भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 13

13.5

विषं वेगक्लमापेतं सुखेन यदि जीर्यते
विशुद्धं तम् इति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥

13.6

विषत्वाद् विषमत्वाच् च क्रूरं त्वं सर्वदेहिनाम्
त्वम् एव विष जानीषे न विदुर् यानि मानुषाः ॥

13.7

व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc