भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुवर्णनम् · अध्याय 1

33

पूर्वः
श्रूयतामभिधास्यामि यं त्वं पृच्छसि रावण ।
य एष पुरुषः श्यामो द्वारि तिष्ठति नित्यदा

34

एतेन दानवेन्द्राश्च तथाऽन्ये बलवत्तराः ।
वशं नीता बलवता पूर्वं पूर्वतराश्च ये

35

बद्धश्चाहमनेनैवं कृतान्तो दुरतिक्रमः ।
क एनं पुरुषो लोके वञ्चयिष्यति रावण

36

सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ।
कर्ता कारयिता चैव धाता च भुवनेश्वरः

37

न त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् ।
कलिश्चैव हि कालश्च सर्वभूतापहारकः

38

लोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च ।
संहरत्येष भूतानि स्थावराणि चराणि च

39

पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ।
करणं कारणं कर्ता सोयं पुरुषसत्तमः

40

इष्टं चैव हि दत्तं च हुतं चैव निशाचर ।
सर्वमेव हि लोकेशो धाता गोप्ता न संशयः

41

नैवंविधं महद्भुतं विद्यते भुवनत्रये

42

अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः ।
नेता तेषां महात्मैष पशुं रशनया यथा

43

वृत्रो दनुः शुकः शुम्भो निशुम्भो दम्भुरेव च ।
कालनेमिश्च प्रह्लादस्तथा वैरोचनो बलिः

44

कालकेयस्तारकाख्यो मुचुकुन्दो विवर्धनः ।
हिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ

45

यमलार्जुनौ च कंसश्च कैटभो मधुना सह ।
एते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि

46

सर्वैः क्रतुशतैरिष्टं सर्वैस्तप्तं महत्तपः ।
सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः

47

सर्वैरैश्वर्यमासाद्य भुक्तभोगैर्महत्तरैः ।
दत्तमिष्टमधीतं च प्रजाश्च परिपालिताः

48

स्वपक्षेष्वनुगोप्तारः प्रहर्तारः परेष्वपि ।
समरेष्वपि लोकेषु नैतेषां विद्यते समः

49

शूरास्त्वभिजनोपेताः सर्वशस्त्रास्त्रपारगाः ।
सर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः

50

सर्वैस्त्रिदशराज्यानि काङ्क्षितानि महात्मभिः ।
युद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः

51

देवानामपि ये शक्ताः स्वपक्षपरिपालकाः ।
प्रमत्ता भोगरक्ताश्च बालार्कसमतेजसः

52

यत्स देवान्प्रधर्षेत तदेष विष्णुरीश्वरः ।
उपायपूर्वकं नाशं संवेत्ता भगवान्हरिः

53

प्रादुर्भावं विकुरुते येनैतन्निधनं नयेत् ।
पुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति

54

एवमेतेन देवेन दानवेन्द्रा महात्मना ।
ते हि सर्वे क्षयं नीता बलिना कामरूपिणा

55

समरे च दुराधर्षा नृपास्ते च पराजिताः ।
तेन नीताः क्षयं सर्वे कृतान्तबलचोदिताः

79

उत्तरः
एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति

80

रावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत् ।
एष त्रैलोक्यधाता च हरिर्नारायणः प्रभुः

81

अनन्तः कपिलो विष्णुर्नारसिंहो महाद्युतिः ।
ऋतधामा सुधामा च पाशहस्तो भयानकः ।
द्वादशादित्यसदृशः पुराणपुरुषोत्तमः

82

नीलजीमूतसंकाशः सुरनाथः सुरोत्तमः ।
ज्वालामाली महाबाहुर्योगी भक्तजनप्रियः

83

एष धारयते लोकानेष वै सृजते प्रभुः ।
एष संहरते चैव कालो भूत्वा महाबलः

84

एष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः ।
सर्वदेवमयश्चैव सर्वभूतमयस्तथा

85

सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ।
सर्वरूपी महारूपी बलदेवो महाभुजः

86

वीरहा वीरचक्षुष्मांस्त्रैलोक्यगुरुरव्ययः ।
एवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः

87

य एनं वेत्ति पुरुषं न च पापैर्विलिप्यते ।
स्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्यते

मूल पाठ: viṣṇuvarṇanam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc