विष्णुधर्म · भाग 81100
वैकुण्ठं कन्ठमध्यस्थम्__व्ध_028.*(18).030
अनन्तं नासिकोपरि__व्ध_028.*(18).030
दक्षिणे तु भुजे विप्र__व्ध_028.*(18).031
विन्यसेत् पुरुषोत्तमम्__व्ध_028.*(18).031
वामभुजे महाभागं__व्ध_028.*(18).032
राघवं हृदि विन्यसेत्__व्ध_028.*(18).032
पीताम्बरं सर्वतनौ__व्ध_028.*(18).033
हरिं नाभौ तु विन्यसेत्__व्ध_028.*(18).033
करे तु दक्षिणे विप्र__व्ध_028.*(18).034
ततः संकर्षणं न्यसेत्__व्ध_028.*(18).034
वामे विप्र हरिं विद्यात्__व्ध_028.*(18).035
कटिमध्ये ऽपराजितम्__व्ध_028.*(18).035
पृष्ठे क्षितिधरं विद्याद्__व्ध_028.*(18).036
अच्युतं स्कन्धयोर् अपि__व्ध_028.*(18).036
माधवं बाहु कुक्षौ तु__व्ध_028.*(18).037
दक्षिणे योगशायिनम्__व्ध_028.*(18).037
स्वयंभुवं मेढ्रमध्ये__व्ध_028.*(18).038
ऊरुभ्यां तु गदाधरम्__व्ध_028.*(18).038
चक्रिणं जानुमध्ये तु__व्ध_028.*(18).039
जङ्घयोर् अच्युतं न्यसेत्__व्ध_028.*(18).039
गुल्पयोर् नरसिंहं च__व्ध_028.*(18).040
पादपृष्ठे ऽमितौजसम्__व्ध_028.*(18).040
श्रीधरं चाङ्गुलीषु स्यात्__व्ध_028.*(18).041
पद्माक्षं सर्वसन्धिषु__व्ध_028.*(18).041
रोमकूपे गुडाकेशं__व्ध_028.*(18).042
कृष्णं रक्तास्थिमज्जासु__व्ध_028.*(18).042
मनोबुद्ध्योर् अहंकारेष्व्__व्ध_028.*(18).043
एवं चित्ते जनार्दनम्__व्ध_028.*(18).043
नखेषु माधवं चैव__व्ध_028.*(18).044
न्यसेत् पादतले ऽच्युतम्__व्ध_028.*(18).044
एवं न्यासविधिं कृत्वा__व्ध_028.*(18).045
साक्षान् नारायणो भवेत्__व्ध_028.*(18).045
तनुर् विष्णुमयी तस्य__व्ध_028.*(18).046
यावत् किंचिन् न भाषते__व्ध_028.*(18).046
एवं न्यासं ततः कृत्वा__व्ध_028.*(18).047
यत् कार्यं शृणु तद् द्विज__व्ध_028.*(18).047
पादमूले तु देवस्य__व्ध_028.*(18).048
शङ्खं तत्रैव विन्यसेत्__व्ध_028.*(18).048
वनमालां तु विन्यस्य__व्ध_028.*(18).049
सर्वदेवाभिपूजिताम्__व्ध_028.*(18).049
गदां वक्षःस्थले चैव__व्ध_028.*(18).050
चक्रं चैव तु पृष्ठतः__व्ध_028.*(18).050
श्रीवत्साङ्गं शिरो न्यस्य__व्ध_028.*(18).051
पञ्चाङ्गकवचं न्यसेत्__व्ध_028.*(18).051
आपादामस्तके चैव__व्ध_028.*(18).052
विन्यसेत् पुरुषोत्तमम्__व्ध_028.*(18).052
ओं अपामार्जनको न्यासः__व्ध_028.*(18).053
सर्वव्याधिविनाशनः__व्ध_028.*(18).053
विष्णुर् ऊर्ध्वम् अधो रक्षेद्__व्ध_028.*(18).054
वैकुण्ठो विदिशो दिशः__व्ध_028.*(18).054
पातु मां सर्वतो रामो__व्ध_028.*(18).055
धन्वी चक्री च केशवः__व्ध_028.*(18).055
पूजाकाले तु देवस्य__व्ध_028.*(18).059
जपकाले तथैव च__व्ध_028.*(18).059
होमारम्भेषु सर्वेषु__व्ध_028.*(18).060
त्रिसंध्यासु च नित्यशः__व्ध_028.*(18).060
आयुर् आरोग्यम् ऐश्वर्यं__व्ध_028.*(18).061
ज्ञानं वित्तं फलं भवेत्__व्ध_028.*(18).061
यद् यत् सुखकरं प्रोक्तं__व्ध_028.*(18).062
तत् सर्वं प्राप्नुयान् नरः__व्ध_028.*(18).062
अभयं सर्वभूतेभ्यो__व्ध_028.*(18).063
विष्णुलोकं च गच्छति__व्ध_028.*(18).063
अथ ध्यानं प्रवक्ष्यामि__व्ध_028.*(18).077
सर्वपापप्रणाशनम्__व्ध_028.*(18).077
वाराहरूपिणं देवं__व्ध_028.*(18).078
संस्मरत्य् अपराजितम्__व्ध_028.*(18).078
बृहत्तनुं बृहद्गात्रं__व्ध_028.*(18).079
बृहद्दंष्ट्रसुशोभनम्__व्ध_028.*(18).079
समस्तवेदवेदाङ्गं__व्ध_028.*(18).080
युक्ताङ्गं भूषणैर् युतम्__व्ध_028.*(18).080
उद्धृत्य भूमिं पातालाद्__व्ध_028.*(18).081
हस्ताभ्याम् उपगृह्णताम्__व्ध_028.*(18).081
आलिङ्ग्य भूमिं शिरसि__व्ध_028.*(18).082
मूर्ध्नि जिघ्रन्तम् आस्थितम्__व्ध_028.*(18).082
रत्नवैडूर्यमुख्याभिर्__व्ध_028.*(18).083
मुक्ताभिर् उपशोभितम्__व्ध_028.*(18).083
पीताम्बरधरं देवं__व्ध_028.*(18).084
शुक्लमाल्यानुलेपनम्__व्ध_028.*(18).084
त्रयस्त्रिंशकोटिदेवैः__व्ध_028.*(18).085
स्तूयमानं मुदानिशम्__व्ध_028.*(18).085
नृत्यद्भिर् अप्सरोभिश् च__व्ध_028.*(18).086
गीयमानं च किन्नरैः__व्ध_028.*(18).086
इत्थं ध्यात्वा महात्मानं__व्ध_028.*(18).087
जपेन् नित्यं महात्मनः__व्ध_028.*(18).087
सुवर्णमण्डपान्तस्थं__व्ध_028.*(18).088
पद्मं ध्यायेत् सकेसरम्__व्ध_028.*(18).088
सकर्णिकदलैर् इष्टैर्__व्ध_028.*(18).089
अष्टभिः परिशोभितम्__व्ध_028.*(18).089
करं करहितं देवं__व्ध_028.*(18).090
पूर्णचन्द्राप्तसुप्रभम्__व्ध_028.*(18).090
तडित्समशटाशोभि__व्ध_028.*(18).091
कण्ठनालोपशोभितम्__व्ध_028.*(18).091
श्रीवत्साङ्कितवक्षःस्थं__व्ध_028.*(18).092
तीक्ष्णदंष्ट्रं त्रिलोचनम्__व्ध_028.*(18).092
जवाकुसुमसंकाशं__व्ध_028.*(18).093
रक्तहस्ततलान्वितम्__व्ध_028.*(18).093
पीतवस्त्रपरीधानं__व्ध_028.*(18).094
शुक्लयस्त्रोत्तरीयकम्__व्ध_028.*(18).094
करं करहितं देवं__व्ध_028.*(18).095
पूर्णचन्द्राप्तसुप्रभम्__व्ध_028.*(18).095
कटिसूत्रेण हैमेन__व्ध_028.*(18).096
नूपुरेण विराजितम्__व्ध_028.*(18).096
वनमालादिशोभाढ्यं__व्ध_028.*(18).097
मुक्ताहारोपशोभितम्__व्ध_028.*(18).097
अनेकसूर्यसंकाशं__व्ध_028.*(18).098
मुकुटाटोपमस्तकम्__व्ध_028.*(18).098
शङ्खचक्रगृहीताभ्याम्__व्ध_028.*(18).099
उद्बाहुभ्यां विराजितम्__व्ध_028.*(18).099
पङ्कजाभं चतुर्हस्तं__व्ध_028.*(18).100
तत्पत्राभसुलोचनम्__व्ध_028.*(18).100
प्रातः सूर्यसमप्रख्य-__व्ध_028.*(18).101
कुण्डलाभ्यां विराजितम्__व्ध_028.*(18).101
केयूरकान्तिसस्यर्द्धि-__व्ध_028.*(18).102
मुक्तिकारत्नशोभितम्__व्ध_028.*(18).102
जानूपरिन्यस्तहस्तं__व्ध_028.*(18).103
वररत्ननखाङ्कुरम्__व्ध_028.*(18).103
जङ्घाभरणसस्यर्द्धि-__व्ध_028.*(18).104
विस्फुर्यत्कङ्कनत्विषम्__व्ध_028.*(18).104
मुक्ताफलाब्दसमहद्-__व्ध_028.*(18).105
दन्तपङ्क्तिविराजितम्__व्ध_028.*(18).105
चम्पकामुकुलप्रख्य-__व्ध_028.*(18).106
सुनासामुखपङ्कजम्__व्ध_028.*(18).106
अतिरक्तौष्ठवदनं__व्ध_028.*(18).107
व्यात्तास्यम् अतिभीषणम्__व्ध_028.*(18).107
वामाङ्कस्थं शिवभक्त-__व्ध_028.*(18).108
शान्तिदां सुनितम्बिनीम्__व्ध_028.*(18).108
अर्हणीयां सुजातोरुं__व्ध_028.*(18).109
सुनासां शुभलक्षणाम्__व्ध_028.*(18).109
सुभ्रूं सुकेशीं सुश्रोणीं__व्ध_028.*(18).110
सुशुभां सुद्विजाननाम्__व्ध_028.*(18).110
सुप्रतिष्ठां सुवदनां__व्ध_028.*(18).111
चतुर्हस्तां विचिन्तयेत्__व्ध_028.*(18).111
दुकूले चैव चार्वङ्गीं__व्ध_028.*(18).112
हारिणीं सर्वकामदाम्__व्ध_028.*(18).112
तप्तकञ्चनसंकाशां__व्ध_028.*(18).113
सर्वाभरणभूषिताम्__व्ध_028.*(18).113
सुवर्णकलशप्रख्य-__व्ध_028.*(18).114
पीनोन्नतपयोधराम्__व्ध_028.*(18).114
गृहीतपद्मयुगलं__व्ध_028.*(18).115
उद्बाहुभ्यां तथान्ययोः__व्ध_028.*(18).115
गृहीतमातुलङ्गाख्यं__व्ध_028.*(18).116
जाम्बुनदकरान् तथा__व्ध_028.*(18).116
एवं देवीं नृसिंहस्य__व्ध_028.*(18).117
वामाङ्कोपरि संस्मरेत्__व्ध_028.*(18).117
अतिविमलसुगात्रं रौप्यपात्रस्थम् अन्नं__व्ध_028.*(18).118
सुललितदधिखण्डं पाणिना दक्षिणेन__व्ध_028.*(18).119
कलशम् अमृतपूर्णं सव्यहस्ते दधानं__व्ध_028.*(18).120
तदतिसकलदुःखं वामनं भावयेद् यः__व्ध_028.*(18).121
अन्या भास्करसप्रभाभिर् अखिलैर् भाभिर् दिशो भासयन्__व्ध_028.*(18).122
भीमाक्षस्फुरदट्टहासविलसाद्दंष्ट्राग्रदीप्ताननः__व्ध_028.*(18).123
दोर्भिश् चक्रधरौ गदाब्जमुकुलौ त्रासांश् च पाशाङ्कुशौ__व्ध_028.*(18).124
बिभ्रत्पिङ्गशिरो ऽरुहोद्धतसटश् चक्रविधानो हरिः__व्ध_028.*(18).125
मनोभूतानीन्द्रियाणि__व्ध_028.*(18).139
गुणाः सत्त्वं रजस् तमः__व्ध_028.*(18).139
त्रैलोक्यस्येश्वरं सर्वम्__व्ध_028.*(18).140
अहंकारे प्रतिष्ठिताः__व्ध_028.*(18).140
ओं नमः परमार्थाय__व्ध_028.015
पुरुषाय महात्मने__व्ध_028.015
अरूपबहुरूपाय__व्ध_028.015
व्यापिने परमात्मने__व्ध_028.015
नमस् ते देवदेवाय__व्ध_028.*(19)
सुरशूर नमो ऽस्तु ते__व्ध_028.*(19)
लोकाध्यक्ष जगत्पूज्य__व्ध_028.*(19)
परमात्मन् नमस् ते (!)__व्ध_028.*(19)
निष्कल्मषाय शुद्धाय__व्ध_028.015
सर्वपापहराय च__व्ध_028.015
नमस्कृत्वा प्रवक्ष्यामि__व्ध_028.016,*(20),*(21)
यत् तत् सिध्यतु मे वचः__व्ध_028.016,*(20),*(21)
वराहनरसिंहाय__व्ध_028.017
वामनाय महात्मने__व्ध_028.017
गोविन्दपद्मनाभाय__व्ध_028.*(20).001
वामदेवाय भूपते__व्ध_028.*(20).001
नारायणाय देवाय__व्ध_028.*(20).003
अनन्ताय महात्मने__व्ध_028.*(20).003
गरुडध्वजाय कृष्णाय__व्ध_028.*(20).005
पीताम्बरधराय च__व्ध_028.*(20).005
योगीश्वराय सिद्धाय__व्ध_028.*(20).007
गुह्याय परमात्मने__व्ध_028.*(20).007
जनार्दनाय कृष्णाय__व्ध_028.*(20).009
उपेन्द्रश्रीधराय च__व्ध_028.*(20).009
भक्तप्रियाय विधये__व्ध_028.*(20).011
विष्वक्सेनाय शार्ङ्गिने__व्ध_028.*(20).011
हिरण्यगर्भपतये__व्ध_028.*(20).013
हिरण्यकशिपुच्छिदे__व्ध_028.*(20).013
चक्रहस्ताय शूलाय__व्ध_028.*(20).015
तर्जन्यपत्राय धीमते__व्ध_028.*(20).015
आदित्याय उपेन्द्राय__व्ध_028.*(20).017
भूतानां जीवनाय च__व्ध_028.*(20).017
वासुदेवाय वन्द्याय__व्ध_028.*(20).019
वरदाय महात्मने__व्ध_028.*(20).019
विषूवृच्छ्रवसे तस्मै__व्ध_028.*(20).021
क्षीराम्बुनिछिशायिने__व्ध_028.*(20).021
अधोक्षजाय भद्राय__व्ध_028.*(20).023
श्रीधरायादिमूर्तये__व्ध_028.*(20).023
विश्वेशद्वारमूर्तिश् च__व्ध_028.*(20).025
मृत्युरायोहितो ऽस्ति सः__व्ध_028.*(20).025
नानारागांश् च दक्षांश् च__व्ध_028.*(20).027
विकटाय महाभीती__व्ध_028.*(20).027
जातुपतिं व्यग्रहस्तं__व्ध_028.*(20).028
वररत्ननखाकरम्__व्ध_028.*(20).028
नारायणाय विश्वाय__व्ध_028.*(20).032
विश्वेशायाम्बराय च__व्ध_028.*(20).032
दामोदराय देवाय__व्ध_028.*(20).034
अनन्ताय महात्मने__व्ध_028.*(20).034
त्रिविक्रमाय रामाय__व्ध_028.017
वैकुण्ठाय नराय च__व्ध_028.017
नमस्कृत्वा प्रवक्ष्यामि__व्ध_028.018
यत् तत् सिध्यतु मे वचः__व्ध_028.018
वराहनरसिंहेश__व्ध_028.019
वामनेश त्रिविक्रम__व्ध_028.019
हयग्रीवेश सर्वेश__व्ध_028.019
हृषीकेश हराशुभम्__व्ध_028.019
अपराजितचक्राद्यैश्__व्ध_028.020
चतुर्भिः परमायुधैः__व्ध_028.020
अखण्डितप्रभावैस् त्वं__व्ध_028.020
सर्वदुष्टहरो भव__व्ध_028.020
हरामुकस्य दुरितं__व्ध_028.021
दुष्कृतं दुरुपोषितम्__व्ध_028.021
मृत्युबन्धार्तिभयदं__व्ध_028.021
दुरिष्टस्य च यत् फलम्__व्ध_028.021
परापध्यानसहितं__व्ध_028.022
प्रयुक्तं चाभिचारुक__व्ध_028.022
गरस्पर्शमहायोग-__व्ध_028.022
प्रयोगजरयाजर__व्ध_028.022
ओं नमो वासुदेवाय__व्ध_028.023
नमः क्षृणाय शार्ङ्गिणे__व्ध_028.023
नमः पुष्करनेत्राय__व्ध_028.023
केशवायादिचक्रिणे__व्ध_028.023
नमः कमलकिञ्जल्क-__व्ध_028.024
पीतनिर्मलवाससे__व्ध_028.024
महाहवरिपुस्कन्ध-__व्ध_028.024
घृष्टचक्राय चक्रिणे__व्ध_028.024
दंष्ट्रोद्धृतक्षितिधृते__व्ध_028.025
त्रयीमूर्तिमते नमः__व्ध_028.025
महायज्ञवराहाय__व्ध_028.025
शेषभोगोरुशायिने__व्ध_028.025
तप्तहाटककेशान्त__व्ध_028.026
ज्वलत्पावकलोचन__व्ध_028.026
वज्राधिकनखस्पर्श__व्ध_028.026
दिव्यसिंह नमो ऽस्तु ते__व्ध_028.026
कपिल हेमाश्वशीर्ष__व्ध_028.*(22)
अतिरिक्तविलोचन__व्ध_028.*(22)
विद्युत्स्फुरितदंष्ट्राग्र__व्ध_028.*(22)
दिव्यसिंह नमो ऽस्तु ते__व्ध_028.*(22)
काश्यपायातिह्रस्वाय__व्ध_028.027
ऋग्यजुःसामभूषित__व्ध_028.027
तुभ्यं वामनरूपाय__व्ध_028.027
सृजते गां नमो नमः__व्ध_028.027
वराहाशेषदुष्टानि__व्ध_028.028
सर्वपापहराणि वै__व्ध_028.028
मर्द मर्द महादंष्ट्र__व्ध_028.028
मर्द मर्द च तत्फलम्__व्ध_028.028
नरसिंह करालास्य__व्ध_028.029
दन्तप्रान्तानलोज्ज्वल__व्ध_028.029
भञ्ज भञ्ज निनादेन__व्ध_028.029
दुष्टान्य् अस्यार्तिनाशन__व्ध_028.029
ऋग्यजुःसामगर्भाभिर्__व्ध_028.030
वाग्भिर् वामनरूपधृक्__व्ध_028.030
प्रशमं सर्वदुःखानि__व्ध_028.030
नयत्व् अस्य जनार्दनः__व्ध_028.030
एकाहिकं द्व्याहिकं च__व्ध_028.031
तथा त्रिदिवसं ज्वरम्__व्ध_028.031
चातुर्थकं तथात्युग्रं__व्ध_028.031
तथैव सततज्वरम्__व्ध_028.031
दोषोत्थं संनिपातोत्थं__व्ध_028.032
तथैवागन्तुकं ज्वरम्__व्ध_028.032
शमं नयाशु गोविन्द__व्ध_028.032
छित्त्वा च्छित्त्वा तु वेदनाम्__व्ध_028.032
नेत्रदुःखं शिरोदुःखं__व्ध_028.033
दुःखं चोदरसंभवम्__व्ध_028.033
अनुच्छ्वासम् अतिश्वासं__व्ध_028.033
परितापं सवेपथुं__व्ध_028.033
गुदघ्राणांह्रिरोगांश् च__व्ध_028.034
कुष्ठरोगं तथा क्षयम्__व्ध_028.034
कामलादींस् तथा रोगान्__व्ध_028.034
प्रमेहांश् चातिदारुणान्__व्ध_028.034
भगंदरातिसारांश् च__व्ध_028.035
मुखरोगं सवल्गुलिम्__व्ध_028.035
अश्मरीमूत्रकृच्छ्रांश् च__व्ध_028.035
रोगान् अन्यांश् च दारुणान्__व्ध_028.035
ये वातप्रभवा रोगा__व्ध_028.036
ये च पित्तसमुद्भवाः__व्ध_028.036
कफोद्भवाश् च ये केचिद्__व्ध_028.036
ये चान्ये सांनिपातिकाः__व्ध_028.036
आगन्तवश् च ये रोगा__व्ध_028.037
लूताविस्फोटकादयः__व्ध_028.037
ते सर्वे प्रशमं यान्तु__व्ध_028.037
वासुदेवापमार्जिताः__व्ध_028.037
विलयं यान्तु ते सर्वे__व्ध_028.038
विष्णोर् उच्चारणेन च__व्ध_028.038
क्षयं गच्छन्तु चाशेषास्__व्ध_028.038
ते चक्राभिहता हरेः__व्ध_028.038
अच्युतानन्तगोविन्द-__व्ध_028.039
नामोच्चारणभीषिताः__व्ध_028.039
नश्यन्तु सकला रोगाः__व्ध_028.039
सत्यं सत्यं वदाम्य् अहम्__व्ध_028.039
स्थावरं जङ्गमं वापि__व्ध_028.040
कृत्रिमं वापि यद् विषम्__व्ध_028.040
दन्तोद्भवं नखभवम्__व्ध_028.040
आकाशप्रभवं विषम्__व्ध_028.040
लूतादिप्रभवं यच् च__व्ध_028.041
विषम् अत्यन्तदुःखदम्__व्ध_028.041
शमं नयतु तत् सर्वं__व्ध_028.041
कीर्तितो ऽस्य जनार्दनः__व्ध_028.041
ग्रहान् प्रेतग्रहांश् चैव__व्ध_028.042
तथा वै डाकिनीग्रहान्__व्ध_028.042
वेतालांश् च पिशाचांश् च__व्ध_028.042
गन्धर्वान् यक्षराक्षसान्__व्ध_028.042
शकुनीपूतनाद्यांश् च__व्ध_028.043
तथा वैनायकग्रहान्__व्ध_028.043
मुखमण्डिनिकां क्रूरां__व्ध_028.043
रेवतीं वृद्धरेवतीम्__व्ध_028.043
वृद्धिकाख्यान् ग्रहांश् चोग्रांस्__व्ध_028.044
तथा मातृग्रहान् अपि__व्ध_028.044
बालस्य विष्णोः चरितं__व्ध_028.044
हन्तु बालग्रहान् इमान्__व्ध_028.044
वृद्धानां ये ग्रहाः केचिद्__व्ध_028.045
ये च बालग्रहाः क्वचित्__व्ध_028.045
नरसिंहस्य ते दृष्ट्या__व्ध_028.045
दग्धा ये चापि यौवने__व्ध_028.045
सटाकरालवदनो__व्ध_028.046
नरसिंहो महारवः__व्ध_028.046
ग्रहान् अशेषान् निःशेषान्__व्ध_028.046
करोतु जगतो हितम्__व्ध_028.046
नरसिंह महासिंह__व्ध_028.047
ज्वालामालोज्ज्वलानन__व्ध_028.047
ग्रहान् अशेषान् सर्वेश__व्ध_028.047
खाद खादाग्निलोचन__व्ध_028.047
ये रोगा ये महोत्पाता__व्ध_028.048
यद् विषं ये महाग्रहाः__व्ध_028.048
यानि च क्रूरभूतानि__व्ध_028.048
ग्रहपीडाश् च दारुणाः__व्ध_028.048
शस्त्रक्षतेषु ये दोषा__व्ध_028.048
ज्वालागर्दभकादयः__व्ध_028.048
यानि चार्याणि भूतानि__व्ध_028.*(23)
प्राणिपीडाकराणि वै__व्ध_028.*(23)
तानि सर्वाणि सर्वात्मन्__व्ध_028.049
परमात्मञ् जनार्दन__व्ध_028.049
किंचिद् रूपं समास्थाय__व्ध_028.049
वासुदेव विनाशय__व्ध_028.049
क्षिप्त्वा सुदर्शनं चक्रं__व्ध_028.050
ज्वालामालाविभीषणम्__व्ध_028.050
सर्वदुष्टोपशमनं__व्ध_028.050
कुरु देववराच्युत__व्ध_028.050
सुदर्शन महाचक्र__व्ध_028.*(24).001
गोविन्दस्य करायुध__व्ध_028.*(24).001
ज्वलत्पावकसंकाश__व्ध_028.*(24).002
सूर्यकोटिसमप्रभ__व्ध_028.*(24).002
त्रैलोक्यरक्षकर्तृ त्वं__व्ध_028.*(24).003
त्वं दुष्टदानवदारण__व्ध_028.*(24).003
तीक्ष्णधार महावेग__व्ध_028.*(24).004
छिन्धि च्छिन्धि महाज्वरम्__व्ध_028.*(24).004
छिन्धि च्छिन्धि महाव्याधिं__व्ध_028.*(24).005
छिन्धि च्छिन्धि महाग्रहान्__व्ध_028.*(24).005
छिन्धि वातं च धूतं च__व्ध_028.*(24).006
छिन्धि घोरं महाविषम्__व्ध_028.*(24).006
रुजदाघं च शूलं च__व्ध_028.*(24).007
निमिषज्वालगर्दभम्__व्ध_028.*(24).007
सुदर्शन महाज्वाल__व्ध_028.051
छिन्धि च्छिन्धि ममारयः__व्ध_028.051
सर्वदुष्टानि रक्षांसि__व्ध_028.051
क्षपयातिविभीषण__व्ध_028.051
हां हां हूं हूं फट्कारेण__व्ध_028.*(25).001
ठद्वयेन हतद्विषः__व्ध_028.*(25).001
सुदर्शनस्य मन्त्रेण__व्ध_028.*(25).002
ग्रहा यान्ति दिशो दिशः__व्ध_028.*(25).002
त्रैलोक्यस्याभयं कर्तुम्__व्ध_028.*(25).009
आज्ञापय जनार्दन__व्ध_028.*(25).009
सर्वदुष्टानि रक्षांसि__व्ध_028.*(25).010
क्षयं यान्ति विभीषया__व्ध_028.*(25).010
प्राच्यां प्रतीच्यां च दिशि__व्ध_028.052
दक्षिणोत्तरतस् तथा__व्ध_028.052
रक्षां करोतु सर्वात्मा__व्ध_028.052
नरसिंहः स्वगर्जितैः__व्ध_028.052
भूम्यन्तरिक्षे च तथा__व्ध_028.053
पृष्ठतः पार्श्वतो ऽग्रतः__व्ध_028.053
व्याघ्रसिंहवराहेषु__व्ध_028.*(26)
अन्दिचोरभयेषु च (?)__व्ध_028.*(26)
रक्षां करोतु भगवान्__व्ध_028.053
बहुरूपी जनार्दनः__व्ध_028.053
यथा विष्णुऋ जगत् सर्वं__व्ध_028.054
सदेवासुरमानवम्__व्ध_028.054
तेन सत्येन दुष्टानि__व्ध_028.054
शमम् अस्य व्रजन्तु वै__व्ध_028.054
यथा विष्णौ स्मृते सम्यक्__व्ध_028.055
संक्षयं याति पातकम्__व्ध_028.055
सत्येन तेन सकलं__व्ध_028.055
दुष्टम् अस्य प्रशाम्यतु__व्ध_028.055
परमात्मा यथा विष्णुर्__व्ध_028.056
वेदान्तेष्व् अभिधीयते__व्ध_028.056
तेन सत्येन सकलं__व्ध_028.056
दुष्टम् अस्य प्रशाम्यतु__व्ध_028.056
यथा यज्ञेष्वरो विष्णुर्__व्ध_028.057
वेदेष्व् अपि तु गीयते__व्ध_028.057
तेन सत्येन सकलं__व्ध_028.057
यन् मयोक्तं तथास्तु तत्__व्ध_028.057
यथा यज्ञेश्वरो विष्णुर्__व्ध_028.*(27)
यज्ञान्ते अपि गीयते__व्ध_028.*(27)
तेन सत्येन सकलं__व्ध_028.*(27)
यन् मयोक्तं तथास्तु तत्__व्ध_028.*(27)
शान्तिर् अस्तु शिवं चास्तु__व्ध_028.058
प्रशाम्यत्व् असुखं च यत्__व्ध_028.058
वासुदेवशरीरोत्थैः__व्ध_028.058
कुशैर् निर्मार्जितं मया__व्ध_028.058
अपामार्जति गोविन्दो__व्ध_028.059
नरो नारायणस् तथा__व्ध_028.059
तवास्तु सर्वदुःखानां__व्ध_028.059
प्रशमो वचनाद् धरेः__व्ध_028.059
इदं शास्त्रं पठेद् यस् तु__व्ध_028.*(28)
सप्ताहन् नियतः शुचिः__व्ध_028.*(28)
शान्तिं समस्तरोगास् ते__व्ध_028.060
ग्रहाः सर्वे विषानि च__व्ध_028.060
भूतानि च प्रयान्त्व् ईशे__व्ध_028.060
संस्मृते मधुसूदने__व्ध_028.060
एतत् समस्तरोगेषु__व्ध_028.061
भूतग्रहभयेषु च__व्ध_028.061
अपमार्जनकं शस्तं__व्ध_028.061
विष्णुनामाभिमन्त्रितम्__व्ध_028.061
एते कुशा विष्णुशरीरसंभवा__व्ध_028.062
जनार्दनो ऽहं स्वयं एव चागतः__व्ध_028.062
हतं मया दुष्टम् अशेषम् अस्य__व्ध_028.062
स्वस्थो भवत्य् एष वचो यथा हरेः__व्ध_028.062
शान्तिर् अस्तु शिवं चास्तु__व्ध_028.063
दुष्टम् अस्य प्रशाम्यतु__व्ध_028.063
यद् अस्य दुरितं किंचित्__व्ध_028.063
तत् क्षिप्तं लवणार्णवे__व्ध_028.063
स्वास्थ्यम् अस्य सदैवास्तु__व्ध_028.064
हृषीकेशस्य कीर्तनात्__व्ध_028.064
यत एवागतं पापं__व्ध_028.064
तत्रैव प्रतिगच्छतु__व्ध_028.064
एतद् रोगादिपीडासु__व्ध_028.065
जन्तूनां हितम् इच्छता__व्ध_028.065
विष्णुभक्तेन कर्तव्यम्__व्ध_028.065
अपमार्जनकं परम्__व्ध_028.065
अनेन सर्वदुष्टानि__व्ध_028.066
प्रशमं यान्त्य् असंशयम्__व्ध_028.066
सर्वभूतहितार्थाय__व्ध_028.066
कुर्यात् तस्मात् सदैव हि__व्ध_028.066
सर्वापराधशमनम्__व्ध_028.*(29).001
अपामार्जनकं परम्__व्ध_028.*(29).001
एतत् स्तोत्रम् इदं पुण्यं__व्ध_028.*(29).002
पठेद् आयुष्यवर्धनम्__व्ध_028.*(29).002
विनाशाय च रोगाणाम्__व्ध_028.*(29).003
अवमृत्युक्षयाय च__व्ध_028.*(29).003
व्याघ्रापस्मारकुष्ठादि__व्ध_028.*(29).004
पिशाचोरगराक्षसाः__व्ध_028.*(29).004
तस्य पार्श्वं न गच्छन्ति__व्ध_028.*(29).005
स्तोत्रम् एतद् यथा पठेत्__व्ध_028.*(29).005
स्मरञ् जपन्न् इदं स्तोत्रं__व्ध_028.*(29).006
सर्वव्याधिविनाशनम्__व्ध_028.*(29).006
पठतां शृण्वतां नित्यं__व्ध_028.*(29).007
विष्णुलोकं स गच्छति__व्ध_028.*(29).007
सुरूपता मनुष्याणां__व्ध_029.001
स्त्रीणां च द्विजसत्तम__व्ध_029.001
कर्मणा जायते येन__व्ध_029.001
तन् ममाख्यातुम् अर्हसि__व्ध_029.001
सुरूपाणां सुगात्राणां__व्ध_029.002
सुवेषाणां तथा मुने__व्ध_029.002
न्यूनं तथाधिकं वापि__व्ध_029.002
किंचिद् अङ्गं प्रजायते__व्ध_029.002
समस्तैः शोभनैर् अङ्गैर्__व्ध_029.003
नराः केचित् तथा द्विज__व्ध_029.003
काणाः कुब्जाश् च जायन्ते__व्ध_029.003
त्रुटितश्रवणास् तथा__व्ध_029.003
नराणां योषितां चैव__व्ध_029.004
समस्ताङ्ग्सुरूपता__व्ध_029.004
कर्मणा येन भवति__व्ध_029.004
तत् सर्वं कथयामल__व्ध_029.004
लावण्यगतिवाक्यानि__व्ध_029.005
सति रूपे महामते__व्ध_029.005
प्रयान्ति चारुतां रूपं__व्ध_029.005
तेनोक्तः परमो गुणः__व्ध_029.005
वाक्यलावण्यसंस्कार-__व्ध_029.006
विलासललिता गतिः__व्ध_029.006
विडम्बना कुरूपाणां__व्ध_029.006
स्त्रीपुंसाम् अभिजायते__व्ध_029.006
रूपकारणभूताय__व्ध_029.007
यतेत मतिमांस् ततः__व्ध_029.007
कर्मणा तन् ममाचक्ष्व__व्ध_029.007
कर्म यच् चारुरूपदम्__व्ध_029.007
सम्यक् पृष्टं त्वया हीदम्__व्ध_029.008
उपवासाश्रितं द्विज__व्ध_029.008
कथयामि यथा प्रोक्तं__व्ध_029.008
वसिष्ठेन महात्मना__व्ध_029.008
वसिष्ठम् ऋषिम् आसीनं__व्ध_029.009
सप्तर्षिप्रवरं पतिम्__व्ध_029.009
पप्रच्छारुन्धती प्रश्नं__व्ध_029.009
यद् एतद् भवता वयम्__व्ध_029.009
तस्याः स परिपृच्छन्त्या__व्ध_029.010
जगाद मुनिसत्तमः__व्ध_029.010
यत् तच् छृणुष्व धर्मज्ञ__व्ध_029.010
ममेह वदतो ऽखिलम्__व्ध_029.010
श्रूयतां मम यत् पृष्टस्__व्ध_029.011
त्वयाहं ब्रह्मवादिनि__व्ध_029.011
सुरूपता नृणां येन__व्ध_029.011
योषितां चोपजायते__व्ध_029.011
अनभ्यर्च्य यथान्यायम्__व्ध_029.012
अनाराध्य च केशवम्__व्ध_029.012
रूपादिका गुणाः केन__व्ध_029.012
प्राप्यन्ते ऽन्येन कर्मणा__व्ध_029.012
तस्माद् आराधनीयो वै__व्ध_029.013
विष्णुर् एव यशस्विनि__व्ध_029.013
परत्र प्राप्तुकामेन__व्ध_029.013
रूपसंपत्सुतादिकम्__व्ध_029.013
यस् तु वाञ्छति धर्मज्ञे__व्ध_029.014
रूपं सर्वाङ्गशोभनम्__व्ध_029.014
नक्षत्रपुरुषस् तेन__व्ध_029.014
संपूज्यः पुरुषोत्तमः__व्ध_029.014
नक्षत्राङ्गं यथाहारः__व्ध_029.015
समुपोष्यति यो हरिम्__व्ध_029.015
सुरूपैर् अखिलाङ्गैश् च__व्ध_029.015
रूपवान् अभिजायते__व्ध_029.015
योषिता च परं रूपम्__व्ध_029.016
इच्छन्त्या जगतः पतिः__व्ध_029.016
स एवाराधनीयो ऽत्र__व्ध_029.016
नक्षत्राङ्गो जनार्दनः__व्ध_029.016
नक्षत्ररूपी भगवान्__व्ध_029.017
पूज्यते पुरुषोत्तमः__व्ध_029.017
मुने येन विधानेन__व्ध_029.017
तन् ममाख्यातुम् अर्हसि__व्ध_029.017
चैत्रमासं समारभ्य__व्ध_029.018
विष्णोः पादादिपूजनम्__व्ध_029.018
यथा कुर्वीत रूपार्थी__व्ध_029.018
तन् निशामय तत्त्वतः__व्ध_029.018
नक्षत्रम् एकम् एकं वै__व्ध_029.019
स्नातः सम्यग् उपोषितः__व्ध_029.019
नक्षत्रपुरुषस्याङ्गं__व्ध_029.019
पूजयेत् साध्वी चक्रिणः__व्ध_029.019
मूले पादौ तथा जङ्घे__व्ध_029.020
रोहिणीष्व् अर्चयेच् छुभे__व्ध_029.020
जानुनी चाश्विनीयोग__व्ध_029.020
आषाढे चोरुसंज्ञिते__व्ध_029.020
फाल्गुनीद्वितये गुह्यं__व्ध_029.021
कृत्तिकासु तथा कटिम्__व्ध_029.021
पार्श्वे भद्रपदायुग्मे__व्ध_029.021
द्वे कुक्षी रेवतीषु च__व्ध_029.021
अनुराध उरः पृष्ठं__व्ध_029.022
श्रविष्ठास्व् अभिपूजयेत्__व्ध_029.022
भुजयुग्मं विशाखासु__व्ध_029.022
हस्ते चैव करद्वयम्__व्ध_029.022
पुनर्वसाव् अङ्गुलींश् च__व्ध_029.023
आश्लेषासु तथा नखान्__व्ध_029.023
ज्येष्ठायां पूजयेद् ग्रीवं__व्ध_029.023
श्रवणे श्रवणे तथा__व्ध_029.023
पुष्ये मुखं तथा स्वातौ__व्ध_029.024
दशनान् अभिपूजयेत्__व्ध_029.024
हन्वौ शतभिषायोगे__व्ध_029.024
मघायोगे च नासिकाम्__व्ध_029.024
मृगोत्तमाङ्गे नयने__व्ध_029.025
पूजयेद् भक्तितः शुभे__व्ध_029.025
चित्रायोगे ललाटं च__व्ध_029.025
भरण्यां च तथा शिरः__व्ध_029.025
संपूजनीया विद्वद्भिश्__व्ध_029.025
चाद्रासु च शिरोरुहाः__व्ध_029.025
नक्षत्रयोगेष्व् एतेषु__व्ध_029.026
पूजितो जगतः पतिः__व्ध_029.026
नक्षत्रपुरुषाख्यो ऽयं__व्ध_029.026
यथावत् पुरुषोत्तमः__व्ध_029.026
पापापहारं कुरुते__व्ध_029.027
सम्यच् छ्रद्धावतां सताम्__व्ध_029.027
अङ्गोपाङ्गानि चैवास्य__व्ध_029.027
पापादीनि यशस्विनि__व्ध_029.027
सुरूपान्य् अभिजायन्ते__व्ध_029.028
सप्त जन्मान्तराणि वै__व्ध_029.028
सर्वाणि चैव भद्राणि__व्ध_029.028
शरीरारोग्यम् उत्तमम्__व्ध_029.028
संततिं मनसः प्रीतिं__व्ध_029.029
रूपं चातीवशोभनम्__व्ध_029.029
वाङ्माधूर्यं तथा कान्तिं__व्ध_029.029
यच् चान्यद् अभिवाञ्छितम्__व्ध_029.029
ददाति नक्षत्रपुमान्__व्ध_029.030
पूजितश् च जनार्दनः__व्ध_029.030
उपोष्य सम्यग् एतेषु__व्ध_029.030
क्रमेण र्क्षेषु शोभने__व्ध_029.030
संपूजनीयो भगवान्__व्ध_029.031
नक्षत्राङ्गो जनार्दनः__व्ध_029.031
गन्धपुष्पादिसंयुक्तं__व्ध_029.*(30)
पूजयित्वा यदाविधि__व्ध_029.*(30)
जानुभ्यां धरणीं गत्वा__व्ध_029.*(30)
इदं चोदाहरेत् ततः__व्ध_029.*(30)
स्वरूपम् आरोग्यम् अतीव वर्चसं__व्ध_029.*(30)
सुसंततिं त्व् अस्थितभक्तिम् अच्युताम्__व्ध_029.*(30)
अपि सर्वम् एतं प्रोतं__व्ध_029.*(30)
सूत्रे मणिगणा इव__व्ध_029.*(30)
एकपुरुष महापुरुष__व्ध_029.*(30)
ऋक्षपुरुष नमो ऽस्तु ते__व्ध_029.*(30)
प्रतिनक्षत्रयोगे च__व्ध_029.031
भोजनीया द्विजोत्तमाः__व्ध_029.031
नक्षत्रज्ञाय विप्राय__व्ध_029.032
दद्याद् दानं च शक्तितः__व्ध_029.032
पारिते च पुनर् दद्यात्__व्ध_029.032
स्त्रीपूंसां चारुहासिनि__व्ध_029.032
छत्त्रोपानद्युगं चैव__व्ध_029.033
सप्तधान्यं सकाञ्चनम्__व्ध_029.033
घृतपात्रं च धर्मज्ञे__व्ध_029.033
यच् चान्यद् अतिवल्लभम्__व्ध_029.033
स्त्री वा साध्वी सदा विष्णोर्__व्ध_029.034
आराधनपरायणा__व्ध_029.034
अनेनैव विधानेन__व्ध_029.034
संपूज्यैतद् अवाप्नुयात्__व्ध_029.034
सर्वकामान् अवाप्नोति__व्ध_030.001
समाराध्य जनार्दनम्__व्ध_030.001
प्रकारैर् बहुभिर् ब्रह्मन्__व्ध_030.001
यान् यान् इच्छति चेतसा__व्ध_030.001
नॄणां स्त्रीणां च विप्रर्षे__व्ध_030.002
नान्यच् छोकस्य कारणम्__व्ध_030.002
अपत्याद् अधिकं किंचिद्__व्ध_030.002
विद्यते ह्य् अत्र जन्मनि__व्ध_030.002
अपुत्रता महद् दुःखम्__व्ध_030.003
अतिदुःखं कुपुत्रता__व्ध_030.003
अपुत्रः सर्वदुःखानां__व्ध_030.003
हेतुभूतो मतो मम__व्ध_030.003
धन्यास् ते ये सुतं प्राप्य__व्ध_030.004
सर्वदुःखविवर्जितम्__व्ध_030.004
शस्तं प्रशान्तं बलिनं__व्ध_030.004
परां निर्वृतिम् आगताः__व्ध_030.004
स्वकर्मनिरतं नित्यं__व्ध_030.005
देवद्विजपरायणम्__व्ध_030.005
शास्त्रज्ञं धर्मतत्त्वज्ञं__व्ध_030.005
दीनानाथजनाश्रयम्__व्ध_030.005
विनिर्जितारिं सर्वस्य__व्ध_030.006
मनोहृदयनन्दनम्__व्ध_030.006
देवानुकूलतायुक्तं__व्ध_030.006
युक्तं सम्यग् गुणेन च__व्ध_030.006
मित्रस्वजनसम्मान-__व्ध_030.007
लब्धनिर्वाणम् उत्तमम्__व्ध_030.007
यः प्राप्नोति सुतं तस्मान्__व्ध_030.007
नान्यो धन्यतरो भुवि__व्ध_030.007
सो ऽहम् इच्छामि तच् छ्रोतुं__व्ध_030.008
त्वत्तः कर्म महामुने__व्ध_030.008
येनेदृग्लक्षणः पुत्रः__व्ध_030.008
प्राप्यते भुवि मानवैः__व्ध_030.008
एवम् एतन् महाभाग__व्ध_030.009
पित्रोः पुत्रसमुद्भवम्__व्ध_030.009
दुःखं प्रयात्य् उपशमं__व्ध_030.009
तेन येनेह केनचित्__व्ध_030.009
अत्रापि श्रूयतां वृत्तं__व्ध_030.010
यत् पूर्वम् अभवन् मुने__व्ध_030.010
उत्पत्तौ कार्तवीर्यस्य__व्ध_030.010
हैहयस्य महात्मनः__व्ध_030.010
कृतवीर्यो महीपालो__व्ध_030.011
हैहयानाम् अभूत् पुरा__व्ध_030.011
तस्य शीलधना नाम__व्ध_030.011
बभूव वरवर्णिनी__व्ध_030.011
पत्नी सहस्रप्रवरा__व्ध_030.011
महिषी शीलमण्डना__व्ध_030.011
सा त्व् अपुत्रा महाभागा__व्ध_030.012
मैत्रेयीं पर्यपृच्छत__व्ध_030.012
गुणवत्पुत्रलाभाय__व्ध_030.012
कृतासनपरिग्रहाम्__व्ध_030.012
तया च पृष्टा वै सम्यग्__व्ध_030.013
मैत्रेयी ब्रह्मवादिनी__व्ध_030.013
कथयाम् आस परमं__व्ध_030.013
नाम्नानन्तव्रतं व्रतम्__व्ध_030.013
सर्वकामफलावाप्ति-__व्ध_030.014
कारकं पापनाशनम्__व्ध_030.014
तस्याः सा पुत्रलाभाय__व्ध_030.014
राजपुत्रास् तपस्विनी__व्ध_030.014
यो ऽयम् इच्छेन् नरः कामं__व्ध_030.015
नारी वा वरवर्णिनि__व्ध_030.015
स तं समाराध्य विभुं__व्ध_030.015
समाप्नोति जनार्दनम्__व्ध_030.015
मार्गशीर्षे मृगशिरो__व्ध_030.016
भीरु यस्मिन् दिने भवेत्__व्ध_030.016
तस्मिन् संप्राश्य गोमूत्रं__व्ध_030.016
स्नातो नियतमानसः__व्ध_030.016
पुष्पैर् धूपैस् तथा गन्धैर्__व्ध_030.017
उपहारैः स्वशक्तितः__व्ध_030.017
वामपादम् अनन्तस्य__व्ध_030.017
पूजयेद् वरवर्णिनि__व्ध_030.017
अनन्तः सर्वकामानाम्__व्ध_030.018
अनन्तं भगवान् फलम्__व्ध_030.018
ददात्व् अनन्तं च पुनस्__व्ध_030.018
तद् एवास्त्व् अन्यजन्मनि__व्ध_030.018
अनन्तपुण्योपचयं__व्ध_030.019
करोत्य् एतन् महाव्रतम्__व्ध_030.019
यथाभिलषितावाप्तिं__व्ध_030.019
कुर्वन् मा क्षयम् एतु च__व्ध_030.019
इत्य् उच्चार्याभिपूज्यैनं__व्ध_030.020
यथावद् विधिना नरः__व्ध_030.020
समाहितमना भूत्वा__व्ध_030.020
प्रणिपातपुरःसरम्__व्ध_030.020
विप्राय दक्षिणां दद्याद्__व्ध_030.021
अनन्तः प्रीयताम् इति__व्ध_030.021
समुच्चार्य ततो नक्तं__व्ध_030.021
भुञ्जीयात् तैलवर्जितम्__व्ध_030.021
ततश् च पौषे पुष्यर्क्षे__व्ध_030.022
तथैव भगवत्कटिम्__व्ध_030.022
वामाम् अभ्यर्चयेत् कृत्वा__व्ध_030.022
गोमूत्रप्राशनं बुधः__व्ध_030.022
अनन्तः सर्वकामानाम्__व्ध_030.023
इति चोच्चारयेद् बुधः__व्ध_030.023
भुञ्जीत च तथा विप्रं__व्ध_030.023
वाचयित्वा यथाविधि__व्ध_030.023
माघे मघासु तद्वच् च__व्ध_030.024
बाहुं देवस्य पूजयेत्__व्ध_030.024
स्कन्धं च फल्गुनीयोगे__व्ध_030.024
फाल्गुने मासि भामिनि__व्ध_030.024
चतुर्ष्व् एतेषु गोमूत्र-__व्ध_030.025
प्राशनं नृपनन्दिनि__व्ध_030.025
ब्राह्मणाय तथा दद्यात्__व्ध_030.025,*(31)
तिलान् कनकम् एव च__व्ध_030.025,*(31)
देवस्य दक्षिणस्कन्धं__व्ध_030.026
चैत्रे चित्रासु पूजयेत्__व्ध_030.026
तथैव प्राशनं चात्र__व्ध_030.026
पञ्चगव्यम् उदाहृतम्__व्ध_030.026
विप्रे वाचनके दद्याद्__व्ध_030.027
यावन् मासचतुष्टयम्__व्ध_030.027
वैशाखे च विशाखासु__व्ध_030.027
बाहुं संपूज्य दक्षिणम्__व्ध_030.027
तथैवोक्तयवान् दद्यात्__व्ध_030.028
तद्वन् नक्तं भुजिक्रिया__व्ध_030.028
कटिपूजां च ज्येष्ठासु__व्ध_030.028
ज्येष्ठमूले शुभव्रते__व्ध_030.028
आषाढासु तथाषाढे__व्ध_030.029
कुर्यात् पादार्चनं शुभे__व्ध_030.029
पदद्वयं च श्रवणे__व्ध_030.029
श्रावणे सुभ्रु पूजयेत्__व्ध_030.029
घृतं विप्राय दातव्यं__व्ध_030.030
प्राशनीयं तथा दधि__व्ध_030.030
कार्त्तिकान्तेषु मासेषु__व्ध_030.030
प्राशनं दानम् एव च__व्ध_030.030
एतद् एव समाख्यातं__व्ध_030.030,*(32)
देवं तद्वच् च पूजयेत्__व्ध_030.030,*(32)
गुह्यं प्रोष्ठपदायोगे__व्ध_030.031
मासि भाद्रपदे ऽर्चयेत्__व्ध_030.031
तद्वद् आश्वयुजे पूज्यं__व्ध_030.031
हृदयं चाश्विनीषु वै__व्ध_030.031
कुर्यात् समाहितमनाः__व्ध_030.032
स्नानप्राशनशौचवान्__व्ध_030.032
अनन्तशिरसः पूजां__व्ध_030.032
कार्त्तिके कृत्तिकासु च__व्ध_030.032
यस्मिन् यस्मिन् दिने पूजा__व्ध_030.033
तत्र तत्र तदा दिने__व्ध_030.033
नामानन्तस्य जप्तव्यं__व्ध_030.033
क्षुतप्रस्खलितादिषु__व्ध_030.033
घृतेनानन्तम् उद्दिश्य__व्ध_030.034
पूर्वमासचतुष्टयम्__व्ध_030.034
कुर्वीत होमं चैत्रादौ__व्ध_030.034
शालिना कुलनन्दिनि__व्ध_030.034
क्षीरेण श्रावणादौ तु__व्ध_030.035
होमं मासचतुष्टयम्__व्ध_030.035
शस्तं तु सर्वमासेषु__व्ध_030.035
हविष्यान्नं च भोजनम्__व्ध_030.035
एवं द्वादशभिर् मासैः__व्ध_030.036
पारणं त्रितयं शुभे__व्ध_030.036
पारिते समवाप्नोति__व्ध_030.036
सर्वान् एव मनोरथान्__व्ध_030.036
पुत्रार्थिभिर् वित्तकामैर्__व्ध_030.037
भृत्यदारान् अभीप्सुभिः__व्ध_030.037
प्रार्थयद्भिश् च कर्तव्यम्__व्ध_030.037
आरोग्यबलसंपदम्__व्ध_030.037
एतद् व्रतं महाभागे__व्ध_030.038
पुण्यं स्वस्त्ययनप्रदम्__व्ध_030.038
अनन्तव्रतसंज्ञं वै__व्ध_030.038
सर्वपापप्रणाशनम्__व्ध_030.038
तत् कुरुष्वैव देवि त्वं__व्ध_030.039
व्रतं शीलधने वरम्__व्ध_030.039
विशिष्टं सर्वलोकस्य__व्ध_030.039
यदि पुत्रम् अभीप्ससि__व्ध_030.039
इति शीलधना श्रुत्वा__व्ध_030.040
मैत्रेयीवचनं शुभम्__व्ध_030.040
चचारैतद् व्रतवरं__व्ध_030.040
सुसमाहितमानसा__व्ध_030.040
पुत्रार्थिन्यास् ततस् तस्या__व्ध_030.041
व्रतेनानेन सुव्रत__व्ध_030.041
विष्णुस् तुतोष तुष्टे च__व्ध_030.041
विष्णौ सा सुषुवे सुतम्__व्ध_030.041
तस्य वै जातमात्रस्य__व्ध_030.042
प्रववाव् अनिलः शिवः__व्ध_030.042
नीरजस्कम् अभूद् व्योम__व्ध_030.042
मुदं प्रापाखिलं जगत्__व्ध_030.042
देवदुन्दुभयो नेदुः__व्ध_030.043
पुष्पवृष्टिः पपात च__व्ध_030.043
प्रजगुर् दिवि गन्धर्वा__व्ध_030.043
ननृतुश् चाप्सरोगणाः__व्ध_030.043
धर्मे मनः समस्तस्य__व्ध_030.043
दाल्भ्य लोकस्य चाभवत्__व्ध_030.043
तस्य नाम पिता चक्रे__व्ध_030.044
तनयस्यार्जुनेति वै__व्ध_030.044
कृतवीर्यसुतत्वाच् च__व्ध_030.044
कार्तवीर्यो बभूव सः__व्ध_030.044
तेनापि भगवान् विष्णुर्__व्ध_030.045
दत्तात्रेयस्वरूपवान्__व्ध_030.045
आराधितो ऽतिमहता__व्ध_030.045
तपसा दाल्भ्य भूभृता__व्ध_030.045
तस्य तुष्टो जगन्नाथश्__व्ध_030.046
चक्रवर्तित्वम् उत्तमम्__व्ध_030.046
ददौ शौर्यबले चाति-__व्ध_030.046
सकलान्य् आयुधानि च__व्ध_030.046
स च वव्रे वरं देव__व्ध_030.047
वधस् त्वत्तो भवेद् इति__व्ध_030.047
पुरानुस्मरणं ज्ञानं__व्ध_030.047
भीतानां चार्तिनाशनम्__व्ध_030.047
स्मरणाद् उपकारित्वं__व्ध_030.047
जगतो ऽस्य जगत्पते__व्ध_030.047
तम् आह देवदेवेशः__व्ध_030.048
पुण्डरीकनिभेक्षणः__व्ध_030.048
सर्वम् एतन् महाभाग__व्ध_030.048
तव भूप भविष्यति__व्ध_030.048
मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0