भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 14

14.1

संक्षेपात् कथितं गुह्यं साधकानां हिताय वै ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्मन्त्राणां ऋषिछन्द- देवतादिकथनं नामट त्रयोदशो ऽध्यायः ॥
चतुर्दशो ऽध्यायः
चतुर्दशो ऽध्यायः विष्वक्सेनः---
अतः परं प्रवक्ष्यामि चरुपाकविधिं परम् ।
शृणु नारद सर्वज्ञ व्रीहिक्षेत्रादिकान् क्रमात्

14.2

न चोषरधरायां च चण्डालादिगृहान्तिके ।
न श्मशानान्तिके भूम्यां धान्यसंग्रहणं भवेत्

14.3

शुभक्षेत्रोद्भवं धान्यं त्र्यहाब्दं (त्र्यब्दं वा?) वत्सरं तु वा ।
षण्मासं वा त्रिमासं वा सम्यक् पर्युषितं शुभम्

14.4

रक्तशालिं ततो (तु वा?) श्वेतं कृष्णशालिं तथैव च ।
संग्रहे ऽस्मिन् मुनिश्रेष्ठ तण्डुलं श्वेतमुत्तमम्

14.5

कुन्देन्दुमुक्तासंकाशैः तत्कृतैः (?) शालितण्डुलैः ।
पाचयेद्धरिवेश्मस्य (-गेहस्य?) आग्नेय्यां पचनालये

14.6

मन्त्रज्ञो वंशसंपन्नः प्रातःस्नानपरायणः ।
हविषां पाकयोग्यस्तु बलवान् कर्मतत्परः

14.7

मानादि चाधुना वक्ष्ये शृणु गुह्यमनुत्तमम् ।
द्विशतैः पञ्चविंशद्भिः व्रीहिभिश्चैव पूरितम्

14.8

शुक्तिमात्रमिति ख्यातं मानं तेनैव कल्पयेत् ।
तद्द्वयं तलमित्युक्तं प्रकुब्जं (-ञ्चः?)स्यात्तलद्वयम्

14.9

तद्द्वयं प्रसृतिः प्रोक्ता कुडुम्बं(-बं?)प्रसृतिद्वयम् ।
अञ्जलिस्तद्द्वयं प्रोक्तं प्रस्थः स्यादञ्जलिद्वयम्

14.10

पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत् ।
तद्द्वयं शिवमित्युक्तं द्रोणं विद्याच्छिवद्वयम्

14.11

द्रोणद्वयं भवेत् खारी भारं खारित्रयं भवेत् ।
मानमेवं मया प्रोक्तं पात्रशुद्धिमथो शृणु

14.12

चरुपात्रद्वयं प्रोक्तं ताम्रं मृण्मयमेव वा ।
ताम्राभावे मुनिश्रेष्ठ मृण्मयं वाथ कारयेत्

14.13

दिने दिने नवं गृह्यं साधयेत् साधकोत्तमः ।
पात्राणि च शरावाणि संगृह्य परिचारकः

14.14

शुद्धतोयेन संक्षाल्य विष्णुगायत्रिया पुनः ।
प्रोक्षयेद्गन्धतोयेन पञ्चोपनिषदैः क्रमात्

14.16

(...)
पात्रशुद्धिरिह प्रोक्ता हविःसंख्या(?)प्रचक्षते ।
उत्तमोत्तममित्युक्तमष्टद्रोणैस्तु पूरितम्

14.17

षड्द्रोणैस्तण्डुलैःसिद्धं भवेदुत्तममध्यमम् ।
द्रोणहीनं भवेत्तत्र उत्तमाधममुच्यते

14.18

मध्यमोत्तममित्युक्तं खारिद्वयसमन्वितम् ।
द्रोणद्वयेन नैवेद्यं भवेन्मध्यममध्यमम्

14.19

मध्यमाधममित्युक्तं द्रोणद्वयसमद्वयम् (?) ।
द्रोणं चैव तदर्धं च तस्यार्धमधमत्रयम्

14.20

तण्डुलैराढकैर्हीनं नैवेद्यं न प्रकल्पयेत् ।
चरुःप्रस्थद्वयः प्रोक्तः हविराढकमुच्यते

14.21

तस्मिन् (तत्तु?)श्रियादिदेवीनामाढकं वार्धमेव वा ।
निवेदयेन्मुनिश्रेष्ठ तण्डुलानां विधिं शृणु

14.22

द्वितीयावरणे चैव तृतीयावरणे ऽपि वा ।
कुर्याद्धान्यावघातस्य शालामीशानगोचरे

14.23

दक्षिणे वाथ वायव्ये नैरृते वान्तरे तथा ।
शालां च भूषयित्वा तु वितानाद्यैर्मनोहरैः

14.24

गोमयेन समालिप्य शालिपिष्टैर्विचित्रयेत् ।
ब्राह्मणी तु सुशीला च ब्राह्मण्येन समन्विता

14.25

धान्यावघातं तत्रैव कुर्यादाममनुत्तमम् ।
उलूखलादि संप्रोक्ष्य हरिरित्युच्चरन् क्रमात्

14.26

घातयेत् सर्वधान्यानि पश्चात्तण्डुलमेव च ।
आमं वाप्यथवा पक्वमेवमेव दिने दिने

14.27

संस्कृत्य तण्डुलान् सर्वान् संगृह्य प्रणवेन तु ।
निरीक्ष्य तण्डुलान् पश्चात् शर्करादीनि सर्वशः

14.28

हरिस्मृत्या क्रमेणैव शुचिर्भूत्वा समहितः (ता?) ।
परार्थे विष्णुपूजायां सच्छूद्रो वैष्णवो मुने

14.29

न स्पृशेत् पक्वमामं...कुर्याद्यथारुचि ।
तदभावे मुनिश्रेष्ठ वैष्णवानां गृहे गृहे

14.30

दिने दिने तु कर्तव्यास्तण्डुलाः शूद्रकैर्विना ।
अस्मिन् (यस्तु?)शुद्रगृहे मोहाल्लेभाद्वा मुनिसत्तम

14.31

तण्डुलं कुरुते पूजा निष्फला सा भविष्यति ।
सर्वनाशमवाप्नोति तस्माद्यत्नेन वर्जयेत्

14.32

स्वार्थार्चने यथाकामं भक्त्या देवाय दापयेत् ।
अभिन्नास्तण्डुला ग्राह्या अखिन्नाश्च तथैव च

14.33

अतुषाश्चाप्यपाषाणाः कृमिकीटविवर्जिताः ।
अकणाश्च रजोपेताः पांसुस्पर्शनवर्जिता (?)

14.34

अपक्वास्तण्डुलाश्चान्याः न निवेद्याः कथंचन ।
पक्वमेव चरुं दद्यात् अपक्वं तु विवर्जयेत्

14.35

वर्जितं च चरुं मोहात् निवेदयति चेन्मुने ।
राक्षसाश्च पिशाचाश्च हृष्टा गृह्णान्ति तच्चरुम्

14.36

कुप्यते(?)तु हरिश्चापि नात्र कार्या विचारणा ।
तस्मात् सर्वप्रयत्नेन वर्जितं वर्जयेत् सदा

14.37

उद्धरेत् सर्वपात्राणि प्रणवेन महामुने ।
पुरा पात्राणि प्रक्षाल्य पूर्वोक्तेन विधानतः

14.38

अष्टाक्षरेण मन्त्रेण आज्येनैव तु लेपयेत् ।
स्पृशेच्च तण्डुलान् पश्चात् द्वादशाक्षरविद्यया

14.39

क्षिपेद्द्वादशमुष्टिं तु क्रमाद्द्वादशनामभिः ।
नमस्कारान्तसंयुक्तं ध्यात्वा तु हृदये हरिम्

14.40

ततश्च चतुरो मुष्टीन् प्रक्षिपेन्मूर्तिनामभिः ।
षड्भिः(?)प्रक्षालनं कृत्वा बीजेन परमेष्ठिना

14.41

चुल्यामारोपयेत् पश्चाद्बीजेन पुरुषात्मना ।
अग्निं समेधयेत् पश्चाद्विश्वबीजेन साधकः

14.42

निवृत्या अभिघार्याथ सर्वेणैवावतारयेत् ।
मूर्तिमन्त्रेण वा सर्वान् मूलमन्त्रेण वा मुने

14.43

कारयेन्मुनिशार्दूल नित्ये नैमित्तिके क्रमात् ।
चरुपाकविधाने ऽस्मिन् मन्त्रान् सर्वान महामुने

14.44

नमस्कारविहीनेन(-नांस्तु?) योजयेन्मन्त्रवित्तमः ।
हविरादिषु वक्ष्यामि वर्ज्यावर्ज्यविधिं क्रमात्

14.45

नीलितं वर्जयेद्धव्यमतिपक्वं तथैव च ।
तथाप्यपाकसंपूर्णमर्धतण्डुलमेव च

14.46

वर्णान्तरगतं चैव गन्धदुष्टं च धूपितम् ।
द्विपक्वं स्थापितं चैवाघ्रातं निष्वितनकम्(?)

14.47

अपक्षुतं श्वासहतं मुखवायुहतं तथा ।
परस्पृष्टं शुनादृष्टमदीक्षितनिरीक्षितम्

14.48

स्वेदबिन्दुहतं चापि धामहस्तगतं (वामहस्तहतं?) तथा ।
लङ्घितं शीतमत्युष्णं भिन्नपात्रगतं तथा

14.49

कृमिकेशादिसहितं कोष्ठ(काष्ठ?)लोष्ठादिपाति(संयु)तम् ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनमतोषितम् (?)

14.50

अर्कपात्रगतं चापि वर्जयेद्यत्नतश्चरुम् ।
फलानि यत्नपक्वानि वर्जनीयानि सर्वशः

14.51

कदलीफलमेकं तु यत्नपक्वेषु गृह्यते ।
अपक्वम(-क्वं त्व?)ग्निनाशस्तं फलमत्र निवेदयेत्

14.52

एवमुक्तं तु शुद्धान्नं पायसं त्वधुनोच्यते ।
यजमानेच्छया तस्मिंस्तण्डुलं गृह्य साधकः

14.53

तण्डुलद्विगुणं क्षीरं मुद्गसारः समो भवेत् ।
पाचितं पायसं प्रोक्तं शेषं पूर्ववदाचरेत्

14.54

तण्डुलस्य चतुर्थांशांस्तिलान् प्रक्षिप्य चूर्णितान् ।
तच्चतुर्थं घृतं क्षिप्त्वा पाचयित्वा यथाविधि

14.55

कृसरान्नमिति प्रोक्तं गौल्यान्नं त्वधुना शृणु ।
पायसं पूर्ववत् कृत्वा तण्डुलेन समं गुलम्

14.56

गुलार्धं प्रक्षिपेदाज्यं कदल्यादिफलं क्षिपेत् ।
गुलान्नमिति संप्रोक्तं मुद्गान्नमधुनोच्यते

14.57

तण्डुलेन समं मुद्गं नालिकेरुलान्वितम् ।
मुद्गान्नमिति संप्रोक्तं हरिद्रान्नमिहोच्यते

14.58

मरीचिरजनीयुक्तं जीरकैः सर्षपैर्युतम् ।
उच्यते पाचितं ह्येतत् हरिद्रान्नं यथाविधि

14.59

तद्विधिं चाधुना वक्ष्ये शृणु भागोत्तरं (पाकक्रमं?) मुने ।
द्रोणतण्डुलमादाय कुन्देन्दुधवलप्रभम्

14.60

पूर्ववत् पाचयित्वा तु मरीच्यादीनि विन्यसेत् ।
मरीचं प्रस्थपादं च त्रिगुणं(णां?) रजनीं क्षिपेत्

14.61

सर्षपं द्विगुणं चैव तदर्धं जीरकं क्षिपेत् ।
द्रोणस्यैवं मया प्रोक्तं शेषं युक्त्या प्रयोजयेत्

14.62

इति भागोत्तरं प्रोक्तं हरिद्रान्नस्य ते मया ।
उपदंशान् प्रवक्ष्यामि शृणुष्व मुनिसत्तम

14.63

गन्धवर्णरसोपेतं वस्त्रपूतं घृतं नवम् ।
द्वात्रिंशदंशमाज्यं स्यात् गृह्णीयादत्र गोघृतम्

14.64

षोडशांशं तु गुल्माषं तदर्धं गुलमिष्यते ।
पक्वयुक्फलमूलं च सर्वं लवणमिश्रितम्

14.65

घृतेन पाचयेत् सम्यक् तप्तकाञ्चनवन्मुने ।
मरीचै रजनीमिश्रैः सर्षपैश्च महामुने

14.66

पाचयित्वोपदंशानि देवेशाय निवेदयेत् ।
शेषाणिं चोपदंशानि यजमानेच्छया पचेत्

14.67

दधिखण्डरसैर्युक्तमष्टांशकमुदाहृतम् ।
सूपं चैव तथा कुर्यात् यथावित्तानुसारतः(?)

14.68

अतस्तत् परिमाणं तु वक्ष्यामि मुनिसत्तम ।
यजमानेच्छया तस्मिन् गोदधि गृह्य साधकः

14.69

तदर्धं तु गुलं क्षिप्त्वा तथा खण्डरसं क्षिपेत् ।
तस्याभावे तु सर्पिः स्यात् मरीचं निशि(?)चूर्णकम्

14.70

विन्यसेत् पाचितं ह्येतत् सूपं तत्र यथाविधि ।
कदलीपनसाम्राणां परिपक्वफलानि च

14.71

आम्रं चैवोपदंशं स्यात् शृणु पक्वोपदंशकान् ।
कदलीपनसं चैव कारवल्लीद्वयं तथा

14.72

कर्कवल्लीद्वयं चैव कूष्माण्डोर्वारुकं तथा ।
बृहतीं कृष्णबृहतीं करवर्तं तथैव च

14.73

कर्करीं क्षुद्रबृहतीमलसन्तीद्वयं तथा ।
तथा कृष्णालसन्ती च ग्राह्याणि मधुराणि च

14.74

मधुरेषु च सर्वेषु तालमेकं तु वर्जयेत् ।
कदलीपनसाद्येषु(-द्यानां?)सारमुद्धृत्य नारद

14.75

पात्रे निक्षिप्य देवाय दद्याच्चर्मादि वर्जयेत् ।
वर्जितं वर्जयेद्यत्नान्निवेदयति चेन्मुने

14.76

तत्पूजा निष्फला याति सर्वरोगविवृद्धिकृत् ।
तस्माच्चर्मादि यत्नेन वर्जयेद्वर्जितं सदा

14.77

कुलुत्थमाषनिष्पावं वर्जयेद्द्वे(-द्द्वि?) दलेषु च ।
मुद्गद्वयं च शीबं च तथा कृष्णालसन्ति च (-काम्?)

14.78

शर्कराद्वयसंयुक्तं सम्यक्पक्वं सुशीतलम् ।
अन्नोपरि विनिक्षिप्य देवदेवं निवेदयेत्

14.79

कोशातकीमलाबुं च पत्रजातीश्च वर्जयेत् ।
फलानि कथितान्यत्र मूलानि शृणु तत्परम्

14.80

वल्ली चैव महावल्ली वनवल्ली तथैव च ।
पिण्डा चैव महापिण्डा क्षुद्रपिण्डा तथैव च

14.81

सुगन्धोत्पलकन्दं च देवेशस्य प्रियं शुभम् ।
ग्राह्याणि मूलान्येतानि देवदेवं निवेदयेत्

14.82

अलाभे शेष (सर्व?) मूलानि (-नां?) वर्जयेद्वनसूरणम् ।
तथैव नित्यपूजायां सूरणं मुनिसत्तम

14.83

लोभान्मोहान्निवेद्यं चेत् (?) तत्पूजा निष्फला भवेत् ।
तस्मात् प्रयत्नतो वर्ज्यं सूरणं परिवर्जयेत्

14.84

काम्ये महोत्सवे चैव महान्ने तु महामुने ।
यजमानेच्छया तस्मिन् (?) सूरणं तु निवेदयेत्

14.85

विष्णुश्चैव महाविष्णुस्तथैव च महामुने ।
तृप्यत्व(न्त्य?)त्र महान्नेन हृष्टा गृह्णन्ति तच्चरुम्

14.86

कटुकाश्च तथाम्लाश्च तिक्ताश्चेति विशेषतः ।
यथालाभोपदंशेन पाचयेल्लक्षणैर्युतम्

14.87

मरीचिं निशिचूर्णं च तन्मध्ये कुडुबं क्षिपेत् ।
आम्लोपदंशमित्याहुः सर्वसंपत् सुखावहम्

14.88

कथितानि निवेद्यानि नान्यानि तु कथंचन ।
पात्राणि च शरावाणि बाह्यशुद्धिश्च कारयेत्

14.89

सर्वपात्रेषु बाह्येषु ऊर्ध्वपुण्ड्रं च भस्मना ।
कारयेन्मूर्तिमन्त्रेण पूर्वादिषु यथाक्रमम्

14.90

शरावे विष्णुमन्त्रेण पूर्वपात्रे (-भागे?) तु लाच्छयेत् ।
महानसं समारभ्य गर्भगेहावसानकम्

14.91

प्रथमेन जलैः प्रोक्ष्य भाण्डानुत्थापयेत् क्रमात् ।
तेन मन्त्रेण मतिमान् सर्वानुत्थापयेत् क्रमात्

14.92

एतस्मिन्नेव काले तु शङ्खं दध्मु (?) स्त्रिभिः पृथक् ।
द्वारस्योत्तरपार्श्वे तु न्यसेत् पात्राणि सर्वशः

14.93

सौवर्णं राजतं ताम्रमथवा कदलीदलम् ।
शुद्धकांस्येन वा कुर्यात् पात्रं शतपलेन तु

14.94

तदर्धं वा मुनिश्रेष्ठ द्वात्रिंशत् पलेन (-लकेन?) वा ।
यथावित्तानुसारेण (?) पात्रं संगृह्य साधकः

14.95

दर्वीघनं (?) समादाय आज्येनैवाभिघारयेत् ।
अन्नेन पूरयेत् पात्रं गुल्माषेण गुडेन च

14.96

पलेनाज्येन दध्ना च सोपदंशं निवेदयेत् ।
चतुर्धास्मिन् विभज्यैकं भागं देवाय कल्पयेत्

14.97

देवार्थं कल्पितं भागं देवेशाय निवेदयेत् ।
निवेद्य काले तन्त्रज्ञः अर्घ्यपाद्यादिकं ददेत्

14.98

पुष्पं दत्वा नमस्कृत्य हरेः पादौ तु साधकः ।
हस्तप्रक्षालनं कृत्वा देवस्यास्त्रेण मन्त्रवित्

14.99

परिषेकं ततः कृत्वा पूर्ववत् साधकोत्तमः ।
कृत्वा सु(स्व?)पाणी प्रक्षाल्य मूलमन्त्रेण संस्पृशेत्

14.100

शेषं तु पूर्ववत् कृत्वा हविराद्यं महामुने ।
स्वस्तिकासनसंयुक्ते देशिकोपेन्द्रतो मुखः

14.101

दक्षिणे करशाखासु पञ्चोपनिषदं न्यसेत् ।
निवेदयेद्धविस्तस्मिन् पञ्चधा परमेष्ठिना

14.102

नमस्कृत्य जपेत् पश्चात् पञ्चोपनिषदा मुने ।
पाणिं प्रक्षाल्य यत्नेन पृथक् पात्रे निवेदयेत्

14.103

शङ्खदुन्दुभिसुयंक्तं नृत्तगेयसमन्वितम् ।
देवदेवस्य देवर्षे नित्ये नैमित्तिके पुनः

14.104

धूपं सुधूपितं भक्त्या पुनर्दधि निवेदयेत् ।
पानीयं च पुनर्दत्वा केलिपात्रे ऽमले शुभे

14.105

तर्पणं पुनराचामं दत्वा तत्तत्प्रतिग्रहे ।
गन्धपिष्टैःसमुद्वर्त्य पाणिं सुश्वेतवाससा

14.106

आच्छाद्य गन्धकल्केन पुनराचमनं ददेत् ।
मुखवासं ततो दत्वा विधिवत् साधकोत्तमः

14.107

पुनर्द्वितीयभागेन हविषा मूलविद्यया ।
जुहुयादग्निकुण्डे तु समिदाज्यपुरःसरम्

14.108

तृतीयेन बलिं दद्यात् प्राड्मुखो वाप्युदङ्मुखः ।
पुनर्दत्वा जलं सम्यक् नमस्कृत्य प्रदक्षिणम्

14.109

दत्वा तद्बलिशेषं तु बलिपीठे विनिक्षिपेत् ।
तुर्यभागं तु संगृह्य आचार्यो मन्त्रवित्तमः

14.110

प्राशयेत् प्राङ्मुखो भूत्वा पात्रशेषमनुत्तमम् ।
तच्छेषं सर्वपापघ्नं सर्वरोगनिकृन्तनम्

14.111

सर्वतीर्थप्रदं तस्माद्भक्षयेच्छेदषमुत्तमम् ।
आलयस्योत्तरे वापि नैरृते वापि मन्त्रवित्

14.112

भुक्त्वा चैव मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ।
नित्यपूजाविधौ ब्रह्मन् चरुपाकविधौ क्रमात्

14.113

एवमुक्तप्रकारेण कारयेत्तु दिने दिने ।
महाहविर्विधिं वक्ष्ये ह्यष्टद्रोणं कनीयसम्

14.114

द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चाधमोत्तमम् ।
चतुः पञ्चगुणं षट्कं मध्यमस्य त्रयं विदुः

14.115

सप्ताष्टनवमं प्रोक्तमुत्तमस्य त्रयं विदुः ।
पूर्ववत् पाचयित्वा तु सर्वानुत्थापयेत् पृथक्

14.116

मण्डपस्योत्तरे भागे न्यसेद्भाण्डान्यथ क्रमात् ।
नैरृते वारुणे वापि विन्यसेच्च महाहविः

14.117

मण्डपं चतुरश्रं तु कृत्वालंकृत्य चाक्षतैः ।
पिष्टचूर्णैरलंकृत्य पद्मं कुर्यात् सकर्णिकम्

14.118

पटेनाच्छाद्य भूमिं तु रम्भापत्राणि चोपरि ।
स्नानादिदेवकर्माणि पूर्ववत् कारयेत् क्रमात्

14.119

देवस्नय पुरतः कृत्वा कार्यं विज्ञापयेच्छनैः ।
पीठादुत्थाप्य देवेशं पादुकाभ्यामुपासकः

14.120

शङ्खध्वनिसमायुक्तमानयेद्भोजनासनम् ।
पाद्यार्घ्याचमनं दत्वा गन्धपुष्पैः प्रपूजयेत्

14.121

प्रोक्षयित्वाभिघार्याथ चरुपात्राणि चैव हि ।
पायसं कृसरं गौल्यं मुद्गान्नं च यथाक्रमम्

14.122

शुद्धान्नं चैव सूपान्नं द(दा?)धिकं च महाहविः ।
आज्यं च गुडखण्डं च कदल्यादिफलत्रयम्

14.123

आज्यपक्वोपदंशं च पात्रे सर्वं निवेदयेत् ।
परिषेकं ततः कृत्वा ह्यन्नसूक्तेन संस्पृशेत्

14.124

दद्यात्तद्दक्षिणे हस्ते हविः प्राशनमुद्रया ।
सुगन्धं स्वादुतोयं च दत्वा पानीयमुत्तमम्

14.125

पुनराचमनं दत्वा वस्त्रेण प्रमृजेत् करौ ।
गन्धकल्केन संमृज्य ततः पीठान्तरं नयेत्

14.126

पूर्वमालां विमुक्त्वा तु (-च्याथ?)वेष्टयेन्मालया पुनः ।
पुनराचमनं दत्वा हस्तौ संशोध्य वाससा

14.127

पृथुकान्युपहाराणि अपूपान्तं निवेदयेत् ।
नालिकेरफलं दत्वा पानीयाचमनं ततः

14.128

पुनराचमनं दत्वा मुखवासं निवेदयेत् ।
क्रमुकस्तु फलं भिन्नमपक्वं पक्वमेव वा

14.129

कर्पूरतैलैः संसिक्तमसिक्तं वा मुनीश्वर ।
ताम्बूलवल्लीपत्रैश्च सहितं क्षालितं क्रमात्

14.130

एलाकक्कोलजातीश्च कर्पूरसहितं क्रमात् ।
मातुलुङ्गफलैर्युक्तं नालिकेरुलान्वितम्

14.131

शिला(सिता?)चूर्णेन संयुक्तं कर्पूरसहितेन च ।
संस्कृतं प्रणवेनैव मुखवासं निवेदयेत्

14.132

दत्वा च राजवत् सम्यक् पितृवत् पूजयेद्धरिम् ।
पीठादुत्थाप्नय देवेशं प्रासादं तु परिभ्रमेत्

14.133

शङ्खदुन्दुभिसंयुक्तं स्वस्तिसूक्तसमन्वितम् ।
प्रासादं तु परिभ्राम्य गर्भागारं प्रवेशयेत्

14.134

महाहविर्विधिः प्रोक्तः संक्षेपेण महामुने ।
विशेषतः प्रवक्ष्यामि महान्नस्य विधिं क्रमात्

14.135

गुह्याद्गुह्यं मुनिश्रेष्ठ शृणु नारद सत्तम ।
चरुपाकविधानोक्तैः पूर्वोक्तैर्हव्यवृद्धिदानैश्च

14.136

समुपेतं शालीनां दशशतकैस्तण्डुलप्रस्थैः ।
सिद्धं महाहविः स्यात्तु तदर्धं मध्यमं स्मृतम्

14.137

तस्याप्यर्धकृतं यत्तदधममुक्तं महाहविसतज्ज्ञैः ।
दुग्धानां तु गवां स्यादाढकषटकं गुणं चतुष्षष्टि

14.138

फलं सर्पिस्तथाढकं स्यात्पञ्चप्रस्थमुद्गान्नम् ।
(पलसर्पिराढकं स्यात् पञ्चप्रस्थं च मुद्गान्नम्?) ।
दलितानां शुद्धानां तोयं स्यादाढकद्वितयम्

14.139

कंसद्वितयं (?) शाल्यास्तण्डुलमिष्टं पयोगुलान्नविधौ ।
एतद्वरमस्यार्धं मध्यममस्यार्धमधमं स्यात्

14.140

पायसमेतद्विधिना गुलसर्पिभ्यां विना पक्वम् ।
समुद्गसारपक्वं शाल्यन्नं मुद्गसारान्नसमम्

14.141

गुलपिष्टं सिद्धं सर्पिभ्यामपूपमुद्दिष्टम् ।
कक्कोलैर्जातिफलैः पूगफलैः श्वेतभुजगपत्रैः

14.142

पाषाणचूर्णमिश्रं समातुलुङ्गदलनालिकेरफलम् ।
कर्पूरतैलमिश्रं संस्वङ्गं कथ्यते मुखवाससम्

14.143

एलाचम्पककेतक्या वासितं तु पानीयम् ।
कथितं यत्त्रिदशमुने महानिवेद्यादि तन्निखिलम्

14.144

सिद्धं देवगृहे वा तत्पार्श्वे वा[पि]मन्त्रयोग्यं स्यात् ।
यो मोहादन्यगृहे सिद्धं देवाय मन्त्रेण

14.145

हविराद्यं तु हि दद्यात् स किल्बिषी राष्ट्रनाशी स्यात् ।
भक्तैरन्यत्रापि क्वापि पक्वं समागतं यद्यत्

14.146

बिम्बस्याग्रे तत्तत् प्रदर्श्य दद्याद्धि पक्वेभ्यः ।
एतत् कृत्वा सम्यङ्महाहविः प्रियतमं तु हरेः

14.147

भक्तःसामीप्यं मध्यमकृत् ......... ।
सारूप्यं चाधमं च सालोक्यं परमम्

14.148

पयोदिगुलान्नं निवेद्य भक्त्या हरैति शान्तिम् (?) ।
परमांशश्च मध्यमं ह्येति सर्वकामानि (?)

14.149

विशेषश्चात्र संप्रोक्तः महान्नादिविधौ मुने ।
शेषं साधारणं कुर्या(विद्या?)दिति शास्त्रस्य निश्चयः

14.150

महाहविविधौ चात्र द्विविधं मानमीरितम् ।
द्विप्रकारं तु तन्त्रज्ञो यथायोगं समाचरेत्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc