भाषा

ENहिગુ
ग्रंथ पाठ

विवेकचुडामणि · अध्याय 1

1.1

विवेकचुडामणि
सर्व-वेदान्त-सिद्धान्त-गोचरं तमगोचरम् &
गोविन्दं परमानन्दं सद्-गुरुं प्रणतो ऽस्म्य् अहम्

1.2

जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् &
आत्मानात्म-विवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर् नो शत-जन्म-कोटि-सुकृतैः पुण्यैर् विना लभ्यते

1.3

दुर्लभं त्रयम् एवैतद्देवानुग्रहहेतुकम् &
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः

1.4

लब्ध्वा कथंचिन् नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् &
यस्त्व् आत्म-मुक्तौ न यतेत मूढधीः
स ह्य् आत्म-हा स्वं विनिहन्त्यसद्ग्रहात्

1.5

इतः को न्वस्ति मूढात्मा यस् तु स्वार्थे प्रमाद्यति &
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम्

1.6

वदन्तु शास्त्राणि यजन्तु देवान्
कुर्वन्तु कर्माणि भजन्तु देवताः &
आत्मैक्यबोधेन विनापि मुक्तिः
न सिध्यति ब्रह्मशतान्तरे ऽपि

1.7

अमृतत्वस्य नाशास्ति वित्तेनेत्य् एव हि श्रुतिः &
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः

1.8

अतो विमुक्त्यै प्रयतेत् विद्वान्
संन्यस्तबाह्यार्थसुखस्पृहः सन् &
सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा

1.9

उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ &
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया

1.10

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये &
यत्यतां पण्डितैर् धीरैर् आत्माभ्यास उपस्थितैः

1.11

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये &
वस्तुसिद्धिर्विचारेण न किंचित् कर्मकोटिभिः

1.12

सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा &
भ्रान्तोदितमहासर्पभयदुःखविनाशिनी

1.13

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः &
न स्नानेन न दानेन प्राणायमशतेन वा

1.14

अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः &
उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः

1.15

अतो विचारः कर्तव्यो जिज्ञासोर् आत्मवस्तुनः &
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम्

1.16

मेधावी पुरुषो विद्वानुहापोहविचक्षणः &
अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः

1.17

विवेकिनो विरक्तस्य शमादिगुणशालिनः &
मुमुक्षोर् एव हि ब्रह्मजिज्ञासायोग्यता मता

1.18

साधनान्यत्र चत्वारि कथितानि मनीषिभिः &
येषु सत्स्व् एव सन्निष्ठा यदभावे न सिध्यति

1.19

आदौ नित्यानित्यवस्तुविवेकः परिगम्यते &
इहामुत्रफलभोगविरागस्तदनन्तरम् \
शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम्

1.20

ब्रह्म सत्यं जगन्मिथ्येत्य् एवंरूपो विनिश्चयः &
सो ऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः

1.21

तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः &
देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि

1.22

विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः &
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते

1.23

विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके &
उभयेषामिन्द्रियाणां स दमः परिकीर्तितः \
बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा

1.24

सहनं सर्वदुःखानामप्रतीकारपूर्वकम् &
चिन्ताविलापरहितं सा तितिक्षा निगद्यते

1.25

शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् &
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते

1.26

सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा &
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम्

1.27

अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् &
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता

1.28

मन्दमध्यमरूपापि वैराग्येण शमादिना &
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम्

1.29

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते &
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः

1.30

एतयोर् मन्दता यत्र विरक्तत्वमुमुक्षयोः &
मरौ सलीलवत्तत्र शमादेर्भानमात्रता

1.31

मोक्षकारणसामग्र्यां भक्तिर् एव गरीयसी &
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते

1.32

स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः &
उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः \
उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम्

1.33

श्रोत्रियो ऽवृजिनो ऽकामहतो यो ब्रह्मवित्तमः &
ब्रह्मण्य् उपरतः शान्तो निरिन्धन इवानलः \
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम्

1.34

तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः &
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः

1.35

स्वामिन् नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ &
मामुद्धरात्मीयकटाक्षदृष्ट्या
ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या

1.36

दुर्वारसंसारदवाग्नितप्तं
दोधूयमानं दुरदृष्टवातैः &
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यद्यदहं न जाने

1.37

शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः &
तीर्णाः स्वयं भीमभवार्णवं जनान्
अहेतुनान् यान् अपि तारयन्तः

1.38

अयं स्वभावः स्वत एव यत्पर-
श्रमापनोदप्रवणं महात्मनाम् &
सुधांशुरेष स्वयमर्ककर्कश-
प्रभाभितप्तामवति क्षितिं किल

1.39

ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर् युतैः
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर् वाक्यामृतैः सेचय &
संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः

1.40

कथं तरेयं भवसिन्धुमेतं
का वा गतिर्मे कतमो ऽस्त्य् उपायः &
जाने न किञ्ज्चित्कृपयाव मां प्रभो
संसारदुःखक्षतिमातनुष्व

1.41

तथा वदन्तं शरणागतं स्वं
संसारदावानलतापतप्तम् &
निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या
दद्यादभीतिं सहसा महात्मा

1.42

विद्वान् स तस्मा उपसत्तिमीयुषे
मुमुक्षवे साधु यथोक्तकारिणे &
प्रशान्तचित्ताय शमान्विताय
तत्त्वोपदेशं कृपयैव कुर्यात्

1.43

मा भैष्ट विद्वंस्तव नास्त्य् अपायः
संसारसिन्धोस्तरणे ऽस्त्य् उपायः &
येनैव याता यतयो ऽस्य पारं
तम् एव मार्गं तव निर्दिशामि

1.44

अस्त्य् उपायो महान् कश्चित्संसारभयनाशनः &
तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि

1.45

वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् &
तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु

1.46

श्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः
मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः &
यो वा एतेष्व् एव तिष्ठत्यमुष्य
मोक्षो ऽविद्याकल्पिताद्देहबन्धात्

1.47

अज्ञानयोगात्परमात्मनस्तव
ह्यनात्मबन्धस्तत एव संसृतिः &
तयोर् विवेकोदितबोधवन्हिः
अज्ञानकार्यं प्रदहेत्समूलम्

1.48

शिष्य उवाच
कृपया श्रूयतां स्वामिन् प्रश्नो ऽयं क्रियते मया &
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात्

1.49

को नाम बन्धः कथम् एष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः &
को ऽसावनात्मा परमः क आत्मा
तयोर् विवेकः कथम् एतदुच्यताम्

1.50

श्रीगुरुवाच
धन्यो ऽसि कृतकृत्यो ऽसि पावित ते कुलं त्वया &
यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि

1.51

ऋणमोचनकर्तारः पितुः सन्ति सुतादयः &
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन

1.52

मस्तकन्यस्तभारादेर्दुःखमन्यैर् निवार्यते &
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित्

1.53

पथ्यमौषधसेवा च क्रियते येन रोगिणा &
आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा

1.54

वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पण्डितेन &
चन्द्रस्वरूपं निजचक्षुषैव
ज्ञातव्यमन्यैर् अवगम्यते किम्

1.55

अविद्याकामकर्मादिपाशबन्धं विमोचितुम् &
कः शक्नुयाद्विनात्मानं कल्पकोटिशतैर् अपि

1.56

न योगेन न सांख्येन कर्मणा नो न विद्यया &
ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा

1.57

वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् &
प्रजारञ्ज्जनमात्रं तन् न साम्राज्याय कल्पते

1.58

वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् &
वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये

1.59

अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला &
विज्ञाते ऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला

1.60

शब्दजालं महारण्यं चित्तभ्रमणकारणम् &
अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वम् आत्मनः

1.61

अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना &
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः

1.62

न गच्छति विना पानं व्याधिरौषधशब्दतः &
विनापरोक्षानुभवं ब्रह्मशब्दैर् न मुच्यते

1.63

अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वम् आत्मनः &
ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर् नृणाम्

1.64

अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् &
राजाहमिति शब्दान्नो राजा भवितुमर्हति

1.65

आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं
निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति &
तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते
मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः

1.66

तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये &
स्वैर् एव यत्नः कर्तव्यो रोगादाव् इव पण्डितैः

1.67

यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्ज्छास्त्रविन्मतः &
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः

1.68

शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते &
तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे

1.69

मोक्षस्य हेतुः प्रथमो निगद्यते
वैराग्यमत्यन्तमनित्यवस्तुषु &
ततः शमश्चापि दमस्तितिक्षा
न्यासः प्रसक्ताखिलकर्मणां भृशम्

1.70

ततः श्रुतिस् तन्मननं सतत्त्व-
ध्यानं चिरं नित्यनिरन्तरं मुनेः &
ततो ऽविकल्पं परमेत्य विद्वान्
इहैव निर्वाणसुखं समृच्छति

1.71

यद्बोद्धव्यं तवेदानीमात्मान् आत्मविवेचनम् &
तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय

1.72

मज्जास्थिमेदःपलरक्तचर्म-
त्वगाह्वयैर् धातुभिरेभिरन्वितम् &
पादोर् उवक्षोभुजपृष्ठमस्तकैः
अङ्गैर् उपाङ्गैर् उपयुक्तमेतत्

1.73

अहंममेतिप्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः &
नभोनभस्वद्दहनाम्बुभूमयः
सूक्ष्माणि भूतानि भवन्ति तानि

1.74

परस्परांशैर् मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः &
मात्रास्तदीया विषया भवन्ति
शब्दादयः पञ्च सुखाय भोक्तुः

1.75

य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन &
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः

1.76

शब्दादिभिः पञ्चभिर् एव पञ्च
पञ्चत्वमापुः स्वगुणेन बद्धाः &
कुरङ्गमातङ्गपतङ्गमीन-
भृङ्गा नरः पञ्चभिरञ्चितः किम्

1.77

दोषेण तीव्रो विषयः कृष्णसर्पविषाद् अपि &
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम्

1.78

विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् &
स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्य् अपि

1.79

आपातवैराग्यवतो मुमुक्षून्
भवाब्धिपारं प्रतियातुमुद्यतान् &
आशाग्रहो मज्जयते ऽन्तराले
निगृह्य कण्ठे विनिवर्त्य वेगात्

1.80

विषयाख्यग्रहो येन सुविरक्त्यसिना हतः &
स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः

1.81

विषमविषयमार्गैर् गच्छतो ऽनच्छबुद्धेः
प्रतिपदमभियातो मृत्युरप्येष विद्धि &
हितसुजनगुरुक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यम् इत्य् एव विद्धि

1.82

मोक्षस्य कांक्षा यदि वै तवास्ति
त्यजातिदूराद्विषयान्विषं यथा &
पीयूषवत्तोषदयाक्षमार्जव-
प्रशान्तिदान्तीर्भज नित्यमादरात्

1.83

अनुक्षणं यत्परिहृत्य कृत्यं
अनाद्यविद्याकृतबन्धमोक्षणम् &
देहः परार्थो ऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हन्ति

1.84

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति &
ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति

1.85

मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु &
मोहो विनिर्जितो येन स मुक्तिपदमर्हति

1.86

मोहं जहि महामृत्युं देहदारसुतादिषु &
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम्

1.87

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् &
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः

1.88

पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा &
समुत्पन्नमिदं स्थूलं भोगायतनम् आत्मनः \
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः

1.89

बाह्येन्द्रियैः स्थूलपदार्थसेवां
स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् &
करोति जीवः स्वयमेतद् आत्मना
तस्मात्प्रशस्तिर्वपुषो ऽस्य जागरे

1.90

सर्वापि बाह्यसंसारः पुरुषस्य यदाश्रयः &
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः

1.91

स्थूलस्य संभवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः &
वर्णाश्रमादिनियमा बहुधामयाः स्युः
पूजावमानबहुमानमुखा विशेषाः

1.92

बुद्धीन्द्रियाणि श्रवणं त्वगक्षि
घ्राणं च जिव्हा विषयावबोधनात् &
वाक्पाणिपादा गुदमप्युपस्थः
कर्मेन्द्रियाणि प्रवणेन कर्मसु

1.93

निगद्यते ऽन्तःकरणं मनोधीः
अहंकृतिश्चित्तमिति स्ववृत्तिभिः &
मनस्तु संकल्पविकल्पनादिभिः
बुद्धिः पदार्थाध्यवसायधर्मतः

1.94

अत्राभिमानादहमित्यहंकृतिः &
स्वार्थानुसन्धानगुणेन चित्तम्

1.95

प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः &
स्वयम् एव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत्

1.96

वागादि पञ्च श्रवणादि पञ्च
प्राणादि पञ्चाभ्रमुखानि पञ्च &
बुद्ध्याद्यविद्यापि च कामकर्मणी
पुर्यष्टकं सूक्ष्मशरीरमाहुः

1.97

इदं शरीरं शृणु सूक्ष्मसंज्ञितं
लिङ्गं त्वपञ्चीकृतसंभवम् &
सवासनं कर्मफलानुभावकं
स्वाज्ञानतो ऽनादिरुपाधिर् आत्मनः

1.98

स्वप्नो भवत्यस्य विभक्त्यवस्था
स्वमात्रशेषेण विभाति यत्र &
स्वप्ने तु बुद्धिः स्वयम् एव जाग्रत्
कालीननानाविधवासनाभिः

1.99

कर्त्रादिभावं प्रतिपद्य राजते
यत्र स्वयं भाति ह्ययं परात्मा &
धीमात्रकोपाधिरशेषसाक्षी
न लिप्यते तत्कृतकर्मलेशैः \
यस्मादसङ्गस्तत एव कर्मभिः
न लिप्यते किंचिद् उपाधिना कृतैः

1.100

सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिद् आत्मनः पुंसः &
वास्यादिकम् इव तक्ष्णस्तेनैवात्मा भवत्यसङ्गो ऽयम्

1.101

अन्धत्वमन्दत्वपटुत्वधर्माः
सौगुण्यवैगुण्यवशाद्धि चक्षुषः &
बाधिर्यमूकत्वमुखास्तथैव
श्रोत्रादिधर्मा न तु वेत्तुर् आत्मनः

1.102

उच्छ्वासनिःश्वासविजृम्भणक्षुत्
प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः &
प्राणादिकर्माणि वदन्ति तज्ञाः
प्राणस्य धर्मावशनापिपासे

1.103

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि &
अहमित्यभिमानेन तिष्ठत्याभासतेजसा

1.104

अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् &
सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते

1.105

विषयाणामानुकूल्ये सुखी दुःखी विपर्यये &
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः

1.106

आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः &
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः \
तत आत्मा सदानन्दो नास्य दुःखं कदाचन

1.107

यत्सुषुप्तौ निर्विषय आत्मानन्दो ऽनुभूयते &
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति

1.108

अव्यक्तनाम्नी परमेशशक्तिः
अनाद्यविद्या त्रिगुणात्मिका परा &
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते

1.109

सन्नाप्यसन्नाप्युभयात्मिका नो
भिन्नाप्यभिन्नाप्युभयात्मिका नो &
साङ्गाप्यनङ्गा ह्युभयात्मिका नो
महाद्भुतानिर्वचनीयरूपा

1.110

शुद्धाद्वयब्रह्मविभोधनाश्या
सर्पभ्रमो रज्जुविवेकतो यथा &
रजस्तमःसत्त्वमिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः

1.111

विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी &
रागादयो ऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः

1.112

कामः क्रोधो लोभदम्भाद्यसूया
अहंकारेर्ष्यामत्सराद्यास्तु घोराः &
धर्मा एते राजसाः पुम्प्रवृत्तिः
यस्मादेषा तद्रजो बन्धहेतुः

1.113

एषावृतिर्नाम तमोगुणस्य
शक्तिर्मया वस्त्ववभासते ऽन्यथा &
सैषा निदानं पुरुषस्य संसृतेः
विक्षेपशक्तेः प्रवणस्य हेतुः

1.114

प्रज्ञावान् अपि पण्डितो ऽपि चतुरो ऽप्य् अत्यन्तसूक्ष्मात्मदृग्-
व्यालीढस् तमसा न वेत्ति बहुधा संबोधितो ऽपि स्फुटम् &
भ्रान्त्यारोपितम् एव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः

1.115

अभावना वा विपरीतभावना
असंभावना विप्रतिपत्तिरस्याः &
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम्

1.116

अज्ञानमालस्यजडत्वनिद्रा-
प्रमादमूढत्वमुखास्तमोगुणाः &
एतैः प्रयुक्तो नहि वेत्ति किंचिन्
निद्रालुवत्स्तम्भवद् एव तिष्ठति

1.117

सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते &
यत्रात्मबिम्बः प्रतिबिम्बितः सन्
प्रकाशयत्यर्क इवाखिलं जडम्

1.118

मिश्रस्य सत्त्वस्य भवन्ति धर्माः
त्वमानिताद्या नियमा यमाद्याः &
श्रद्धा च भक्तिश्च मुमुक्षता च
दैवी च सम्पत्तिरसन्निवृत्तिः

1.119

विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः &
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति

1.120

अव्यक्तमेतत्त्रिगुणैर् निरुक्तं
तत्कारणं नाम शरीरम् आत्मनः &
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः

1.121

सर्वप्रकारप्रमितिप्रशान्तिः
बीजात्मनावस्थितिर् एव बुद्धेः &
सुषुप्तिरेतस्य किल प्रतीतिः
किंचिन् न वेद्मीति जगत्प्रसिद्धेः

1.122

देहेन्द्रियप्राणमनो ऽहम् आदयः
सर्वे विकारा विषयाः सुखादयः &
व्योमादिभूतान्यखिलं न विश्वं
अव्यक्तपर्यन्तमिदं ह्यनात्मा

1.123

माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् &
असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्

1.124

अथ ते संप्रवक्ष्यामि स्वरूपं परम् आत्मनः &
यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते

1.125

अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः &
अवस्थात्रयसाक्षी संपञ्चकोशविलक्षणः

1.126

यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु &
बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम्

1.127

यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन &
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम्

1.128

येन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन &
अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम्

1.129

यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः &
विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव

1.130

अहङ्कारादिदेहान्ता विषयाश्च सुखादयः &
वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा

1.131

एषो ऽन्तरात्मा पुरुषः पुराणो
निरन्तराखण्डसुखानुभूतिः &
सदैकरूपः प्रतिबोधमात्रो
येनेषिता वागसवश्चरन्ति

1.132

अत्रैव सत्त्वात्मनि धीगुहायां
अव्याकृताकाश उशत्प्रकाशः &
आकाश उच्चै रविवत्प्रकाशते
स्वतेजसा विश्वमिदं प्रकाशयन्

1.133

ज्ञाता मनो ऽहंकृतिविक्रियाणां
देहेन्द्रियप्राणकृतक्रियाणाम् &
अयो ऽग्निवत्ताननुवर्तमानो
न चेष्टते नो विकरोति किंचन

1.134

न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः &
विलीयमाने ऽपि वपुष्यमुष्मिन्
न लीयते कुम्भ इवाम्बरं स्वयम्

1.135

प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भासयन्निर्विशेषः &
विलसति परमात्मा जाग्रदादिष्ववस्था-
स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः

1.136

नियमितमनसामुं त्वं स्वमात्मानम् आत्मन्य्
अयमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् &
जनिमरणतरङ्गापारसंसारसिन्धुं
प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः

1.137

अत्रानात्मन्यहमिति मतिर्बन्ध एषो ऽस्य पुंसः
प्राप्तो ऽज्ञानाज्जननमरणक्लेशसंपातहेतुः &
येनैवायं वपुरिदमसत्सत्यमित्य् आत्मबुद्ध्या
पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत्

1.138

अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा &
ततो ऽनर्थव्रातो निपतति समादातुरधिकः
ततो यो ऽसद्ग्राहः स हि भवति बन्धः शृणु सखे

1.139

अखण्डनित्याद्वयबोधशक्त्या
स्फुरन्तमात्मानमनन्तवैभवम् &
समावृणोत्यावृतिशक्तिरेषा
तमोमयी राहुरिवार्कबिम्बम्

1.140

तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्
अनात्मानं मोहादहमिति शरीरं कलयति &
ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः
परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति

1.141

महामोहग्राहग्रसनगलितात्मावगमनो
धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया &
अपारे संसरे विषयविषपूरे जलनिधौ
निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः

1.142

भानुप्रभासंजनिताभ्रपङ्क्तिः
भानुं तिरोधाय विजृम्भते यथा &
आत्मोदिताहंकृतिर् आत्मतत्त्वं
तथा तिरोधाय विजृम्भते स्वयम्

1.143

कवलितदिननार्थे दुर्दिने सान्द्रमेघैः
व्यथयति हिमझंझावायुरुग्रो यथैतान् &
अविरततमसात्मन्यावृते मूढबुद्धिं
क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः

1.144

एताभ्याम् एव शक्तिभ्यां बन्धः पुंसः समागतः &
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम्

1.145

बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो
रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओ ऽसवः शाखिकाः &
अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं
नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः

1.146

अज्ञानमूलो ऽयमनात्मबन्धो
नैसर्गिको ऽनादिरनन्त ईरितः &
जन्माप्ययव्याधिजरादिदुःख-
प्रवाहपातं जनयत्यमुष्य

1.147

नास्त्रैर् न शस्त्रैर् अनिलेन वन्हिना
छेत्तुं न शक्यो न च कर्मकोटिभिः &
विवेकविज्ञानमहासिना विना
धातुः प्रसादेन शितेन मञ्जुना

1.148

श्रुतिप्रमाणैकमतेः स्वधर्म
निष्ठा तयैवात्मविशुद्धिरस्य &
विशुद्धबुद्धेः परम् आत्मवेदनं
तेनैव संसारसमूलनाशः

1.149

कोशैर् अन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति &
निजशक्तिसमुत्पन्नैः शैवालपटलैर् इवाम्बु वापीस्थम्

1.150

तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् &
तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः

1.151

पञ्चानाम् अपि कोशानामपवादे विभात्ययं शुद्धः &
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः

1.152

आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा &
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम्

1.153

मुञ्जादिषीकाम् इव दृश्यवर्गात्
प्रत्यञ्चमात्मानमसङ्गमक्रियम् &
विविच्य तत्र प्रविलाप्य सर्वं
तद् आत्मना तिष्ठति यः स मुक्तः

1.154

देहो ऽयमन्नभवनो ऽन्नमयस्तु कोशः
चान्नेन जीवति विनश्यति तद्विहीनः &
त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः
नायं स्वयं भवितुमर्हति नित्यशुद्धः

1.155

पूर्वं जनेरधिमृतेर् अपि नायमस्ति
जातक्षणः क्षणगुणो ऽनियतस्वभावः &
नैको जडश्च घटवत्परिदृश्यमानः
स्वात्मा कथं भवति भावविकारवेत्ता

1.156

पाणिपादादिमान्देहो नात्मा व्यङ्गे ऽपि जीवनात् &
तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः

1.157

देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः &
सत एव स्वतःसिद्धं तद्वैलक्षण्यम् आत्मनः

1.158

शल्यराशिर्मांसलिप्तो मलपूर्णो ऽतिकश्मलः &
कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः

1.159

त्वङ्मांसमेदो ऽस्थिपुरीषराशा-
वहंमतिं मूढजनः करोति &
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थ भूतम्

1.160

देहो ऽहम् इत्य् एव जडस्य बुद्धिः
देहे च जीवे विदुषस्त्वहंधीः &
विवेकविज्ञानवतो महात्मनो
ब्रह्माहम् इत्य् एव मतिः सदात्मनि

1.161

अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मांसमेदो ऽस्थिपुरीषराशौ &
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्ति परमां भजस्व

1.162

देहेन्द्रियादावसति भ्रमोदितां
विद्वानहं तां न जहाति यावत् &
तावन् न तस्यास्ति विमुक्तिवार्ताप्य्
अस्त्वेष वेदान्तनयान्तदर्शी

1.163

छायाशरीरे प्रतिबिम्बगात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे &
यथात्मबुद्धिस्तव नास्ति काचिज्
जीवच्छरीरे च तथैव मास्तु

1.164

देहात्मधीर् एव नृणामसद्धियां
जन्मादिदुःखप्रभवस्य बीजम् &
यतस्ततस्त्वं जहि तां प्रयत्नात्
त्यक्ते तु चित्ते न पुनर्भवाशा

1.165

कर्मेन्द्रियैः पञ्चभिरञ्चितो ऽयं
प्राणो भवेत्प्राणमयस्तु कोशः &
येनात्मवानन्नमयो ऽनुपूर्णः
प्रवर्तते ऽसौ सकलक्रियासु

1.166

नैवात्मापि प्राणमयो वायुविकारो
गन्तागन्ता वायुवदन्तर्बहिरेषः &
यस्मात् किंचित् क्वापि न वेत्तीष्टमनिष्टं
स्वं वान्यं वा किंचन नित्यं परतन्त्रः

1.167

ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तुविकल्पहेतुः &
संज्ञादिभेदकलनाकलितो बलीयांस्
तत्पूर्वकोशमभिपूर्य विजृम्भते यः

1.168

पञ्चेन्द्रियैः पञ्चभिर् एव होतृभिः
प्रचीयमानो विषयाज्यधारया &
जाज्वल्यमानो बहुवासनेन्धनैः
मनोमयाग्निर्दहति प्रपञ्चम्

1.169

न ह्यस्त्य् अविद्या मनसो ऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः &
तस्मिन्विनष्टे सकलं विनष्टं
विजृम्भिते ऽस्मिन्सकलं विजृम्भते

1.170

स्वप्ने ऽर्थशून्ये सृजति स्वशक्त्या
भोक्त्रादिविश्वं मन एव सर्वम् &
तथैव जाग्रत्य् अपि नो विशेषः
तत्सर्वमेतन्मनसो विजृम्भणम्

1.171

सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किंचित् सकलप्रसिद्धेः &
अतो मनःकल्पित् एव पुंसः
संसार एतस्य न वस्तुतो ऽस्ति

1.172

वायुनानीयते मेधः पुनस्तेनैव नीयते &
मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते

1.173

देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन &
वैरस्यमत्र विषवत् सुवुधाय पश्चाद्
एनं विमोचयति तन्मन एव बन्धात्

1.174

तस्मान्मनः कारणमस्य जन्तोः
बन्धस्य मोक्षस्य च वा विधाने &
बन्धस्य हेतुर्मलिनं रजोगुणैः
मोक्षस्य शुद्धं विरजस्तमस्कम्

1.175

विवेकवैराग्यगुणातिरेकाच्
छुद्धत्वमासाद्य मनो विमुक्त्यै &
भवत्यतो बुद्धिमतो मुमुक्षोस्
ताभ्यां दृढाभ्यां भवितव्यमग्रे

1.176

मनो नाम महाव्याघ्रो विषयारण्यभूमिषु &
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः

1.177

मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः &
शरीरवर्णाश्रमजातिभेदान्
गुणक्रियाहेतुफलानि नित्यम्

1.178

असङ्गचिद्रूपममुं विमोह्य
देहेन्द्रियप्राणगुणैर् निबद्ध्य &
अहंममेति भ्रमयत्यजस्रं
मनः स्वकृत्येषु फलोपभुक्तिषु

1.179

अध्यासदोषात्पुरुषस्य संसृतिः
अध्यासबन्धस्त्वमुनैव कल्पितः &
रजस्तमोदोषवतो ऽविवेकिनो
जन्मादिदुःखस्य निदानमेतत्

1.180

अतः प्राहुर्मनो ऽविद्यां पण्डितास्तत्त्वदर्शिनः &
येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम्

1.181

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा &
विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते

1.182

मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म &
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजःस्वभावं स धुनोति बुद्धेः

1.183

मनोमयो नापि भवेत्परात्मा
ह्याद्यन्तवत्त्वात्परिणामिभावात् &
दुःखात्मकत्वाद्विषयत्वहेतोः
द्रष्टा हि दृश्यात्मतया न दृष्टः

1.184

बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः &
विज्ञानमयकोशः स्यात्पुंसः संसारकारणम्

1.185

अनुव्रजच्चित्प्रतिबिम्बशक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः &
ज्ञानक्रियावानहमित्यजस्रं
देहेन्द्रियादिष्वभिमन्यते भृशम्

1.186

अनादिकालो ऽयमहंस्वभावो
जीवः समस्तव्यवहारवोढा &
करोति कर्माण्य् अपि पूर्ववासनः
पुण्यान्यपुण्यानि च तत्फलानि

1.187

भुङ्क्ते विचित्रास्व् अपि योनिषु व्रजन्
नायाति निर्यात्यध ऊर्ध्वमेषः &
अस्यैव विज्ञानमयस्य जाग्रत्-
स्वप्नाद्यवस्थाः सुखदुःखभोगः

1.188

देहादिनिष्ठाश्रमधर्मकर्म-
गुणाभिमानः सततं ममेति &
विज्ञानकोशो ऽयमतिप्रकाशः
प्रकृष्टसान्निध्यवशात्परात्मनः &
अतो भवत्येष उपाधिरस्य
यद् आत्मधीः संसरति भ्रमेण

1.189

यो ऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः &
कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः

1.190

स्वयं परिच्छेदमुपेत्य बुद्धेः
तादात्म्यदोषेण परं मृषात्मनः &
सर्वात्मकः सन्न् अपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटान् इव

1.191

उपाधिसंबन्धवशात्परात्मा
ह्युपाधिधर्माननुभाति तद्गुणः &
अयोविकारानविकारिवन्हिवत्
सदैकरूपो ऽपि परः स्वभावात्

1.192

शिष्य उवाच
भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः &
तदुपाधेरनादित्वान्नानादेर्नाश इष्यते

1.193

अतो ऽस्य जीवभावो ऽपि नित्या भवति संसृतिः &
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद

1.194

श्रीगुरुरुवाच
सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु &
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना

1.195

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः &
न घटेतार्थसंबन्धो नभसो नीलतादिवत्

1.196

स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य
प्रत्यग्बोधानन्दरूपस्य बुद्धेः &
भ्रान्त्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्य् अवस्तुस्वभावात्

1.197

यावद्भ्रान्तिस्तावदेवास्य सत्ता
मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् &
रज्ज्वां सर्पो भ्रान्तिकालीन एव
भ्रान्तेर्नाशे नैव सर्पो ऽपि तद्वत्

1.198

अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते &
उत्पन्नायां तु विद्यायामाविद्यकमनाद्य् अपि

1.199

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति &
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम्

1.200

अनादेर् अपि विध्वंसः प्रागभावस्य वीक्षितः &
यद्बुद्ध्युपाधिसंबन्धात्परिकल्पितम् आत्मनि

1.201

जीवत्वं न ततो ऽन्यस्तु स्वरूपेण विलक्षणः &
संबन्धस्त्व् आत्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः

1.202

विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा &
ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम्

1.203

तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति &
ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः

1.204

जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् &
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः

1.205

असन्निवृत्तौ तु सदात्मना स्फुटं
प्रतीतिरेतस्य भवेत्प्रतीचः &
ततो निरासः करणीय एव
सदात्मनः साध्वहमादिवस्तुनः

1.206

अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् &
विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः &
दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते

1.207

आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः &
पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं
सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना

1.208

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा &
स्वप्नजागरयोरीषदिष्टसंदर्शनाविना

1.209

नैवायमानन्दमयः परात्मा
सोपाधिकत्वात्प्रकृतेर्विकारात् &
कार्यत्वहेतोः सुकृतक्रियाया
विकारसङ्घातसमाहितत्वात्

1.210

पञ्चानाम् अपि कोशानां निषेधे युक्तितः श्रुतेः &
तन्निषेधावधि साक्षी बोधरूपो ऽवशिष्यते

1.211

यो ऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः &
अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः \
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता

1.212

शिष्य उवाच
मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु &
सर्वाभावं विना किंचिन् न पश्याम्यत्र हे गुरो \
विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्मविपश्चिता

1.213

श्रीगुरुरुवाच
सत्यमुक्तं त्वया विदन्निपुणो ऽसि विचारणे &
अहमादिविकारास्ते तदभावो ऽयमप्यनु

1.214

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते &
तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया

1.215

तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते &
कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते

1.216

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते &
अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः

1.217

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं यो ऽसौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा &
नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान्
नित्यानन्दचिद् आत्मना स्फुरति तं विद्धि स्वमेतं हृदि

1.218

घटोदके बिम्बितमर्कबिम्बम्
आलोक्य मूढो रविम् एव मन्यते &
तथा चिदाभासमुपाधिसंस्थं
भ्रान्त्याहम् इत्य् एव जडो ऽभिमन्यते

1.219

घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं विनिरीक्ष्यते ऽर्कः &
तटस्थ एतत्त्रितयावभासकः
स्वयंप्रकाशो विदुषा यथा तथा

1.220

देहं धियं चित्प्रतिबिम्बम् एवं
विसृज्य बुद्धौ निहितं गुहायाम् &
द्रष्टारमात्मानमखण्डबोधं
सर्वप्रकाशं सदसद्विलक्षणम्

1.221

नित्यं विभुं सर्वगतं सुसूक्ष्मं
अन्तर्बहिःशून्यमनन्यम् आत्मनः &
विज्ञाय सम्यङ्निजरूपमेतत्
पुमान् विपाप्मा विरजो विमृत्युः

1.222

विशोक आनन्दघनो विपश्चित्
स्वयं कुतश्चिन् न बिभेति कश्चित् &
नान्यो ऽस्ति पन्था भवबन्धमुक्तेः
विना स्वतत्त्वावगमं मुमुक्षोः

1.223

ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् &
येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः

1.224

ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः &
विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वम् आत्मनः

1.225

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् &
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति

1.226

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनो ऽभावात् &
न ह्यन्यदस्ति किंचित् सम्यक् परमार्थतत्त्वबोधदशायाम्

1.227

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् &
तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम्

1.228

मृत्कार्यभूतो ऽपि मृदो न भिन्नः
कुम्भो ऽस्ति सर्वत्र तु मृत्स्वरूपात् &
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा कल्पितनाममात्रः

1.229

केनापि मृद्भिन्नतया स्वरूपं
घटस्य संदर्शयितुं न शक्यते &
अतो घटः कल्पित एव मोहान्
मृद् एव सत्यं परमार्थभूतम्

1.230

सद्ब्रह्मकार्यं सकलं सदेवं
तन्मात्रमेतन् न ततो ऽन्यदस्ति &
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रितवत्प्रजल्पः

1.231

ब्रह्मैवेदं विश्वम् इत्य् एव वाणी
श्रौती ब्रूते ऽथर्वनिष्ठा वरिष्ठा &
तस्मादेतद्ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद्भिन्नतारोपितस्य

1.232

सत्यं यदि स्याज्जगदेतद् आत्मनो
ऽनन्तत्त्वहानिर्निगमाप्रमाणता &
असत्यवादित्वमपीशितुः स्यान्
नैतत्त्रयं साधु हितं महात्मनाम्

1.233

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः &
न च मत्स्थानि भूतानीत्य् एवम् एव व्यचीकॢपत्

1.234

यदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम् &
यन्नोपलभ्यते किंचिद् अतो ऽसत्स्वप्नवन्मृषा

1.235

अतः पृथङ्नास्ति जगत्परात्मनः
पृथक्प्रतीतिस्तु मृषा गुणादिवत् &
आरोपितस्यास्ति किमर्थवत्ताद्
धिष्ठानमाभाति तथा भ्रमेण

1.236

भ्रान्तस्य यद्य् अद्भ्रमतः प्रतीतं
भ्रामैव तत्तद्रजतं हि शुक्तिः &
इदंतया ब्रह्म सदैव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम्

1.237

अतः परं ब्रह्म सदद्वितीयं
विशुद्धविज्ञानघनं निरञ्जनम् &
प्राशान्तमाद्यन्तविहीनमक्रियं
निरन्तरानन्दरसस्वरूपम्

1.238

निरस्तमायाकृतसर्वभेदं
नित्यं सुखं निष्कलमप्रमेयम् &
अरूपमव्यक्तमनाख्यमव्ययं
ज्योतिः स्वयं किंचिद् इदं चकास्ति

1.239

ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् &
केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः

1.240

अहेयमनुपादेयं मनोवाचामगोचरम् &
अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः

1.242

तत्त्वंपदाभ्यामभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर्यदीत्थम् &
श्रुत्या तयोस्तत्त्वमसीति सम्यग्
एकत्वम् एव प्रतिपाद्यते मुहुः ॥ 241.
ऐक्यं तयोर् लक्षितयोर् न वाच्ययोः
निगद्यते ऽन्योन्यविरुद्धधर्मिणोः &
खद्योतभान्वोर् इव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः

1.243

तयोर् विरोधो ऽयमुपाधिकल्पितो
न वास्तवः कश्चिदुपाधिरेषः &
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्चकोशम्

1.244

एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः &
राज्यं नरेन्द्रस्य भटस्य खेटक्
तयोर् अपोहे न भटो न राजा

1.245

अथात आदेश इति श्रुतिः स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् &
श्रुतिप्रमाणानुगृहीतबोधात्
तयोर् निरासः करणीय एव

1.246

नेदं नेदं कल्पितत्वान् न सत्यं
रज्जुदृष्टव्यालवत्स्वप्नवच्च &
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चादेकभावस्तयोर् यः

1.247

ततस्तु तौ लक्षणया सुलक्ष्यौ
तयोर् अखण्डैकरसत्वसिद्धये &
नालं जहत्या न तथाजहत्या
किन्तूभयार्थात्मिकयैव भाव्यम्

1.248

स देवदत्तो ऽयमितीह चैकता
विरुद्धधर्मांशमपास्य कथ्यते &
यथा तथा तत्त्वमसीतिवाक्ये
विरुद्धधर्मानुभयत्र हित्वा

1.249

संलक्ष्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः &
एवं महावाक्यशतेन कथ्यते
ब्रह्मात्मनोर् ऐक्यमखण्डभावः

1.250

अस्थूलमित्येतदसन्निरस्य
सिद्धं स्वतो व्योमवदप्रतर्क्यम् &
अतो मृषामात्रमिदं प्रतीतं
जहीहि यत्स्वात्मतया गृहीतम् \
ब्रह्माहम् इत्य् एव विशुद्धबुद्ध्या
विद्धि स्वमात्मानमखण्डबोधम्

1.251

मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् &
यस्मान्नास्ति सतः परं किम् अपि तत्सत्यं स आत्मा स्वयं
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्

1.252

निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः &
यस्माद् एवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्

1.253

यत्र भ्रान्त्या कल्पित तद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम् &
स्वप्ने नष्टं स्वप्नविश्वं विचित्रं
स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे

1.254

जातिनीतिकुलगोत्रदूरगं
नामरूपगुणदोषवर्जितम् &
देशकालविषयातिवर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि

1.255

यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः &
शुद्धचिद्घनमनादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि

1.256

षड्भिरूर्मिभिरयोगि योगिहृद्-
भावितं न करणैर् विभावितम् &
बुद्ध्यवेद्यमनवद्यमस्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि

1.257

भ्रान्तिकल्पितजगत्कलाश्रयं
स्वाश्रयं च सदसद्विलक्षणम् &
निष्कलं निरुपमानवद्धि यद्
ब्रह्म तत्त्वमसि भावयात्मनि

1.258

जन्मवृद्धिपरिणत्यपक्षय-
व्याधिनाशनविहीनमव्ययम् &
विश्वसृष्ट्यवविघातकारणं
ब्रह्म तत्त्वमसि भावयात्मनि

1.259

अस्तभेदमनपास्तलक्षणं
निस्तरङ्गजलराशिनिश्चलम् &
नित्यमुक्तमविभक्तमूर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि

1.260

एकम् एव सदनेककारणं
कारणान्तरनिरास्यकारणम् &
कार्यकारणविलक्षणं स्वयं
ब्रह्म तत्त्वमसि भावयात्मनि

1.261

निर्विकल्पकमनल्पमक्षरं
यत्क्षराक्षरविलक्षणं परम् &
नित्यमव्ययसुखं निरञ्जनं
ब्रह्म तत्त्वमसि भावयात्मनि

1.262

यद्विभाति सदनेकधा भ्रमान्
नामरूपगुणविक्रियात्मना &
हेमवत्स्वयमविक्रियं सदा
ब्रह्म तत्त्वमसि भावयात्मनि

1.263

यच्चकास्त्यनपरं परात्परं
प्रत्यगेकरसम् आत्मलक्षणम् &
सत्यचित्सुखमनन्तमव्ययं
ब्रह्म तत्त्वमसि भावयात्मनि

1.264

उक्तमर्थमिमम् आत्मनि स्वयं
भावयेत्प्रथितयुक्तिभिर्धिया &
संशयादिरहितं कराम्बुवत्
तेन तत्त्वनिगमो भविष्यति

1.265

संबोधमात्रं परिशुद्धतत्त्वं
विज्ञाय सङ्घे नृपवच्च सैन्ये &
तदाश्रयः स्वात्मनि सर्वदा स्थितो
विलापय ब्रह्मणि विश्वजातम्

1.266

बुद्धौ गुहायां सदसद्विलक्षणं
ब्रह्मास्ति सत्यं परमद्वितीयम् &
तद् आत्मना यो ऽत्र वसेद्गुहायां
पुनर्न तस्याङ्गगुहाप्रवेशः

1.267

ज्ञाते वस्तुन्य् अपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः &
प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नान्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत्

1.268

अहं ममेति यो भावो देहाक्षादावनात्मनि &
अध्यासो ऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया

1.269

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् &
सो ऽहम् इत्य् एव सद्वृत्त्यानात्मन्यात्ममतिं जहि

1.270

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् &
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु

1.271

लोकवासनया जन्तोः शास्त्रवासनयापि च &
देहवासनया ज्ञानं यथावन्नैव जायते

1.272

संसारकारागृहमोक्षमिच्छोर्
अयोमयं पादनिबन्धशृङ्खलम् &
वदन्ति तज्ज्ञाः पटु वासनात्रयं
यो ऽस्माद्विमुक्तः समुपैति मुक्तिम्

1.273

जलादिसंसर्गवशात्प्रभूत-
दुर्गन्धधूतागरुदिव्यवासना &
संघर्षणेनैव विभाति सम्यग्-
विधूयमाने सति बाह्यगन्धे

1.274

अन्तःश्रितानन्तदूरन्तवासना-
धूलीविलिप्ता परम् आत्मवासना &
प्रज्ञातिसंघर्षणतो विशुद्धा
प्रतीयते चन्दनगन्धवत् स्फुटम्

1.275

अनात्मवासनाजालैस्तिरोभूतात्मवासना &
नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम्

1.276

यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाम् &
निःशेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या

1.277

स्वात्मन्य् एव सदा स्थित्वा मनो नश्यति योगिनः &
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु

1.278

तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति &
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु

1.279

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः &
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु

1.280

नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् &
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु

1.281

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यम् आत्मनः &
क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु

1.282

अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः &
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु

1.283

तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः &
ब्रह्मण्य् आत्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु

1.284

अहंभावस्य देहे ऽस्मिन्निःशेषविलयावधि &
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु

1.285

प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता &
तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु

1.286

निद्राया लोकवार्तायाः शब्दादेर् अपि विस्मृतेः &
क्वचिन्नावसरं दत्त्वा चिन्तयात्मानम् आत्मनि

1.287

मातापित्रोर् मलोद्भूतं मलमांसमयं वपुः &
त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव

1.288

घटाकाशं महाकाश इवात्मानं परात्मनि &
विलाप्याखण्डभावेन तूष्णी भव सदा मुने

1.289

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना &
ब्रह्माण्डम् अपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्

1.290

चिदात्मनि सदानन्दे देहारूढामहंधियम् &
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा

1.291

यत्रैष जगदाभासो दर्पणान्तः पुरं यथा &
तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि

1.292

यत्सत्यभूतं निजरूपमाद्यं
चिदद्वयानन्दमरूपमक्रियम् &
तदेत्य मिथ्यावपुरुत्सृजेत
शैलूषवद्वेषमुपात्तमात्मनः

1.293

सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणिकत्वदर्शनात् &
जानाम्यहं सर्वमिति प्रतीतिः
कुतो ऽहम् आदेः क्षणिकस्य सिध्येत्

1.294

अहंपदार्थस्त्वहमादिसाक्षी
नित्यं सुषुप्ताव् अपि भावदर्शनात् &
ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः

1.295

विकारिणां सर्वविकारवेत्ता
नित्याविकारो भवितुं समर्हति &
मनोरथस्वप्नसुषुप्तिषु स्फुटं
पुनः पुनर्दृष्टमसत्त्वमेतयोः

1.296

अतो ऽभिमानं त्यज मांसपिण्डे
पिण्डाभिमानिन्य् अपि बुद्धिकल्पिते &
कालत्रयाबाध्यमखण्डबोधं
ज्ञात्वा स्वमात्मानमुपैहि शान्तिम्

1.297

त्यजाभिमानं कुलगोत्रनाम-
रूपाश्रमेष्वार्द्रशवाश्रितेषु &
लिङ्गस्य धर्मान् अपि कर्तृतादिंस्
त्यक्ता भवाखण्डसुखस्वरूपः

1.298

सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः &
तेषाम् एवं मूलं प्रथमविकारो भवत्यहंकारः

1.299

यावत्स्यात्स्वस्य संबन्धो ऽहंकारेण दुरात्मना &
तावन् न लेशमात्रापि मुक्तिवार्ता विलक्षणा

1.300

अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते &
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः

1.301

यो वा पुरे सो ऽहम् इति प्रतीतो
बुद्ध्या प्रकॢप्तस्तमसातिमूढया &
तस्यैव निःशेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः

1.302

ब्रह्मानन्दनिधिर्महाबलवताहंकारघोराहिना
संवेष्ट्य् आत्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः &
विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं
निर्मूल्याहिमिमं निधिं सुखकरं धीरो ऽनुभोक्तुंक्षमः

1.303

यावद्वा यत् किंचिद् विषदोषस्फूर्तिरस्ति चेद्देहे &
कथम् आरोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै

1.304

अहमो ऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या &
प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम्

1.305

अहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा
विकारात्मन्य् आत्मप्रतिफलजुषि स्वस्थितिमुषि &
यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला
प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम्

1.306

सदैकरूपस्य चिदात्मनो विभोर्
आनन्दमूर्तेरनवद्यकीर्तेः &
नैवान्यथा क्वाप्यविकारिणस्ते
विनाहमध्यासममुष्य संसृतिः

1.307

तस्मादहंकारमिमं स्वशत्रुं
भोक्तुर्गले कण्टकवत्प्रतीतम् &
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम्

1.308

ततो ऽहम् आदेर्विनिवर्त्य वृत्तिं
संत्यक्तरागः परमार्थलाभात् &
तूष्णीं समास्स्वात्मसुखानुभूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः

1.309

समूलकृत्तो ऽपि महानहं पुनः
व्युल्लेखितः स्याद्यदि चेतसा क्षणम् &
संजीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा

1.310

निगृह्य शत्रोरहमो ऽवकाशः
क्वचिन् न देयो विषयानुचिन्तया &
स एव संजीवनहेतुरस्य
प्रक्षीणजम्बीरतरोर् इवाम्बु

1.311

देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् &
अतो ऽर्थसन्धानपरत्वम् एव
भेदप्रसक्त्या भवबन्धहेतुः

1.312

कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते &
कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत्

1.313

वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना &
वर्धते सर्वथा पुंसः संसारो न निवर्तते

1.314

संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः &
वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः

1.315

ताभ्यां प्रवर्धमाना सा सूते संसृतिम् आत्मनः &
त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा

1.316

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः &
सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते

1.317

क्रियानाशे भवेच्चिन्तानाशो ऽस्माद्वासनाक्षयः &
वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते

1.318

सद्वासनास्फूर्तिविजृम्भणे सति
ह्यसौ विलीनाप्यहमादिवासना &
अतिप्रकृष्टाप्यरुणप्रभायां
विलीयते साधु यथा तमिस्रा

1.319

तमस्तमःकार्यमनर्थजालं
न दृश्यते सत्युदिते दिनेशे &
तथाद्वयानन्दरसानुभूतौ
न वास्ति बन्धो न च दुःखगन्धः

1.320

दृश्यं प्रतीतं प्रविलापयन्सन्
सन्मात्रमानन्दघनं विभावयन् &
समाहितः सन्बहिरन्तरं वा
कालं नयेथाः सति कर्मबन्धे

1.321

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन &
प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः

1.322

न प्रमादादनर्थो ऽन्यो ज्ञानिनः स्वस्वरूपतः &
ततो मोहस्ततो ऽहंधीस्ततो बन्धस्ततो व्यथा

1.323

विषयाभिमुखं दृष्ट्वा विद्वांसम् अपि विस्मृतिः &
विक्षेपयति धीदोषैर् योषा जारम् इव प्रियम्

1.324

यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति &
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम्

1.325

लक्ष्यच्युतं चेद्यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत्ततस्ततः &
प्रमादतः प्रच्युतकेलिकन्दुकः
सोपानपङ्क्तौ पतितो यथा तथा

1.326

विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् &
सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम्

1.327

अतः प्रमादान् न परो ऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ &
समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः

1.328

ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः &
पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते

1.329

संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् &
जीवतो यस्य कैवल्यं विदेहे स च केवलः \
यत् किंचित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः

1.330

यदा कदा वापि विपश्चिदेष
ब्रह्मण्य् अनन्ते ऽप्य् अणुमात्रभेदम् &
पश्यत्यथामुष्य भयं तदैव
यद्वीक्षितं भिन्नतया प्रमादात्

1.331

श्रुतिस्मृतिन्यायशतैर् निषिद्धे
दृश्ये ऽत्र यः स्वात्ममतिं करोति &
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा

1.332

सत्याभिसंधानरतो विमुक्तो
महत्त्वमात्मीयमुपैति नित्यम् &
मिथ्याभिसन्धानरतस्तु नश्येद्
दृष्टं तदेतद्यदचौरचौरयोः

1.333

यतिरसदनुसन्धिं बन्धहेतुं विहाय
स्वयमयमहमस्मीत्य् आत्मदृष्ट्यैव तिष्ठेत् &
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति परमविद्याकार्यदुःखं प्रतीतम्

1.334

बाह्यानुसन्धिः परिवर्धयेत्फलं
दुर्वासनाम् एव ततस्ततो ऽधिकाम् &
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मानुसन्धिं विदधीत नित्यम्

1.335

बाह्ये निरुद्धे मनसः प्रसन्नता
मनःप्रसादे परमात्मदर्शनम् &
तस्मिन्सुदृष्टे भवबन्धनाशो
बहिर्निरोधः पदवी विमुक्तेः

1.336

कः पण्डितः सन्सदसद्विवेकी
श्रुतिप्रमाणः परमार्थदर्शी &
जानन्हि कुर्यादसतो ऽवलम्बं
स्वपातहेतोः शिशुवन्मुमुक्षुः

1.337

देहादिसंसक्तिमतो न मुक्तिः
मुक्तस्य देहाद्यभिमत्यभावः &
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोर् भिन्नगुणाश्रयत्वात्

1.338

अन्तर्बहिः स्वं स्थिरजङ्गमेषु
ज्ञात्वात्मनाधारतया विलोक्य &
त्यक्ताखिलोपाधिरखण्डरूपः
पूर्णात्मना यः स्थित एष मुक्तः

1.339

सर्वात्मना बन्धविमुक्तिहेतुः
सर्वात्मभावान् न परो ऽस्ति कश्चित् &
दृश्याग्रहे सत्युपपद्यते ऽसौ
सर्वात्मभावो ऽस्य सदात्मनिष्ठया

1.340

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः &
संन्यस्ताखिल-धर्म-कर्म-विषयैर् नित्यात्मनिष्ठापरैः
तत्त्वज्ञैः करणीयम् आत्मनि सदानन्देच्छुभिर्यत्नतः

1.341

सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः &
समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः

1.342

आरूढशक्तेरहमो विनाशः
कर्तुन् न शक्य सहसापि पण्डितैः &
ये निर्विकल्पाख्यसमाधिनिश्चलाः
तानन्तरानन्तभवा हि वासनाः

1.343

अहंबुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात् &
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः

1.344

विक्षेपशक्तिविजयो विषमो विधातुं
निःशेषमावरणशक्तिनिवृत्त्यभावे &
दृग्दृश्ययोः स्फुटपयोजलवद्विभागे
नश्येत्तदावरणम् आत्मनि च स्वभावात् \
निःसंशयेन भवति प्रतिबन्धशून्यो
विक्षेपणं नहिं तदा यदि चेन्मृषार्थे

1.345

सम्यग्विवेकः स्फुटबोधजन्यो
विभज्य दृग्दृश्यपदार्थतत्त्वम् &
छिनत्ति मायाकृतमोहबन्धं
यस्माद्विमुक्तस्तु पुनर्न संसृतिः

1.346

परावरैकत्वविवेकवन्हिः
दहत्यविद्यागहनं ह्यशेषम् &
किं स्यात्पुनः संसरणस्य बीजं
अद्वैतभावं समुपेयुषो ऽस्य

1.347

आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः &
मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः

1.348

एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् &
तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा

1.349

अयो ऽग्नियोगाद् इव सत्समन्वयान्
मात्रादिरूपेण विजृम्भते धीः &
तत्कार्यमेतद्द्वितयं यतो मृषा
दृष्टं भ्रमस्वप्नमनोरथेषु

1.350

ततो विकाराः प्रकृतेरहंमुखा
देहावसाना विषयाश्च सर्वे &
क्षणे ऽन्यथाभावितया ह्यमीषाम्
असत्त्वमात्मा तु कदापि नान्यथा

1.351

नित्याद्वयाखण्डचिदेकरूपो
बुद्ध्यादिसाक्षी सदसद्विलक्षणः &
अहंपदप्रत्ययलक्षितार्थः
प्रत्यक् सदानन्दघनः परात्मा

1.352

इत्थं विपश्चित्सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या &
ज्ञात्वा स्वमात्मानमखण्डबोधं
तेभ्यो विमुक्तः स्वयम् एव शाम्यति

1.353

अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा &
समाधिनाविकल्पेन यदाद्वैतात्मदर्शनम्

1.354

त्वमहमिदमितीयं कल्पना बुद्धिदोषात्
प्रभवति परमात्मन्यद्वये निर्विशेषे &
प्रविलसति समाधावस्य सर्वो विकल्पो
विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या

1.355

शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् &
तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान्
ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः

1.356

समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतः स्वमहं चिदात्मनि &
त एव मुक्ता भवपाशबन्धैः
नान्ये तु पारोक्ष्यकथाभिधायिनः

1.357

उपाधिभेदात्स्वयम् एव भिद्यते
चोपाध्यपोहे स्वयम् एव केवलः &
तस्मादुपाधेर्विलयाय विद्वान्
वसेत्सदाकल्पसमाधिनिष्ठया

1.358

सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया &
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते

1.359

क्रियान्तरासक्तिमपास्य कीटको
ध्यायन्नलित्वं ह्यलिभावमृच्छति &
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया

1.360

अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रतिपत्तुमर्हति &
समाधिनात्यन्तसुसूक्ष्मवृत्या
ज्ञातव्यमार्यैर् अतिशुद्धबुद्धिभिः

1.361

यथा सुवर्णं पुटपाकशोधितं
त्यक्त्वा मलं स्वात्मगुणं समृच्छति &
तथा मनः सत्त्वरजस्तमोमलं
ध्यानेन सन्त्यज्य समेति तत्त्वम्

1.362

निरन्तराभ्यासवशात्तदित्थं
पक्वं मनो ब्रह्मणि लीयते यदा &
तदा समाधिः सविकल्पवर्जितः
स्वतो ऽद्वयानन्दरसानुभावकः

1.363

समाधिनानेन समस्तवासना-
ग्रन्थेर्विनाशो ऽखिलकर्मनाशः &
अन्तर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिरयत्नतः स्यात्

1.364

श्रुतेः शतगुणं विद्यान्मननं मननाद् अपि &
निदिंध्यासं लक्षगुणमनन्तं निर्विकल्पकम्

1.365

निर्विकल्पकसमाधिना स्फुटं
ब्रह्मतत्त्वमवगम्यते ध्रुवम् &
नान्यथा चलतया मनोगतेः
प्रत्ययान्तरविमिश्रितं भवेत्

1.366

अतः समाधत्स्व यतेन्द्रियः सन्
निरन्तरं शान्तमनाः प्रतीचि &
विध्वंसय ध्वान्तमनाद्यविद्यया
कृतं सदेकत्वविलोकनेन

1.367

योगस्य प्रथमद्वारं वाङ्निरोधो ऽपरिग्रहः &
निराशा च निरीहा च नित्यमेकान्तशीलता

1.368

एकान्तस्थितिरिन्द्रियोपरमणे हेनुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना &
तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः
तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः

1.369

वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि &
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व

1.370

देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः &
यैर् यैर् वृत्तेःसमायोगस्ततद्भावो ऽस्य योगिनः

1.371

तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् &
संदृश्यते सदानन्दरसानुभवविप्लवः

1.372

अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते &
त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया

1.373

बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः &
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः

1.374

वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् &
विमुक्तिसौधाग्रलताधिरोहणं
ताभ्यां विना नान्यतरेण सिध्यति

1.375

अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः &
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः

1.376

वैराग्यान् न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् &
एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे

1.377

आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृतिस्
त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः &
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टास्यमनो ऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः

1.378

लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् &
ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर् भृशम्

1.379

अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् &
चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम्

1.380

एष स्वयंज्योतिरशेषसाक्षी
विज्ञानकोशो विलसत्यजस्रम् &
लक्ष्यं विधायैनमसद्विलक्षणम्
अखण्डवृत्त्यात्मतयानुभावय

1.381

एतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया &
उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम्

1.382

अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् &
उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत्

1.383

विशुद्धमन्तःकरणं स्वरूपे
निवेश्य साक्षिण्य् अवबोधमात्रे &
शनैः शनैर् निश्चलतामुपानयन्
पूर्णं स्वमेवानुविलोकयेत्ततः

1.384

देहेन्द्रियप्राणमनो ऽहम् आदिभिः
स्वाज्ञानकॢप्तैर् अखिलैर् उपाधिभिः &
विमुक्तमात्मानमखण्डरूपं
पूर्णं महाकाशमिवावलोकयेत्

1.385

घटकलशकुसूलसूचिमुख्यैः
गगनमुपाधिशतैर् विमुक्तमेकम् &
भवति न विविधं तथैव शुद्धं
परमहमादिविमुक्तमेकम् एव

1.386

ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः &
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम्

1.387

यत्र भ्रान्त्या कल्पितं तद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम् &
भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं
रज्जुस्तद्वद्विश्वम् आत्मस्वरूपम्

1.388

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः &
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन् न किंचन

1.389

अन्तः स्वयं चापि बहिः स्वयं च
स्वयं पुरस्तात् स्वयम् एव पश्चात् &
स्वयं ह्यावाच्यां स्वयमप्युदीच्यां
तथोपरिष्टात्स्वयमप्यधस्तात्

1.390

तरङ्गफेनभ्रमबुद्बुदादि
सर्वं स्वरूपेण जलं यथा तथा &
चिद् एव देहाद्यहमन्तमेतत्
सर्वं चिद् एवैकरसं विशुद्धम्

1.391

सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतो ऽन्यन्नास्त्य् एव प्रकृतिपरसीम्नि स्थितवतः &
पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं
वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया

1.392

क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः &
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये

1.393

आकाशवन्निर्मलनिर्विकल्पं
निःसीमनिःस्पन्दननिर्विकारम् &
अन्तर्बहिःशून्यमनन्यमद्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम्

1.394

वक्तव्यं किमु विद्यते ऽत्र बहुधा ब्रह्मैव जीवः स्वयं
ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः &
ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम्

1.395

जहि मलमयकोशे ऽहंधियोत्थापिताशां
प्रसभमनिलकल्पे लिङ्गदेहे ऽपि पश्चात् &
निगमगदितकीर्तिं नित्यमानन्दमूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ

1.396

शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः &
यदात्मानं शुद्धं कलयति शिवाकारमचलम्
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिर् अपि

1.397

स्वात्मन्यारोपिताशेषाभासर्वस्तुनिरासतः &
स्वयम् एव परं ब्रह्म पूर्णमद्वयमक्रियम्

1.398

समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे &
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते यतः

1.399

असत्कल्पो विकल्पो ऽयं विश्वमित्येकवस्तुनि &
निर्विकारे निराकारे निर्विशेषे भिदा कुतः

1.400

द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि &
निर्विकारे निराकारे निर्विशेषे भिदा कुतः

1.401

कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि &
निर्विकारे निराकारे निर्विशेषे भिदा कुतः

1.402

तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् &
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः

1.403

एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् &
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः

1.404

न ह्यस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे &
कालत्रये नाप्यहिरीक्षितो गुणे
न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम्

1.405

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः &
इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते

1.406

अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् &
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः

1.407

चित्तमूलो विकल्पो ऽयं चित्ताभावे न कश्चन &
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि

1.408

किम् अपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् &
निरवधिगगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ

1.409

प्रकृतिविकृतिशून्यं भावनातीतभावं
समरसमसमानं मानसं बन्धदूरम् &
निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ

1.410

अजरममरमस्ताभाववस्तुस्वरूपं
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् &
शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ

1.412

समाहितान्तःकरणः स्वरूपे
विलोकयात्मानमखण्डवैभवम् &
विच्छिन्द्धि बन्धं भवगन्धगन्धितं
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ 411.
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम्।
भावयात्मानम् आत्मस्थं न भूयः कल्पसे ऽध्वने

1.413

छायेव पुंसः परिदृश्यमान्
माभासरूपेण फलानुभूत्या &
शरीरमाराच्छववन्निरस्तं
पुनर्न संधत्त इदं महात्मा

1.414

सततविमलबोधानन्दरूपं समेत्य
त्यज जडमलरूपोपाधिमेतं सुदूरे &
अथ पुनर् अपि नैष स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं पल्पते कुत्सनाय

1.415

समूलमेतत्परिदाह्य वन्हौ
सदात्मनि ब्रह्मणि निर्विकल्पे &
ततः स्वयं नित्यविशुद्धबोधा
नन्दात्मना तिष्ठति विद्वरिष्ठः

1.416

प्रारब्धसूत्रग्रथितं शरीरं
प्रयातु वा तिष्ठतु गोर् इव स्रक् &
न तत्पुनः पश्यति तत्त्ववेत्ता-
(आ)नन्दात्मनि ब्रह्मणि लीनवृत्तिः

1.417

अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः &
किमिच्छन् कस्य वा हेतोर् देहं पुष्णाति तत्त्ववित्

1.418

संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः &
बहिरन्तः सदानन्दरसास्वादनम् आत्मनि

1.419

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् &
स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम्

1.420

यद्य् उत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् &
निवृत्तिः परमा तृप्तिरानन्दो ऽनुपमः स्वतः

1.421

दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् &
यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् \
पश्चान्नरो विवेकेन तत् कथं कर्तुम् अर्हति

1.422

विद्याफलं स्यादसतो निवृत्तिः
प्रवृत्तिरज्ञानफलं तदीक्षितम् &
तज्ज्ञाज्ञयोर् यन्मृगतृष्णिकादौ
नोचेद्विदां दृष्टफलं किमस्मात्

1.423

अज्ञानहृदयग्रन्थेर्विनाशो यद्य् अशेषतः &
अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः

1.424

वासनानुदयो भोग्ये वैरागस्य तदावधिः &
अहंभावोदयाभावो बोधस्य परमावधिः \
लीनवृत्तैर् अनुत्पत्तिर्मर्यादोपरतेस्तु सा

1.425

ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीर्
अन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् &
स्वप्नालोकितलोकवज्जगदिदं पश्यन् क्वचिल् लब्धधीर्
आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि

1.426

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते &
ब्रह्मण्य् एव विलीनात्मा निर्विकारो विनिष्क्रियः

1.427

ब्रह्मात्मनोः शोधितयोर् एकभावावगाहिनी &
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते \
सुस्थितासौ भवेद्यस्य स्थितप्रज्ञः स उच्यते

1.428

यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः &
प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते

1.429

लीनधीर् अपि जागर्ति जाग्रद्धर्मविवर्जितः &
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते

1.430

शान्तसंसारकलनः कलावान् अपि निष्कलः &
यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते

1.431

वर्तमाने ऽपि देहे ऽस्मिञ्छायावदनुवर्तिनि &
अहन्ताममताभावो जीवन्मुक्तस्य लक्षणम्

1.432

अतीताननुसन्धानं भविष्यदविचारणम् &
औदासीन्यम् अपि प्राप्तं जीवन्मुक्तस्य लक्षणम्

1.433

गुणदोषविशिष्टे ऽस्मिन्स्वभावेन विलक्षणे &
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम्

1.434

इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयात्मनि &
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम्

1.435

ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः &
अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम्

1.436

देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः &
औदासीन्येन यस् तिष्ठेत्स जीवन्मुक्तलक्षणः

1.437

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् &
भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः

1.438

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके &
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते

1.439

न प्रत्यग्ब्रह्मणोर् भेदं कदापि ब्रह्मसर्गयोः &
प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः

1.440

साधुभिः पूज्यमाने ऽस्मिन् पीड्यमाने ऽपि दुर्जनैः &
समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः

1.441

यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ &
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिर्विमुक्तः

1.442

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः &
अस्ति चेन् न स विज्ञातब्रह्मभावो बहिर्मुखः

1.443

प्राचीनवासनावेगादसौ संसरतीति चेत् &
न सदेकत्वविज्ञानान्मन्दी भवति वासना

1.444

अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि &
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः

1.445

निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते &
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात्

1.446

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते &
फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित्

1.447

अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् &
सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत्

1.448

यत्कृतं स्वप्नवेलायां पुण्यं वा पापम् उल्बणम् &
सुप्तोत्थितस्य किं तत् स्यात् स्वर्गाय नरकाय वा

1.449

स्वम् असङ्गम् उदासीनं परिज्ञाय नभो यथा &
न श्लिष्यति च यत् किंचित् कदाचिद् भाविकर्मभिः

1.450

न नभो घटयोगेन सुरागन्धेन लिप्यते &
तथात्मोपाधियोगेन तद्धर्मैर् नैव लिप्यते

1.451

ज्ञानोदयात्पुरारब्धं कर्मज्ञानान् न नश्यति &
अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत्

1.452

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ &
न तिष्ठति छिनत्य् एव लक्ष्यं वेगेन निर्भरम्

1.453

प्राब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्यग्ज्ञानहुताशनेन विलयः प्राक्षंचितागामिनाम् &
ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिद् अपि ब्रह्मैव ते निर्गुणम्

1.454

उपाधितादात्म्यविहीनकेवल-
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः &
प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसंबन्धकथेव जाग्रतः

1.455

न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्य् अपि च प्रपञ्चे &
करोत्यहन्तां ममतानिदन्तां
किन्तु स्वयं तिष्ठति जागरेण

1.456

न तस्य मिथ्यार्थसमर्थनेच्छा
न संग्रहस्तज्जगतो ऽपि दृष्टः &
तत्रानुवृत्तिर्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम्

1.457

तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते &
स्मृतिर्यथा स्वप्नविलोकितार्थे
तथा विदः प्राशनमोचनादौ

1.458

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् &
नानादेर् आत्मनो युक्तं नैवात्मा कर्मनिर्मितः

1.459

अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् &
तद् आत्मना तिष्ठतो ऽस्य कुतः प्रारब्धकल्पना

1.460

प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः &
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः

1.461

शरीरस्यापि प्रारब्धकल्पना भ्रान्तिर् एव हि &
अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः \
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः

1.462

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि &
तिष्ठत्ययं कथं देह इति शङ्कावतो जडान्

1.463

समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः &
न तु देहादिसत्यत्वबोधनाय विपश्चिताम्

1.464

परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् &
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन

1.465

सद्गनं चिद्घनं नित्यमानन्दघनमक्रियम् &
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन

1.466

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् &
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन

1.467

अहेयमनुपादेयमनादेयमनाश्रयम् &
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन

1.468

निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् &
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन

1.469

अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् &
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन

1.470

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् &
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन

1.471

निरस्तरागा विनिरस्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः &
विज्ञाय तत्त्वं परमेतदन्ते
प्राप्ताः परां निर्वृतिम् आत्मयोगात्

1.472

भवानपीदं परतत्त्वम् आत्मनः
स्वरूपमानन्दघनं विचार्य &
विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः

1.473

समाधिना साधुविनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा &
निःसंशयं सम्यगवेक्षितश्चेच्
छ्रुतः पदार्थो न पुनर्विकल्प्यते

1.474

स्वस्याविद्याबन्धसंबन्धमोक्षात्
सत्यज्ञानानन्दरूपात्मलब्धौ &
शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
चान्तःसिद्धा स्वानुभूतिः प्रमाणम्

1.475

बन्धो मोक्षश्च तृप्तिश्च चिन्तारोग्यक्षुदादयः &
स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम्

1.476

तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा &
प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया

1.477

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् &
संसिद्धः संमुखं तिष्ठेन्निर्विकल्पात्मनात्मनि

1.478

वेदान्तसिद्धान्तनिरुक्तिरेषा
ब्रह्मैव जीवः सकलं जगच्च &
अखण्डरूपस्थितिर् एव मोक्षो
ब्रह्माद्वितीये श्रुतयः प्रमाणम्

1.479

इति गुरुवचनाच्छ्रुतिप्रमाणात्
परमवगम्य सतत्त्वम् आत्मयुक्त्या &
प्रशमितकरणः समाहितात्मा
क्वचिदचलाकृतिर् आत्मनिष्ठतो ऽभूत्

1.480

किंचित् कालं समाधाय परे ब्रह्मणि मानसम् &
उत्थाय परमानन्दादिदं वचनमब्रवीत्

1.481

बुद्धिर्विनष्टा गलिता प्रवृत्तिः
ब्रह्मात्मनोर् एकतयाधिगत्या &
इदं न जाने ऽप्य् अनिदं न जाने
किं वा कियद्वा सुखमस्त्य् अपारम्

1.482

वाचा वक्तुमशक्यम् एव मनसा मन्तुं न वा शक्यते
स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् &
अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो
यस्यांशांशलवे विलीनमधुनानन्दात्मना निर्वृतम्

1.483

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् &
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम्

1.484

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् &
अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे

1.485

न किंचिद् अत्र पश्यामि न शृणोमि न वेद्म्य् अहम् &
स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः

1.486

नमो नमस्ते गुरवे महात्मने
विमुक्तसङ्गाय सदुत्तमाय &
नित्याद्वयानन्दरसस्वरूपिणे
भूम्ने सदापारदयाम्बुधाम्ने

1.487

यत्कटाक्षशशिसान्द्रचन्द्रिका-
पातधूतभवतापजश्रमः &
प्राप्तवानहमखण्डवैभवा-
नन्दम् आत्मपदमक्षयं क्षणात्

1.488

धन्यो ऽहं कृतकृत्यो ऽहं विमुक्तो ऽहं भवग्रहात् &
नित्यानन्दस्वरूपो ऽहं पूर्णो ऽहं त्वदनुग्रहात्

1.489

असङ्गो ऽहम् अनङ्गो ऽहम् अलिङ्गो ऽहम् अभङ्गुरः &
प्रशान्तो ऽहम् अनन्तो ऽहम् अमलो ऽहं चिरन्तनः

1.490

अकर्ताहमभोक्ताहमविकारो ऽहम् अक्रियः &
शुद्धबोधस्वरूपो ऽहं केवलो ऽहं सदाशिवः

1.491

द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् &
नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा

1.492

नाहमिदं नाहमदो ऽप्य् उभयोर् अवभासकं परं शुद्धम् &
बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम्

1.493

निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् &
नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम्

1.494

नारायणो ऽहं नरकान्तको ऽहं
पुरान्तको ऽहं पुरुषो ऽहम् ईशः &
अखण्डबोधो ऽहम् अशेषसाक्षी
निरीश्वरो ऽहं निरहं च निर्ममः

1.495

सर्वेषु भूतेष्व् अहम् एव संस्थितो
ज्ञानात्मनान्तर्बहिराश्रयः सन् &
भोक्ता च भोग्यं स्वयम् एव सर्वं
यद्यत्पृथग्दृष्टमिदन्तया पुरा

1.496

मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः &
उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्

1.497

स्थुलादिभावा मयि कल्पिता भ्रमाद्
आरोपितानुस्फुरणेन लोकैः &
काले यथा कल्पकवत्सराय-
णर्त्वादयो निष्कलनिर्विकल्पे

1.498

आरोपितं नाश्रयदूषकं भवेत्
कदापि मूढैर् अतिदोषदूषितैः &
नार्द्रिकरोत्यूषरभूमिभागं
मरीचिकावारि महाप्रवाहः

1.499

आकाशवल्लेपविदूरगो ऽहं
आदित्यवद्भास्यविलक्षणो ऽहम् &
अहार्यवन्नित्यविनिश्चलो ऽहं
अम्भोधिवत्पारविवर्जितो ऽहम्

1.500

न मे देहेन संबन्धो मेघेनेव विहायसः &
अतः कुतो मे तद्धर्मा जाक्रत्स्वप्नसुषुप्तयः

1.501

उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते &
स एव जीर्यन् म्रियते सदाहं
कुलाद्रिवन्निश्चल एव संस्थितः

1.502

न मे प्रवृत्तिर्न च मे निवृत्तिः
सदैकरूपस्य निरंशकस्य &
एकात्मको यो निविडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते

1.503

पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः &
कुतो ममाखण्डसुखानुभूतेः
ब्रूते ह्यनन्वागतमित्य् अपि श्रुतिः

1.504

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा &
न स्पृशत्य् एव यत् किंचित् पुरुषं तद्विलक्षणम्

1.505

न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् &
अविकारमुदासीनं गृहधर्माः प्रदीपवत्

1.506

रवेर्यथा कर्मणि साक्षिभावो
वन्हेर्यथा दाहनियामकत्वम् &
रज्जोर्यथारोपितवस्तुसङ्गः
तथैव कूटस्थचिदात्मनो मे

1.507

कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम् &
द्रष्टापि वा दर्शयितापि नाहं
सो ऽहं स्वयंज्योतिरनीदृगात्मा

1.508

चलत्युपाधौ प्रतिबिम्बलौल्यम्
औपाधिकं मूढधियो नयन्ति &
स्वबिम्बभूतं रविवद्विनिष्क्रियं
कर्तास्मि भोक्तास्मि हतो ऽस्मि हेति

1.509

जले वापि स्थले वापि लुठत्वेष जडात्मकः &
नाहं विलिप्ये तद्धर्मैर् घटधर्मैर् नभो यथा

1.510

कर्तृत्वभोक्तृत्वखलत्वमत्तता-
जडत्वबद्धत्वविमुक्ततादयः &
बुद्धेर्विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन् परे ब्रह्मणि केवले ऽद्वये

1.511

सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि &
किं मे ऽसङ्गचितस्तैर् न घनः क्वचिदम्बरं स्पृशति

1.512

अव्यक्तादिस्थूलपर्यन्तमेतत्
विश्व यत्राभासमात्रं प्रतीतम् &
व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं
ब्रह्माद्वैतं यत्तदेवाहमस्मि

1.513

सर्वाधारं सर्ववस्तुप्रकाशं
सर्वाकारं सर्वगं सर्वशून्यम् &
नित्यं शुद्धं निश्चलं निर्विकल्पं
ब्रह्माद्वैतं यत्तदेवाहमस्मि

1.514

यत्प्रत्यस्ताशेषमायाविशेषं
प्रत्यग्रूपं प्रत्ययागम्यमानम् &
सत्यज्ञानानन्तमानन्दरूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि

1.515

निष्क्रियो ऽस्म्य् अविकारो ऽस्मि
निष्कलो ऽस्मि निराकृतिः &
निर्विकल्पो ऽस्मि नित्यो ऽस्मि
निरालम्बो ऽस्मि निर्द्वयः

1.516

सर्वात्मको ऽहं सर्वो ऽहं सर्वातीतो ऽहम् अद्वयः &
केवलाक्षण्डबोधो ऽहम् आनन्दो ऽहं निरन्तरः

1.517

स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहिमप्रसादात् &
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्ते ऽस्तु पुनर्नमो ऽस्तु

1.518

महास्वप्ने मायाकृतजनिजरामृत्युगहने
भ्रमन्तं क्लिश्यन्तं बहुलतरतापैर् अनुदिनम् &
अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया
प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो

1.519

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः &
यदेतद्विश्वरूपेण राजते गुरुराज ते

1.520

इति नतमवलोक्य शिष्यवर्यं
समधिगतात्मसुखं प्रबुद्धतत्त्वम् &
प्रमुदितहृदयं स देशिकेन्द्रः
पुनरिदमाह वचः परं महात्मा

1.521

ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः
पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्व् अपि &
रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते
तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम्

1.522

कस्तां परानन्दरसानुभूति-
मृत्सृज्य शून्येषु रमेत विद्वान् &
चन्द्रे महाल्हादिनि दीप्यमाने
चित्रेन्दुमालोकयितुं क इच्छेत्

1.523

असत्पदार्थानुभवेन किंचिन्
न ह्यस्ति तृप्तिर्न च दुःखहानिः &
तदद्वयानन्दरसानुभूत्या
तृप्तः सुखं तिष्ठ सदात्मनिष्ठया

1.524

स्वम् एव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् &
स्वानन्दमनुभुञ्जानः कालं नय महामते

1.525

अखण्डबोधात्मनि निर्विकल्पे
विकल्पनं व्योम्नि पुरप्रकल्पनम् &
तदद्वयानन्दमयात्मना सदा
शान्तिं परामेत्य भजस्व मौनम्

1.526

तूष्णीमवस्था परमोपशान्तिः
बुद्धेरसत्कल्पविकल्पहेतोः &
ब्रह्मात्मन ब्रह्मविदो महात्मनो
यत्राद्वयानन्दसुखं निरन्तरम्

1.527

नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् &
विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः

1.528

गच्छंस्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा &
यथेच्छया वेसेद्विद्वानात्नारामः सदा मुनिः

1.529

न देशकालासनदिग्यमादि-
लक्ष्याद्यपेक्षाप्रतिबद्धवृत्तेः &
संसिद्धतत्त्वस्य महात्मनो ऽस्ति
स्ववेदने का नियमाद्यवस्था

1.530

घटो ऽयमिति विज्ञातुं नियमः को ऽन्ववेक्षते &
विना प्रमाणसुष्ठुत्वं यस्मिन् सति पदार्थधीः

1.531

अयमात्मा नित्यसिद्धः प्रमाणे सति भासते &
न देशं नापि कालं न शुद्धिं वाप्यपेक्षते

1.532

देवदत्तो ऽहम् इत्य् एतद् विज्ञानं निरपेक्षकम् &
तद्वद् ब्रह्मविदो ऽप्य् अस्य ब्रह्माहमिति वेदनम्

1.533

भानुनेव जगत्सर्वं भासते यस्य तेजसा &
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम्

1.534

वेदशास्त्रपुराणानि भूतानि सकलान्य् अपि &
येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत्

1.535

एष स्वयंज्योतिरनन्तशक्तिः
आत्माप्रमेयः सकलानुभूतिः &
यम् एव विज्ञाय विमुक्तबन्धो
जयत्ययं ब्रह्मविदुत्तमोत्तमः

1.536

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च &
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः

1.537

क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः &
तथैव विद्वान् रमते निर्ममो निरहं सुखी

1.538

चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु
स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने &
वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही
संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि

1.539

विमानमालम्ब्य शरीरमेतद्
भुनक्त्यशेषान्विषयानुपस्थितान् &
परेच्छया बालवद् आत्मवेत्ता
यो ऽव्यक्तलिङ्गो ऽननुषक्तबाह्यः

1.540

दिगम्बरो वापि च साम्बरो वा
त्वगम्बरो वापि चिदम्बरस्थः &
उन्मत्तवद्वापि च बालवद्वा
पिशाचवद्वापि चरत्यवन्याम्

1.541

कामान्निष्कामरूपी संश्चरत्येकचारो मुनिः &
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः

1.542

क्वचिन्मूढो विद्वान् क्वचिद् अपि महाराजविभवः
क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः &
क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः
चरत्य् एवं प्राज्ञः सततपरमानन्दसुखितः

1.543

निर्धनो ऽपि सदा तुष्टो ऽप्य् असहायो महाबलः &
नित्यतृप्तो ऽप्य् अभुञ्जानो ऽप्य् असमः समदर्शनः

1.544

अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्य् अपि &
शरीर्यप्यशरीर्येष परिच्छिन्नो ऽपि सर्वगः

1.545

अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् &
प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे

1.546

स्थूलादिसंबन्धवतो ऽभिमानिनः
सुखं च दुःखं च शुभाशुभे च &
विध्वस्तबन्धस्य सदात्मनो मुनेः
कुतः शुभं वाप्यशुभं फलं वा

1.547

तमसा ग्रस्तवद्भानादग्रस्तो ऽपि रविर्जनैः &
ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम्

1.548

तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् &
पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात्

1.549

अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति &
इतस्ततश्चाल्यमानो यत् किंचित् प्राणवायुना

1.550

स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् &
दैवेन नीयते देहो यथाकालोपभुक्तिषु

1.551

प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः &
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलम् इव कल्पविकल्पशून्यः

1.552

नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष
नैवापयुङ्क्त उप्दर्शनलक्षणस्थः &
नैव क्रियाफलमपीषदवेक्षते स
स्वानन्दसान्द्ररसपानसुमत्तचित्तः

1.553

लक्ष्यालक्ष्यगतिं त्यक्त्वा यस् तिष्ठेत् केवलात्मना &
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः

1.554

जीवन्न् एव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः &
उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम्

1.555

शैलूषो वेषसद्भावा- भावयोश् च यथा पुमान् &
तथैव ब्रह्मविच् छ्रेष्ठः सदा ब्रह्मैव नापरः

1.556

यत्र क्वापि विशीर्णं सत्पर्णम् इव तरोर् वपुः पततात् &
ब्रह्मीभूतस्य यतेः प्राग् एव तच्चिदग्निना दग्धम्

1.557

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
पूर्णाद्वयानन्दमयात्मना सदा &
न देशकालाद्युचितप्रतीक्षा
त्वङ्मांसविट्पिण्डविसर्जनाय

1.558

देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः &
अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः

1.559

कुल्यायामथ नद्यां वा शिवक्षेत्रे ऽपि चत्वरे &
पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम्

1.560

पत्रस्य पुष्पस्य फलस्य नाशवद्-
देहेन्द्रियप्राणधियां विनाशः &
नैवात्मनः स्वस्य सदात्मकस्या-
नन्दाकृतेर् वृक्षवद् अस्ति चैषः

1.561

प्रज्ञानघन इत्य् आत्मलक्षणं सत्यसूचकम् &
अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्

1.562

अविनाशी वा अरे ऽयमात्मेति श्रुतिर् आत्मनः &
प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु

1.563

पाषाणवृक्षतृणधान्यकडङ्कराद्या
दग्धा भवन्ति हि मृद् एव यथा तथैव &
देहेन्द्रियासुमन आदि समस्तदृश्यं
ज्ञानाग्निदग्धमुपयाति परात्मभावम्

1.564

विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि &
तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते

1.565

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् &
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम्

1.566

क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले &
संयुक्तमेकतां याति तथात्मन्य् आत्मविन्मुनिः

1.567

एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् &
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः

1.568

सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः &
अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः

1.569

मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः &
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ

1.570

आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे &
नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् \
यद्य् अस्त्य् अद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः

1.571

बन्धञ्च मोक्षञ्च मृषैव मूढा
बुद्धेर्गुणं वस्तुनि कल्पयन्ति &
दृगावृतिं मेघकृतां यथा रवौ
यतो ऽद्वयासङ्गचिदेतदक्षरम्

1.572

अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि &
बुद्धेर् एव गुणावेतौ न तु नित्यस्य वस्तुनः

1.573

अतस्तौ मायया कॢप्तौ बन्धमोक्षौ न चात्मनि &
निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने \
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः

1.574

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः &
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता

1.575

सकलनिगमचूडास्वान्तसिद्धान्तरूपं
परमिदमतिगुह्यं दर्शितं ते मयाद्य &
अपगतकलिदोषं कामनिर्मुक्तबुद्धिं
स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम्

1.576

इति श्रुत्वा गुरोर् वाक्यं प्रश्रयेण कृतानतिः &
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः

1.577

गुरुर् एव सदानन्दसिन्धौ निर्मग्नमानसः &
पावयन्वसुधां सर्वाण् विचचार निरन्तरः

1.578

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् &
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये

1.579

हितमिदमुपदेशमाद्रियन्तां
विहितनिरस्तसमस्तचित्तदोषाः &
भवसुखविरताः प्रशान्तचित्ताः
श्रुतिरसिका यतयो मुमुक्षवो ये

1.580

संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-
खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् &
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयत्य्
एषा शंकरभारती विजयते निर्वाणसंदायिनी

मूल पाठ: Vivekacuḍāmaṇi · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc