भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 48

48.6

ब्रह्मा देवानां पदवीः कवीनाम् ऋषिर् विप्राणां महिषो मृगाणाम्
श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्येति रेभन् ॥

48.17

यवो ऽसि धान्यराजो ऽसि वारुणो मधुसंयुतः
निर्णोदः सर्वपापानां पवित्रम् ऋषिभिर् धृतम् ॥

48.18

घृतं यवा मधु यवा आपो वा अमृतं यवाः
सर्वे पुनीत मे पापं यन् मे किंचन दुष्कृतम् ॥

48.19

वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम्
अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम ॥

48.20

श्वसूकरावलीढं च उच्छिष्टोपहतं च यत्
मातापित्रोर् अशुश्रूषां तत् पुनीध्वं यवा मम ॥

48.21

गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम्
चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम ॥

48.22

बालधूर्तम् अधर्मं च राजद्वारकृतं च यत्
सुवर्णस्तैन्यम् अव्रात्यम् अयाज्यस्य च याजनम्
ब्राह्मणानां परीवादं पुनीध्वं च यवा मम ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc