विष्णुपुराण (समीक्षित संस्करण) · अध्याय 4.15
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना
अवाप निहतो भोगान् अप्राप्यान् अमरैर् अपि ॥
न लयं तत्र तेनैव निहतः स कथं पुनः
संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥
एतद् इच्छाम्य् अहं श्रोतुं सर्वधर्मभृतां वर
कौतूहलपरेणैतत् पृष्टो मे वक्तुम् अर्हसि ॥
तिस्रः कोट्यः सहस्राणाम् अष्टाशीतिशतानि च
कुमाराणां गृहाचार्याश् चापयोग्यासु ये रताः ॥
संख्यानं यादवानां कः करिष्यति महात्मनाम्
यत्रायुतानाम् अयुतं लक्षेणास्ते सदाहुकः ॥
देवासुरहता ये तु दैतेयाः सुमहाबलाः
ते चोत्पन्ना मनुष्येषु जनोपद्रवकारिणः ॥
तेषाम् उत्सादनार्थाय भुवि देवा यदोः कुले
अवतीर्णाः कुलशतं यत्रैकाभ्यधिकं द्विज ॥
विष्णुस् तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः
निदेशस्थायिनस् तस्य बभूवुः सर्वयादवाः ॥
प्रसूतिं वृष्णिवीराणां यः शृणोति नरः सदा
स सर्वैः पातकैर् मुक्तो विष्णुलोकं प्रपद्यते ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0