भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 4160

मनोरथप्रदं यच् च__व्ध_013.002
तद् व्रतं कथ्यतां मम__व्ध_013.002
कानि दानानि शस्तानि__व्ध_013.003
स्नानानि च यतव्रत__व्ध_013.003
प्रशस्तास् तिथयः काश् च__व्ध_013.003
प्राशनानि च शंस मे__व्ध_013.003
सर्वदानानि शस्तानि__व्ध_013.004
यान्य् उद्दिश्य जनार्दनम्__व्ध_013.004
दीयन्ते विप्रमुख्येभ्यः__व्ध_013.004
श्रद्धापूतेन चेतसा__व्ध_013.004
ता एव तिथयः शस्ता__व्ध_013.005
यास्व् अभ्यर्च्य जनार्दनम्__व्ध_013.005
क्रियन्ते श्रधया सम्यग्__व्ध_013.005
उपवासव्रताः सदा__व्ध_013.005
प्राप्यते विविधैर् यज्ञैर्__व्ध_013.006
यत् फलं साध्वसाधुभिः__व्ध_013.006
उपवासैस् तद् आप्नोति__व्ध_013.006
समभ्यर्च्य जनार्दनम्__व्ध_013.006
मनोरथानां संप्राप्ति-__व्ध_013.007
कारकं पापनाशनम्__व्ध_013.007
श्रूयतां मम धर्मज्ञे__व्ध_013.007
व्रतानाम् उत्तमं व्रतम्__व्ध_013.007
यत् कृत्वा न जडो नान्धो__व्ध_013.008
बधिरो न च दुःखितः__व्ध_013.008
न चैवेष्टवियोगार्तिं__व्ध_013.008
कश्चित् प्राप्नोति मानवः__व्ध_013.008
न चाप्रियो ऽस्य लोकस्य__व्ध_013.009
न दरिद्रो न दुर्गतिः__व्ध_013.009
सप्त जन्मानि भवति__व्ध_013.009
सर्वपापैः प्रमुच्यते__व्ध_013.009
विष्णुव्रतम् इदं ख्यातं__व्ध_013.010
भाषितं विष्णुना स्वयम्__व्ध_013.010
पौषशुक्लद्वितीयादि__व्ध_013.011
कृत्वा दिनचतुष्टयम्__व्ध_013.011
षण्मासपारणप्रायं__व्ध_013.011
गृह्णीयात् परमं व्रतम्__व्ध_013.011
पूर्वं सिद्धार्थकैः स्नानं__व्ध_013.012
ततः कृष्णतिलैः स्मृतम्__व्ध_013.012
वचया च तृतीये ऽह्नि__व्ध_013.012
सर्वौषध्या ततः परम्__व्ध_013.012

नाम्ना कृष्णाच्युताख्येन__व्ध_013.013
तथानन्तेन पूजयेत्__व्ध_013.013
तथैव च चतुर्थे ऽह्नि__व्ध_013.013
हृषीकेशेन केशवम्__व्ध_013.013
देवम् अभ्यर्च्य पुष्पैश् च__व्ध_013.013
पत्त्रैर् धूपानुलेपनैः__व्ध_013.013
उद्गच्छतश् च बालेन्दोर्__व्ध_013.014
दद्याद् अर्घ्यं समाहितः__व्ध_013.014
पुष्पैः पत्त्रैः फलैश् चैव__व्ध_013.014
सर्वधान्यैश् च भक्तितः__व्ध_013.014
दिनक्रमेण चैतानि__व्ध_013.015
चन्द्रनामानि कीर्तयेत्__व्ध_013.015
शशिचन्द्रशशाङ्केन्दु-__व्ध_013.015
संज्ञानि ब्रह्मवादिनि__व्ध_013.015
नक्तं भुञ्जीत मतिमान्__व्ध_013.016
यावत् तिष्ठति चन्द्रमाः__व्ध_013.016
अस्तंगते न भुञ्जीत__व्ध_013.016
व्रतभङ्गभयाच् छुभे__व्ध_013.016
एवं सर्वेषु मासेषु__व्ध_013.017
ज्येष्ठान्तेषु यशस्विनि__व्ध_013.017
कर्तव्यं वै व्रतश्रेष्ठं__व्ध_013.017
द्वितीयादिचतुर्दिनम्__व्ध_013.017
विप्राय दक्षिणां दद्यात्__व्ध_013.018
पञ्चम्यां च स्वशक्तितः__व्ध_013.018
एवं समापयेन् मासैः__व्ध_013.018
षड्भिः प्रथमपारणम्__व्ध_013.018
पारणन्ते च देवस्य__व्ध_013.019
प्रीणनं भक्तितः शुभे__व्ध_013.019
यथाशक्त्या तु कर्तव्यं__व्ध_013.019
वित्तशाठ्यं विवर्जयेत्__व्ध_013.019
आषाढादिद्वितीयं तु__व्ध_013.020
षण्मासेन तपोधने__व्ध_013.020
पारणं वै समाख्यातं__व्ध_013.020
व्रतस्यास्य शुभप्रदम्__व्ध_013.020
व्रतम् एतद् दिलीपेन__व्ध_013.021
दुष्वन्तेन ययातिना__व्ध_013.021
तथान्यैः पृथिवीपालैर्__व्ध_013.021
उपवासविधानतः__व्ध_013.021
चरितं मुनिमुख्यैश् च__व्ध_013.021
ऋचीकच्यवनादिभिः__व्ध_013.021

सुरम्भया सुकैकेय्या__व्ध_013.022
शाण्डिल्या धूम्रपिङ्गया__व्ध_013.022
सुदेष्णयाथवा रिण्या__व्ध_013.022
मतिमत्या कृताशया__व्ध_013.022
सावित्र्या पौर्णमास्या च__व्ध_013.023
वैरिण्या च सुभद्रया__व्ध_013.023
ब्राह्मणक्षत्रियविशाम्__व्ध_013.023
इति स्त्रीभिर् अनुष्ठितम्__व्ध_013.023
उर्वश्या रम्भया चैव__व्ध_013.024
सौरभेय्या तथा व्रतम्__व्ध_013.024
वराप्सरोभिर् धर्मज्ञे__व्ध_013.024
चरितं धर्मवांछया__व्ध_013.024
प्रथमे पादपूजा स्याद्__व्ध_013.025
द्वितीये नाभिपूजनम्__व्ध_013.025
तृतीये वक्षसः पूजा__व्ध_013.025
चतुर्थे शिरसो हरेः__व्ध_013.025
एतच् चीर्त्वा समस्तेभ्यः__व्ध_013.026
पापेभ्यः श्रद्धयान्वितः__व्ध_013.026
मुच्यते सकलांश् चैव__व्ध_013.026
संप्राप्नोति मनोरथान्__व्ध_013.026
व्रतानाम् उत्तमं ह्य् एतत्__व्ध_013.027
स्वयं देवेन भाषितम्__व्ध_013.027
पापप्रशमनं शस्तं__व्ध_013.027
मनोरथफलप्रदम्__व्ध_013.027
यं च कामम् अभिध्यायन्__व्ध_013.028
क्रियते नियतव्रतैः__व्ध_013.028
व्रतम् एतन् महाभागे__व्ध_013.028
तं तु पूरयते नृणाम्__व्ध_013.028
मनोरथान् पूरयति__व्ध_013.029
सर्वपापं व्यपोहति__व्ध_013.029
अव्याहतेन्द्रियत्वं च__व्ध_013.029
सप्त जन्मानि यच्छति__व्ध_013.029
माघे स्नातस्य यत् पुण्यं__व्ध_013.030
प्रयागे पापनाशनम्__व्ध_013.030
सकलं तद् अवाप्नोति__व्ध_013.030
श्रुत्वा विष्णुव्रतं त्व् इदम्__व्ध_013.030
साक्षाद् भगवता प्रोक्तं__व्ध_013.*(9)
परमं पापनाशनम्__व्ध_013.*(9)
शुक्लपक्षे तु पौषस्य__व्ध_014.001
संप्राप्तिद्वादशीं शृणु__व्ध_014.001

याम् उपोष्य समाप्नोति__व्ध_014.001
सर्वान् एव मनोरथान्__व्ध_014.001
पाषण्डादिभिर् आलापम्__व्ध_014.002
अकुर्वन् विष्णुतत्परः__व्ध_014.002
पूजयेत् प्रणतो देवम्__व्ध_014.002
एकाग्रमतिर् अच्युतम्__व्ध_014.002
पौषादिपारणं मासैः__व्ध_014.003
षड्भिर् ज्येष्ठान्तकं स्मृतम्__व्ध_014.003
प्रथमे पुण्डरीकाक्षं__व्ध_014.003
नाम देवस्य गीयते__व्ध_014.003
द्वितीये माधवाख्यं तु__व्ध_014.004
विश्वरूपं तु फाल्गुने__व्ध_014.004
पुरुषोत्तमाख्यं च ततः__व्ध_014.004
पञ्चमे चाच्युतेति च__व्ध_014.004
षष्ठे जयेति देवस्य__व्ध_014.005
गुह्यं नाम प्रकीर्त्यते__व्ध_014.005
पूर्वेषु षट्सु मासेषु__व्ध_014.005
स्नानप्राशनयोस् तिलाः__व्ध_014.005
आषाढादिषु मासेषु__व्ध_014.006
पञ्चगव्यम् उदाहृतम्__व्ध_014.006
स्नाने च प्राशने चैव__व्ध_014.006
प्रशस्तं पापनाशनम्__व्ध_014.006
प्रतिमासं च देवस्य__व्ध_014.007
कृत्वा पूजां यथाविधि__व्ध_014.007
विप्राय दक्षिणां दद्याच्__व्ध_014.007
श्रद्दधानः स्वशक्तितः__व्ध_014.007
पारणान्ते च देवस्य__व्ध_014.008
प्रीणनं भक्तिपूर्वकम्__व्ध_014.008
क्रुवीत शक्त्या गोविन्दे__व्ध_014.008
सद्भावाभ्यर्चनो यतः__व्ध_014.008
नक्तं भुञ्जीत च ततस्__व्ध_014.009
तैलक्षारविवर्जितं__व्ध_014.009
एकादश्याम् उषित्वैवं__व्ध_014.009
द्वादश्याम् अथवा दिने__व्ध_014.009
एताम् उषित्वा धर्मज्ञे__व्ध_014.010
प्रीणनं देवतत्परः__व्ध_014.010
सर्वकामान् अवाप्नोति__व्ध_014.010
सर्वपापैः प्रमुच्यते__व्ध_014.010
यतः सर्वम् अवाप्नोति__व्ध_014.011
यद् यद् इच्छति चेतसा__व्ध_014.011

ततो लोकेषु विख्याता__व्ध_014.011
संप्राप्तिद्वादशीति वै__व्ध_014.011
कृताभिलषिता ह्य् एषा__व्ध_014.012
प्रारब्धा धर्मतत्परैः__व्ध_014.012
पूरयत्य् अखिलान् कामान्__व्ध_014.012
संश्रुता च दिने दिने__व्ध_014.012
तस्मिन्न् एव दिने पुण्ये__व्ध_015.001
गोविन्दद्वादशीं शृणु__व्ध_015.001
यस्यां सम्यग् अनुष्ठानात्__व्ध_015.001
प्राप्नोत्य् अभिमतं फलम्__व्ध_015.001
पौषमासे सिते पक्षे__व्ध_015.002
द्वादश्यां समुपोषितः__व्ध_015.002
संयक् संपूज्य गोविन्दं__व्ध_015.002
नाम्ना देवम् अधोक्षजम्__व्ध_015.002
पुष्पधूपोपहाराद्यैर्__व्ध_015.002
उपवासैः समाहितः__व्ध_015.002
गोविन्देति जपन् नाम__व्ध_015.003
पुनस् तद्गतमानसः__व्ध_015.003
विप्राय दक्षिणां दद्याद्__व्ध_015.003
यथाशक्ति तपोधने__व्ध_015.003
स्वपन् विबुद्धः स्खलितो__व्ध_015.004
गोविन्देति च कीर्तयेत्__व्ध_015.004
पाषण्डादिविकर्मस्थैर्__व्ध_015.004
आलापं च विवर्जयेत्__व्ध_015.004
गोमूत्रं गोमयं वापि__व्ध_015.005
दधि क्षीरम् अथापि वा__व्ध_015.005
गोदेहतः समुत्पन्नं__व्ध_015.005
संप्राश्नीतात्मशुद्धये__व्ध_015.005
द्वितीये ऽह्नि पुनः स्नातस्__व्ध_015.006
तथैवाभ्यर्च्य तं प्रभुम्__व्ध_015.006
तेनैव नाम्ना संस्तूय__व्ध_015.006
दत्त्वा विप्राय दक्षिणाम्__व्ध_015.006
ततो भुञ्जीत गोदेह-__व्ध_015.006
संभूतेन समन्वितम्__व्ध_015.006
एवम् एवाखिलान् मासान्__व्ध_015.007
उपोष्य प्रयतः शुचिः__व्ध_015.007
दद्याद् गवाह्निकं भक्त्या__व्ध_015.007
प्रतिमासं स्वशक्तितः__व्ध_015.007
पारिते च पुनर् वर्षे__व्ध_015.008
यथाशक्ति गवाह्निकम्__व्ध_015.008

दत्त्वा परगवे भूयः__व्ध_015.008
शृणु यत् फलम् अश्नुते__व्ध_015.008
सुवर्णशृङ्गाः पञ्च गाः__व्ध_015.009
षष्ठं च वृषभं नरः__व्ध_015.009
प्रतिमासं द्विजाग्रेभ्यो__व्ध_015.009
यद् दत्त्वा फलम् अश्नुते__व्ध_015.009
तद् आप्नोत्य् अखिलं सम्यग्__व्ध_015.010
व्रतम् एतद् उपोषितः__व्ध_015.010
तं च लोकम् अवाप्नोति__व्ध_015.010
गोविन्दो यत्र तिष्ठति__व्ध_015.010
गोविन्दद्वादशीम् एताम्__व्ध_015.011
उपोष्य दिवि तारकाः__व्ध_015.011
विद्योतमाना दृश्यन्ते__व्ध_015.011
लोकैर् अद्यापि शोभने__व्ध_015.011
उपवासव्रतानां तु__व्ध_016.001
वैकल्यं यन् महामुने__व्ध_016.001
दानकर्मकृतं तस्य__व्ध_016.001
विपाको वद यादृशः__व्ध_016.001
यज्ञानाम् उपवासानां__व्ध_016.002
व्रतानां च यतव्रते__व्ध_016.002
वैकल्यात् फलवैकल्यं__व्ध_016.002
यादृशं तच् छृणुष्व मे__व्ध_016.002
उपवासादिना राज्यं__व्ध_016.003
संप्राप्यं ते तथा वसु__व्ध_016.003
भ्रष्टैश्वर्या निर्धनाश् च__व्ध_016.003
भवन्ति पुरुषाः पुनः__व्ध_016.003
रूपं तथोत्तमं प्राप्य__व्ध_016.004
व्रतवैकल्यदोषतः__व्ध_016.004
काणाः कुण्ठाश् च भूयस् ते__व्ध_016.004
भवन्त्य् अन्धाश् च मानवाः__व्ध_016.004
उपवासान् नरः पत्नीं__व्ध_016.005
नारी प्राप्य तथा पतिम्__व्ध_016.005
वियोगं व्रतवैकल्याद्__व्ध_016.005
उभयं तद् अवाप्नुते__व्ध_016.005
ये द्रव्ये सत्य् अदातारस्__व्ध_016.006
तथान्येनाहिताग्नयः__व्ध_016.006
कुले च सति दुःशीला__व्ध_016.006
दौष्कुलाः शीलिनश् च ये__व्ध_016.006
वस्त्रानुलेपनैर् हीना__व्ध_016.007
भूषणैश् चातिरूपिणः__व्ध_016.007

विरूपरूपाश् च तथा__व्ध_016.007
प्रसाधनगुणान्विताः__व्ध_016.007
ते सर्वे व्रतवैकल्यात्__व्ध_016.008
फलवैकल्यम् आगताः__व्ध_016.008
गुणिनो ऽपि हि दोषेण__व्ध_016.008
संयुक्ताः संभवन्ति ते__व्ध_016.008
तस्मान् न व्रतवैकल्यं__व्ध_016.009
यज्ञवैकल्यम् एव वा__व्ध_016.009
उपवासे च कर्तव्यं__व्ध_016.009
वैकल्याद् विकलं फलम्__व्ध_016.009
कथंचिद् यदि वैकल्यम्__व्ध_016.010
उपवासादिके भवेत्__व्ध_016.010
किं तत्र वद कर्तव्यम्__व्ध_016.010
अच्छिद्रं येन जायते__व्ध_016.010
अखण्डद्वादशीम् एताम्__व्ध_016.011
अशेषेष्व् एव कर्मसु__व्ध_016.011
वैकल्यप्रशमायालं__व्ध_016.011
शृणुष्व गदतो मम__व्ध_016.011
मार्गशीर्षे सिते पक्षे__व्ध_016.012
द्वादश्यां नियतः शुचिः__व्ध_016.012
कृतोपवासो देवेशं__व्ध_016.012
समभ्यर्च्य जनार्दनम्__व्ध_016.012
पञ्चगव्यजलस्नातः__व्ध_016.013
पञ्चगव्यकृताशनः__व्ध_016.013
यवव्रीहिभृतं पात्रं__व्ध_016.013
दद्याद् विप्राय भक्तितः__व्ध_016.013
इदं चोच्चारयेद् भक्त्या__व्ध_016.013
देवस्य पुरतो हरेः__व्ध_016.013
सप्त जन्मानि यत् किंचिद्__व्ध_016.014
मया खण्डव्रतं कृतम्__व्ध_016.014
भगवंस् त्वत्प्रसादेन__व्ध_016.014
तद् अखण्डम् इहास्तु मे__व्ध_016.014
यथाखण्डं जगत् सर्वम्__व्ध_016.015
त्वम् एव पुरुषोत्तम__व्ध_016.015
तथाखिलान्य् अखण्डानि__व्ध_016.015
व्रतानि मम सन्तु वै__व्ध_016.015
एवम् एवानुमासं वै__व्ध_016.016
चातुर्मास्यविधिः स्मृतः__व्ध_016.016
चतुर्भिर् एव मासैस् तु__व्ध_016.017
पारणं प्रथमं स्मृतम्__व्ध_016.017

प्रीणनं च हरेः कुर्यात्__व्ध_016.017
पारिते पारणे ततः__व्ध_016.017
चैत्रादिषु च मासेषु__व्ध_016.018
चतुर्ष्व् अन्यं तु पारणम्__व्ध_016.018
तत्रापि सक्तुपात्राणि__व्ध_016.018
दद्याच् छ्रद्धासमन्वितः__व्ध_016.018
श्रावणादिषु मासेषु__व्ध_016.019
कार्त्तिकान्तेषु पारणम्__व्ध_016.019
यत्नात् तु घृतपात्राणि__व्ध_016.019
दद्याद् विप्राय भक्तितः__व्ध_016.019
एवं सम्यग् यथान्यायम्__व्ध_016.020
अखण्डद्वादशीं नरः__व्ध_016.020
यद् उपोष्यत्य् अखण्डं स__व्ध_016.020
व्रतस्य फलम् अश्नुते__व्ध_016.020
सप्त जन्मसु वैकल्यम्__व्ध_016.021
यद् व्रतस्य क्वचित् कृतम्__व्ध_016.021
करोत्य् अविकलं सर्वम्__व्ध_016.021
अखण्डद्वादशीव्रतम्__व्ध_016.021
तस्माद् एषातियत्नेन__व्ध_016.022
नरैः स्त्रीभिश् च सुव्रते__व्ध_016.022
अखण्डद्वादशी सम्यग्__व्ध_016.022
उपोष्या फलकांक्षिभिः__व्ध_016.022
एवं पुरा याज्ञवल्क्यः__व्ध_017.001
पृष्टः पत्न्या महामुनिः__व्ध_017.001
आचष्ट पुण्यफलदम्__व्ध_017.001
उपवासविधिं परम्__व्ध_017.001
तथा त्वम् अपि विप्रर्षे__व्ध_017.002
केशवाराधने रतः__व्ध_017.002
व्रतोपवासपरमो__व्ध_017.002
भवेथा नान्यमानसः__व्ध_017.002
पुनश् चैतन् महाभाग__व्ध_017.003
श्रूयतां गदतो मम__व्ध_017.003
प्रोक्तं नरेण देवानां__व्ध_017.003
तिथिमाहात्म्यम् उत्तमम्__व्ध_017.003
विजयातिजया चैव__व्ध_017.004
जयन्ती पापनाशनी__व्ध_017.004
तथोत्तरायणं शस्तं__व्ध_017.004
सर्वदा केशवार्चने__व्ध_017.004
यद् अन्यकाले वर्षेण__व्ध_017.005
केशवाल् लभ्यते फलम्__व्ध_017.005

सकृद् एवार्चिते कृष्णे__व्ध_017.005
तद् एतास्व् अपि लभ्यते__व्ध_017.005
विजयातिजया चैव__व्ध_017.006
जयन्ती पापनाशनी__व्ध_017.006
तथोत्तरायणं चैव__व्ध_017.006
यच् छस्तं केशवार्चने__व्ध_017.006
तत् सर्वं कथयेहाद्य__व्ध_017.007
तिथिमाहात्म्यम् उत्तमम्__व्ध_017.007
यत्र संपूजितः कृष्णः__व्ध_017.007
सर्वपापं व्यपोहति__व्ध_017.007
एकादश्यां सिते पक्षे__व्ध_017.008
पुष्यर्क्षं यत्र सत्तम__व्ध_017.008
तिथौ भवति सा प्रोक्ता__व्ध_017.008
विष्णुना पापनाशनी__व्ध_017.008
तस्यां संपूज्य गोविन्दं__व्ध_017.009
जगताम् ईश्वरेश्वरम्__व्ध_017.009
सप्तजन्मकृतात् पापान्__व्ध_017.009
मुच्यते नात्र संशयः__व्ध_017.009
यश् चोपवासं कुरुते__व्ध_017.010
तस्यां स्नातो द्विजोत्तम__व्ध_017.010
सर्वपापविनिर्मुक्तो__व्ध_017.010
विष्णुलोके महीयते__व्ध_017.010
दानं यद् दीयते किंचित्__व्ध_017.011
समुद्दिश्य जनार्दनम्__व्ध_017.011
होमो वा क्रियते तस्याम्__व्ध_017.011
अक्षयं लभते फलम्__व्ध_017.011
एका ऋग् देवपुरतो__व्ध_017.012
जप्ता श्रद्धावता तथा__व्ध_017.012
ऋग्वेदस्य समस्तस्य__व्ध_017.012
जपता यच्छते फलम्__व्ध_017.012
सामवेदफलं साम__व्ध_017.013
यजुर्वेदफलं यजुः__व्ध_017.013
जप्तम् एकं मुनिश्रेष्ठ__व्ध_017.013
ददात्य् अत्र न संशयः__व्ध_017.013
तारका दिवि राजन्ते__व्ध_017.014
द्योतमाना द्विजोत्तम__व्ध_017.014
समभ्यर्च्य तिथाव् अस्यां__व्ध_017.014
देवदेवं जनार्दनम्__व्ध_017.014
यतः पापम् अशेषं वै__व्ध_017.015
नाशयत्य् अत्र केशवः__व्ध_017.015

पुष्यर्क्षैकादशी ब्रह्मंस्__व्ध_017.015
तेनोक्ता पापनाशनी__व्ध_017.015
तथान्यद् अपि धर्मज्ञ__व्ध_018.001
श्रूयतां गदतो मम__व्ध_018.001
पदद्वयं जगद्धातुर्__व्ध_018.001
देवदेवस्य शार्ङ्गिणः__व्ध_018.001
संवत्सरः पादपीठं__व्ध_018.002
तत्र न्यस्तं पदद्वयम्__व्ध_018.002
वासुदेवेन विप्रेन्द्र__व्ध_018.002
भूतानां हितकाम्यया__व्ध_018.002
वामम् अस्य पदं ब्रह्मन्__व्ध_018.003
उत्तरायणसंज्ञितम्__व्ध_018.003
देवाद्यैः सकलैर् वन्द्यं__व्ध_018.003
दक्षिणं दक्षिणायनम्__व्ध_018.003
तस्मिन् यः प्रयतः सम्यग्__व्ध_018.004
देवदेवस्य मानवः__व्ध_018.004
करोत्य् आराधनं तस्य__व्ध_018.004
तोषम् आयाति केशवः__व्ध_018.004
कथम् आराधनं तस्य__व्ध_018.005
देवदेवस्य शार्ङ्गिणः__व्ध_018.005
क्रियते मुनिशार्दूल__व्ध_018.005
तन् ममाख्यातुम् अर्हसि__व्ध_018.005
उत्तरे त्व् अयने दाल्भ्य__व्ध_018.006
स्नातो नियतमानसः__व्ध_018.006
घृतक्षीरादिना देवं__व्ध_018.006
स्नापयेद् धरणीधरम्__व्ध_018.006
चारुवस्त्रोपहारैश् च__व्ध_018.007
पुष्पधूपानुलेपनैः__व्ध_018.007
समभ्यर्च्य ततः सम्यग्__व्ध_018.007
ब्राह्मणानां च तर्पणैः__व्ध_018.007
पदद्वयव्रतं सम्यग्__व्ध_018.007
गृह्णीयाद् विष्णुतत्परः__व्ध_018.007
स्नातो नारायणं वक्ष्ये__व्ध_018.008
भुञ्जन् नारायणं तथा__व्ध_018.008
भुङ्क्त्वा नारायणं चाहं__व्ध_018.008
गच्छन् नारायणं ततः__व्ध_018.008
स्वपन् विबुद्धः प्रणमन्__व्ध_018.009
होमं कुर्वंस् तथार्चनम्__व्ध_018.009
नारायणस्यानुदिनं__व्ध_018.009
करिष्ये नामकीर्तनम्__व्ध_018.009

यावद् अद्यदिनात् प्राप्तं__व्ध_018.010
क्रमशो दक्षिणायनम्__व्ध_018.010
स्खलिते ऽहं क्षुते चैव__व्ध_018.010
वेदनार्तो ऽथवा सदा__व्ध_018.010
तावन् नारायणं वक्ष्ये__व्ध_018.010
सर्वम् एवोत्तरायणम्__व्ध_018.010
यावज् जीववधं किंचिद्__व्ध_018.011
ज्ञानतो ऽज्ञानतो ऽपि वा__व्ध_018.011
करिष्ये ऽहं तथा चैव__व्ध_018.011
कीर्तयिष्यामि तं प्रभुम्__व्ध_018.011
यदा तदानृतं किंचिद्__व्ध_018.012
अथ वक्ष्यामि दुर्वचः__व्ध_018.012
अज्ञानाद् अथवा ज्ञानात्__व्ध_018.012
कीर्तयिष्यामि तं प्रभुम्__व्ध_018.012
षण्मासम् एष मे जापो__व्ध_018.013
नारायणमयः परः__व्ध_018.013
तं स्मरन् मरणे याति__व्ध_018.013
यां गतिं सास्तु मे गतिः__व्ध_018.013
षण्मासाभ्यन्तरे मृत्युर्__व्ध_018.014
यद्य् अकस्माद् भवेन् मम__व्ध_018.014
तन् मया वासुदेवाय__व्ध_018.014
स्वयम् आत्मा निवेदितः__व्ध_018.014
परमार्थमयं ब्रह्म__व्ध_018.015
वासुदेवमयं परम्__व्ध_018.015
यम् अन्ते संस्मरन् याति__व्ध_018.015
स मे विष्णुः परा गतिः__व्ध_018.015
यदा प्रातस् तदा सायं__व्ध_018.016
मध्याह्ने वा म्रिये ह्य् अहम्__व्ध_018.016
षण्मासाभ्यन्तरे न्यासः__व्ध_018.016
कृतो व्रतमयो मया__व्ध_018.016
तथा कुरु जगन्नाथ__व्ध_018.017
सर्वलोकपरायण__व्ध_018.017
नारायण यथा नान्यं__व्ध_018.017
त्वत्तो यामि मृते गतिम्__व्ध_018.017
एवम् उच्चार्य षण्मास-__व्ध_018.018
पारणं प्रवरं व्रतम्__व्ध_018.018
तावन् निष्पादयेद् यावत्__व्ध_018.018
संप्राप्तं दक्षिणायनम्__व्ध_018.018
ततश् च प्रीणनं कुर्याद्__व्ध_018.019
यथाशक्त्या जगद्गुरोः__व्ध_018.019

भोजयेद् ब्राह्मणान् सम्यग्__व्ध_018.019
दद्यात् तेभ्यश् च दक्षिणाम्__व्ध_018.019
एवं व्रतम् इदं दाल्भ्य__व्ध_018.020
यः पारयति मानवः__व्ध_018.020
नारी वा सर्वपापेभ्यः__व्ध_018.020
षण्मासाद् विप्र मुच्यते__व्ध_018.020
षण्मासाभ्यन्तरे चास्य__व्ध_018.021
मरणं यदि जायते__व्ध_018.021
प्राप्नोत्य् अनशनस्योक्तं__व्ध_018.021
यत् फलं तद् असंशयम्__व्ध_018.021
पदद्वयं च कृष्णस्य__व्ध_018.022
सम्यक् तेन तथार्चितम्__व्ध_018.022
हरेर् नाम जपन् भक्त्या__व्ध_018.*(10)
स पुरा न जनेश्वर__व्ध_18*(10)
भगवान् उज्जगौ विष्णुः__व्ध_018.022
पुरा गार्ग्याय पृच्छते__व्ध_018.022
फाल्गुनामलपक्षस्य__व्ध_019.001
एकादश्याम् उपोषितः__व्ध_019.001
नरो वा यदि वा नारी__व्ध_019.001
समभ्यर्च्य जगद्गुरुम्__व्ध_019.001
हरेर् नाम जपेद् भक्त्या__व्ध_019.002
सप्त वारान् नरेश्वर__व्ध_019.002
उत्तिष्ठन् प्रस्वपंश् चैव__व्ध_019.002
हरिम् एवानुकीर्तयेत्__व्ध_019.002
ततो ऽन्यदिवसे प्राप्ते__व्ध_019.003
द्वादश्यां प्रयतो हरिम्__व्ध_019.003
स्नात्वा सम्यक् तम् अभ्यर्च्य__व्ध_019.003
दद्याद् विप्राय दक्षिणाम्__व्ध_019.003
हरिम् उद्दिश्य चैवाग्नौ__व्ध_019.004
घृतहोमकृतक्रियः__व्ध_019.004
प्रणिपत्य जगन्नाथम्__व्ध_019.004
इति वाणीम् उदीरयेत्__व्ध_019.004
पातालसंस्था वसुधा__व्ध_019.005
यं प्रसाद्य मनोरथान्__व्ध_019.005
अवाप वासुदेवो ऽसौ__व्ध_019.005
प्रददातु मनोरथान्__व्ध_019.005
यम् अभ्यर्च्यादितिः प्राप्ता__व्ध_019.006
सकलांश् च मनोरथान्__व्ध_019.006
पुत्रांश् चैवेप्सितान् देवः__व्ध_019.006
प्रददातु मनोरथान्__व्ध_019.006

भ्रष्टराज्यश् च देवेन्द्रो__व्ध_019.007
यम् अभ्यर्च्य जगत्पतिम्__व्ध_019.007
मनोरथान् अवापाग्र्यान्__व्ध_019.007
स ददातु मनोरथान्__व्ध_019.007
एवम् अभ्यर्च्य पूजां च__व्ध_019.008
निष्पाद्य हरये ततः__व्ध_019.008
भुञ्जीत प्रयतः सम्यग्__व्ध_019.008
हविष्यं मनुजर्षभ__व्ध_019.008
फाल्गुनं चैत्रवैशाखौ__व्ध_019.009
ज्येष्ठमासं च पार्थिव__व्ध_019.009
चतुर्भिः पारणं मासैर्__व्ध_019.009
एभिर् निष्पादितं भवेत्__व्ध_019.009
रक्तपुष्पैस् तु चतुरो__व्ध_019.010
मासान् कुर्वीत चार्चनम्__व्ध_019.010
दहेच् च गुग्गुलं प्राश्य__व्ध_019.010
गोशृङ्गक्षालनं जलम्__व्ध_019.010
हविष्यान्नं च नैवेद्यम्__व्ध_019.011
आत्मनश् चैव भोजनम्__व्ध_019.011
ततश् च श्रूयताम् अन्यद्__व्ध_019.011
आषाढादौ तु या क्रिया__व्ध_019.011
जातीपुष्पाणि धूपश् च__व्ध_019.012
शस्तः सर्जरसो नृप__व्ध_019.012
प्राश्य दर्भोदकं चात्र__व्ध_019.012
शाल्यन्नं च निवेदनम्__व्ध_019.012
स्वयं तद् एव चाश्नीयाच्__व्ध_019.013
शेषं पूर्ववद् आचरेत्__व्ध_019.013
कार्त्तिकादिषु मासेषु__व्ध_019.013
गोमूत्रं कायशोधनम्__व्ध_019.013
सुगन्धं चेच्छया धूपं__व्ध_019.014
पूजाभृङ्गारकेण च__व्ध_019.014
कासारं चात्र नैवेद्यम्__व्ध_019.014
अश्नीयात् तच् च वै स्वयम्__व्ध_019.014
प्रतिमासं च विप्राय__व्ध_019.015
दातव्या दक्षिणा तथा__व्ध_019.015
प्रीणनं चेच्छया विष्णोः__व्ध_019.015
पारणे पारणे गते__व्ध_019.015
यथाशक्ति यथाप्रीति__व्ध_019.016
वित्तशाठ्यं विवर्जयेत्__व्ध_019.016
सद्भावेनैव गोविन्दः__व्ध_019.016
पूजितः प्रीयते यतः__व्ध_019.016

पारणान्ते यथाशक्त्या__व्ध_019.017
स्नापितः पूजितो हरिः__व्ध_019.017
प्रीणितश् चेप्सितान् कामान्__व्ध_019.017
ददात्य् अव्याहतान् नृप__व्ध_019.017
एषा धन्या पापहरा__व्ध_019.018
द्वादशी फलम् इच्छताम्__व्ध_019.018
यथाभिलषितान् कामान्__व्ध_019.018
ददाति मनुजेश्वर__व्ध_019.018
पूरयत्य् अखिलान् भक्त्या__व्ध_019.019
यतश् चैषा मनोरथान्__व्ध_019.019
मनोरथद्वादशीयं__व्ध_019.019
ततो लोकेषु विश्रुता__व्ध_019.019
उपोष्यैतां त्रिभुवनं__व्ध_019.020
प्राप्तम् इन्द्रेण वै पुरा__व्ध_019.020
अदित्या चेप्सिताः पुत्रा__व्ध_019.020
धनं चोशनसा नृप__व्ध_019.020
धौम्येन चाप्य् अध्ययनम्__व्ध_019.021
अन्यैश् चाभिमतं फलम्__व्ध_019.021
राजर्षिभिस् तथा विप्रैः__व्ध_019.021
स्त्रीभिः शूद्रैश् च भूपते__व्ध_019.021
यं यं कामम् अभिध्यायेद्__व्ध_019.022,*(11)
व्रतम् एतद् उपोषितः__व्ध_019.022,*(11)
तं तम् आप्नोत्य् असंदिग्धं__व्ध_019.022,*(11)
विष्णोर् आराधनोद्यतः__व्ध_019.022,*(11)
अपुत्रो लभते पुत्रम्__व्ध_019.023
अधनो लभते धनम्__व्ध_019.023
रोगाभिभूतश् चारोग्यं__व्ध_019.023
कन्या प्राप्नोति सत्पतिम्__व्ध_019.023
समागमं प्रवसितैर्__व्ध_019.024
उपोष्यैताम् अवाप्नुते__व्ध_019.024
सर्वान् कामान् अवाप्नोति__व्ध_019.024
मृतः स्वर्गे च मोदते__व्ध_019.024
नापुत्रो नाधनो नेष्ट-__व्ध_019.025
वियोगी न च निर्गुणः__व्ध_019.025
उपोष्यैतद् व्रतं मर्त्यः__व्ध_019.025
स्त्री जनो वापि जायते__व्ध_019.025
य एव व्रतसंचीर्णो__व्ध_019.*(12)
विष्णुलोके महीयते__व्ध_019.*(12)
स्वर्गलोके सहस्राणि__व्ध_019.026
वर्षाणां मनुजाधिप__व्ध_019.026

भोगान् अभिमतान् भुक्त्वा__व्ध_019.026
स्वर्गलोके ऽभिकाङ्क्षितान्__व्ध_019.026
इह पुण्यवतां नॄणां__व्ध_019.027
धनिनां साधुशीलिनाम्__व्ध_019.027
गृहेषु जायते राजन्__व्ध_019.027
सर्वव्याधिविवर्जितः__व्ध_019.027
अशोकपूर्णिमां चान्यां__व्ध_020.001
शृणुश्व वदतो मम__व्ध_020.001
याम् उपोष्य नरः शोकं__व्ध_020.001
नाप्नोति स्त्री तथापि वा__व्ध_020.001
फाल्गुनामलपक्षस्य__व्ध_020.002
पूर्णिमास्यां नरेश्वर__व्ध_020.002
मृज्जलेन नरः स्नात्वा__व्ध_020.002
दत्त्वा शिरसि वै मृदम्__व्ध_020.002
मृत्प्राशनं तथा कृत्वा__व्ध_020.003
कृत्वा च स्थण्डिलं मृदा__व्ध_020.003
पुष्पैः पत्रैस् तथाभ्यर्च्य__व्ध_020.003
भूधरं नान्यमानसः__व्ध_020.003
धरणीं च तथा देवीम्__व्ध_020.003
अशोकेत्य् अभिधीयते__व्ध_020.003
यथा विशोकां धरणीं__व्ध_020.004
कृतवांस् त्वं जनार्दनः__व्ध_020.004
तथा मां सर्वपापेभ्यो__व्ध_020.004
मोचयाशेषधारिणि__व्ध_020.004
यथा समस्तभूतानां__व्ध_020.005
धारणं त्वय्य् अवस्थितम्__व्ध_020.005
तथा विशोकं कुरु मां__व्ध_020.005
सकलेच्छाविभूतिभिः__व्ध_020.005
ध्यातमात्रे यथा विष्णौ__व्ध_020.006
स्वास्थ्यं यातासि मेदिनि__व्ध_020.006
तथा मनः स्वस्थतां मे__व्ध_020.006
कुरु त्वं भूतधारिणि__व्ध_020.006
एवं स्तुत्वा तथाभ्यर्च्य__व्ध_020.007
चन्द्रायार्घ्यं निवेद्य च__व्ध_020.007
उपोषितव्यं नक्तं वा__व्ध_020.007
भोक्तव्यं तैलवर्जितम्__व्ध_020.007
अनेनैव प्रकारेण__व्ध_020.008
चत्वारः फाल्गुनादयः__व्ध_020.008
उपोष्या नृपते मासाः__व्ध_020.008
प्रथमं तत् तु पारणम्__व्ध_020.008

आषाढादिषु मासेषु__व्ध_020.009
तद्वत् स्नानं मृदम्बुना__व्ध_020.009
तद् एव प्राशनं पूजा__व्ध_020.009
तथैवेन्दोस् तथार्हणम्__व्ध_020.009
चतुर्ष्व् अन्येषु चैवोक्तं__व्ध_020.010
तथा वै कार्त्तिकादिषु__व्ध_020.010
पारणं त्रितयं चैव__व्ध_020.010
चातुर्मासिकम् उच्यते__व्ध_020.010
प्रथमं धरणी नाम__व्ध_020.011
स्तुत्यै मासचतुष्टयम्__व्ध_020.011
द्वितीये मेदिनी वाच्या__व्ध_020.011
तृतीये च वसुंधरा__व्ध_020.011
पारणे पारणे वस्त्र-__व्ध_020.012
पूजया पूजयेन् नृप__व्ध_020.012
धरणीं देवदेवं च__व्ध_020.012
घृतस्नानेन केशवम्__व्ध_020.012
वस्त्राभावे तु सूत्रेण__व्ध_020.013
पूजयेद् धरणीं तथा__व्ध_020.013
घृताभावे तथा क्षीरं__व्ध_020.013
शस्तं वा सलिलं हरेः__व्ध_020.013
पातालमूलगतया__व्ध_020.014
चीर्णम् एतन् महाव्रतम्__व्ध_020.014
धरण्या केशवप्रीत्यै__व्ध_020.014
ततः प्राप्ता समुन्नतिः__व्ध_020.014
देवेन चोक्ता धरणी__व्ध_020.015
वराहवपुषा तदा__व्ध_020.015
उपवासप्रसन्नेन__व्ध_020.015
समुद्धृत्य रसातलात्__व्ध_020.015
व्रतेनानेन कल्याणि__व्ध_020.016
प्रणतो यः करिष्यति__व्ध_020.016
तस्य प्रसादम् अप्य् अहम्__व्ध_020.*(13)
करोमि तव मेदिनि__व्ध_020.*(13)
तथैव कुरुते पूजां__व्ध_020.*(13)
भक्त्या मम शुभो जनः__व्ध_020.*(13)
तथैव तव कल्याणि__व्ध_020.*(13)
प्रणतो यः करिष्यति__व्ध_020.*(13)
व्रतम् एतद् उपाश्रित्य__व्ध_020.016
पारणं च यथाविधि__व्ध_020.016
सर्वपापविनिर्मुक्तः__व्ध_020.017
सप्त जन्मान्तराण्य् असौ__व्ध_020.017

विशोकः सर्वकल्याण-__व्ध_020.017
भाजनो मतिमाञ् जनः__व्ध_020.017
सर्वत्र पूज्यः सततं__व्ध_020.018
सर्वेषाम् अपराजितः__व्ध_020.018
यथाहम् एवं वसुधे__व्ध_020.018
भविता निर्वृतेः पदम्__व्ध_020.018
तथा त्वम् अपि कल्याणि__व्ध_020.*(14)
भविष्यसि न संशयः__व्ध_020.*(14)
एवम् एतन् महापुण्यं__व्ध_020.019
सर्वपापोपशान्तिदम्__व्ध_020.019
विशोकाख्यं व्रतं धन्यं__व्ध_020.019
तत् कुरुष्व महीपते__व्ध_020.019
स्त्रीणां धर्मं द्विजश्रेष्ठ__व्ध_021.001
उपवासं भवन् मम__व्ध_021.001
कथयेह यथातत्त्वम्__व्ध_021.001
उपवासविधिश् च यः__व्ध_021.001
कौमारके गृहस्थाया__व्ध_021.002
विधवायाश् च सत्तम__व्ध_021.002
धर्मं प्रब्रूह्य् अशेषेण__व्ध_021.002
भगवन् प्रीतिकारकम्__व्ध_021.002
श्रूयताम् अखिलं ब्रह्मन्__व्ध_021.003
यद्य् एतद् अनुपृच्छसि__व्ध_021.003
उपकाराय च स्त्रीणां__व्ध_021.003
त्रिषु लोकेष्व् अनुत्तमम्__व्ध_021.003
प्रश्नम् एतत् पुरा देवी__व्ध_021.004
शैलराजसुता पतिम्__व्ध_021.004
पप्रच्छ शङ्करं ब्रह्मन्__व्ध_021.004
कैलासशिखरे स्थितम्__व्ध_021.004
कुमारिकाभिर् देवेश__व्ध_021.005
गृहस्थाभिश् च केशवः__व्ध_021.005
विधवाभिस् तथा स्त्रीभिः__व्ध_021.005
कथम् आराध्यते वद__व्ध_021.005
साधु साध्वि त्वया पृष्टम्__व्ध_021.006
एतन् नारायणाश्रितम्__व्ध_021.006
उपवासादि यत् तत्त्वं__व्ध_021.006
श्रूयताम् अस्य यो विधिः__व्ध_021.006
योग्यं पतिं समासाद्य__व्ध_021.007
नारी धर्मम् अवाप्नुते__व्ध_021.007
दुःशीले ऽपि हि कामार्ते__व्ध_021.007
नारी प्राप्नोति भर्तरि__व्ध_021.007

अनाराध्य जगन्नाथं__व्ध_021.008
सर्वलोकेश्वरं हरिम्__व्ध_021.008
कथम् आप्नोति वै नारी__व्ध_021.008
पतिं शीलगुणान्वितम्__व्ध_021.008
सुकलत्रप्रदं तस्माद्__व्ध_021.009
व्रतम् अच्युततुष्टिदम्__व्ध_021.009
कर्तव्यं लक्षणं तस्य__व्ध_021.009
श्रूयतां वरवर्णिनि__व्ध_021.009
यच् चीर्त्वा सर्वनारीणां__व्ध_021.010
श्रेष्ठम् आप्नोत्य् असंशयम्__व्ध_021.010
ऐहिकं च सुखं प्राप्य__व्ध_021.010
स्वर्गे भुङ्क्ते सुखान्य् अपि__व्ध_021.010
अनुज्ञां प्राप्य पितृतो__व्ध_021.011
मातृतश् च कुमारिका__व्ध_021.011
पूजयेच् च जगन्नाथं__व्ध_021.011
भक्त्या पापहरं हरिम्__व्ध_021.011
त्रिषूत्तरेषु स्वृक्षेषु__व्ध_021.012
पतिकामा कुमारिका__व्ध_021.012
माधवाख्यं तु वै नाम__व्ध_021.012
जपेन् नित्यम् अतन्द्रिता__व्ध_021.012
प्रियङ्गुणा रक्तपुष्पैर्__व्ध_021.013
बन्धूककुसुमैस् तथा__व्ध_021.013
समभ्यर्च्य ततो दद्याद्__व्ध_021.013
रक्तम् एवानुलेपनम्__व्ध_021.013
सर्वौषध्या स्वयं स्नात्वा__व्ध_021.014
समभ्यर्च्य जगत्पतिम्__व्ध_021.014
नमो ऽस्तु माधवायेति__व्ध_021.014
होमयेन् मधुसर्पिषी__व्ध_021.014
स देवम् उत्तरायोगे__व्ध_021.015
समभ्यर्च्य जनार्दनम्__व्ध_021.015
शोभनं पतिम् आप्नोति__व्ध_021.015
प्रेत्य स्वर्गं च गच्छति__व्ध_021.015
अतिबाल्ये च यत् किंचित्__व्ध_021.016
तया पापम् अनुष्ठितम्__व्ध_021.016
तस्माच् च मुच्यते देवि__व्ध_021.016
सुखिनी चैव जायते__व्ध_021.016
अब्देनैकेन तन्वङ्गि__व्ध_021.017
धूतपापा यद् इच्छति__व्ध_021.017
तद् एव प्राप्नुयाद् भद्रे__व्ध_021.017
नारायणपरायणा__व्ध_021.017

षण्मासं प्रीणनं कार्यं__व्ध_021.018
भक्त्या शक्त्या च वै हरेः__व्ध_021.018
पारणान्ते महाभगे__व्ध_021.018
तथा ब्राह्मणतर्पणम्__व्ध_021.018
गार्हस्थ्ये ऽवस्थिता नारी__व्ध_022.001
भक्त्या संपूजयेत् पतिम्__व्ध_022.001
स एव देवता तस्याः__व्ध_022.001
पूज्यः पूज्यतरश् च सः__व्ध_022.001
तस्मिंस् तुष्टे परो धर्मस्__व्ध_022.002
तस्यैव परिचर्यया__व्ध_022.002
तोषम् आयाति सर्वात्मा__व्ध_022.002
परमात्मा जनार्दनः__व्ध_022.002
नैव तस्याः पृथग् यज्ञो__व्ध_022.003
न श्राद्धं नाप्य् उपोषितम्__व्ध_022.003
भर्तृशुश्रूषणेनैव__व्ध_022.003
प्राप्नोति स्त्री यथेप्सितम्__व्ध_022.003
तेनैव साप्य् अनुज्ञाता__व्ध_022.004
तस्य शुश्रूषणाद् अनु__व्ध_022.004
तोषयेज् जगताम् ईशम्__व्ध_022.004
अनन्तम् अपराजितम्__व्ध_022.004
व्रतैर् नानाविधैर् देवि__व्ध_022.005
ऐहिकामुष्मिकाप्तये__व्ध_022.005
विष्णुव्रतादिभिर् दिव्यैस्__व्ध_022.005
तथा दानैर् मनोऽनुगैः__व्ध_022.005
घृतक्षीराभिषेकैश् च__व्ध_022.006
ब्राह्मणानां च तर्पणैः__व्ध_022.006
मनोज्ञैर् विविधैर् धूपैः__व्ध_022.006
पुष्पवस्त्रानुलेपनैः__व्ध_022.006
गीतवाद्यैस् तथा हृद्यैर्__व्ध_022.007
उपवासैश् च भामिनि__व्ध_022.007
एवम् आराध्य गोविन्दम्__व्ध_022.007
अनुज्ञाता यथाविधि__व्ध_022.007
पतिना सकलान् कामान्__व्ध_022.007
अवाप्नोति न संशयः__व्ध_022.007
पतिना त्व् अननुज्ञाता__व्ध_022.008
किंचित् पुण्यं करोति या__व्ध_022.008
विफलं तद् अशेषं वै__व्ध_022.008
तस्याः शैलवरात्मजे__व्ध_022.008
न च प्रसादं कुरुते__व्ध_022.009
भगवान् मधुसूदनः__व्ध_022.009

नानुज्ञाता तु या नारी__व्ध_022.009
पतिनार्चति केशवम्__व्ध_022.009
या तु भर्तृपरा नारी__व्ध_022.010
नारायणम् अतन्द्रिता__व्ध_022.010
भक्त्या संपूजयेद् देवं__व्ध_022.010
तोषम् आयाति केशवः__व्ध_022.010
या तु भर्त्रा परित्यक्ता__व्ध_022.011
तथा या मृतभर्तृका__व्ध_022.011
पाषण्डानुगतो वापि__व्ध_022.011
यस्या भर्ता महेश्वर__व्ध_022.011
प्रायो ददाति नानुज्ञां__व्ध_022.012
विष्णोर् आराधने तदा__व्ध_022.012
कथम् आराधनं कार्यं__व्ध_022.012
विष्णोस् तद् वद शंकर__व्ध_022.012
या तु भर्त्रा परित्यक्ता__व्ध_022.013
सा संपूज्य निजं पतिम्__व्ध_022.013
मनसा तन्मनस्का च__व्ध_022.013
तस्यैव हितकारिणी__व्ध_022.013
न निन्दाकरणी तस्य__व्ध_022.014
श्रेयोऽभिध्यायिनी तथा__व्ध_022.014
तस्यैव सर्वकालेषु__व्ध_022.014
सर्वकल्याणम् इच्छति__व्ध_022.014
आराधयेज् जगन्नाथं__व्ध_022.015
सर्वधातारम् अच्युतम्__व्ध_022.015
कृतोपवासा पुष्पादि__व्ध_022.015
निवेद्य सकलं ततः__व्ध_022.015
भर्तुर् मनोरथावाप्तिं__व्ध_022.016
प्रार्थयेत् प्रथमं वरम्__व्ध_022.016
स्वयं यथाभिलषितं__व्ध_022.016
प्रार्थयेत् तं वरं ततः__व्ध_022.016
एवं भर्तृपरित्यक्ता__व्ध_022.017
योषिद् आराधनं हरेः__व्ध_022.017
कुर्वाणा सकलान् कामान्__व्ध_022.017
अवाप्नोति न संशयः__व्ध_022.017
भर्ता करोति यच् चस्याः__व्ध_022.018
किंचित् पुण्यम् अहर्निशम्__व्ध_022.018
तस्य पुण्यस्य संपूर्णम्__व्ध_022.018
अर्धं प्राप्नोति सा शुभे__व्ध_022.018
यत् तु सा कुरुते पुण्यं__व्ध_022.019
विना दोषेण योज्झिता__व्ध_022.019

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc