भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 101120

यश् च प्रभाते रात्रौ च__व्ध_030.049
त्वां नरः कीर्तयिष्यति__व्ध_030.049
नमो ऽस्तु कार्तवीर्यायेत्य्__व्ध_030.049
अभिधास्यति चैव यः__व्ध_030.049
तिलप्रस्थप्रदानस्य__व्ध_030.049
स नरः पुण्यम् आप्स्यति__व्ध_030.049
अनष्टद्रव्यता चैव__व्ध_030.050
तव नामाभिकीर्तनैः__व्ध_030.050
भविष्यति महीपालेत्य्__व्ध_030.050
उक्त्वा तं प्रययौ हरिः__व्ध_030.050
स चापि वरम् आसाद्य__व्ध_030.051
प्रसन्नाद् गरुडध्वजात्__व्ध_030.051
पालयाम् आस भूपालः__व्ध_030.051
सप्तद्वीपां वसुंधराम्__व्ध_030.051
तेनेष्टं विविधैर् यज्ञैः__व्ध_030.052
समाप्तवरदक्षिणैः__व्ध_030.052
जित्वारिवर्गम् अखिलं__व्ध_030.052
धर्मतः पालिताः प्रजाः__व्ध_030.052
अनन्तव्रतमाहात्म्याद्__व्ध_030.053
आसाद्य तनयं च तम्__व्ध_030.053
पित्रोः पुत्रोद्भवं दुःखं__व्ध_030.053
नासीत् स्वल्पम् अपि द्विज__व्ध_030.053
एवम् एतत् समाख्यातम्__व्ध_030.054
अनन्ताख्यं व्रतं तव__व्ध_030.054
यच् चीर्त्वा राजपत्नी सा__व्ध_030.054
कार्तवीर्यम् असूयत__व्ध_030.054
यश् चैतच् छृणुयाज् जन्म__व्ध_030.055
कार्तवीर्यस्य मानवः__व्ध_030.055
स्त्री वा दुःखम् अपत्योत्थं__व्ध_030.055
सप्त जन्मानि नाश्नुते__व्ध_030.055
रूपसंपत् समाख्याता__व्ध_031.001
स्त्रीपुंसां जायते शुभा__व्ध_031.001
समुपोष्य जगन्नाथं__व्ध_031.001
नक्षत्रपुरुषं हरिम्__व्ध_031.001
वासोऽतिशोभनं चारु-__व्ध_031.002
वस्त्राद्याभरणोज्ज्वलम्__व्ध_031.002
गृहं सर्वगुणोपेतम्__व्ध_031.002
अशेषोपस्करान्वितम्__व्ध_031.002
कर्मणा येन विप्रर्षे__व्ध_031.003
तोषितो मधुसूदनः__व्ध_031.003

ददाति भगवान् कर्म__व्ध_031.003
तन् नो विस्तरतो वद__व्ध_031.003
यन् मां पृच्छसि दाल्भ्य त्वं__व्ध_031.004
गृहोपस्करभूषणम्__व्ध_031.004
नराणां जायते येन__व्ध_031.004
तत् सर्वं कथयामि ते__व्ध_031.004
नन्दा भद्रा जया रिक्ता__व्ध_031.005
पूर्णा च द्विजसत्तम__व्ध_031.005
तिथयो वै समाख्याताः__व्ध_031.005
प्रतिपत्क्रमसंज्ञया__व्ध_031.005
पञ्चमी दशमी चैव__व्ध_031.006
तथा पञ्चदशी तिथिः__व्ध_031.006
पूर्णा एताः समाख्याताष्__व्ध_031.006
तिथयो मुनिसत्तम__व्ध_031.006
मृदा धातुविकारैर् वा__व्ध_031.007
वर्णकैर् गोमयेन वा__व्ध_031.007
विष्णोर् आयतने तासु__व्ध_031.007
यः करोत्य् उपलेपनम्__व्ध_031.007
प्रवातावातगुणवद्__व्ध_031.008
वर्षास्व् अतिमनोरमम्__व्ध_031.008
अनुलिप्तं शुभाकारं__व्ध_031.008
सुगृहं लभते मुने__व्ध_031.008
पूर्णं धान्यहिरण्याद्यैर्__व्ध_031.009
मणिमुक्ताफलोज्ज्वलम्__व्ध_031.009
प्रत्यासन्नजलाभोगं__व्ध_031.009
गृहम् आप्नोति शोभनम्__व्ध_031.009
साम्नतस्वजनानां यत्__व्ध_031.010
सर्वेषाम् उत्तमोत्तमम्__व्ध_031.010
तद् आप्नोति गृहं ब्रह्मन्न्__व्ध_031.010
अनुलेपनकृन् नरः__व्ध_031.010
येनानुलिप्ते तिष्ठन्ति__व्ध_031.011
विष्ण्वायतनभूतले__व्ध_031.011
ब्राह्मणक्षत्रियविशः__व्ध_031.011
शूद्राः साध्व्यस् तथा स्त्रियः__व्ध_031.011
तस्य पूण्यफलं दाल्भ्य__व्ध_031.011
श्रूयतां यत् प्रजायते__व्ध_031.011
अप्सरोगणसंकीर्णं__व्ध_031.012
मुक्ताहारगणोज्ज्वलम्__व्ध_031.012
श्रेष्ठं सर्वविमानानां__व्ध_031.012
स्वर्गे धिष्ण्यम् अवाप्नुते__व्ध_031.012

यावत्यस् तिथयो लिप्तं__व्ध_031.013
दिव्याब्दांस् तावतो द्विज__व्ध_031.013
तस्मिन् विमाने स नरः__व्ध_031.013
स्त्री वा तिष्ठति सत्तम__व्ध_031.013
सुगन्धगन्धसद्वस्त्र-__व्ध_031.014
सर्वभूषणभूषितः__व्ध_031.014
गन्धर्वाप्सरसां संभैः__व्ध_031.014
पूज्यमानः स तिष्ठति__व्ध_031.014
लिप्तं च यावतो हस्तान्__व्ध_031.015
विष्णोर् आयतनं द्विज__व्ध_031.015
तावद्योजनविस्तीर्ण-__व्ध_031.015
स्वर्गस्थानाधिपो हि सः__व्ध_031.015
पूज्यमानः सुरगणैः__व्ध_031.016
शीतोष्णादिविवर्जितः__व्ध_031.016
मनोज्ञगात्रो विप्रेन्द्रस्__व्ध_031.016
तिष्ठत्य् अस्ताघसंहतिः__व्ध_031.016
च्युतस् तस्माद् इहागम्य__व्ध_031.017
विशिष्टे जायते कुले__व्ध_031.017
ततो ऽस्य सद्गृहवरं__व्ध_031.017
मर्त्यलोके ऽभिजायते__व्ध_031.017
न तत्र तावद् दारिद्र्यं__व्ध_031.018
नोपसर्गा न वा कलिः__व्ध_031.018
न चापि मृतनिष्क्रान्तिर्__व्ध_031.018
यावज् जीवत्य् असौ द्विज__व्ध_031.018
विष्णुः समस्तभूतानि__व्ध_031.019
ससर्जैतानि यानि वै__व्ध_031.019
तेषां मध्ये जगद्धातुर्__व्ध_031.019
अतीवेष्टा वसुंधरा__व्ध_031.019
कृते संमार्जने तस्यास्__व्ध_031.020
तथैवोपरिलेपने__व्ध_031.020
प्रयाति परमं तोषं__व्ध_031.020
वैष्णवीयं मही यतः__व्ध_031.020
ब्रह्मन् येन विधानेन__व्ध_031.021
देवागारोपलेपलम्__व्ध_031.021
कर्तव्यं पुरुषैः सम्यक्__व्ध_031.021
स्त्रीभिर् वा तद् उदीरय__व्ध_031.021
रिक्तायास् तु तिथेर् मध्ये__व्ध_031.022
कुर्यात् संकल्पम् आत्मनः__व्ध_031.022
उपलेपनकृद् विप्रो__व्ध_031.022
विष्णोर् आयतने भुवि__व्ध_031.022

द्वितीये ऽह्नि ततो देवं__व्ध_031.023
प्रणम्य यतमानसः__व्ध_031.023
धरणीपितरं विष्णुम्__व्ध_031.023
इदं वाक्यम् उदीरयेत्__व्ध_031.023
त्वं सर्वभूतप्रभवो जगत्पते__व्ध_031.024
त्वय्य् एतद् ईशेश जगत् प्रतिष्ठितम्__व्ध_031.024
त्वम् एव भूतानि यतस् ततो ऽहं__व्ध_031.024
त्वाम् पूजयाम्य् अद्य महीस्वरूपम्__व्ध_031.024
त्वं मही जगतां नाथ__व्ध_031.025
सर्वनाथ नमो ऽस्तु ते__व्ध_031.025
शुश्रूषितः प्रसीदेश__व्ध_031.025
भुवो लेपनकर्मणा__व्ध_031.025
इत्य् उच्चार्य क्षितौ क्षिप्त्वा__व्ध_031.026
प्रथमं धारनीतले__व्ध_031.026
पुष्पाणि वा द्विजश्रेष्ठ__व्ध_031.026
यः करोत्य् अनुलेपनम्__व्ध_031.026
न तस्य जायते भङ्गो__व्ध_031.026
गार्हस्थ्यस्य कदाचन__व्ध_031.026
या च नारी करोत्य् एवं__व्ध_031.027
यथावद् अनुलेपनम्__व्ध_031.027
नाप्नोति सा च वैधव्यं__व्ध_031.027
गृहभङ्गं कदाचन__व्ध_031.027
कृत्वोपलेपनं भूयः__व्ध_031.028
प्रणिपत्य जनार्दनम्__व्ध_031.028
स्नातो विष्णुं समभ्यर्च्य__व्ध_031.028
इदं वाक्यम् उदीरयेत्__व्ध_031.028
प्रसीद भूधरानन्त__व्ध_031.029
मया यद् उपलेपनम्__व्ध_031.029
कृतं तेन समस्तं मे__व्ध_031.029
नाशम् अभ्येतु पातकम्__व्ध_031.029
एवं संपूज्य भुञ्जीयाद्__व्ध_031.030
अपराह्ने द्विजोत्तम__व्ध_031.030
स्वनुलिप्ते महाभागे__व्ध_031.030
भुक्त्वा लिम्पेच् च तत् पुनः__व्ध_031.030
पक्षे पक्षे त्रिरात्रं तु__व्ध_031.031
यः करोत्य् उपलेपनम्__व्ध_031.031
सर्वपापविनिर्मुक्तः__व्ध_031.031
स्वर्गं गच्छत्य् असंशयम्__व्ध_031.031
तत्क्षयात् स्वर्गेलोके तु__व्ध_031.032
जातो गृहवरं यथा__व्ध_031.032

समाप्नोति यथाख्यातं__व्ध_031.032
तत् सर्वं तव सत्तम__व्ध_031.032
सर्वाभरणसंपूर्णं__व्ध_031.033
सर्वोपस्करधान्यवत्__व्ध_031.033
गोमहिष्यादिसंभोगं__व्ध_031.033
गृहम् आप्नोति मानवः__व्ध_031.033
तस्माद् अभीप्सता सम्यग्__व्ध_031.034
गार्हस्थ्यम् अविखण्डितम्__व्ध_031.034
विष्णोर् आयतने कार्यं__व्ध_031.034
सर्वदैवोपलेपनम्__व्ध_031.034
सप्तद्वीपवतीं कृत्स्नां__व्ध_031.*(33)
यथेन्द्रस् त्रिदिवं तथा__व्ध_031.*(33)
अल्पोपलेपनाद् यस्य__व्ध_031.035
मान्धाता सकलां महीम्__व्ध_031.035
अवाप विष्ण्वायतनं__व्ध_031.035
नोपलिम्पेत को हि तत्__व्ध_031.035
दीपं प्रयच्छति नरो__व्ध_032.001
विष्णोर् आयतने हि यः__व्ध_032.001
सदक्षिणस्य यज्ञस्य__व्ध_032.001
फलं प्राप्नोत्य् असंशयम्__व्ध_032.001
कार्त्तिके तु विशेषेण__व्ध_032.002
कौमुदे मासि दीपकम्__व्ध_032.002
दत्त्वा यत् फलम् आप्नोति__व्ध_032.002
दाल्भ्य तत् केन लभ्यते__व्ध_032.002
दाल्भ्यान्यद् अपि वक्ष्यामि__व्ध_032.003
पुरावृत्तम् इदं शृणु__व्ध_032.003
विदर्भराजतनया__व्ध_032.003
ललिता यद् उवाच ह__व्ध_032.003
विदर्भराट् चित्ररथो__व्ध_032.004
बभूवास्त्रविशारदः__व्ध_032.004
तस्य पुत्रशतं राज्ञो__व्ध_032.004
जज्ञे पञ्चदशोत्तरम्__व्ध_032.004
एकैव कन्या दाल्भ्यासील्__व्ध_032.005
ललिता नामनामतः__व्ध_032.005
सर्वलक्षणसंपूर्णा__व्ध_032.005
भ्रातॄणां पितुर् एव च__व्ध_032.005
समस्तभृत्यवर्गस्य__व्ध_032.006
मातॄणां स्वजनस्य च__व्ध_032.006
तथैव पौरवर्गस्य__व्ध_032.006
यश् चान्यो ददृशे शुभाम्__व्ध_032.006

तस्य तस्यातिचार्वङ्गी__व्ध_032.006
बभूवेष्टा द्विजोत्तम__व्ध_032.006
तां ददौ काशिराजाय__व्ध_032.007
स पिता चारुवर्मने__व्ध_032.007
उपयेमे च तां सुभ्रूं__व्ध_032.007
चारुवर्मा महीपतिः__व्ध_032.007
शतान्य् अन्यानि भार्याणां__व्ध_032.008
त्रीण्य् आसंश् चारुवर्मणः__व्ध_032.008
तासां मध्ये ऽग्रमहिषी__व्ध_032.008
ललिता तस्य चाभवत्__व्ध_032.008
सा च नित्यं जगद्धातुर्__व्ध_032.009
देवदेवस्य चक्रिणः__व्ध_032.009
दीपवर्तिपरा तद्वत्__व्ध_032.009
तैलस्याहरणोद्यता__व्ध_032.009
विष्णोर् आयतने तस्याः__व्ध_032.010
सहस्रं द्विजसत्तम__व्ध_032.010
दीपानां वै प्रजज्वाल__व्ध_032.010
दिवारात्रम् अतन्द्रितम्__व्ध_032.010
तस्या द्युतिपराभूतास्__व्ध_032.011
तस्या लावण्यनिर्जिताः__व्ध_032.011
सर्वाः सपत्न्यो ललितां__व्ध_032.011
पप्रच्छुर् इदम् आदितः__व्ध_032.011
ललिते वद भद्रं ते__व्ध_032.012
भद्रं ते ललिते वद__व्ध_032.012
कौतूहलपराः सर्वा__व्ध_032.012
यत् पृच्छामस् तद् उच्यताम्__व्ध_032.012
विषये सति वक्तव्यं__व्ध_032.013
यन् मया तद् इहोच्यताम्__व्ध_032.013
नाहं मत्सरिणी भद्रा__व्ध_032.013
न च रागादिदूषिता__व्ध_032.013
भवत्यो मम सर्वासां__व्ध_032.014
भवतीनाम् अहं तथा__व्ध_032.014
अपृथग्भर्तृसामन्या__व्ध_032.014
देवलोकाभिकामुकाः__व्ध_032.014
पूर्वं यूयम् अहं चैव__व्ध_032.*(34)
भवतीनां सधर्मिणी__व्ध_032.*(34)
न तथा पुष्पधूपेषु__व्ध_032.015
न तथा द्विजपूजने__व्ध_032.015
प्रयत्नं तव पश्यामो__व्ध_032.015
विष्णोर् आयतने शुभे__व्ध_032.015

यथाहनि तथा रात्रौ__व्ध_032.016
यथा रात्रौ तथाहनि__व्ध_032.016
तव दीपप्रदानाय__व्ध_032.016
यथा सुभ्रु सदोद्यमः__व्ध_032.016
तद् एतत् कथयास्माकं__व्ध_032.017
ललिते कौतुकं परम्__व्ध_032.017
मन्यामो दीपदानस्य__व्ध_032.017
भवत्या विदितं फलम्__व्ध_032.017
एवम् उक्ता ततस् ताभिर्__व्ध_032.018
ललिता ललितं वचः__व्ध_032.018
व्याजहार सपत्नीस् ता__व्ध_032.018
न किंचिद् अपि भामिनी__व्ध_032.018
पुनः पुनश् च सा ताभिर्__व्ध_032.019
बहुषो दाल्भ्य चोदिता__व्ध_032.019
दाक्षिण्यसारा ललिता__व्ध_032.019
कथायाम् आस भामिनी__व्ध_032.019
कौतुकं भवतीनां चेद्__व्ध_032.020
अतीवाल्पे ऽपि वस्तुनि__व्ध_032.020
तद् एषा कथयाम्य् एतद्__व्ध_032.020
यद् वृत्तं मम शोभनाः__व्ध_032.020
सौवीरराजस्य पुरा__व्ध_032.021
मैत्रेयो ऽभूत् पुरोहितः__व्ध_032.021
तेन चायतनं विष्णोः__व्ध_032.021
कारितं देविकातटे__व्ध_032.021
अहन्य् अहनि शुश्रूषां__व्ध_032.022
पुष्पधूपोपलेपनैः__व्ध_032.022
दीपदानादिभिश् चैव__व्ध_032.022
चक्रे तत्र स वै द्विजः__व्ध_032.022
कार्त्तिके दीपको ब्रह्मन्__व्ध_032.023
प्रदत्तस् तेन वै तदा__व्ध_032.023
आसीन् निर्वाणभूयिष्ठो__व्ध_032.023
देवार्चापुरतो निशि__व्ध_032.023
देवतायतने चासं__व्ध_032.024
तत्राहम् अपि मूषिका__व्ध_032.024
प्रदीपवर्तिहरणे__व्ध_032.024
कृतबुद्धिर् वराननाः__व्ध_032.024
गृहीता च मया वर्तिर्__व्ध_032.025
वृषदंशो ननाद च__व्ध_032.025
नष्टा चाहं तदा तस्य__व्ध_032.025
मार्जारस्य भयातुरा__व्ध_032.025

वर्तिप्रान्तेन नश्यन्त्या__व्ध_032.026
स दीपः प्रेरितो मया__व्ध_032.026
जज्वाल पूर्ववद् दीप्त्या__व्ध_032.026
तस्मिन्न् आयतने पुनः__व्ध_032.026
मृताहं च ततो जाता__व्ध_032.027
वैदर्भी राजकन्यका__व्ध_032.027
जातिस्मरा कान्तिमती__व्ध_032.027
भवतीनां समा गुणैः__व्ध_032.027
एष प्रभावो दीपस्य__व्ध_032.028
कार्त्तिके मासि शोभनाः__व्ध_032.028
दत्तस्य विष्ण्वायतने__व्ध_032.028
यस्येयं व्युष्टिर् उत्तमा__व्ध_032.028
असंकल्पितम् अप्य् अस्य__व्ध_032.029
प्रेरणं यत् कृतं मया__व्ध_032.029
विष्ण्वायतनदीपस्य__व्ध_032.029
यस्येदं भुज्यते फलम्__व्ध_032.029
लोभाभिभूता हर्तुं तं__व्ध_032.030
प्रदीपम् अहम् आगता__व्ध_032.030
अवशेनैव तद्वर्त्या__व्ध_032.030
प्रेरणं तत्र मे कृतम्__व्ध_032.030
ततो जातिस्मृतिर् जन्म__व्ध_032.031
मानुष्यं शोभनं वपुः__व्ध_032.031
वश्यः पतिः पृथिवीशः__व्ध_032.031
किं पुनर् दीपदायिनाम्__व्ध_032.031
एतस्मात् कारणाद् दीपान्__व्ध_032.032
अहम् एतान् अहर्निशम्__व्ध_032.032
प्रयच्छामि हरेर् धाम्नि__व्ध_032.032
ज्ञातम् अस्य हि यत् फलम्__व्ध_032.032
भवतीनाम् इदं सत्यं__व्ध_032.033
मयोक्तं केशवालये__व्ध_032.033
मूषिकत्वाद् अहं येन__व्ध_032.033
कर्मणा सिद्धिम् आगता__व्ध_032.033
एष प्रभावो दीपस्य__व्ध_032.034
कार्त्तिके मासि सत्तम__व्ध_032.034
विष्ण्वायतनदत्तस्य__व्ध_032.034
जगाद ललिता यथा__व्ध_032.034
दिने दिने जगन्नाथ__व्ध_032.035
केशवेति समाहितः__व्ध_032.035
ददाति कार्त्तिके यस् तु__व्ध_032.035
विष्ण्वायतनदीपकम्__व्ध_032.035

जातिस्मरत्वं प्रज्ञां च__व्ध_032.036
प्राकाश्यं सर्ववस्तुषु__व्ध_032.036
अव्याहतेन्द्रियत्वं च__व्ध_032.036
संप्राप्नोति न संशयः__व्ध_032.036
शेषकाले च चक्षुष्मान्__व्ध_032.037
मेधावी दीपदो नरः__व्ध_032.037
जायते नरकं वापि__व्ध_032.037
तमःसंज्ञं न पश्यति__व्ध_032.037
एकादशीं द्वादशीं वा__व्ध_032.038
प्रतिपक्षं च यो नरः__व्ध_032.038
दीपं ददाति कृष्णाय__व्ध_032.038
तस्यापि शृणु यत् फलम्__व्ध_032.038
सुवर्णमणिमुक्ताढ्यं__व्ध_032.039
मनोज्ञम् अतिशोभनम्__व्ध_032.039
दीपमालाकुलं दिव्यं__व्ध_032.039
विमानं सो ऽधिरोहति__व्ध_032.039
तस्माद् आयतने विष्णोर्__व्ध_032.040
दद्याद् दीपं द्विजोत्तम__व्ध_032.040
तांश् च दत्तान् न हिंसेत__व्ध_032.040
न च तैलवियोजितान्__व्ध_032.040
कुर्वीत दीपहर्ता तु__व्ध_032.040
मूको ऽन्धो जायते यतः__व्ध_032.040
जायते नरकं चापि__व्ध_032.*(35)
तपःसंज्ञं स पश्यति__व्ध_032.*(35)
अन्धे तामसि दुष्पारे__व्ध_032.041
नरके पतितान् किल__व्ध_032.041
विक्रोशमानान् क्षुत्क्षामाञ्__व्ध_032.041
जगाद यमकिंकरः__व्ध_032.041
विलापैर् अलम् अत्रापि__व्ध_032.042
किं वो विलपिते फलम्__व्ध_032.042
यदा प्रमादिभिः पूर्वम्__व्ध_032.042
आत्मात्यन्तम् उपेक्षितः__व्ध_032.042
पूर्वम् आलोचितं नैतत्__व्ध_032.043
किम् अप्य् अन्ते भविष्यति__व्ध_032.043
इदानीं यातनाभोगः__व्ध_032.043
किं विलापः करिष्यति__व्ध_032.043
देहो दिनानि स्वल्पानि__व्ध_032.044
विषयाश् चातिदुर्धराः__व्ध_032.044
एतत् को न विजानाति__व्ध_032.044
येन यूयं प्रमादिनः__व्ध_032.044

जन्तुजन्मसहस्रेभ्य__व्ध_032.045
एतस्मिन् मानुष्यो यदि__व्ध_032.045
तत्राप्य् अतिविमूढत्वात्__व्ध_032.045
किं भोगान् अभिधावति__व्ध_032.045
विरुद्धविषयास्वाद-__व्ध_032.046
मुदितैर् हसितं च यत्__व्ध_032.046
भवद्भिर् आगतं दुःखं__व्ध_032.046
विलापपरिणामिकम्__व्ध_032.046
अद्यकालिकया बुद्ध्या__व्ध_032.047
यद् आगामि न चिन्तितम्__व्ध_032.047
परितापाय तज् जातं__व्ध_032.047
दुःखं कर्मविपाकजम्__व्ध_032.047
स्वल्पम् आयुर् मनुष्याणां__व्ध_032.048
तदन्ते परतन्त्रता__व्ध_032.048
भुज्यते च कृतं पूर्वम्__व्ध_032.048
एतत् किं वो न चिन्तितम्__व्ध_032.048
यद् अभूत् परदारेषु__व्ध_032.049
प्रीतये ऽङ्गकुचादिकम्__व्ध_032.049
यातनादुःखरूपाय__व्ध_032.049
नरके च तद् आगतम्__व्ध_032.049
परदारमनोहारि__व्ध_032.050
यद् भवद्भिर् अगीयत__व्ध_032.050
हा मात इत्यादि रुतं__व्ध_032.050
तद् इदानीं विलप्यते__व्ध_032.050
संदिग्धपरलोकानाम्__व्ध_032.051
ऐहिके निहतात्मनाम्__व्ध_032.051
मृतानां स्वकृतं कर्म__व्ध_032.051
पश्चात्तापाय केवलम्__व्ध_032.051
मुहूर्तार्धसुखास्वाद-__व्ध_032.052
लुब्धानाम् अकृतात्मनाम्__व्ध_032.052
अनेकवर्षकोटिषु__व्ध_032.052
दुःखदं कर्म जायते__व्ध_032.052
हा मातस् तात तातेति__व्ध_032.053
भवद्भिः किं विलप्यते__व्ध_032.053
शुभाशुभं निजं कर्म__व्ध_032.053
तद् अद्य ह्य् अत्र भुज्यते__व्ध_032.053
पुत्रदारगृहक्षेत्र-__व्ध_032.054
हिताय सततोद्यताः__व्ध_032.054
न कुर्वत्नि कथं मूढाः__व्ध_032.054
स्वल्पम् अप्य् आत्मनो हितम्__व्ध_032.054

वञ्चितो ऽसौ मया लब्धम्__व्ध_032.055
इदम् अस्माद् उपायतः__व्ध_032.055
न वेत्ति कश्चिद् आत्मार्थं__व्ध_032.056
वेत्ति प्रक्रमतो नरः__व्ध_032.056
न वेत्ति सूर्यचन्द्रादीन्__व्ध_032.057
कालम् आत्मानम् एव च__व्ध_032.057
साक्षिभूतान् अशेषस्य__व्ध_032.057
शुभस्येहाशुभस्य च__व्ध_032.057
जन्मान्य् अन्यानि जायन्ते__व्ध_032.058
पुत्रदारादिदेहिनाम्__व्ध_032.058
तदर्थं यत् कृतं कर्म__व्ध_032.058
तस्य जन्मशतानि तत्__व्ध_032.058
अहो मोहस्य माहात्म्यं__व्ध_032.059
ममत्वं नरकेष्व् अपि__व्ध_032.059
क्रन्दते मातरं तातं__व्ध_032.059
पीड्यमानो ऽपि यत् स्वयम्__व्ध_032.059
एवम् आकृष्टचित्तानां__व्ध_032.060
विषयास्वादतर्षुलैः__व्ध_032.060
नॄणां न जायते बुद्धिः__व्ध_032.060
परमार्थावलोकिनी__व्ध_032.060
तथा च विषयासक्तिं__व्ध_032.060
करोत्य् अविरतं मनः__व्ध_032.060
को ऽतिभारो हरेर् नाम्नि__व्ध_032.061
जिह्वायाः परिकीर्तने__व्ध_032.061
वर्तितैले ऽल्पमौल्ये ऽपि__व्ध_032.062
यद् अग्निर् लभ्यते मुधा__व्ध_032.062
अतो ऽधिकतरो लोभः__व्ध_032.062
को वश् चित्ते ऽभवत् तदा__व्ध_032.062
येनेयं तेषु हस्तेषु__व्ध_032.063
स्वातन्त्र्ये सति दीपकः__व्ध_032.063
महाफलो विष्णुगृहे__व्ध_032.063
न दत्तो नरकापहः__व्ध_032.063
न वो विलपिते किंचिद्__व्ध_032.064
इदानीं दृश्यते फलम्__व्ध_032.064
अस्वातन्त्र्ये विलपतां__व्ध_032.064
स्वातन्त्र्ये ऽतिप्रमादिनाम्__व्ध_032.064
अवश्यंपातिनः प्राणा__व्ध_032.065
भोक्ता जीवो ह्य् अहर्निशम्__व्ध_032.065
दत्तं च लभते भोक्ता__व्ध_032.065
समये विषयान् इति__व्ध_032.065

एतत् स्वातन्त्र्यवद्भिर् वो__व्ध_032.066
युक्तम् आसीत् परीक्षितुम्__व्ध_032.066
इदानीं किं विलापेन__व्ध_032.066
सहध्वं यद् उपागतम्__व्ध_032.066
यद्य् एतद् अनभीष्टं वो__व्ध_032.067
यद् दुःखं समुपस्थितम्__व्ध_032.067
तद् भूयो ऽपि मतिः पापे__व्ध_032.067
न कर्तव्या कथंचन__व्ध_032.067
कृते ऽपि पापके कर्मण्य्__व्ध_032.068
अज्ञानाद् अघनाशनम्__व्ध_032.068
कर्तव्यम् अव्यवस्थितं__व्ध_032.068
स्मरद्भिर् मधुसूदनम्__व्ध_032.068
नारकास् तद्वचः श्रुत्वा__व्ध_032.069
ताम् ऊचुर् अतिदुःखिताः__व्ध_032.069
क्षुत्क्षामकण्ठास् तृषया__व्ध_032.069
परिस्फुटिततालुकाः__व्ध_032.069
भो भो साधो कृतं कर्म__व्ध_032.070
यद् अस्माभिस् तद् उच्यताम्__व्ध_032.070
नरकस्थैर् विपाको ऽयं__व्ध_032.070
भुज्यते यस्य दारुणः__व्ध_032.070
युष्माभिर् यौवनोन्माद-__व्ध_032.071
मुदितैर् अविवेकिभिः__व्ध_032.071
द्यूतोद्योताय गोविन्द-__व्ध_032.071
गृहाद् दीपः पुरा हृतः__व्ध_032.071
तेनास्मिन् नरके घोरे__व्ध_032.072
क्षुत्तृष्णापरिपीडिताः__व्ध_032.072
भवन्तः पतितास् तीव्र-__व्ध_032.072
शीतवातविदारिताः__व्ध_032.072
एतत् ते दीपदानस्य__व्ध_032.073
प्रदीपहरणस्य च__व्ध_032.073
पुण्यं पापं च कथितं__व्ध_032.073
केशवायतने द्विज__व्ध_032.073
सर्वत्रैव हि दीपस्य__व्ध_032.074
प्रदानं द्विज शस्यते__व्ध_032.074
विशेषेण जगद्धातुः__व्ध_032.074
केशवस्य निवेशने__व्ध_032.074
ये ऽन्धा मूका निःश्रुता निर्विवेका__व्ध_032.075
हीनास् तैस् तैः साधनैर् विप्रवर्य__व्ध_032.075
तैस् तैर् दीपाः साधुलोकप्रदत्ता__व्ध_032.075
देवागाराद् अन्यतो विप्रणीताः__व्ध_032.075

आह्लादं चक्षुषः प्रीतिं__व्ध_033.001
करोति मनसस् तथा__व्ध_033.001
केषांचिद् दर्शनं ब्रह्मन्__व्ध_033.001
मनुष्याणाम् अहर्निशम्__व्ध_033.001
उद्वेजनीया भूतानाम्__व्ध_033.002
अनिमित्तं तथापरे__व्ध_033.002
वदन्ते विप्रियं नैव__व्ध_033.002
प्रीतिं कुर्वन्ति मानवाः__व्ध_033.002
एतद् यस्य फलं ब्रह्मन्__व्ध_033.003
दानस्य तपसो ऽथवा__व्ध_033.003
उपवासस्य वा तन् मे__व्ध_033.003
यथावद् वक्तुम् अर्हसि__व्ध_033.003
अप्रीतिदस्य विप्रर्षे__व्ध_033.004
विपाको यस्य कर्मणः__व्ध_033.004
मनुष्याणाम् अशेषं वै__व्ध_033.004
तन् ममाचक्ष्व सत्तम__व्ध_033.004
देवब्राह्मणवेदेषु__व्ध_033.005
यज्ञेषु च नराधमैः__व्ध_033.005
यैर् जुगुप्सा कृता दाल्भ्य__व्ध_033.005
मनसाप्य् अतिमानिभिः__व्ध_033.005
तेषां संदर्शनात् सर्वो__व्ध_033.006
न सुखं विन्दते द्विज__व्ध_033.006
वदन्त्य् अप्य् अनुकूलानि__व्ध_033.006
न तेषु प्रीयते जनः__व्ध_033.006
स्पर्शाद् उद्विजते लोकः__व्ध_033.007
कटु तेषां च दर्शनम्__व्ध_033.007
संभाषणं च निन्दा वै__व्ध_033.007
कृता वेदद्विजातिके__व्ध_033.007
तस्मान् न निन्दां वेदादौ__व्ध_033.008
न जुगुप्सां च पण्डितः__व्ध_033.008
यज्ञादौ च नरः कुर्याद्__व्ध_033.008
य इच्छेच् छ्रेय आत्मनः__व्ध_033.008
यैस् तु प्रीतिः समस्तेषु__व्ध_033.009
वेददेवद्विजातिषु__व्ध_033.009
यज्ञादिके चैव कृता__व्ध_033.009
दाल्भ्य तद्दर्शनं नृणाम्__व्ध_033.009
आह्लादश् चक्षुषः प्रीतिर्__व्ध_033.010
मनसो निर्वृतिः परा__व्ध_033.010
संभाषणे तथाह्लादः__व्ध_033.010
सर्वलोकस्य जायते__व्ध_033.010

स्तुताः प्रशस्ताः संप्रीत्या__व्ध_033.011
पूजिता बहुमानतः__व्ध_033.011
श्रेयः परं प्रयच्छन्ति__व्ध_033.011
देवा वेदा मखा द्विजाः__व्ध_033.011
लोकद्वये ऽपि चाप्रीतिं__व्ध_033.012
पशुपुत्रधनक्षयम्__व्ध_033.012
कुर्वन्ति द्विजशार्दूल__व्ध_033.012
एत एव विनिन्दिताः__व्ध_033.012
एत एव समाख्याताः__व्ध_033.013
स्तवादिग्रहणे गुणाह्__व्ध_033.013
निन्दायाः श्रवणे दोष__व्ध_033.013
एतेषाम् एवम् एव हि__व्ध_033.013
तस्मात् स्तव्याः प्रशंस्याश् च__व्ध_033.014
देवा वेदा द्विजातयः__व्ध_033.014
यज्ञाश् च मनसाप्य् एषां__व्ध_033.014
न निन्दाम् आचरेद् बुधः__व्ध_033.014
अनायासेन भगवन्__व्ध_034.001
दानेनान्येन केनचित्__व्ध_034.001
पापं प्रशमम् आयाति__व्ध_034.001
येन तद् वक्तुम् अर्हसि__व्ध_034.001
शृणु दाल्भ्य महापुण्यां__व्ध_034.002
द्वादशीं पापनाशनीम्__व्ध_034.002
याम् उपोष्य परं पुण्यं__व्ध_034.002
प्राप्नुते श्रद्धयान्वितः__व्ध_034.002
माघमासे तु संप्राप्त__व्ध_034.003
आषाढार्क्षं भवेद् यदि__व्ध_034.003
मूलं वा कृष्णपक्षस्य__व्ध_034.003
द्वादश्यां नियतस् तदा__व्ध_034.003
गृह्णीयात् पुण्यफलदं__व्ध_034.004
विधानं तस्य मे शृणु__व्ध_034.004
देवदेवं समभ्यर्च्य__व्ध_034.004
सुस्नातः प्रयतः शुचिः__व्ध_034.004
कृष्णनाम्ना च संस्तूय__व्ध_034.005
एकादश्यां महामते__व्ध_034.005
उपोषितो द्वितीये ऽह्नि__व्ध_034.005
पुनः संपूज्य केशवम्__व्ध_034.005
संस्तूय नाम्ना च ततः__व्ध_034.006
कृष्णाख्येन पुनः पुनः__व्ध_034.006
दद्यात् तिलांस् तु विप्राय__व्ध_034.006
कृष्णो मे प्रीयताम् इति__व्ध_034.006

स्नानप्राशनयोः शस्तास्__व्ध_034.006
तथा कृष्णतिला मुने__व्ध_034.006
तिलप्ररोहे जायन्ते__व्ध_034.007
यावत्संख्यास् तिला द्विज__व्ध_034.007
तावद्वर्षसहस्राणि__व्ध_034.007
स्वर्गलोके महीयते__व्ध_034.007
जातश् चेहाप्य् अरोगो ऽसौ__व्ध_034.008
नरो जन्मनि जन्मनि__व्ध_034.008
नान्धो न बधिरश् चेह__व्ध_034.008
न कुष्ठी न जुगुप्सितः__व्ध_034.008
भवत्य् एताम् उषित्वा तु__व्ध_034.008
तिलाख्यां द्वादशीं नरः__व्ध_034.008
विष्णोः प्रीणनम् अत्रोक्तं__व्ध_034.009
समाप्ते वर्षपारणे__व्ध_034.009
पूजां च कुर्याद् विप्राय__व्ध_034.009
भूयो दद्यात् तथा तिलान्__व्ध_034.009
अनेन दाल्भ्य विधिना__व्ध_034.010
तिलदानाद् असंशयम्__व्ध_034.010
मुच्यते पातकैः सर्वैर्__व्ध_034.010
निरायासेन मानवः__व्ध_034.010
उद्भृतपुलकः सर्वान्__व्ध_034.*(36)
निरायासेन मानवः__व्ध_034.*(36)
दानविधिस् तथा श्रद्धा__व्ध_034.011
सर्वपातकशान्तये__व्ध_034.011
नार्थः प्रभूतो नायासः__व्ध_034.011
शारीरो मुनिसत्तम__व्ध_034.011
अनन्तस्याप्रमेयस्य__व्ध_035.001
व्यापिनः परमात्मनः__व्ध_035.001
नाम्नां नक्षत्रभेदेन__व्ध_035.001
तिथिभेदेन वा द्विज__व्ध_035.001
दानभेदेन चाख्यातो__व्ध_035.002
विभिन्नफलदस् त्वया__व्ध_035.002
विशेषः क्षेत्रभेदेन__व्ध_035.002
कथ्यतां यदि विद्यते__व्ध_035.002
यथ र्क्षतिथिभेदेन__व्ध_035.003
तेषाम् एव पुनः पुनः__व्ध_035.003
विशेषः कथितो नाम्नां__व्ध_035.003
विशेषफलदायकः__व्ध_035.003
तथा क्षेत्रविशेषेण__व्ध_035.003
भेदं नामकृतं वद__व्ध_035.003

शृणु दाल्भ्य यथाख्यातम्__व्ध_035.004
अर्जुनाय महात्मने__व्ध_035.004
प्रणिपातप्रसन्नेन__व्ध_035.004
विष्णुना प्रभविष्णुना__व्ध_035.004
कृते भारावतरणे__व्ध_035.005
निवृत्ते भारते रणे__व्ध_035.005
आगम्य शिबिरं विष्णू__व्ध_035.005
रथस्थः प्राह फाल्गुनम्__व्ध_035.005
इषुधीगाण्डिवं चैव__व्ध_035.006
समादाय त्वरान्वितः__व्ध_035.006
अवतीर्य रथाद् वीर__व्ध_035.006
दूरे तिष्ट्ःअ धनंजय__व्ध_035.006
अवरोक्ष्याम्य् अहं पश्चाद्__व्ध_035.007
अवतीर्णे ततस् त्वयि__व्ध_035.007
एतत् कुरु महाबाहो__व्ध_035.007
मा विलम्बस्व फाल्गुन__व्ध_035.007
एवम् उक्तस् तथा चक्रे__व्ध_035.008
वाक्यं पार्थो गदाधृतः__व्ध_035.008
अवारोहत् ततः पश्चात्__व्ध_035.008
स्वयम् एव जनार्दनः__व्ध_035.008
अवतीर्णे जगन्नाथे__व्ध_035.009
स्वसमुत्थेन वह्निना__व्ध_035.009
जज्वाल स रथः सद्यो__व्ध_035.009
भस्मीभूतश् च तत्क्षणात्__व्ध_035.009
सोपस्करपताको ऽथ__व्ध_035.009
सध्वजः सह वाजिभिः__व्ध_035.009
सच्छत्त्रो वह्निना सद्यो__व्ध_035.010
रथो भस्मलवीकृतः__व्ध_035.010
वह्निना च यथा काष्ठं__व्ध_035.010
सद्यो भस्मलवीकृतम्__व्ध_035.010
तद् अद्भुतं महद् दृष्ट्वा__व्ध_035.011
पार्थः पप्रच्छ केशवम्__व्ध_035.011
हृष्टरोमा द्विजश्रेष्ठ__व्ध_035.011
भयविस्मयगद्गदः__व्ध_035.011
आश्चर्यं पुरुषव्याघ्र__व्ध_035.012
किम् एतन् मधुसूदन__व्ध_035.012
विनाग्निना रथो ऽयं मे__व्ध_035.012
दग्धस् तृणचयो यथा__व्ध_035.012
भीष्मद्रोणकृपादीनां__व्ध_035.013
कर्णादीनां च फाल्गुन__व्ध_035.013

दग्धो ऽस्त्रैर् विविधैर् एष__व्ध_035.013
पूर्वम् एव रथस् तव__व्ध_035.013
मदधिष्ठितत्वात् कौन्तेय__व्ध_035.014
न शीर्णो ऽयं तदाभवत्__व्ध_035.014
प्रत्यहन् निशि चक्रेण__व्ध_035.014
मया न्यस्तेन रक्षितः__व्ध_035.014
सो ऽयं दग्धो महाबाहो__व्ध_035.015
त्वय्य् अद्य कृतकर्मणि__व्ध_035.015
मयावतारिते चक्रे__व्ध_035.015
मा पार्थ कुरु विस्मयम्__व्ध_035.015
कं भवन्तम् अहं विद्याम्__व्ध_035.016
अतिमानुषचेष्टितम्__व्ध_035.016
कर्मणात्यद्भुतेनाग्निर्__व्ध_035.016
धूमेनैवेह सूचितः__व्ध_035.016
पूर्वम् एव यथाख्यातं__व्ध_035.017
रणारम्भे तवार्जुन__व्ध_035.017
कालो ऽस्मि लोकनाशाय__व्ध_035.017
प्रवृत्तो ऽहं यथाधुना__व्ध_035.017
तन् मया साधितं कार्यं__व्ध_035.018
त्रिदशानां तथा भुवः__व्ध_035.018
भारावतरणार्थाय__व्ध_035.018
मम जन्म महीतले__व्ध_035.018
एवम् उक्तो ऽर्जुनः सम्यक्__व्ध_035.019
प्रणिपत्य जनार्दनम्__व्ध_035.019
तुष्टाव वाग्भिर् इष्टाभिर्__व्ध_035.019
उद्भूतपुलकस् ततः__व्ध_035.019
नमो ऽस्तु ते चक्रधरोग्ररूप__व्ध_035.020
नमो ऽस्तु ते शार्ङ्गधरारुणाक्ष__व्ध_035.020
नमो ऽस्तु ते ऽभ्युद्यतखड्ग रौद्र__व्ध_035.020
नमो ऽस्तु विभ्रान्तगदान्तकारिन्__व्ध_035.020
भयेन सन्नो ऽस्मि सवेपथेन__व्ध_035.021
नाङ्गानि मे देव वशं प्रयान्ति__व्ध_035.021
वाचः समुच्चारयतः स्खलन्ति__व्ध_035.021
केशा हृषीकेश समुच्छ्वसन्ति__व्ध_035.021
कालो भवान् कालकरालकर्मा__व्ध_035.022
येनैतद् एवं क्षयम् अक्षयात्मन्__व्ध_035.022
क्षत्रं समुद्भूतरुषा समस्तम्__व्ध_035.022
नीतं भुवो भारविरेचनाय__व्ध_035.022
प्रसीद कर्तर् जय लोकनाथ__व्ध_035.023
प्रसीद सर्वस्य च पालनाय__व्ध_035.023

स्थितौ समस्तस्य च कालरूप__व्ध_035.023
कृतोद्यमेशान जयाव्ययात्मन्__व्ध_035.023
न मे दृग् एषा तव रूपम् एतद्__व्ध_035.024
द्रष्टुं समर्था क्षुभितो ऽस्मि चान्तः__व्ध_035.024
पूर्वस्वभावस्थितविग्रहो ऽपि__व्ध_035.024
संलक्ष्यसे ऽत्यन्तम् असौम्यरूप__व्ध_035.024
स्मरामि रूपं तव विश्वरूपं__व्ध_035.025
यद् दर्शितं पूर्वम् अभून् ममैव__व्ध_035.025
यस्मिन् मया विश्वम् अशेषम् आसीद्__व्ध_035.025
दृष्टं सयक्षोरगदेवदैत्यम्__व्ध_035.025
सा मे स्मृतिर् दर्शनभाषनादि-__व्ध_035.026
प्रकुर्वतो नाथ गता प्रणाशम्__व्ध_035.026
कालो ऽहम् अस्मीत्य् उदिते त्वया तु__व्ध_035.026
समागतेयं पुनर् अप्य् अनन्त__व्ध_035.026
कर्ता भवान् कारणम् अप्य् अशेषम्__व्ध_035.027
कार्यं च निष्कारण कर्तृरूप__व्ध_035.027
आदौ स्थितौ संहरणे च देव__व्ध_035.027
विश्वस्य विश्वं स्वयम् एव च त्वम्__व्ध_035.027
ब्रह्मा भवान् विश्वसृग् आदिकाले__व्ध_035.028
विश्वस्य रूपो ऽसि तथा विसृष्टौ__व्ध_035.028
विष्णुः स्थितौ पालनबद्धकक्षो__व्ध_035.028
रुद्रो भवान् संहरणे प्रजानाम्__व्ध_035.028
एभिस् त्रिभिर् नाथ विभूतिभेदैर्__व्ध_035.029
यश् चिन्त्यते कारणम् आत्मनो ऽपि__व्ध_035.029
वेदान्तवेदोदितम् अस्ति विष्णोः__व्ध_035.029
पदं ध्रुवं तत् परमं त्वम् एव__व्ध_035.029
यन् निर्गुणं सर्वविकल्पहीनम्__व्ध_035.030
अनन्तम् अस्थूलम् अरूपगन्धम्__व्ध_035.030
परं पदं वेदविदो वदन्ति__व्ध_035.030
त्वम् एव तच् छब्दरसादिहीनम्__व्ध_035.030
यथा हि मूले विटपी महाद्रुमः__व्ध_035.031
प्रतिष्ठितस्कन्धवरोग्रशाखः__व्ध_035.031
तथा समस्तामरमर्त्यतिर्यग्-__व्ध_035.031
व्योमादिशब्दादिमयं त्वयीदम्__व्ध_035.031
मुञ्चामि यावत् परमायुधानि__व्ध_035.032
वैरिष्व् अनन्ताहवदुर्मदेषु__व्ध_035.032
दृष्ट्वा हि तावत् सहसा पतन्तो__व्ध_035.032
नूनं तवैवाच्युत स प्रभावः__व्ध_035.032
हता हतास् ते भवतो दृशैव__व्ध_035.033
मया पुनः केशव शस्त्रपूगैः__व्ध_035.033

काह् कर्णभीष्मप्रमुखान् विजेतुं__व्ध_035.033
युष्मत्प्रसादेन विना समर्थः__व्ध_035.033
त्रिशूलपाणिर् मम यः पुरस्तान्__व्ध_035.034
निषूदयन् वैरिबलं जगाम__व्ध_035.034
ज्ञातं मया सांप्रतम् एतद् ईश__व्ध_035.034
तव प्रसादस्य हि सा विभूतिः__व्ध_035.034
यमेन्द्रवित्तेशजलेशवह्नि-__व्ध_035.035
सूर्यात्मको यश् च ममास्त्रपूगः__व्ध_035.035
नाशाय नाभूत् पतितो ऽपि काये__व्ध_035.035
त्वत्संनिधानस्य हि सो ऽनुभावः__व्ध_035.035
बाल्ये भवान् यानि चकार देव__व्ध_035.036
कर्माण्य् असह्यानि सुरासुराणाम्__व्ध_035.036
तैर् एव जानीम न यत् परं त्वां__व्ध_035.036
दोषः स निर्दोषो मनुष्यतायाः__व्ध_035.036
तालोच्छ्रिताग्रं गुरुभारसारम्__व्ध_035.037
आयामविस्तारवद् अद्यजातः__व्ध_035.037
पादाग्रविक्षेपविभिन्नभाण्डं__व्ध_035.037
चिक्षेप को ऽन्यः शकटं यथा त्वम्__व्ध_035.037
अन्येन केनाच्युत पूतनायाः__व्ध_035.038
प्राणैः समं पीतम् असृग्विमिश्रम्__व्ध_035.038
त्वया यथा स्तन्यम् अतीवबाल्ये__व्ध_035.038
गोष्ठे च भग्नौ यमलार्जुनौ तौ__व्ध_035.038
विषानलोष्णाम्बुनिपातभीमम्__व्ध_035.039
आस्फोट्य को वा भुवि मनुषो ऽन्यः__व्ध_035.039
ननर्त पादाब्जनिपीडितस्य__व्ध_035.039
फणं समारुह्य च कालियस्य__व्ध_035.039
सुरेशसंदेशविरोधवत्सु__व्ध_035.040
वर्षत्सु मेघेषु गवान् निमित्तम्__व्ध_035.040
दिनानि सप्तास्ति च कस्य शक्तिर्__व्ध_035.040
गोवर्धनं धारयितुं करेण__व्ध_035.040
प्रलम्बचाणूरमुखान् निहत्य__व्ध_035.041
कंसासुरं यस्य बिभेति शक्रः__व्ध_035.041
तम् अष्टवर्षो निजघान को ऽन्यो__व्ध_035.041
निरायोधो नाथ मनुष्यजन्मा__व्ध_035.041
बाणार्थम् अभ्युद्यतम् उग्रशूलं__व्ध_035.042
निर्जित्य संख्ये त्रिपुरारिम् एकः__व्ध_035.042
सकार्त्तिकेयज्वरम् अस्त्रबाहुं__व्ध_035.042
करोति को बाणम् अनच्युतो ऽन्यः__व्ध_035.042
कः पारिजातं सुरसुन्दरीणां__व्ध_035.043
सदोपभोग्यं विजितेन्द्रसैन्यः__व्ध_035.043

स्वर्गान् महीम् उच्छ्रितवीर्यधैर्यः__व्ध_035.043
समानयाम् आस यथा प्रभो त्वम्__व्ध_035.043
हत्वा हयग्रीवम् उदारवीर्यं__व्ध_035.044
निशुम्भशुम्भौ नरकं च को ऽन्यः__व्ध_035.044
जग्राह कन्यापुरम् आत्मनो ऽर्थं__व्ध_035.044
प्राग्ज्योतिषाख्ये नगरे महात्मन्__व्ध_035.044
स्थितौ स्थितस् त्वं परिपासि विश्वं__व्ध_035.045
तैस् तैर् उपायैर् अविनीतभीतैः__व्ध_035.045
मैत्री न येषां विनयाय तांस् तान्__व्ध_035.045
सर्वान् भवान् संहरते ऽव्ययात्मन्__व्ध_035.045
हिताय तेषां कपिलादिरूपिणा__व्ध_035.046
त्वयानुशस्ता बहवो ऽनुजीवाः__व्ध_035.046
येषां न मैत्री हृदि ते न नेया__व्ध_035.046
विश्वोपकारी वध एव तेषाम्__व्ध_035.046
इत्थं भवान् दुष्टवधेन नूनं__व्ध_035.047
विश्वोपकाराय विभो प्रवृत्तः__व्ध_035.047
स्थितौ स्थितं पालनम् एव विष्णुः__व्ध_035.047
करोति हन्त्य् अन्तगतो ऽन्तरुद्रः__व्ध_035.047
एतानि चान्यानि च दुष्कराणि__व्ध_035.048
दृष्टानि कर्माणि तथापि सत्यम्__व्ध_035.048
मन्यामहे त्वां जगतः प्रसूतिं__व्ध_035.048
किं कुर्म माया तव मोहनीयम्__व्ध_035.048
त्वं सर्वम् एतत् त्वयि सर्वम् एतत्__व्ध_035.049
त्वत्तस् तथैतत् तव चैतद् ईश__व्ध_035.049
एतत् स्वरूपं तव सर्वभूतं__व्ध_035.049
विभूतिभेदैर् बहुभिः स्थितस्य__व्ध_035.049
प्रसीद कृष्णाच्युत वासुदेव__व्ध_035.050
जनार्दनानन्त नृसिंह विष्णो__व्ध_035.050
मनुष्यसामान्यधिया यदीश__व्ध_035.050
दृष्टो मया तत् क्षमस्वादिदेव__व्ध_035.050
न वेद्मि सद्भावम् अहं तवाद्य__व्ध_035.051
सद्भावभूतस्य चराचरस्य__व्ध_035.051
यो वै भवान् को ऽपि नतो ऽस्मि तस्मै__व्ध_035.051
मनुष्यरूपाय चतुर्भुजाय__व्ध_035.051
देवदेव जगन्नाथ__व्ध_035.052
सर्वपापहरो भव__व्ध_035.052
हेतुमात्रस् त्व् अहं तत्र__व्ध_035.052
त्वयैतद् उपसंहृतम्__व्ध_035.052
प्रसीदेश हृषीकेश__व्ध_035.053
अक्षौहिण्या दशाष्ट च__व्ध_035.053

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc