वृत्तरत्नाकर · अध्याय 1
[श्रीः]
[वृत्तरत्नाकरः]
प्रथमो ऽध्यायः
सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्मा ऽच्युता ऽर्चितम् ।
गौरीविनायकोपेतं शङ्करं लोकशङ्करम्
वेदार्थशैवशास्त्रज्ञः पव्येको ऽभूद् लोकशङ्करम् ।
तस्य पुत्रो ऽस्ति केदारः शिवपादार्चने रतः
तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ।
वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये
पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा ।
मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते
षडध्यायनिबद्धस्य च्छन्दसो ऽस्य परिस्फुटम् ।
प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम्
म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना
सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ ।
ग्मध्याद्यौ ज्मौ त्रिलो नो ऽष्टौ भवन्त्यत्र गणास्त्रिकाः
ज्ञेयाः सर्वान्तमध्यादिगुरवो ऽत्र चतुष्कलाः ।
गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः
सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः ।
वा पादान्ते त्वसौ ग्वक्रो ज्ञेयो ऽन्यो मात्रिको लृजुः
पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ।
पुरःस्थितेन तेन स्याल्लघुता ऽपि क्वचिद् गुरोः
तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ।
अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति
अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः ।
ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः
युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते ।
सममर्धसमं वृत्तं विषमं च तथापरम्
अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ।
तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते
प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते
यस्य पादचतुष्के ऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः
आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः ।
पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम्
तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः ।
शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः
उक्ता ऽत्युक्ता तथा मध्या प्रतिष्ठा ऽन्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च
त्रिष्टुप् च जगती चैव तथा ऽतिजगती मता ।
शक्वरी सा ऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते
धृतिश्चा ऽतिधृतिश्चैव क्र्टिः प्रकृतिराकृतिः ।
विकृतिः सङ्कृतिश्चैव तथा ऽतिकृतिरुत्कृतिः
इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ।
लक्षणं सर्ववृत्तानां मात्रावृत्ता ऽनुपूर्वकम्
मूल पाठ: Vṛttaratnākara · Edition: Śrī Kedāra Nātha Śarmā: Vṛttaratnākara : with a commentary of Bhaṭṭa Nārāyaṇa Bhaṭṭ and notes etc. by Vaidya Nātha Śāstrī Varakale, edited with the Maṇimayī Hindī Commentary. -- 6th ed. Varanasi : Chaukhambha Sanskrit Sansthan , 1980. (The Kashi Sanskrit Series ; 55) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0