विष्वक्सेनसंहिता · अध्याय 21
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाभेदकथनं नाम] विंशोध्यायः ॥
एकविंशो ऽध्यायः
एकविंशो ऽध्यायः नारदः---
भगवन्ननयार्चनया सदृशं परमाप्तिकरं न हि पुंस इति ।
अतिचापलगद्गदापि (-दयापि?) गिरा स्तुतिरस्ति किमभियत् स्वपराम् (?)
विष्वक्सेनः---
शृणु नारद मूर्तिनुतिं परमां परमेण ममाभिहितां गुरुणा ।
तव भक्तिमतः कथयिष्यामि (-याम्यधुना?) इह (त्विह?) तृप्यति को हि शुभेषु नरः
विनतासुतवाहनमादरत- स्त्रिदशं कनकाङ्गदमष्टभुजम् ।
धवलाद्रिनिभं द्विपदं सुमुखं परमात्मगुरुं प्रणतो ऽस्मि सदा
जलजारिगदाम्बुजहस्तधरं सकलाभरणं तुहिनाद्रिमुषम् ।
चतुराननसेवितपादयुगं परनामधरं प्रणतो ऽस्मि सदा
तरुणार्कनिभं त्रिदशेध्य (-ड्य?) पदं सुकुमारदृशं मुसलप्रहरम् ।
अरुणाम्बरमप्रतिमं हलिनं शशिवक्त्रसमं प्रणतो ऽस्मि सदा
चतुरङ्ग(?)सुपीवरदीर्घभुजं हरिवर्णकृताञ्जलिनोपकृतम् (?) ।
गरुडेन च दक्षिणतो ऽम्बुज- योत्तरतः प्रहरं प्रणतो ऽस्मि सदा (?)
अत्र कश्चिद्विशेषो ऽस्ति मूर्तीनामर्चनाविधौ ।
मत्स्यादिदशमूर्तीनामिह लोके फलं लभेत्
तत्फलं ते प्रवक्ष्यामि अधुना शृणु नारद ।
आयुरारोग्यदं(-कं?) चैव सायुज्यं लभते ध्रुवम्
उक्तक्रमेण(?)यो मत्स्यं भक्तिपूर्वं समर्चयेत् ।
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति
कूर्मं भक्त्या समाराध्य नरो निर्धूतकल्मषः ।
सर्वान् कामाननुप्राप्य विष्णुसायुज्यमाप्नुयात्
भक्त्या वराहमभ्यर्च्य क्रमेणानेन बुद्धिमान् ।
पापरोगविनिर्मुक्तः स याति परमां गतिम्
नारसिंहं समाराध्य भक्त्या परमया युतः ।
समस्तकामसंसिद्धो जयलक्ष्मीं समृच्छति
भक्त्यार्च्य वामनं ज्ञानी विष्णुसालोक्यमश्नुते ।
भार्गवं राममाराध्य विष्णुसारूप्यमाप्नुयात्
अर्च्य दाशरथिं राममायुः कीर्तिं सुखं यशः ।
अवाप्य काममखिलं विष्णुलोके महीयते
बलरामं समाराध्य बलारोग्यधनं लभेत् ।
कृष्णमभ्यर्च्य सकलं इष्टमिष्टफलं लभेत्
ज्ञानमूर्तिं च कल्किं तु(?) लक्ष्म्यायुः कीर्तिमेव च ।
अवाप्य विष्णुसालोक्यं मोदते विष्णुपार्षदैः
दशमूर्त्यर्चनं पुण्यं गुह्याद्गुह्यतरं मुने ।
साधकानां हितार्थाय तव भक्तस्य धीमतः
फलश्रुतिर्मया प्रोक्ता मत्स्यादीनां विशेषतः ।
तन्त्राणां परमं गुह्यं विनियोगमतः शृणु
उक्तं च नोपदेष्टव्यमभक्ताय कदाचन ।
न मानिने डंभिने च नास्तिकाय शठाय च
न चाशुश्रूषवे दद्यात् शुचये च कृपालवे ।
देवतागुरुभक्ताय न हि चेद्गुरुदोषभाक्
जानकीं रुक्मिणीं लक्ष्म्या पुष्ट्या भामां तु विद्यया ।
लक्ष्मणं भरतं वापि शत्रुघ्नं च महामुने
प्रणवादिस्वनाम्नैव चतुर्थ्यन्तं नमो ऽयुजा ।
अर्चयेत मुनिच्छन्दो दैवं राघवमन्त्रवित्
सर्वेषां परिवाराणां मन्त्रमेवं प्रयोजयेत् ।
आभिर्हेमः प्रयोक्तव्यः स्वाहान्तं सकलं मुने
अभ्यन्तरोपचारेण(-षु?) आगच्छान्तं मुखीकृतौ ।
क्षमस्वान्तं विसर्गे तु नमो ऽन्तं चान्मकर्मणि
मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0