ग्रंथ पाठ
विष्णुस्मृति · अध्याय 17
17.17
संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः
दद्याद् अपहरेच् चांशं जातस्य च मृतस्य च ॥
17.22
पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत्
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥
17.23
अनेकपितृकाणां तु पितृतो ऽंशप्रकल्पना
यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नेतरः ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0