विष्वक्सेनसंहिता · अध्याय 16
भक्त्या गुरोरशेषं (?) स्यात् स हरिर्नात्र संशयः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्होमविधिर्नामट पञ्चदशो ऽध्यायः ॥
षोडशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि प्रतिष्ठालक्षणं परम् ।
सर्वलक्षणसंयुक्तमल्पकायं चतुर्भुजम्
तत्तन्मूर्त्यनुसारेण कारयेत् सुमनोहरम् ।
प्रथमं च द्वितीयं च संक्षेपाच्छृणु सुव्रत
प्रतिष्ठायाः क्रमं चास्मिन् साधकानां हिताय तु ।
कृत्वाङ्कुरार्पणं सम्यक् पञ्चसप्तदिनात् पुरा
जलाधिवासनं कृत्वा यथा वै तत्र चोदितम् ।
पूर्वोक्तमण्डपे मध्ये वेदिं कृत्वा यथाविधि
कारयेत् सर्वकर्माणि शास्त्रदृष्ट्या समाहितः ।
तदलाभे मुनिश्रेष्ठ शृणु मण्डपलक्षणम्
पञ्चोत्तरशतं(?)वापि हस्तद्वादशकं तु वा ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्
वितानवस्त्रसंछन्नमलंकारैरलंकृतम् ।
कार्पासकैर्नवैर्वस्त्रैः स्तम्भान् संपरिवेष्टयेत्
तोरणान् कलशांश्चापि मध्ये वेदिं तु कारयेत् ।
दशतालस्तु विस्तार एकहस्तसमुच्छ्रयः
वेदिकायास्तु (-यां तु?)परितः चतुर्दिक्षु यथाविधि ।
कारयेदग्निकुण्डानि चतुरश्रादि नारद
स्थण्डिले वाप्यभावे तु कारयेत् तरुणालये ।
जलाधिवासादुत्थाप्य मण्डपे चानयेद्धरिम्
सुवर्णसूच्या तत्रैव नेत्रोन्मीलनमाचरेत् ।
तच्चक्षुरिति वामं च चित्रं देवेति दक्षिणम्
धेनुद्वयं दर्शयित्वा ततः स्नपनमाचरेत् ।
एकाशीतिक्रमेणैव स्नपनं त्वधमोत्तमम्
कलशैः पञ्चविंशैर्वा ततःसप्तदशैस्तु वा ।
द्वादशैर्नवकैर्वापि यथासंभवमाचरेत्
पुण्याहं वाचयित्वैव शयनं कल्पयेत्ततः ।
पञ्चभारप्रमाणैश्च शालींस्तत्रैव विक्षिपेत्
तदर्धं तण्डुलं चैव शाल्योपरि विनिक्षिपेत् ।
तस्योपरि लिखेत् पद्ममष्टपत्रं सकर्णिकम्
तस्य मध्ये तु तन्त्रज्ञः छादयेत् कम्बलेन तु ।
शयनं त्रिविधं प्रोक्तं क्षौमं कार्पासकं तु वा
ऊर्णामयं च तत्सर्वं व्याघ्रचर्मोत्तरच्छदम् ।
चित्रवस्त्रत्रयं वापि नववस्त्रत्रयं तु वा
यथावित्तानुसारेण(?)मार्गेणैकेन कल्पयेत् ।
शिरोपधानसंयुक्तं पादगण्डूलसंयुतम्
वामदक्षिणभागाभ्यां सुकपोलस्थलद्वयम् ।
शयनं कल्पयित्वैवं गन्धपुष्पैःसमर्चितम्
वस्त्रैराभरणैर्माल्यैरलंकृत्य जनार्दनम् ।
आचार्यो मूर्तिपैःसार्धं स्वस्तिवाक्यसमन्वितम्
छत्रचामरसंयुक्तं शयने संनिवेशयेत् ।
द्वादशाक्षरमन्त्रेण शाययेद्दक्षिणाशिरः
वैष्णवीकरणं कुर्यात् पूर्वं मूर्तिधरो मुने ।
मन्त्रन्यासं ततः कुर्यात् मूर्तिमन्त्रेण साधकः
नृत्तगीतसमायुक्तं वेदाध्ययनसंयुतम् ।
प्राङ्मुखोदङ्मुखो भूत्वा वेदिकोपरि दक्षिणे
प्राणायामान् क्रमात् कृत्वा प्रणवेनैव देशिकः ।
सृष्टिन्यासं स्थितिन्यासं संहृतिन्यासमेव च
तद्बिम्बे मुनिशार्दूल यथातथ्येन विन्यसेत् ।
पञ्चविंशतितत्त्वानि प्रतिमायां न्यसेत्ततः
पञ्चोपनिषदैर्न्यस्य प्रणवैःसह मन्त्रवित् ।
अथवा देवदेवस्य मन्त्रन्यासं शृणु क्रमात्
चतुरभ्यधिकं विंशत् सूक्तं नारायणं क्रमात् ।
देवस्य पादौ संस्पृष्ट्वा आचार्यः सूक्तमुच्चरन्
तस्यान्ते पौरुषं ब्रह्मन् षोडषं सूक्तमुच्चरेत् ।
ततस्त्वथर्ववेदे च सृष्ट्यादिप्रतिपादकम्
नारायणोपनिषदं त्रिः पठेत् पदसंस्पृशेत् ।
आत्मा यादि(?) नमोन्तं यन्मन्त्रमष्टशतं जपेत्
पूजायामधिवासे च प्रतिष्ठायां षडक्षरम् ।
न्यासमेषु प्रकुर्वीत तद्बिम्बहृदि देशिकः
अन्यथा निष्फलं सर्वं नात्र कार्या विचारणा ।
तस्मात् सर्वप्रयत्नेन षडक्षरजपान्तर(-क?)म्
यद्यत् प्रोक्तं मुनिश्रेष्ठ तत्तत् कुर्वीत बुद्धिमान् ।
एवं न्यासं क्रमात् कृत्वा वेष्टयेन्नववस्त्रकैः
पुष्पाञ्जलिर्नमस्कृत्य पूजयेत् पुरुषोत्तमम् ।
शङ्खदुन्दुभिनिर्घोषैः नृत्तगेयैश्च पूजयेत्
आवाहयेत् ततो देवं मूर्ध्नि मूलेन मन्त्रवित् ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम्
तत्तन्मूर्त्यनुसारेण ध्यायेद्देवं सनातनम् ।
पाद्यार्घ्याचमनीयं च गन्धपुष्पादिभिः क्रमात्
गौल्यं पायसमुद्गान्नं सोपदंशं घृताप्लुतम् ।
निवेदयित्वां देवस्य दाधिकं तु निवेदयेत्
पानीयाचमनीयं च मुखवासं निवेदयेत् ।
ततस्तु शाययेद्देवं नमस्कृत्य तु देशिकः
गन्धतोयेन संपूर्णान् सूत्रत्रयसुवेष्टितान् ।
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान्
पक्वबिम्बफलाकारान् मृद्घटान् लक्षणान्वितान् ।
पञ्चरत्नसमायुक्तान् हेमपञ्चायुधान्वितान्
सौवर्णं चापि श्रीवत्सं सौवर्णगरुडान्वितम् ।
शङ्खं चक्रं च कूर्मं च संस्मरेन्मूलविद्यया
सकूर्चं सापिधानं च वस्त्रयुग्मेन वेष्टितम् ।
देवस्य दक्षिणे पार्श्वे विन्यसेद्धान्यराशिषु
प्रधानकुम्भमादाय प्राङ्मुखो वाप्युदङ्मुखः ।
पञ्चमूर्तिमनुध्यायेत् तत्कुम्भे ऽवाह्य नारद
ब्रह्मबीजेन तत्कुम्भं गन्धपुष्पैः समर्चयेत् ।
कर्मार्चा चोत्सवं स्नानं बलिर्यात्रा च पञ्चमम्
स्नाने प्रतिष्ठाधिवासे कालमेकं(?)तु कारयेत् ।
देवेन सह संयोज्य देवीनां मुनिसत्तम
विद्यश्वराष्टकुंभांश्च अष्टदिक्ष्वथ विन्यसेत् ।
हेमरत्नयुतांश्चैव वस्त्रसंवेष्टितान् शुभान्
इन्द्रादीशानपर्यन्तं वाराहादींश्च विन्यसेत् ।
स्वनाम्ना पूजयेत्तांश्च शङ्खादीन् मङ्गलान्(?)न्यसेत्
गन्धपुष्पाक्षतांश्चैव वस्त्रेण परिवेष्टितान् ।
एवं कृत्वा विधानेन मूर्तिहोमं समाचरेत्
ऋगादिवेदसंयुक्तं दिक्षु पूर्वादिषु द्विज ।
शङ्खादिघोषसंयुक्तं नृत्तगीतसमन्वितम्
वीणावेणुसमायुक्तं होमकर्म समाचरेत् ।
वैष्णवाग्निं समादाय कुण्डेष्वग्निं निधापयेत्
पालशाखादिरं चैव बिल्वमौदुम्बरं तथा ।
समिदष्टशतं प्रोक्तं पृथक् पूर्वादि कल्पयेत्
पालाशखादिराभावे बिल्वैरेव तु कारयेत् ।
बिल्वाभावे मुनिश्रेष्ठ औदुम्बरमथाचरेत्
पूर्वादि चाग्निकुण्डेषु समिधः परिकीर्तिताः ।
आज्यं चरुवदुद्दिष्टं तत्संख्या च पृथक्पृथक्
अग्निमध्ये तथा पद्मं ध्यायेत् केसरपत्रकम् ।
तत्रस्था देवता ध्यात्वा होमं कुर्याद्विचक्षणः
जुहुयुः प्राङ्मुखाः सर्वे सोत्तरीयाः स्वलंकृताः ।
भोजयेद्ब्राह्मणान् रात्रौ भक्तान् द्वादश पायसम्
वेदाध्ययनमेवात्र चतुर्दिक्षु च कारयेत् ।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम्
पूर्वादि चोत्तरान्तं तु यथासंरव्यं प्रकल्पयेत् ।
शान्तिहोमं ततः कृत्वा होमान्ते च यथाक्रमम्
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ।
पौरुषेण च सूक्तेन प्रत्येकं षोडशाहुतीः
पूर्वादि चोत्तरान्तं तु कुण्डे चैव यथाक्रमम् ।
हुत्वा हुत्वा स्पृशेयुस्ते प्रतिमां मूलविद्यया
मधु हुत्वा स्पृशेत् पादं क्षीरं हुत्वोदरं स्पृशेत् ।
दधि हुत्वा च वदनं हुत्वाज्यं शिरसि स्पृशेत्
पलाशशाखया प्राच्यां सिञ्चेत्तन्मूर्तिधारकः ।
दक्षिणस्यां ततः सिञ्चेत् खादिरस्य तु शाखया
सिञ्चेत्तन्मूर्तिधारस्तु प्रतीच्यां बिल्वशाखया ।
उदुम्बरेण चोदीच्यां सिञ्चेत्तन्मूर्तिधारकः
आचार्यः कोणदेशे तु सिञ्चेद्वेतसशाखया ।
पुष्पाञ्जलिं(-लिः?)नमस्कृत्य आचार्यो मूलविद्यया
उत्तराग्नौ तु जुहुयात् आचार्यो मधुरत्रयम् ।
गुलाज्यमधुसंमिश्रं मधुरत्रयमुच्यते
मूलमन्त्रेण जुहुयात् प्रत्येकाष्टाहुतीः क्रमात् ।
नृत्तगेयैश्च वाद्यैश्च वेदाध्ययनसत्कथाम् (-संयुतैः)
अनिर्वाणप्रदीपैश्च रात्रिशेषं समापयेत् ।
प्रभातायां तु शर्वर्यां स्नात्वाचार्यः प्रयत्नवान्
द्वारस्य दक्षिणे पार्श्वे स्थण्डिले चतुरश्रके ।
कारयेद्वास्तुहोमं तु समिदाज्यचरूनपि
अपामार्गस्य समिधः शम्याश्च खदिरस्य च ।
यक्षरक्षः पिशाचानां शान्त्यर्थं जुहुयात् पृथक्
प्रणवादिस्वमन्त्रैश्च जुहुयान्मन्त्रवित्तमः ।
दिशाहोमांश्च कुर्वीत प्रासादस्य समन्ततः
स्थण्डिलेष्वेवमेवाग्निं जुहुयाद्दिक्पतीन् क्रमात् ।
ध्यात्वा ध्यात्वा स्वमन्त्रेण समिदादि यथाक्रमम्
पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः ।
उदुम्बरश्च काश्मर्यः समिधो ऽष्टौ प्रकीर्तिताः
ऐन्द्रादीशानपर्यन्तं समिदाज्यचरूनपि ।
एवं समाप्य विधिवत् वास्तुहोमादिकान् क्रमात्
कारयेन्मुनिशार्द्वल पश्चात् पूर्णाहुतिं हुनेत् ।
वौषडन्तेन मन्त्रेण आचार्यः पश्चिमे ऽनले
द्वादशाक्षरमन्त्रेण स्रुचा पूर्णाहुतिं हुनेत् ।
गन्धपुष्पादिनाभ्यर्च्य घण्टाशब्दसमन्वितम्
पूर्णाहुतिं क्रमात् कृत्वा त्रिधा मन्त्रमनुस्मरन् ।
गोमयेन समालिप्य बालस्थानं समन्ततः
मूलस्थानं तु वा तत्र मूलमन्त्रेण मन्त्रवित् ।
अष्टदिक्षु यथान्यायं कारयेद्यत्नतो ध्वजान्
तोरणान् शास्त्रविहितान् चतुर्दिक्षु निवेशयेत् ।
दर्भमालादिसंयुक्तं मुक्तादामैर (-माद्य?) लंकृतम्
सर्वालंकारसंयुक्तं पुष्पमालाविभूषितम् ।
पुण्याहं वाचयित्वा तु पूजनीयांश्च पूजयेत्
वस्त्राभरणकं सम्यगाचार्यय प्रदापयेत् ।
आचार्यमनसः प्रीतिरतिसंपत्तिकारिणी
सौवर्णं ब्रह्मसूत्रं तु सौवर्णं कर्णभूषणम् ।
अङ्गुलीवलयं चैव प्रकोष्ठवलयं तथा
अलंकृत्यैवमाचार्यं दक्षिणां तस्य दापयेत् ।
पञ्चविंशतिनिष्कं तु सुवर्णं दक्षिणोत्तमम्
तदर्धं मध्यमं चैव तदर्धमधमं भवेत् ।
एवमेव तु कर्तव्य उत्सवे दक्षिणाक्रमः
उत्तमादिक्रमात् प्रोक्ता दक्षिणा मुनिसत्तम ।
यथा (-द्वै?)वित्तानुसारेण दद्याद्वा(-द्वै?)दक्षिणां मुने
अत्रोपयुक्तं यद्द्रव्यं देवतालंकृतिं विना ।
आचार्याय प्रदातव्यं वस्त्रव्रीह्यादिकं तथा
आचार्यदक्षिणार्धांशतुल्या स्थापकदक्षिणा ।
तदर्धं मूर्तिपानां तु वास्तुशान्तिकृतस्तथा
होतॄणां दक्षिणार्धं स्याद् अध्येतॄणां तु दक्षिणा ।
सर्वेषां चैव दातव्यं वस्त्रयुग्मं नवं शुभम्
दैवज्ञं पूजयेत् पश्चात् सुमुहूर्तप्रदो हि सः ।
गेयनृत्तकरांश्चैव पूजयेद्वैष्णवांस्ततः
मूहूर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया ।
सूर्यमण्डलमध्यस्थं देवं नारायणं प्रभुम्
कुम्भे पञ्चप्रतीके च आवाह्य प्रणवेन तु ।
अर्घ्यपाद्यापदिनाभ्यर्च्य एकमूर्तिमनुस्मरेत्
पूजयित्वा मुनिश्रेष्ठ स्वयं तु विगतस्पृहः ।
श्रियं पुष्टिं तथा कुम्भमध्ये संपूजयेत्ततः
प्रणवादि स्वनाम्ना तु साधको मन्त्रवित्तमः ।
तत्कुम्भान्तर्गतं देवं स्थापयेत् साधकोत्तमः
स्थापकश्चोद्धरेत् कुम्भमाचार्यो वा मुनीश्वर ।
उत्तर्योष्णीषसंयुक्तमुद्धरेत् कुम्भमुत्तमम्
तथैव समलंकृत्य स्थापकं मुनिसत्तम ।
आचार्यो मूर्तिपैर्युक्तः प्रतिमामुद्धरेत् क्रमात्
मङ्गलानु(-न्यु?)द्धरेयुश्च दिशाहोमकरास्तथा ।
शङ्खदुन्दुभिघोषैश्च स्वस्तिवाचनसंयुतम्
नृत्तगेयसमायुक्तं धूपदीपसमन्वितम् ।
पुष्पवृष्टिसमायुक्तं वितानध्वजसंयुतम्
ततस्तु समलंकृत्य देवाग्रे वैष्णवान् शुभान् ।
गन्धतोयेन संपूर्णान् सूत्रत्रयसुवेष्टितान्
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ।
वर्धनीं गृह्य तन्त्रज्ञो देवाग्रे ऽच्छिन्नधारया
गेहं प्रदक्षिणं कृत्वा बालस्थानं प्रवेशयेत् ।
प्रतिमां मूर्तिमन्त्रेण स्थापयेन्मन्त्रवित्तमः
ततश्च पञ्चमन्त्राणां (-न्त्रांश्च?) स्थापयेद्विहितेन च ।
तस्याग्रे स्थापयेत् कुम्भमाचार्यस्तन्त्रवित्तमः
तत्तोयं प्रतिमामूर्ध्नि मूलमन्त्रेण सेचयेत् ।
श्रियादीनां(?)स्वमन्त्रैस्तु सेचयेद्देववत् क्रमात्
कर्मार्चनादि मूर्तीनां(?) सेचयेन्मूलबेरवत् ।
कुम्भाच्छेषोदकं गृह्य तच्छरावे निषिच्य च
शलाकमात्रया चैव धारयाच्छिन्नया पुनः ।
परितः परिषेकं च कुर्यान्मूलेन मन्त्रवित्
अञ्जलिं दर्शयित्वा तु सर्वमन्त्रांश्च(-मन्त्रं च?)संस्मरेत् ।
द्वारस्योत्तरपार्श्वे तु न्यासहोमं स्वमन्त्रतः
स्थण्डिले मुनिशार्दूल पञ्चरात्रविशारदैः ।
कारयेत् समिदाद्यैस्तु प्रत्येकैकाहुतिं क्रमात्
मन्त्रन्यासं ततः कुर्यात् पूर्ववत् साधकोत्तमः ।
तथैव कारयेत्तस्मिन् स्थापको न्यासमुत्तमम्
पश्चाद्देवं समालम्ब्य पूजयेत् साधकोत्तमः ।
गन्धपुष्पादिनाभ्यर्च्य प्रणम्य च जनार्दनम्
संनिधानं कुरुष्वेति प्रणमेत् दण्डवत् क्षितौ ।
तस्मिन् काले महाप्राज्ञो वेदाध्ययनमाचरेत्
पुष्पाञ्जलिर्नमस्कृत्य आचार्यो मन्त्रमुच्चरेत् ।
सर्वं न्यूनातिरिक्तं च मया पूर्वं च यत्कृतम्
तत्सर्वं देवदेवेश क्षन्तुमर्हसि मे प्रभो ।
ततस्तु मुनिशार्दूल प्रासादं प्रोक्षयेद्बुधः
कुम्भोदकादशेषं तु बहिरन्तश्च सर्वशः ।
पौरुषेणैव सूक्तेन प्रोक्षणादेव शुद्ध्यति
पायसं कृसरं गौल्यं मुद्गान्नं च निवेदयेत् ।
ताम्बूलं मुखवासं च परिवारांश्च(?)कल्पयेत्
होमपूर्वेण मन्त्रज्ञो ह्यन्तर्बहिरनुक्रमात् ।
लोकपालान् मुनिश्रेष्ठ कल्पयेत्तु यथाक्रमम्
अन्यावरणदेवांश्च बालगेहे न कल्पयेत् ।
दिने दिने तु कर्तव्यो होमूपर्वो बलिक्रमः
चण्डादीशावसानं तु बलिं दद्यात् पृथक्पृथक् ।
महापीठार्धमानं तु विस्तरायामतादृशम्
बालगेहस्य पूर्वे तु कल्पयेत् पीठमुत्तमम् ।
पीठोपरि मुने पद्ममष्टपत्रं सकर्णिकम्
पूर्ववत् पार्षदान् सर्वान् तिष्ठन्तौ(-तो?)बलिपीठकौ(-के?) ।
बलिशेषं न्यसेद्धीमान् पूर्ववन्मन्त्रसंयुतम्
उत्सवस्नपनादीनि कारयेच्छास्त्रचोदितम् ।
शेषं साधारणं कुर्यात् बालस्थाने मुनीश्वर
बालस्थानं विना पूर्वं मूलस्थानं न कारयेत् ।
यदि कुर्यान्महादोषः कर्तृदेशविनाशनः
बालगेहार्चनाबिम्बं मूलागारे न पूजयेत् ।
पूजयेद्यदि तद्बिम्बं कर्ता राष्ट्रं च नश्यति
तस्मात् सर्वप्रयत्नेन मूलागारे न पूजयेत् ।
प्रतिष्ठान्ते मुनिश्रेष्ठ उत्सवं कारयेत् क्रमात्
पञ्चसप्तनवाहं वा यथावित्तानुसारतः(?) ।
ध्वजं चैवोत्सवारंभे सद्यः कुर्यात्तु तद्दिने
तीर्थान्ते स्नपनं कुर्यात् पूर्वोक्तेन विधानतः ।
पुष्पयागविधानं तु नेष्यते ऽस्मिन् महामुने
इति संक्षेपतः प्रोक्तो बालस्थानविधिर्मुने ।
एवमेव द्वितीयस्य प्रतिष्ठालक्षणं परम्
विशेषं चात्र वक्ष्याभि द्वितीयस्य मुहामुने ।
प्रतिष्ठार्क्षस्य पूर्वेद्युः मध्यरात्रे ऽल्पगेहके
स्थण्डिलं चतुरश्रं च हस्तमात्रं समन्ततः ।
कारयित्वा मुनिश्रेष्ठ पश्चाद्देवं नयेद्बुधः
बिम्बाग्रे स्थण्डिले मध्ये मूलमन्त्रमनुस्मरन् ।
कुम्भं संस्थाप्य विधिवत् तत्कुम्भे कल्पयेद्धरिम्
आनयेन्मूर्तिमन्त्रेण गन्धपुष्पादिनार्चयेत् ।
कुम्भस्यान्तर्गतं देवं रविमध्ये नयेत् क्षणात्
पश्चाद्देवं समावाह्य महाकुम्भे महामुने ।
तत्कुम्भान्तर्गतं देवं मूलबेरे न्येद्बुधः
पूर्ववत् प्रोक्षयेन्मूलस्थानं तन्त्रविचक्षणः ।
परिवारानशेषांस्तु कल्पयेच्छास्त्रचोदितम्
दिग्देवान् विधिवत् स्थाप्य पूजयेत्तद्दिने दिने ।
विशेषश्चात्र संप्रोक्तः शेषं साधारणं भवेत्
युक्त्या युक्तिविशेषेण कारयेदिह नारद ।
प्रथमे च द्वितीये च क्रियासु मुनिसत्तम
एवं कृते तु विधिवत् तद्राज्ञो राष्ट्रवासिनाम् ।
कर्तुः कारयितुश्चैव आयुः श्रीश्चापि वर्धते
मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0