भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 18

18.41

विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥

18.42

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत्
स्वयम् ईहितलब्धं तन् नाकामो दातुम् अर्हति ॥

18.43

पैतृकं तु यदा द्रव्यम् अनवाप्तं यद् आप्नुयात्
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥

18.44

वस्त्रं पत्रम् अलंकारः कृतान्नम् उदकं स्त्रियः
योगक्षेमं प्रचारश् च न विभाज्यं च पुस्तकम् ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc