृहिग्रहणे हि इम्विषेये श्नमभावः अनवकाशत्वात् इति .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {13।15} तत् तर्हि वक्तव्यम् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {14।15} न वक्तव्यम् .
(प्_7,3.92) क_इइइ,339.9 रो_व्,234.2-12 {15।15} व्यवस्थार्थम् इति एव सिद्धम् न हि असतः व्यवस्था इति
(प्_7,3.95) क_इइइ,339.20-22 रो_व्,234.14-235.1 {1।4} सार्वधातुके इति वर्तमाने पुनः सार्वधातुकग्रहणम् किमर्थम् .
(प्_7,3.95) क_इइइ,339.20-22 रो_व्,234.14-235.1 {2।4} पुनः सार्वधातुकग्रहणम् अपिदर्थम् .
(प्_7,3.95) क_इइइ,339.20-22 रो_व्,234.14-235.1 {3।4} अपिदर्थः अयम् आरम्भः .
(प्_7,3.95) क_इइइ,339.20-22 रो_व्,234.14-235.1 {4।4} अध्रिगो शमीध्वम् सुशमि शमीध्व शमीध्वम् अध्रिगो
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {1।9} अतः दीर्घात् बहुवचने एत्त्वम् विप्रतिषेधेन .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {2।9} अतः दीर्घात् बहुवचने एत्त्वम् भवति विप्रतिषेधेन .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {3।9} अतः दीर्घः यञि सुपि च इति अस्य अवकाशः .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {4।9} वृक्षाभ्याम् , प्लक्षाभ्याम् .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {5।9} बहुवचने झलि एत् इति अस्य अवकाशः .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {6।9} वृक्षेषु , प्लक्षेषु .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {7।9} इह उभयम् प्राप्नोति .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {8।9} वृक्षेभ्यः , प्लक्षेभ्यः .
(प्_7,3.103) क_इइइ,340.2-5 रो_व्,235.3-7 {9।9} एत्त्वम् भवति विप्रतिषेधेन
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {1।16} डलकवतीनाम् प्रतिषेधः वक्तव्यः .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {2।16} अम्बाडे , अम्बाले , अम्बिके .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {3।16} तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {4।16} तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः इति वक्तव्यम् .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {5।16} देवत , देवते .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {6।16} देवतायाम् , देवते .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {7।16} सः तर्हि प्रतिषेधः वक्तव्यः .

(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {8।16} न वक्तव्यः .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {9।16} सः कथम् न वक्तव्यः भवति .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {10।16} अम्बार्थम् द्व्यक्षरम् यदि .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {11।16} यदि अम्बार्थम् द्व्यक्षरम् गृह्यते .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {12।16} तत् तर्हि ह्रस्वत्वम् वक्तव्यम् .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {13।16} अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवम् अर्थम् .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {14।16} मातॄणाम् मातच् पुत्रार्थम् अर्हते .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {15।16} मातॄणाम् मातजादेशः वक्तव्यः पुत्रार्थम् अर्हते .
(प्_7,3.107) क_इइइ,340.7-16 रो_व्,235.9-236.3 {16।16} गार्गीमात , वात्सीमात
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {1।18} इह कस्मात् न भवति .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {2।18} नदि, कुमारि , किशोरि , ब्राह्मणि , ब्रह्मबन्धु .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {3।18} ह्रस्ववचनसामर्थ्यात् .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {4।18} अस्ति अन्यत् ह्रस्ववचने प्रयोजनम् पृथग्विभक्तिम् मा उच्चीचरम् इति .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {5।18} शक्यम् पृथग्विभक्तिः अनुच्चारयितुम् .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {6।18} कथम् .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {7।18} एवम् अयम् ब्रूयात् .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {8।18} अम्बार्थानाम् ह्रस्वः नदीह्रस्वयोः गुणः इति .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {9।18} यदि एवम् उच्यते जसि च इति अत्र नद्याः अपि गुणः प्राप्नोति .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {10।18} एवम् तर्हि योगविभागः करिष्यते .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {11।18} अम्बार्थनद्योः ह्रस्वः .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {12।18} ततः ह्रस्वस्य .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {13।18} ह्रस्वस्य च ह्रस्वः भवति .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {14।18} किमर्थम् इदम् .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {15।18} गुणम् वक्ष्यति तद्बाधनार्थम् .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {16।18} ततः गुणः .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {17।18} गुणः च भवति ह्रस्वस्य इति .
(प्_7,3.108) क_इइइ,340.18-341.2 रो_व्,236.5-12 {18।18} अथ वा ह्रस्वस्य गुणः इति अत्र अम्बार्थनद्योः ह्रस्वः इति एतत् अनुवर्तिष्यते
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {1।8} जसादिषु छन्दसि वावचनम् प्राक् णौ चङि उपधायाः .
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {2।8} जसादिषु छन्दसि वा इति वक्तव्यम् .
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {3।8} किम् अविशेषेण .
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {4।8} न इति आह .
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {5।8} प्राक् णौ चङ्युपधायाः .
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {6।8} किम् प्रयोजनम् .
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {7।8} अम्बे, दर्वि , शतक्रत्वः , पश्वे नृभ्यः , किकिदीव्या .
(प्_7,3.109) क_इइइ,341.4-9 रो_व्,237.2-7 {8।8} अम्बे , अम्ब , दर्वि , दर्वे , शतक्रवः शतक्रतवः , पश्वे , पशवे , किकिदीव्या , किकिदीविना
(प्_7,3.111) क_इइइ,341.11-15 रो_व्,237.9-238.3 {1।7} घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः .
(प्_7,3.111) क_इइइ,341.11-15 रो_व्,237.9-238.3 {2।7} घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः वक्तव्यः .
(प्_7,3.111) क_इइइ,341.11-15 रो_व्,237.9-238.3 {3।7} पट्वी , मृद्वी , कुरुतः इति .
(प्_7,3.111) क_इइइ,341.11-15 रो_व्,237.9-238.3 {4।7} सुबधिकारात् सिद्धम् .
(प्_7,3.111) क_इइइ,341.11-15 रो_व्,237.9-238.3 {5।7} सुप् इति वर्तते .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc