विष्णुस्मृति · अध्याय 6
यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम्
न दद्याल् लोभतः पश्चात् तथा वृद्धिम् अवाप्नुयात् ॥
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥
बहवश् चेत् प्रतिभुवो दद्युस् ते ऽर्थं यथाकृतम्
अर्थे ऽविशेषिते त्व् एषु धनिकच्छन्दतः क्रिया ॥
यम् अर्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः
ऋणिकस् तं प्रतिभुवे द्विगुणं दातुम् अर्हति ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0