भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 5

5.184

एको ऽश्नीयाद् यद् उत्पन्नं नरः संवत्सरं फलम्
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥

5.185

ययोर् निक्षिप्त आधिस् तौ विवदेतां यदा नरौ
यस्य भुक्तिः फलं तस्य बलात् कारं विना कृता ॥

5.186

सागमेन तु भोगेन भुक्तं सम्यग् यदा तु यत्
आहर्ता लभते तत्र नापहार्यं तु तत् क्वचित् ॥

5.187

पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः
तस्मिन् प्रेते न वाच्यो ऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥

5.188

त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथाविधि
लेख्याभावे ऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥

5.189

नखिनां शृङ्गिणां चैव दंष्ट्रिणाम् आततायिनाम्
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥

5.190

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥

5.191

नाततायिवधे दोषो हन्तुर् भवति कश्चन
प्रकाशं वाप्रकाशं वा मन्युस् तन् मन्युम् ऋच्छति ॥

5.192

उद्यतासिविषाग्निं च शापोद्यतकरं तथा
आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥

5.193

भार्यातिक्रमिणं चैव विद्यात् सप्ताततायिनः
यशोवित्तहरान् अन्यान् आहुर् धर्मार्थहारकान् ॥

5.194

उद्देशतस् ते कथितो धरे दण्डविधिर् मया
सर्वेषाम् अपराधानां विस्तराद् अतिविस्तरः ॥

5.195

अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः
दण्डं प्रकल्पयेद् राजा संमन्त्र्य ब्राह्मणैः सह ॥

5.196

दण्ड्यं प्रमोचयन् दण्ड्याद् द्विगुणं दण्डम् आवहेत्
नियुक्तश् चाप्य् अदण्ड्यानां दण्डकारी नराधमः ॥

5.197

यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक्
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc