विष्णुस्मृति · अध्याय 1
ब्रह्मरात्र्यां व्यतीतायां प्रबुद्धे पद्मसंभवे
विष्णुः सिसृक्षुर् भूतानि ज्ञात्वा भूमिं जलानुगाम् ॥
जलक्रीडारुचि शुभं कल्पाधिषु यथा पुरा
वाराहम् आस्थितो रूपम् उज्जहार वसुंधराम् ॥
वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥
अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥
धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः
प्रायश्चित्तमहाघोणः पशुजानुर् महाकृतिः ॥
उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः
वेद्यन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥
वेदिस्कन्धो हविर् गन्धो हव्यकव्यादिवेगवान्
प्राग्वंषकायो द्युतिमान् नानादीक्षाभिर् अन्वितः ॥
दक्षिणाहृदयो योग महामन्त्रमयो महान्
उपाकर्मोष्ठरुचिरः प्रवर्ग्यावर्तभूषणः ॥
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः
छायापत्नीसहायो वै मणिशृङ्ग इवोदितः ॥
महीं सागरपर्यन्तां सशैलवनकाननां
एकार्णवजलभ्रष्टाम् एकार्णवगतः प्रभुः ॥
दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया
आदिदेवो महायोगी चकार जगतीं पुनः ॥
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना
उद्धृता पृथिवी देवी रसातलगता पुरा ॥
उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके
यथास्थानं विभज्यापस् तद्गता मधुसूदनः ॥
सामुद्र्यश् च समुद्रेषु नादेयीश् च नदीषु च
पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः ॥
पातालसप्तकं चक्रे लोकानां सप्तकं तथा
द्वीपानाम् उदधीनां च स्थानानि विविधानि च ॥
स्थानपालान् लोकपालान् नदीः शैलवनस्पतीन्
ऋषींश् च सप्त धर्मज्ञान् वेदान् सान्ङान् सुरासुरान् ॥
पिशाचोरगगन्धर्व यक्षराक्षसमानुषान्
पशुपक्षिमृगाद्यांश् च भूतग्रामं चतुर्विधम्
मेघेन्द्रचापशम्पाद्यान् यज्ञांश् च विविधांस् तथा ॥
एवं वराहो भगवान् कृत्वेदं सचराचरम्
जगज् जगाम लोकानाम् अविज्ञातां तदा गतिम् ॥
अविज्ञातां गतिं याते देवदेवे जनार्दने
वसुधा चिन्तयाम् आस का धृतिर् मे भविष्यति ॥
पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्य् असंशयम्
मदीयां वहते चिन्तां नित्यम् एव महामुनिः ॥
एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी
जगाम कश्यपं द्रष्टुं दृष्टवांस् तां च कश्यपः ॥
नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम्
अलिसंघालकां शुभ्रां बन्धुजीवाधरां शुभाम् ॥
सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतभ्रुवम्
कम्बुकण्ठीं संहतोरूं पीनोरुजघनस्थलाम् ॥
विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ
शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती ॥
मृणालकोमलौ बाहू करौ किसलयोपमौ
रुक्मस्तम्भनिभाव् ऊरू गूढे श्लिष्टे च जानुनी ॥
जङ्घे विरोमे सुसमे पादाव् अतिमनोरमौ
जघनं च घनं मध्यं यथा केसरिणः शिशोः ॥
प्रभायुता नखास् ताम्रा रूपं सर्वमनोहरम्
कुर्वाणां वीक्षितैर् नित्यं नीलोत्पलयुता दिशः ॥
कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः
सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषितां ॥
पदन्यासैर् वसुमतीं सपद्माम् इव कुर्वतीं
रूपयौवनसंपन्नां विनीतवद् उपस्थिताम् ॥
समीपम् आगतां दृष्ट्वा पूजयित्वाथ कश्यपः
उवाच तां वरारोहे विज्ञातं हृद्गतं मया ॥
धरे तव विशालाक्षि गच्छ देवि जनार्दनम्
स ते वक्ष्यत्य् अशेषेण भाविनी ते यथा धृतिः ॥
क्षीरोदे वसतिस् तस्य मया ज्ञाता शुभानने
ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः ॥
इत्य् एवम् उक्ता संपूज्य कश्यपं वसुधा ततः
प्रययौ केशवं द्रष्टुं क्षीरोदम् अथ सागरम् ॥
सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम्
पवनक्षोभसंजात वीचीशतसमाकुलम् ॥
हिमवच्छतसंकाशं भूमण्डलम् इवापरम्
वीचीहस्तैः प्रचलितैर् आह्वयानम् इव क्षितिम् ॥
तैर् एव शुक्लतां चन्द्रे विदधानम् इवानिशम्
अन्तरस्थेन हरिणा विगताशेषकल्मषम् ॥
यस्मात् तस्माद् धारयन्तं सुशुक्लां तनुम् ऊर्जिताम्
पाण्डुरं खगमागम्यम् अधोभुवनवर्तिनम् ॥
इन्द्रनीलकडाराढ्यं विपरीतम् इवाम्बरम्
फलावलीसमुद्भूत वनसंघम् इवाचितम् ॥
निर्मोकम् इव शेषाहेर् विस्तीर्णान्तम् अतीव हि
तं दृष्ट्वा तत्र मध्यस्थं दडृशे केशवालयम् ॥
अनिर्देश्यपरीमाणम् अनिर्देश्यर्द्धिसंयुतम्
शेषपर्यङ्कगं तस्मिन् ददर्श मधुसूदनम् ॥
शेषाहिफणरत्नांशु दुर्विभाव्यमुखाम्बुजम्
शशाङ्कशतसंकाशं सूर्यायुतसमप्रभम् ॥
पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम् [सवरत्न]
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥
संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः
शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥
तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम्
जानुभ्याम् अवनिं गत्वा विज्ञापयति चाप्य् अथ ॥
उद्धृताहं त्वया देव रसातलतलं गता
स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया ॥
तत्राधुना हि देवेश का धृतिर् मे भविष्यति
एवम् उक्तस् तया देव्या देवो वचनम् अब्रवीत् ॥
वर्णाश्रमाचाररताः सन्तः शास्त्रैकतत्पराः
त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः ॥
एवम् उक्ता वसुमती देवदेवम् अभाषत
वर्णानाम् आश्रमाणां च धर्मान् वद सनातन ॥
त्वत्तो ऽहम् श्रोतुम् इच्छामि त्वं हि मे परमा गतिः
नमस् ते देवदेवेश देवारिबलसूदन ॥
नारायण जगन्नाथ शङ्खचक्रगदाधर
पद्मनाभ हृषीकेश महाबलपराक्रम ॥
अतीन्द्रिय सुदुष्पार देव शार्ङ्गधनुर्धर
वराह भीम गोविन्द पुराण पुरुषोत्तम ॥
हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन
क्षेत्रक्षेत्रज्ञदेवेश सलिलार्णवशायक ॥
मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह
जगतो ऽस्य समग्रस्य सृष्टिसंहारकारक ॥
धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद
विष्वक्सेनामृत व्योम मधुकैटभसूदन ॥
बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद
वरेण्यानघ जीमूत जगन्निर्माणकारक ॥
आप्यायन अपां स्थान चैतन्याधार निष्क्रिय
सप्तशीर्षाध्वरगुरो पुराणपुरुषोत्तम ॥
ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन
त्वं गतिः सर्वदेवानां त्वं गतिर् ब्रह्मवादिनाम् ॥
तथा विदितवेद्यानां गतिस् त्वं पुरुषोत्तम
प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् ॥
सुब्रह्मण्यम् अनाधृष्यं वसुषेणं वसुप्रदम्
महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् ॥
वासुदेवं महात्मानं पुण्डरीकाक्षं अच्युतम्
सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ॥
एकव्यूहं चतुर्बाहुं जगत्कारणकारणम्
ब्रूहि मे भगवन् धर्मांश् चातुर्वर्ण्यस्य शाश्वतान् ॥
आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान्
एवम् उक्तस् तु देवेशः क्षोण्या क्षोणीम् अभाषत ॥
शृणु देवि धरे धर्मांश् चातुर्वर्ण्यस्य शाश्वतान्
आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् ॥
ये तु त्वां धारयिष्यन्ति सन्तस् तेषां परायणान्
निषण्णा भव वामोरु काञ्चने ऽस्मिन् वरासने ॥
सुखासीना निबोध त्वं धर्मान् निगदतो मम
शुश्रुवे वैष्णवान् धर्मान् सुखासीना धरा तदा ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0