भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 6180

तत् तस्याः सकलं देवि__व्ध_022.019
तस्यार्धं न लभेत् पतिः__व्ध_022.019
भर्तर्य् एवं प्रवसिते__व्ध_022.020
त्यक्ता च पतिना शुभे__व्ध_022.020
कुर्वीताराधनं नारी__व्ध_022.020
उपवासादिना हरेः__व्ध_022.020
एतत् तवोक्तं यत् पृष्टं__व्ध_022.021
त्वयाहं गिरिनन्दिनि__व्ध_022.021
विधवानाम् अतो धर्मं__व्ध_022.021
श्रूयतां विष्णुतुष्टिदम्__व्ध_022.021
मृते भर्तरि साध्वी स्त्री__व्ध_022.022
ब्रह्मचर्यव्रतोदिता__व्ध_022.022
स्नाता प्रतिदिनं दद्यात्__व्ध_022.022
स्वभर्तृसलिलाञ्जलिम्__व्ध_022.022
कुर्याद् यानुदिनं भक्त्या__व्ध_022.023
देवानाम् अपि पूजनम्__व्ध_022.023
अतिथेस् तर्पणं तद्वद्__व्ध_022.023
अग्निहोत्रम् अमन्त्रकम्__व्ध_022.023
पूर्तधर्माश्रितं चान्यत्__व्ध_022.024
कुर्यान् नित्यम् अतन्द्रिता__व्ध_022.024
नित्यकर्म ऋते चास्या__व्ध_022.024
नेष्टं कर्म विधीयते__व्ध_022.024
विष्णोर् आराधनं चैव__व्ध_022.025
कुर्यान् नित्यम् उपोषिता__व्ध_022.025
दानादि विप्रमुख्येभ्यो__व्ध_022.025
दद्यात् पुण्यविवृद्धये__व्ध_022.025
उपवासांश् च विविधान्__व्ध_022.025
कुर्याच् छास्त्रोदितान् शुभे__व्ध_022.025
लोकान्तरस्थं भर्तारम्__व्ध_022.026
आत्मानं च वरानने__व्ध_022.026
तारयत्य् उभयं नारी__व्ध_022.026
येत्थं धर्मपरायणा__व्ध_022.026
पुत्रैश्वर्यस्थिता नारी__व्ध_022.027
उपवासादिना हरिम्__व्ध_022.027
या तोषयति सिद्धिं सा__व्ध_022.027
पुत्रेभ्यो ऽपि प्रयच्छति__व्ध_022.027
शुभांल् लोकांस् तथा भर्तुर्__व्ध_022.028
आत्मनश् च यथेप्सितान्__व्ध_022.028
सकलं पूरयत्य् अस्तं__व्ध_022.028
पापं नयति चाखिलम्__व्ध_022.028

आत्मनश् चैव भर्तुश् च__व्ध_022.029
नारी परमिकां गतिम्__व्ध_022.029
ददात्य् आराध्य गोविन्दं__व्ध_022.029
सपुत्रा विधवा च या__व्ध_022.029
तस्माद् एभिर् विधानैस् तु__व्ध_022.030
सर्वकालं तु योषितः__व्ध_022.030
केशवाराधनं कार्यं__व्ध_022.030
लोकद्वयफलप्रदम्__व्ध_022.030
ये नरा मृतपत्निकास्__व्ध_022.031
तैर् अप्य् एतद् अशेषतः__व्ध_022.031
पूर्तधर्माश्रितं कार्यं__व्ध_022.031
नित्यकर्म च केवलम्__व्ध_022.031
पुत्रैश्वर्यस्थितैः सम्यग्__व्ध_022.032
ब्रह्मचर्यगुणान्वितैः__व्ध_022.032
विष्णोर् आराधनं कार्यं__व्ध_022.032
तीर्थस्थैर् अथवा गृहे__व्ध_022.032
ब्राह्मणः क्षत्रियो वैश्यः__व्ध_022.033
स्त्री शूद्रश् च वरानने__व्ध_022.033
अनाराध्य हृषीकेशं__व्ध_022.033
नाप्नोति परमां गतिम्__व्ध_022.033
ऐश्वर्यं संततिं श्रेष्ठाम्__व्ध_022.034
आरोग्यं द्रव्यसंपदम्__व्ध_022.034
ददाति भगवान् विष्णुर्__व्ध_022.034
गतिम् अग्र्यां सुतोषितः__व्ध_022.034
एवं शैलसुता प्रोक्ता__व्ध_022.035
स्वयं देवेन शंभुना__व्ध_022.035
पृष्टेन सम्यक् कथितं__व्ध_022.035
भवतो ऽपि महामुने__व्ध_022.035
सर्ववर्णैस् तथा स्त्रीभिर्__व्ध_022.036
अन्यैर् अपि जनैर् हरिः__व्ध_022.036
आराधनीयो नातुष्टे__व्ध_022.036
विष्णौ संप्राप्यते गतिः__व्ध_022.036
न दुर्गतिं रौरवादीन्__व्ध_022.037
नरकांश् च न गच्छति__व्ध_022.037
यम् आराध्येश्वरं वन्द्यं__व्ध_022.037
कस् तं विष्णुं न पूजयेत्__व्ध_022.037
तस्माद् अमुष्मिकान् क्लेशान्__व्ध_022.038
नरके याश् च यातनाः__व्ध_022.038
सदैवोद्विजता दाल्भ्य__व्ध_022.038
समाराध्यो जनार्दनः__व्ध_022.038

भगवन् यातना घोराः__व्ध_023.001
श्रूयन्ते नरकेषु याः__व्ध_023.001
तासां स्वरूपम् अत्युग्रं__व्ध_023.001
यथावद् वक्तुम् अर्हसि__व्ध_023.001
शृणु दाल्भ्यातिघोराणां__व्ध_023.002
यातनानां मयोदितम्__व्ध_023.002
स्वरूपं नारकैर् यत् तु__व्ध_023.002
नरकेष्व् अनुभूयते__व्ध_023.002
योजनानां सहस्राणि__व्ध_023.003
रौरवो नरको द्विज__व्ध_023.003
अङ्गारपूर्णमध्यो ऽसौ__व्ध_023.003
ज्वालामालापरिष्कृतः__व्ध_023.003
तन्मध्ये पतितो याति__व्ध_023.004
योजनानि सहस्रशः__व्ध_023.004
सत्यहान्यानृती याति__व्ध_023.004
तत्र पापरतिर् नरः__व्ध_023.004
रौरवाद् द्विगुणश् चैव__व्ध_023.005
महारौवरसंज्ञितः__व्ध_023.005
तप्तताम्रपुटाङ्गार-__व्ध_023.005
ज्वलत्पावकसंवृतः__व्ध_023.005
परोपतापिनस् तत्र__व्ध_023.006
पतन्ति नरके नराः__व्ध_023.006
नाश्चर्यं द्विजशार्दूल__व्ध_023.006
वर्षलक्षयुतानि च__व्ध_023.006
कालसूत्रेण च्छिद्यन्ते__व्ध_023.007
चक्रारूढाश् च मानवाः__व्ध_023.007
कालाङ्गुलिस्थेन सदा__व्ध_023.007
आपादतलमस्तकात्__व्ध_023.007
कालसूत्र इति ख्यातो__व्ध_023.008
घोरः स नरकोत्तमः__व्ध_023.008
तत्रापि वञ्चका यान्ति__व्ध_023.008
ये चैवोत्कोचजीविनः__व्ध_023.008
तप्तकुम्भस् तथैवान्यो__व्ध_023.009
नरको भृशदारुणः__व्ध_023.009
तैलकुम्भेषु पच्यन्ते__व्ध_023.009
तत्राप्य् अग्निभृतेषु ते__व्ध_023.009
देववेदद्विजातीनां__व्ध_023.010
ये निन्दां कुर्वते सदा__व्ध_023.010
संशृण्वन्ति च ये मूढा__व्ध_023.010
ये च मत्सरिणो ऽधमाः__व्ध_023.010

करम्भवालुकाकुम्भ-__व्ध_023.011
संज्ञं च नरकं शृणु__व्ध_023.011
परदाररता ये तु__व्ध_023.011
पतन्ति नरके ऽधमाः__व्ध_023.011
हृतं यैश् च जलं ते ऽपि__व्ध_023.012
तस्मिन् यान्ति नराधमाः__व्ध_023.012
गोनिपानेषु विघ्नानि__व्ध_023.012
मूढा ये चापि कुर्वते__व्ध_023.012
करम्भवालुकाकुम्भ-__व्ध_023.012
नरके ते पतन्ति वै__व्ध_023.012
अन्धे तमसि दुष्पारे__व्ध_023.013
शीतार्तिपरिकम्पिताः__व्ध_023.013
भ्राम्यन्ते मानवा गात्रैः__व्ध_023.013
समस्तैः स्फुटितास्थिभिः__व्ध_023.013
गोवधः स्त्रीवधः पापैः__व्ध_023.014
कृतं यैश् च गवानृतम्__व्ध_023.014
ते तत्रातिमहाभीमे__व्ध_023.014
पतन्ति नरके नराः__व्ध_023.014
उत्पाट्यते तथा जिह्वा__व्ध_023.015
संदंशैर् भृशदारुणैः__व्ध_023.015
आक्रिशकानां दुष्टानां__व्ध_023.015
सदैवाबद्धभाषिणाम्__व्ध_023.015
करपत्रैश् च पाट्यन्ते__व्ध_023.016
यमस्य पुरुषैस् तथा__व्ध_023.016
परदारपरद्रव्य-__व्ध_023.016
हिंसकाः पुरुषाधमाः__व्ध_023.016
आयसीं च शिलां तप्ताम्__व्ध_023.017
अशेषाङ्गैस् तथा नराः__व्ध_023.017
परदाररता एवं__व्ध_023.017
समालिङ्गन्ति पापिनः__व्ध_023.017
सर्वाङ्गैर् विकृतैर् रक्तम्__व्ध_023.018
उद्गिरन्तो ऽतिपीडिताः__व्ध_023.018
यन्त्रेष्व् अन्येषु पीड्यन्ते__व्ध_023.018
जन्तुपीडाकरा नराः__व्ध_023.018
वृकैः संभक्ष्यते पृष्ठं__व्ध_023.019
नराणां पापकारिणाम्__व्ध_023.019
जनस्य पृष्ठमांसं यैर्__व्ध_023.019
भक्षितं पापकारिभिः__व्ध_023.019
असिपत्रवनैर् घोरैश्__व्ध_023.020
छिद्यन्ते पापकर्मिणः__व्ध_023.020

सद्भावप्रवणा यैस् तु__व्ध_023.020
भग्ना विश्रम्भिनो जनाः__व्ध_023.020
अयोमुखैः खगैर् भग्नाः__व्ध_023.021
खण्डखण्डं तथापरैः__व्ध_023.021
व्रजन्ति पापकर्माणः__व्ध_023.021
श्वशृगालैस् तथापरैः__व्ध_023.021
सूषायाम् अपि धास्यन्ते__व्ध_023.022
ज्वलदग्निचयावृताः__व्ध_023.022
पाषाणपेष्यं पिष्यन्ते__व्ध_023.022
तथान्ये पापकर्मिणः__व्ध_023.022
देवतातिथिभृत्याणाम्__व्ध_023.023
अदत्त्वा भुञ्जते तु ये__व्ध_023.023
मृषागतास् तथाइवैक्यं__व्ध_023.023
त्रपुषा सीसकेन च__व्ध_023.023
प्रयान्ति पुरुषास् तैलैः__व्ध_023.023
क्वाथ्यन्ते ऽन्ये पुनः पुनः__व्ध_023.023
वर्णधर्मपरित्यागे__व्ध_023.024
नैक्यं ये पुरुषा गताः__व्ध_023.024
ते ऽपि पापसमाचारा__व्ध_023.024
वर्णसंकरकारिणः__व्ध_023.024
स्वरूपं नारकस्याग्नेः__व्ध_023.025
शृणुष्व कथयामि ते__व्ध_023.025
मुक्तस् ततो ऽन्यवह्निस्ह्तः__व्ध_023.025
शेते संप्राप्य निर्वृतिम्__व्ध_023.025
शस्त्रधारास् तथैवैता__व्ध_023.026
मृणालप्रस्तरं नरः__व्ध_023.026
मन्यते नारकैः शस्त्रैर्__व्ध_023.026
विक्षतो द्विजसत्तम__व्ध_023.026
हिमखण्डचयाछन्नो__व्ध_023.027
निवातं मन्यते नरः__व्ध_023.027
विमुक्तो नारकाच् छीतात्__व्ध_023.027
प्रकाशं तमसस् तमः__व्ध_023.027
प्रोता गुदेषु भिन्नाङ्गा__व्ध_023.028
आर्ता रावविराविणः__व्ध_023.028
शूलेषु लोहेष्व् अपरे__व्ध_023.028
त्रिशूलेषु तथापरे__व्ध_023.028
याज्योपाध्यायदाम्पत्य-__व्ध_023.029
सुहृन्मित्रसुतादिषु__व्ध_023.029
कृतो भेदो दुराचारैर्__व्ध_023.029
यैर् अलीकोक्तिभाषिभिः__व्ध_023.029

आयसाः कण्टकास् तीक्ष्णा__व्ध_023.030
नरके कूटशाल्मलौ__व्ध_023.030
तेषु प्रोता दुरात्मानः__व्ध_023.030
परदारभुजो नराः__व्ध_023.030
कृमिकीटजलौकादि-__व्ध_023.031
तीक्ष्णदंष्ट्रास्यविक्षताः__व्ध_023.031
भ्राम्यन्ते चान्धतामिस्रे__व्ध_023.031
वृथामांसाशिनो हि ये__व्ध_023.031
एतांश् चान्यांश् च नरकाञ्__व्ध_023.032
शतशो ऽथ सहस्रशः__व्ध_023.032
कर्मान्तरं जनो भुङ्क्ते__व्ध_023.032
परिणामांश् च चेतसः__व्ध_023.032
यादृक् कर्म मनुष्याणां__व्ध_023.033
तादृग् विषयरूपवत्__व्ध_023.033
परिणामं मनो याति__व्ध_023.033
शुभाशुभमयं द्विज__व्ध_023.033
अतीवभीषणान् इत्थं__व्ध_024.001
शस्त्राग्निभयदान् नरः__व्ध_024.001
कथं न गच्छेन् नरकान्__व्ध_024.001
एतन् मे वक्तुम् अर्हसि__व्ध_024.001
अहो ऽतिकष्टपापानां__व्ध_024.002
विपाको नरकस्थितैः__व्ध_024.002
पुरुषैर् भुज्यते ब्रह्मंस्__व्ध_024.002
तन्मोक्षं वद सत्तम__व्ध_024.002
पुण्यस्य कर्मणः पाकः__व्ध_024.003
पुण्य एव द्विजोत्तम__व्ध_024.003
चेतसः परिणामोत्तः__व्ध_024.003
स्वर्गस्थैर् भुज्यते नरैः__व्ध_024.003
तथैव पाकः पापानां__व्ध_024.004
पुरुषैर् नरकस्थितैः__व्ध_024.004
भुज्यते तावद् अखिलं__व्ध_024.004
यावत् पापं क्षयं गतम्__व्ध_024.004
यदा तु पापस्य जयः__व्ध_024.005
क्षीयते सुकृतं तदा__व्ध_024.005
शुभस्य कर्मणो वृद्धौ__व्ध_024.005
क्षयम् आयात्य् अशोभनम्__व्ध_024.005
जये यतेत पुरुषस्__व्ध_024.006
तस्मात् सुकृतकर्मणः__व्ध_024.006
पापं कर्म विना नैव__व्ध_024.006
नरकप्राप्तिर् इष्यते__व्ध_024.006

जयाय द्वादशी शस्ता__व्ध_024.007
नॄणां सुकृतकर्मणाम्__व्ध_024.007
याम् उपोष्य द्विजश्रेष्ठ__व्ध_024.007
न याति नरकं नरः__व्ध_024.007
फाल्गुनामलपक्षस्य__व्ध_024.008
एकादश्याम् उपोषितः__व्ध_024.008
द्वादश्यां तु द्विजश्रेष्ठ__व्ध_024.008
पूजयेन् मधुसूदनम्__व्ध_024.008
एकादश्यां समुद्दिष्टं__व्ध_024.009
विष्णोर् नामानुकीर्तनम्__व्ध_024.009
पूजायां वासुदेवस्य__व्ध_024.009
कुर्वीत सुसमाहितः__व्ध_024.009
नमो नारायणायेति__व्ध_024.010,*(15)
वाच्यं च स्वपता निशि__व्ध_024.010,*(15)
क्रोधः प्रपञ्च ईर्ष्या च__व्ध_024.010
दम्भो लोभश् च वर्जितः__व्ध_024.010
कामो द्रोहो मदश् चापि__व्ध_024.011
मानमात्सर्यम् एव च__व्ध_024.011
सर्वम् एतत् परित्यज्य__व्ध_024.011
विष्णुभक्तेन चेतसा__व्ध_024.011
असारतां च लोके ऽस्मिन्__व्ध_024.012
संसारे भावयेन् मतिम्__व्ध_024.012
कामं क्रोधं च लोभं च__व्ध_024.*(15)
दम्भम् ईर्ष्यां च वर्जयेत्__व्ध_024.*(15)
मानद्रोहादिदोषांश् च__व्ध_024.*(15)
सर्वान् धनमदोद्भूतान्__व्ध_024.*(15)
भावयेद् विष्णुभक्तांश् च__व्ध_024.*(15)
संसारासारतां तथा__व्ध_024.*(15)
एवं भावितचित्तेन__व्ध_024.*(15)
प्राणिनां हितम् इच्छता__व्ध_024.*(15)
तथैव कुर्याद् द्वादश्यां__व्ध_024.012
नाम्नाम् उच्चारणं द्विज__व्ध_024.012
यवपात्राणि पूर्वं तु__व्ध_024.013
दद्यान् मासचतुष्टयम्__व्ध_024.013
आषाढादिद्वितीयं तु__व्ध_024.013
पारणं यन् महामते__व्ध_024.013
तत्रापि घृतपात्राणि__व्ध_024.013
दद्याच् छ्रद्धासमन्वितः__व्ध_024.013
कार्त्तिकादिषु मासेषु__व्ध_024.014
माघन्तेषु तथा तिलान्__व्ध_024.014

विप्राय दद्यात् पात्रस्ह्तान्__व्ध_024.014
प्रतिमासम् उपोषितः__व्ध_024.014
नामत्रयम् अशेषेषु__व्ध_024.015
मासि मासि दिनद्वयम्__व्ध_024.015
तथैवोच्चारयेद् दद्याद्__व्ध_024.015
द्वादश्यां च यवादिकम्__व्ध_024.015
प्रणम्य च हृषीकेशं__व्ध_024.015
कृतपूजः प्रसादयेत्__व्ध_024.015
विष्णो नमस् ते जगतः प्रसूते__व्ध_024.016
ओं वासुदेवाय नमो नमस् ते__व्ध_024.016
नारायण त्वां प्रणतो ऽस्म्य् अचिन्त्य__व्ध_024.016
जयो ऽस्तु मे शाश्वतपुण्यराशेः__व्ध_024.016
प्रसीद पुण्यं जयम् एतु विष्णो__व्ध_024.017
ओं वासुदेव र्द्धिम् उपैतु पुण्यम्__व्ध_024.017
नारायणों भूतिम् उपैतु पुण्यम्__व्ध_024.017
प्रयातु चाशेषम् अघं विनाशम्__व्ध_024.017
विष्णो पुण्योद्भवो मे ऽस्तु__व्ध_024.018
वासुदेवास्तु मे शुभम्__व्ध_024.018
नारायणास्तु धर्मो मे__व्ध_024.018
जहि पापम् अशेषतः__व्ध_024.018
अनेकजन्मजनितं__व्ध_024.019
बाल्ययौवनवार्द्धिके__व्ध_024.019
पुण्यं विवृद्धिम् आयातु__व्ध_024.019
यातु पापं तु संक्षयम्__व्ध_024.019
आकाशादिषु शब्दादौ__व्ध_024.020
श्रोत्रादौ महदादिषु__व्ध_024.020
प्रकृतौ पुरुषे चैव__व्ध_024.020
ब्रह्मण्य् अपि च स प्रभुः__व्ध_024.020
यथैक एव सर्वात्मा__व्ध_024.020
वासुदेवो व्यवस्थितः__व्ध_024.020
तेन सत्येन मे पापं__व्ध_024.021
नरकार्तिप्रदं क्षयम्__व्ध_024.021
प्रयातु सुकृतस्यास्तु__व्ध_024.021
ममानुदिवसं जयः__व्ध_024.021
पापस्य हानिः पुण्यं च__व्ध_024.021
वृद्धिम् अभ्येत्य् अनुत्तमाम्__व्ध_024.021
एवम् उच्चार्य विप्राय__व्ध_024.022
दत्त्वा यत् कथितं तव__व्ध_024.022
भुञ्जीत कृतकृत्यस् तु__व्ध_024.022
पारणे पारणे गते__व्ध_024.022

पारणान्ते च देवस्य__व्ध_024.023
प्रीणनं शक्तितो द्विज__व्ध_024.023
कुर्वीताखिलपाषण्डैर्__व्ध_024.023
आलापं च विवर्जयेत्__व्ध_024.023
इत्य् एतत् कथितं दाल्भ्य__व्ध_024.024
सुकृतस्य जयावहा__व्ध_024.024
द्वादशी नरकं मृत्यो__व्ध_024.024
याम् उपोष्य न पश्यति__व्ध_024.024
नाग्नयो न च शस्त्राणि__व्ध_024.025
न च लोहमूखाः खगाः__व्ध_024.025
नारकास् तं प्रबाधन्ते__व्ध_024.025
मतिर् यस्य जनार्दने__व्ध_024.025
नामोच्चारणमात्रेण__व्ध_024.026
विष्णोः क्षीणो ऽघसंचयः__व्ध_024.026
भवत्य् अपास्तपापस्य__व्ध_024.026
नरके गमनं कुतः__व्ध_024.026
नमो नारायण हरे__व्ध_024.027
वासुदेवेति कीर्तयेत्__व्ध_024.027
न याति नरकं मर्त्यः__व्ध_024.027
संक्षीणाशेषपातकः__व्ध_024.027
तस्मात् पाषण्डिसंसर्गम्__व्ध_024.028
अकुर्वन् द्वादशीम् इमाम्__व्ध_024.028
उपोष्य पुण्योपचयी__व्ध_024.028
न याति नरकं नरः__व्ध_024.028
पाषण्डिभिर् असंस्पर्शम्__व्ध_025.001
असंभाषणम् एव च__व्ध_025.001
विष्णोर् आराधनपरैर्__व्ध_025.001
नरैः कार्यम् उपोषितैः__व्ध_025.001
किं ब्रूहि लक्षणं तेषां__व्ध_025.002
यादृशान् वर्जयेद् व्रती__व्ध_025.002
कथंचिद् यदि संलाप-__व्ध_025.002
दर्शनस्पर्शनादिकम्__व्ध_025.002
उपोषितानां पाषण्डैर्__व्ध_025.003
नराणां विप्र जायते__व्ध_025.003
किं तत्र वद कर्तव्यं__व्ध_025.003
येनाखण्डं व्रतं भवेत्__व्ध_025.003
श्रुतिस्मृत्युदितं धर्मं__व्ध_025.004
वर्णाश्रमविभागजम्__व्ध_025.004
उल्लङ्घ्य ये प्रवर्तन्ते__व्ध_025.004
स्वेच्छया कूटयुक्तिभिः__व्ध_025.004

विकर्माभिरता मूढा__व्ध_025.005
युक्तिप्रागल्भ्यदुर्मदाः__व्ध_025.005
पाषण्डिनस् ते दुःशीला__व्ध_025.005
नरकार्हा नराधमाः__व्ध_025.005
तांस् तु पाषण्डिनः पापान्__व्ध_025.006
विकर्मस्थांश् च मानवान्__व्ध_025.006
वैडालव्रतिकांश् चैव__व्ध_025.006
नित्यम् एव तु नालपेत्__व्ध_025.006
संभाष्यैताञ् शुचिषदं__व्ध_025.007
चिन्तयेद् अच्युतं बुधः__व्ध_025.007
इदं चोदाहरेत् सम्यक्__व्ध_025.007
कृत्वा तत्प्रवणं मनः__व्ध_025.007
शारीरम् अन्तःकरणोपघातं__व्ध_025.008
वाचश् च विष्णुर् भगवान् अशेषम्__व्ध_025.008
शमं नयत्व् अस्तु ममेह शर्म__व्ध_025.008
पापाद् अनन्ते हृदि संनिविष्टे__व्ध_025.008
अन्तःशुद्धिं बहिःशुद्धिं__व्ध_025.009
शुद्धो ऽन्तर् मम यो ऽच्युतः__व्ध_025.009
स करोत्व् अमले तस्मिञ्__व्ध_025.009
शुचिर् एवास्मि सर्वदा__व्ध_025.009
बाह्योपघाताद् अनघो__व्ध_025.010
बोद्धा च भगवान् अजः__व्ध_025.010
शुद्धिं नयत्व् अनन्तात्मा__व्ध_025.010
विष्णुश् चेतसि संस्थितः__व्ध_025.010
एतत् संभाष्य जप्तव्यं__व्ध_025.011
पाषण्डिभिर् उपोषितैः__व्ध_025.011
नमः शुचिषदेत्य् उक्त्वा__व्ध_025.011
सूर्यं पश्येत वीक्षितैः__व्ध_025.011
श्रूयते च पुरा मर्त्याः__व्ध_025.012
स्वेच्छया स्वर्गगामिनः__व्ध_025.012
बभूवुर् अनघाः सर्वे__व्ध_025.012
स्वधर्मपरिपालनात्__व्ध_025.012
देवाश् च बलिनो मर्त्यैर्__व्ध_025.013
वर्णकर्मण्य् अनुव्रतैः__व्ध_025.013
यज्ञाध्ययनदानेषु__व्ध_025.013
वर्तमानैश् च मानवैः__व्ध_025.013
दैतेयाश् च पराभावम्__व्ध_025.014
अतुष्टाव् असुरा ययुः__व्ध_025.014
ततश् च षण्डो मर्कश् च__व्ध_025.014
दैत्येन्द्राणां पुरोहितौ__व्ध_025.014

चक्रतुः कर्म देवानां__व्ध_025.014
विनाशायातिभीषणम्__व्ध_025.014
तत्रोत्पन्नो ऽतिकृष्णाङ्गस्__व्ध_025.015
तमःप्रायो ऽतिदारुणः__व्ध_025.015
दम्भाधारः शाठ्यसारो__व्ध_025.015
निद्राप्रकृतिर् उल्वणः__व्ध_025.015
महामोह इति ख्यातः__व्ध_025.016
कृत्यरूपो विभीषणः__व्ध_025.016
चतुर्धा स विभक्तश् च__व्ध_025.016
ताभाम् अत्र महीयते__व्ध_025.016
वेददेवद्विजातीनाम्__व्ध_025.017
एकांशेन स निन्दनम्__व्ध_025.017
करोत्य् अन्येन न रतिं__व्ध_025.017
योगकर्मसु विन्दति__व्ध_025.017
विकर्मण्य् अपरेणापि__व्ध_025.018
संयोजयति मानवान्__व्ध_025.018
ज्ञानापहारम् अन्येन__व्ध_025.018
करोति द्विजसत्तम__व्ध_025.018
ज्ञानबुद्ध्या तथाज्ञानं__व्ध_025.019
गृह्णात्य् अज्ञानमोहितः__व्ध_025.019
वेदवादविरोधेन__व्ध_025.019
या कथा सास्य रोचते__व्ध_025.019
एवं स तु महामोहः__व्ध_025.020
षण्डमर्कोपपादितः__व्ध_025.020
दम्भादिदूषितो ऽधर्म-__व्ध_025.020
स्वरूपो ऽतिभयंकर__व्ध_025.020
स लोकान् विविधोपायैर्__व्ध_025.021
लोकेष्व् एव व्यवस्थितः__व्ध_025.021
मोहाभिभवनिःसाराण्__व्ध_025.021
करोति द्विजसत्तम__व्ध_025.021
तन्मोहितानाम् अचिराद्__व्ध_025.022
विवेको याति संक्षयम्__व्ध_025.022
क्षीणज्ञाना विकर्माणि__व्ध_025.022
कुर्वन्त्य् अहरहो द्विज__व्ध_025.022
निजवर्णात्मकं धर्मं__व्ध_025.023
परित्यज्य विमोहिताः__व्ध_025.023
धर्मबुद्ध्या ततः पापं__व्ध_025.023
कुर्वन्त्य् अज्ञानदुर्मदाः__व्ध_025.023
ज्ञानावलेपस् तत्रैव__व्ध_025.024
ततस् तेषां प्रजायते__व्ध_025.024

सुहृद्भिर् वार्यमाणास् ते__व्ध_025.024
पण्डितैश् च दयालुभिः__व्ध_025.024
प्रयच्छन्त्य् उत्तरं ंऊढाः__व्ध_025.024
कूटयुक्तिसमन्वितम्__व्ध_025.024
ततस् ते स्वयम् आत्मानम्__व्ध_025.025
अन्यं चाल्पमतिं नरम्__व्ध_025.025
विकर्मणा योजयन्तश्__व्ध_025.025
च्यवयन्ति स्वधर्मतः__व्ध_025.025
पाषण्डिनो दुराचाराः__व्ध_025.026
परान्नगुणवादिनः__व्ध_025.026
असंस्कृतान्नभोक्तारो__व्ध_025.026
व्रात्याः संस्कारवर्जिताः__व्ध_025.026
पाषण्डाः पापसंकल्पा__व्ध_025.027
दाम्भिकाः शठबुद्धयः__व्ध_025.027
वर्णसंकरकर्तारो__व्ध_025.027
मायाव्याजोपजीविनः__व्ध_025.027
निःशौचा वक्रमतयो__व्ध_025.027
नान्यदस्तीतिवादिनः__व्ध_025.027
एवंविधास् ते सन्मार्गाद्__व्ध_025.028
वेदप्रोक्ताद् बहिःस्थिताः__व्ध_025.028
क्रियाकलापं निन्दन्त__व्ध_025.028
ऋग्यजुःसामसंज्ञितम्__व्ध_025.028
आत्मानं च परांश् चैव__व्ध_025.028
कुर्वन्ति नरकस्थितान्__व्ध_025.028
तेषां दर्शनसंभाष-__व्ध_025.029
स्पर्शनानि नरैः सदा__व्ध_025.029
परित्याज्यानि दृष्टे च__व्ध_025.029
प्रोक्तः संभाषणे च यः__व्ध_025.029
संस्पर्शे च बुधः स्नात्वा__व्ध_025.029
शुचिः शुचिषदं स्मरेत्__व्ध_025.029
भवत्य् अतः सदैवैषाम्__व्ध_025.030
आलापस्पर्1शनं त्यजेत्__व्ध_025.030
पुण्यकामो महाभागः__व्ध_025.030
किं पुनर् यद् उपोषितः__व्ध_025.030
यतो हि निन्दिते कर्मण्य्__व्ध_025.031
अभ्यासो रतिर् एव च__व्ध_025.031
पाषण्डिनाम् अशेषाणाम्__व्ध_025.031
अप्रीतिर् वेदकर्मणि__व्ध_025.031
ते ह्य् अधोगामिनः प्रोक्ता__व्ध_025.031
आसुरं भावम् आश्रिताः__व्ध_025.031

अप्राप्तिर् न तथा दुःखम्__व्ध_026.001
ऐश्वर्यादेर् द्विजोत्तम__व्ध_026.001
यथा मनोरथैर् लब्धैर्__व्ध_026.001
विच्युतिर् धर्महानिजा__व्ध_026.001
ऐश्वर्याद् वित्ततो वापि__व्ध_026.002
संततेर् देवलोकतः__व्ध_026.002
अभीष्टाद् अन्यतो वापि__व्ध_026.002
पदाद् येन न विच्युतिम्__व्ध_026.002
प्राप्नोति पुरुषो ब्रह्मन्__व्ध_026.003
नारी वापुण्यसंक्षयात्__व्ध_026.003
तन् ममाचक्ष्व विप्रर्षे__व्ध_026.003
दुःखम् एभ्यो हि विच्युतिः__व्ध_026.003
सत्यम् एतन् महाभाग__व्ध_026.004
दुःखं प्राप्तस्य संक्षयः__व्ध_026.004
ऐश्वर्याद् अथ वित्तस्य__व्ध_026.004
बन्धुवर्गसुखस्य वा__व्ध_026.004
तद् एतच् छ्रूयतां दाल्भ्य__व्ध_026.005
यथा नेष्टात् परिच्युतिः__व्ध_026.005
सर्गादेर् जायते सम्यग्__व्ध_026.005
उपवासवतां सताम्__व्ध_026.005
द्वादशर्क्षाणि विप्रर्षे__व्ध_026.006
प्रतिमासं तु यानि वै__व्ध_026.006
तन्नामान्य् अच्युतं तेषु__व्ध_026.006
सम्यक् संपूजयेद् बुधः__व्ध_026.006
पुष्पैर् धूपैस् तथाम्भोभिर्__व्ध_026.007
अभीष्टैर् अपरैस् तथा__व्ध_026.007
आदितः कृत्तिकां कृत्वा__व्ध_026.007
कार्त्तिके मुनिपुङ्गव__व्ध_026.007
नैवेद्यं कृसरं पूर्वम्__व्ध_026.008
अन्नं मासचतुष्टयम्__व्ध_026.008
निवेदयेत् कार्त्तिकादि__व्ध_026.008
संयावं च ततः परम्__व्ध_026.008
आषाढादौ च देवाय__व्ध_026.009
पायसं वै निवेदयेत्__व्ध_026.009
तेनैवान्नेन विप्रर्षे__व्ध_026.009
ब्राह्मणान् भोजयेद् बुधः__व्ध_026.009
पञ्चगव्यजलस्नातस्__व्ध_026.010
तस्यैव प्राशनाच् छुचिः__व्ध_026.010
नैवेद्यं स्वयम् अश्नीयान्__व्ध_026.010
नक्तं संपूजिते ऽच्युते__व्ध_026.010

एवं संवत्सरस्यान्ते__व्ध_026.011
ततः सुप्तोत्थिते ऽच्युते__व्ध_026.011
संयक् संपूज्य विप्रर्षे__व्ध_026.011
तम् एव पुरुषोत्तमम्__व्ध_026.011
प्रणम्य प्रार्थयेद् विद्वाञ्__व्ध_026.011
शुचिः स्नातो यथाविधि__व्ध_026.011
नमो नमस् ते ऽच्युत संक्षयो ऽस्तु__व्ध_026.012
पापस्य वृद्धिं समुपैतु पुण्यम्__व्ध_026.012
ऐश्वर्यवित्तादि सदाक्षयं मे__व्ध_026.012
ऽक्षया च मे संततिर् अच्युतास्तु__व्ध_026.012
यथाच्युतस् त्वं परतः परस्मात्__व्ध_026.013
स ब्रह्मभूतात् परतः परात्मन्__व्ध_026.013
तथाच्युतं मे कुरु वाञ्छितं यन्__व्ध_026.013
मया पदं पापहराप्रमेय__व्ध_026.013
अच्युतानन्त गोविन्द__व्ध_026.014
प्रसीद यद् अभीप्सितम्__व्ध_026.014
तद् अक्षयम् अमेयात्मन्__व्ध_026.014
कुरुष्व पुरुषोत्तम__व्ध_026.014
एवम् अन्ते समभ्यर्च्य__व्ध_026.015
प्रार्थयित्वा तथाशिषः__व्ध_026.015
यथावन् मुनिशार्दूल__व्ध_026.015
च्युतिं नाप्नोति मानवः__व्ध_026.015
संततेः स्वर्गवित्तादेर्__व्ध_026.016
ऐश्वर्यस्य तथा मुने__व्ध_026.016
यद् वाभिमतम् अत्यन्तं__व्ध_026.016
ततो न च्यवते नरः__व्ध_026.016
तस्मात् सर्वप्रयत्नेन__व्ध_026.017
मासनक्षत्रपूजने__व्ध_026.017
यतेताक्षयकामस् तु__व्ध_026.017
सदैव मुनिपुङ्गव__व्ध_026.017
अत्रापि श्रूयते सिद्धा__व्ध_027.001
काचित् स्वर्गे महाव्रता__व्ध_027.001
नारी तपोधना भूत्वा__व्ध_027.001
प्रख्याता शाम्भरायणी__व्ध_027.001
समस्तसंदेहहरा__व्ध_027.001
सदा स्वर्गौकसां हि सा__व्ध_027.001
कस्यचित् त्व् अथ कालस्य__व्ध_027.002
देवराजः शतक्रतुः__व्ध_027.002
पूर्वेन्द्रचरितं ब्रह्मन्__व्ध_027.002
पप्रच्छेदं बृहस्पतिम्__व्ध_027.002

पूर्वेन्द्रा परतः पूर्वे__व्ध_027.003
ये बभूवुः सुरेश्वराः__व्ध_027.003
तेषां चरितम् इच्छामि__व्ध_027.003
श्रोतुम् आङ्गिरसां वर__व्ध_027.003
एवम् उक्तस् तदा तेन__व्ध_027.004
देवेन्द्रेणामलद्युतिः__व्ध_027.004
प्राह धर्मभृतां श्रेष्ठः__व्ध_027.004
परमर्षिर् बृहस्पतिः__व्ध_027.004
नाहं चिरन्तनान् वेद्मि__व्ध_027.005
देवराज सुरेश्वरान्__व्ध_027.005
आत्मनः समकालीनं__व्ध_027.005
माम् अवैहि सुरेश्वर__व्ध_027.005
ततः पप्रच्छ देवेन्द्रः__व्ध_027.006
को ऽस्माभिर् मुनिपुङ्गव__व्ध_027.006
प्रष्टव्यो ऽत्र महाभाग__व्ध_027.006
कृतादिवसतिर् दिवि__व्ध_027.006
बृहस्पतिश् चिरं ध्यात्वा__व्ध_027.007
पुनर् आह शचीपतिम्__व्ध_027.007
तपस्विनीं महाभागां__व्ध_027.007
स्मृत्वासौ शाम्भरायणीम्__व्ध_027.007
न देवा न च गन्धर्वा__व्ध_027.008
न चान्ये चिरसंस्थिताः__व्ध_027.008
चिरन्तनानां चरितेष्व्__व्ध_027.008
अभिज्ञा त्रिदशेश्वर__व्ध_027.008
एकैव चिरकालज्ञा__व्ध_027.009
धर्मज्ञा शक्र केवलम्__व्ध_027.009
जानात्य् अखिलदेवेन्द्र-__व्ध_027.009
चरितं शाम्भरायणी__व्ध_027.009
इत्य् उक्तस् तेन देवेन्द्रः__व्ध_027.010
कौतूहलसमन्वितः__व्ध_027.010
ययौ यत्र महाभागा__व्ध_027.010
तापसी शाम्भरायणी__व्ध_027.010
सा तौ दृष्ट्वा समायातौ__व्ध_027.011
देवराजबृहस्पती__व्ध_027.011
सम्यग् अर्घ्येन संपूज्य__व्ध_027.011
प्रणिपत्य शुभव्रता__व्ध_027.011
नमो ऽस्तु देवराजाय__व्ध_027.012
तथैवाङ्गिरसे नमः__व्ध_027.012
यद् वां कार्यं महाभागौ__व्ध_027.012
सकलं तद् इहोच्यताम्__व्ध_027.012

आवाम् अभ्यागतौ प्रष्टुं__व्ध_027.013
त्वाम् अत्रातिविवेकिनीम्__व्ध_027.013
यच् च कार्यं महाभागे__व्ध_027.013
तत् पृष्टा कथयेह नौ__व्ध_027.013
यदि स्मरसि कल्याणि__व्ध_027.014
पूर्वेन्द्रचरितानि नौ__व्ध_027.014
तदाख्याहि महाभागे__व्ध_027.014
देवेन्द्रस्य कुतूहलात्__व्ध_027.014
यदि शक्यं मया कर्तुं__व्ध_027.*(16)
तत् करिष्ये विमृष्यतु__व्ध_027.*(16)
यो वै पूर्वः सुरेन्द्रस्य__व्ध_027.015
ततश् च प्रथमो हि यः__व्ध_027.015
तस्मात् पूर्वतरो यश् च__व्ध_027.015
तस्यापि प्रथमाश् च ये__व्ध_027.015
तेषां पूर्वतरा ये च__व्ध_027.016
वेद्मि तान् अखिलान् अहम्__व्ध_027.016
तेषां च चरितं कृत्स्नं__व्ध_027.016
जानाम्य् आङ्गिरसां वर__व्ध_027.016
मन्वन्तराण्य् अनेकानि__व्ध_027.017
सृष्टिं च त्रिदिवौकसाम्__व्ध_027.017
सप्तर्षीन् सुबहून् देव__व्ध_027.017
मनूनां च सुतान् नृप__व्ध_027.017
तत् पृच्छ त्वं वदाम्य् एषा__व्ध_027.017
पूर्वेन्द्रचरितं मुने__व्ध_027.017
एवम् उक्ते ततस् ताभ्यां__व्ध_027.018
पृष्टा सा शाम्भरायणी__व्ध_027.018
यथावद् आचष्ट तयोः__व्ध_027.018
पूर्वेन्द्रचरितं द्विज__व्ध_027.018
स्वायम्भुवे यस् तु मनौ__व्ध_027.019
मनौ स्वारोचिषे तु यः__व्ध_027.019
उत्तमे तामसे चैव__व्ध_027.019
रैवते चाक्षुषे तथा__व्ध_027.019
यो यो बभूव देवेन्द्रस्__व्ध_027.020
तस्य तस्य तपस्विनी__व्ध_027.020
तयोर् जगाद चरितं__व्ध_027.020
यथावच् छाम्भरायणी__व्ध_027.020
ततः कौतूहलपरो__व्ध_027.021
देवराट् तां तपस्विनीम्__व्ध_027.021
उवाच जानासि कथं__व्ध_027.021
त्वम् एतच् छाम्भरायणि__व्ध_027.021

सर्व एव हि देवेन्द्राः__व्ध_027.022
स्वर्गस्था ये मनीषिणः__व्ध_027.022
बभूवुर् एतच् चरितम्__व्ध_027.022
एतेषां वेद्मि तेन वै__व्ध_027.022
किं कृतं वद धर्मज्ञे__व्ध_027.023
त्वया येनेयम् अक्षया__व्ध_027.023
स्वर्लोके वसतिः प्राप्ता__व्ध_027.023
यथा नान्येन केनचित्__व्ध_027.023
अहो सर्वव्रतानां तद्__व्ध_027.024
उपोषितं महद् व्रतम्__व्ध_027.024
प्रधानतरम् अत्यर्थं__व्ध_027.024
स्वर्गसंवासदं मतम्__व्ध_027.024
चरितं च मया तेषां__व्ध_027.*(17)
श्रुतं दृष्टं तथैव च__व्ध_027.*(17)
एवम् उक्ता ततस् तेन__व्ध_027.025
देवेन्द्रेण यशस्विनी__व्ध_027.025
प्रत्युवाच महाभागा__व्ध_027.025
यथावच् छाम्भरायणी__व्ध_027.025
मासर्क्षेष्व् अच्युतो देवः__व्ध_027.026
प्रतिमासं सुरेश्वर__व्ध_027.026
यथोक्तव्रतया सम्यक्__व्ध_027.026
सप्त वर्षाणि पूजितः__व्ध_027.026
तस्येयं कर्मणो व्युष्टिर्__व्ध_027.027
अच्युताराधनस्य मे__व्ध_027.027
देवलोकाद् अभिमता__व्ध_027.027
देवराज यद् अच्युतिः__व्ध_027.027
स्वर्गं द्रव्यमयैश्वर्यं__व्ध_027.028
संततिं वापि यो ऽच्युताम्__व्ध_027.028
नरो वाञ्छति तेनेत्थं__व्ध_027.028
तोषणीयो ऽच्युतः प्रभुः__व्ध_027.028
एतत् ते पूर्वदेवेन्द्र-__व्ध_027.029
चरितं सकलं मया__व्ध_027.029
स्वर्गवासाक्षयत्वं च__व्ध_027.029
मासर्क्षाच्युतपूजनात्__व्ध_027.029
यथावत् कथितं देव__व्ध_027.030
पृच्छतस् त्रिदशेश्वर__व्ध_027.030
धर्मार्थकाममोक्षांस् तु__व्ध_027.030
वाञ्छतां विबुधाधिप__व्ध_027.030
विष्णोर् आराधनान् नान्यत्__व्ध_027.030
परमं सिद्धिकारणम्__व्ध_027.030

तस्यास् तद् वचनं श्रुत्वा__व्ध_027.031
देवराजबृहस्पती__व्ध_027.031
तां तथेत्य् ऊचतुः साध्वीं__व्ध_027.031
चेरतुश् चापि तद् व्रतम्__व्ध_027.031
तस्माद् दाल्भ्य प्रयत्नेन__व्ध_027.032
प्रतिमासं समाहितः__व्ध_027.032
मासर्क्षाच्युतपूजायां__व्ध_027.032
भवेथास् तन्मनाः सदा__व्ध_027.032
भगवन् प्राणिनः सर्वे__व्ध_028.001
विषरोगाद्युपद्रवैः__व्ध_028.001
दुष्टग्रहोपघातैश् च__व्ध_028.001
सर्वकालम् उपद्रुताः__व्ध_028.001
आभिचारुककृत्याभिः__व्ध_028.002
स्पर्षरोगैश् च दारुणैः__व्ध_028.002
सदा संपीड्यमानास् ते__व्ध_028.002
तिष्ठन्ति मुनिसत्तम__व्ध_028.002
येन कर्मविपाकेन__व्ध_028.003
विषरोगाद्युपद्रवाः__व्ध_028.003
न भवन्ति नृणां तन् मे__व्ध_028.003
यथावद् वक्तुम् अर्हसि__व्ध_028.003
व्रतोपवासैर् यैर् विष्णुर्__व्ध_028.004
नान्यजन्मनि पूजितः__व्ध_028.004
ते नरा मुनिशार्दूल__व्ध_028.004
ग्रहरोगादिभागिनः__व्ध_028.004
यैर् न तत्प्रवणं चित्तं__व्ध_028.005
सर्वदैव नरैः कृतम्__व्ध_028.005
विषग्रहज्वराणां ते__व्ध_028.005
मनुष्या दाल्भ्य भाजनाः__व्ध_028.005
आरोग्यं परमाम् ऋद्धिं__व्ध_028.006
मनसा यद् यद् इच्छति__व्ध_028.006
तत् तद् आप्नोत्य् असंदिग्धं__व्ध_028.006
परत्राच्युततोषकृत्__व्ध_028.006
नाधीन् प्राप्नोति न व्याधीन्__व्ध_028.007
न विषग्रहबन्धनम्__व्ध_028.007
कृत्यास्पर्शभयं वापि__व्ध_028.007
तोषिते मधुसूदने__व्ध_028.007
सर्वदुष्टशमस् तस्य__व्ध_028.008
सौम्यास् तस्य सदा ग्रहाः__व्ध_028.008
देवानाम् अप्रधृष्यो ऽसौ__व्ध_028.008
तुष्टो यस्य जनार्दनः__व्ध_028.008

यः समः सर्वभूतेषु__व्ध_028.009
यथात्मनि तथापरे__व्ध_028.009
उपवादादिना तेन__व्ध_028.009
तोष्यते मधुसूदनः__व्ध_028.009
तोषिते तत्र जायन्ते__व्ध_028.010
नराः पूऋणमनोरथाः__व्ध_028.010
अरोगाः सुखिनो भोग-__व्ध_028.010
भोक्तारो मुनिसत्तम__व्ध_028.010
न तेषां शत्रवो नैव__व्ध_028.011
स्पर्शरोगाभिचारुकाः__व्ध_028.011
ग्रहरोगादिकं वापि__व्ध_028.011
पापकार्यं न जायते__व्ध_028.011
अव्याहतानि कृष्णस्य__व्ध_028.012
चक्रादीन्य् आत्मयुधानि तम्__व्ध_028.012
रक्षन्ति सकलापद्भ्यो__व्ध_028.012
येन विष्णुर् उपासितः__व्ध_028.012
अनाराधितगोविन्दा__व्ध_028.013
ये नरा दुःखभागिनः__व्ध_028.013
तेषां दुःखाभिभूतानां__व्ध_028.013
कर्तव्यं यद् दयालुभिः__व्ध_028.013
पश्यद्भिः सर्वभूतस्थं__व्ध_028.014
वासुदेवं महामुने__व्ध_028.014
समदृष्टिभिर् ईशेशं__व्ध_028.014
तन् मम ब्रूह्य् अशेषतः__व्ध_028.014
कुशमूलस्थितो ब्रह्मा__व्ध_028.*(18).002
कुशमध्ये जनार्दनः__व्ध_028.*(18).002
कुशाग्रे शंकरं विद्यात्__व्ध_028.*(18).003
त्रयो देवा व्यवस्थिताः__व्ध_028.*(18).003
गृहीत्वा च स मूलाग्रान्__व्ध_028.*(18).004
कुशाञ् शुद्धान् उपस्पृशेत्__व्ध_028.*(18).004
मार्जयेत् सर्वगात्राणि__व्ध_028.*(18).005
कुशाग्रैर् दाल्भ्य शान्तिकृत्__व्ध_028.*(18).005
शरीरे यस्य तिष्ठन्ति__व्ध_028.*(18).006
कुशस्थजलबिन्दवः__व्ध_028.*(18).006
नश्यन्ति तस्य पापानि__व्ध_028.*(18).007
गरुडेनैव पन्नगाः__व्ध_028.*(18).007
विष्णुभक्ता विशेषेण__व्ध_028.*(18).008
....चिद्गतमानसः__व्ध_028.*(18).008
रोगग्रहविषार्तानां__व्ध_028.*(18).009
कुर्याच् छान्तिम् इमां शुभाम्__व्ध_028.*(18).009

नारसिंहं समभ्यर्च्य__व्ध_028.*(18).010
शुचौ देशे कुशासने__व्ध_028.*(18).010
मन्त्रैर् एतैर् यथा लिङ्गं__व्ध_028.*(18).011
कुर्याद् दिग्बन्धम् आत्मनः__व्ध_028.*(18).011
वाराहं नारसिंहं च__व्ध_028.*(18).012
वामनं विष्णुम् एव च__व्ध_028.*(18).012
ध्यात्वा समाहितो भूत्वा__व्ध_028.*(18).013
दिक्षु नामानि विन्यासेत्__व्ध_028.*(18).013
पूर्वे नारायणः पातु__व्ध_028.*(18).014
वारिजाक्षस् तु दक्षिणे__व्ध_028.*(18).014
प्रद्युम्नः पश्चिमस्यां तु__व्ध_028.*(18).015
वासुदेवस् तथोत्तरे__व्ध_028.*(18).015
ईशान्याम् अवताद् विष्णुर्__व्ध_028.*(18).016
आग्नेय्यां च जनार्दनः__व्ध_028.*(18).016
नैरृत्यां पद्मनाभश् च__व्ध_028.*(18).017
वायव्यां चैव माधवः__व्ध_028.*(18).017
ऊर्ध्वं गोवर्धनधरो__व्ध_028.*(18).018
अधरायां त्रिविक्रमः__व्ध_028.*(18).018
एताभ्यो दशदिग्भ्यस् तु__व्ध_028.*(18).019
सर्वतः पातु केशवः__व्ध_028.*(18).019
अङ्गुष्ठाग्रे तु गोविन्दं__व्ध_028.*(18).020
तर्जन्यांस् तु महीधरम्__व्ध_028.*(18).020
मध्यमायां हृषीकेशम्__व्ध_028.*(18).021
अनामिक्यां त्रिविक्रमम्__व्ध_028.*(18).021
कणिष्ठायां न्यसेद् विष्णुं__व्ध_028.*(18).022
करमध्ये तु माधवम्__व्ध_028.*(18).022
एवं न्यासं पुरा कृत्वा__व्ध_028.*(18).023
पश्चाद् अङ्गेषु विन्यसेत्__व्ध_028.*(18).023
शिखायां केशवं न्यस्य__व्ध_028.*(18).024
मूर्ध्नि नारायणं न्यसेत्__व्ध_028.*(18).024
चक्षुर्मध्ये न्यसेद् विष्णुं__व्ध_028.*(18).025
कर्णयोर् मधुसूदनम्__व्ध_028.*(18).025
त्रिविक्रमं कपालस्थं__व्ध_028.*(18).026
वामनं कर्णमूलयोः__व्ध_028.*(18).026
दामोदरं दन्तवक्त्रौ__व्ध_028.*(18).027
वाराहं चिबुके न्यसेत्__व्ध_028.*(18).027
उत्तरोष्ठे हृषीकेशं__व्ध_028.*(18).028
पद्मनाभं तथाधरे__व्ध_028.*(18).028
जिह्वायां वासुदेवं च__व्ध_028.*(18).029
ताल्वके गरुडध्वजम्__व्ध_028.*(18).029

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc