भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 8

8.36

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते ॥

8.37

जानन्तो ऽपि हि ये साक्ष्ये तूष्णींभूता उदासते
ते कूटसाक्षिणां पापैस् तुल्या दण्डेन चाप्य् अथ ॥

8.38

एवं हि साक्षिणः पृच्छेद् वर्णानुक्रमतो नृपः ॥

8.39

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्
अन्यथा वादिनो यस्य ध्रुवस् तस्य पराजयः ॥

8.40

बहुत्वं प्रतिगृह्णीयात् साक्षिद्वैधे नराधिपः
समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥

8.41

यस्मिन् यस्मिन् विवादे तु कूटसाक्ष्य् अनृतं वदेत्
तत्तत्कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc