विष्णुस्मृति · अध्याय 93
न वार्य् अपि प्रयच्छेत बैडालव्रतिके द्विजे
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥
धर्मध्वजी सदा लुब्धश् छाद्मिको लोकदाम्भिकः
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥
अधोदृष्टिर् नैकृतिकः स्वार्थसाधनतत्परः
शठो मिथ्याविनीतश् च बकव्रतपरो द्विजः ॥
ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः
ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत्
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः
छद्मनाचरितं यच् च व्रतं रक्षांसि गच्छति ॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति
स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ प्रजायते ॥
न दानं यशसे दद्यान् न भयान् नोपकारिणे
न नृत्यगीतशीलेभ्यो धर्मार्थम् इति निश्चितम् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0