विष्णुधर्म · भाग 421440
तन्मना नान्यतोमुखः__व्ध_101.026
व्रतानि चरता संयग्__व्ध_101.026
ग्राह्यो वेदो यतात्मना__व्ध_101.026
दण्डवत्प्लवनं स्नाने__व्ध_101.026
शस्तं नास्याङ्गशोधनम्__व्ध_101.026
अधीत्य वेदान् वेदौ वा__व्ध_101.027
वेदं वापि यथाक्रमम्__व्ध_101.027
अविप्लुतब्रह्मचर्यो__व्ध_101.027
गृहस्थाश्रमम् आवसेत्__व्ध_101.027
यथेष्टां दक्षिणां दत्त्वा__व्ध_101.028
गुरवे कुरुनन्दन__व्ध_101.028
ततो ऽनुज्ञां समासाद्य__व्ध_101.028
गृहस्थाश्रमम् आवसेत्__व्ध_101.028
तेनैवान्तं व्रजेत् प्राज्ञस्__व्ध_101.029
तच्छुश्रूषणतत्परः__व्ध_101.029
वानप्रस्थाश्रमं तस्माच्__व्ध_101.029
चतुर्थं वापि संश्रयेत्__व्ध_101.029
यथाक्रमं वा कुर्वीत__व्ध_101.029
विधिवद् दारसंग्रहम्__व्ध_101.029
ततस् त्व् अरोगिकुलजां__व्ध_101.030
तुल्यां पत्नीं समुद्वहेत्__व्ध_101.030
गृहस्थाश्रमवृत्त्यर्थम्__व्ध_101.030
अव्यङ्गां विधिना नृप__व्ध_101.030
आख्यातवर्णधर्मेण__व्ध_101.031
धनं लब्ध्वा महीपते__व्ध_101.031
कुर्वीत श्रद्धया युक्तो__व्ध_101.031
नित्यनैमित्तिकीः क्रियाः__व्ध_101.031
अभ्यागतातिथीन् बन्धून्__व्ध_101.032
भृत्यादीन् आतुरांस् तथा__व्ध_101.032
तोषयेच् छक्तितो ऽन्नेन__व्ध_101.032
वयांस्य् अन्त्यपशून् अपि__व्ध_101.032
ऋताव् उपगमश् चैव__व्ध_101.033
गृहस्थस्यापि शब्दितः__व्ध_101.033
धर्मो धर्मभृतां श्रेष्ठ__व्ध_101.033
यज्ञोच्छिष्टं च भोजनम्__व्ध_101.033
हव्येन प्रीणयेद् देवान्__व्ध_101.034
पितृन् कव्येन शक्तितः__व्ध_101.034
मनुष्यान् अन्नपानेन__व्ध_101.034
स्वाध्यायेन र्षितर्पणम्__व्ध_101.034
कुर्याच् च प्रीणनं नित्यं__व्ध_101.035
भूतानां बलिकर्मणा__व्ध_101.035
प्रजापतिं सुतोत्पत्त्या__व्ध_101.035
हार्देन सकलं जनम्__व्ध_101.035
शुभेन कर्मणात्मानम्__व्ध_101.036
उपदेशेन चात्मजान्__व्ध_101.036
अनुजीविजनं वृत्या__व्ध_101.036
गृहस्थस् तोषयेत् सदा__व्ध_101.036
तथैवापरमानेभ्यः__व्ध_101.037
प्रदेयं गृहमेधिना__व्ध_101.037
अन्नं भिक्षार्थिनो ये च__व्ध_101.037
परिव्राड्ब्रह्मचारिणः__व्ध_101.037
एवं गृहाश्रमे देवाः__व्ध_101.038
पितरो मुनयस् तथा__व्ध_101.038
सर्वकामान् प्रयच्छन्ति__व्ध_101.038
मनुष्याश् च सुपूजिताः__व्ध_101.038
गृहस्थस् तु यदा पश्येद्__व्ध_101.039
वलीपलितम् आत्मनः__व्ध_101.039
अपत्यस्य तथापत्यं__व्ध_101.039
तदारण्यं समाश्रयेत्__व्ध_101.039
पितृदेवातिथीनां तु__व्ध_101.040
स्मृतं तत्रापि पूजनम्__व्ध_101.040
तथैवारण्यभोगश् च__व्ध_101.040
तपोभिश् चात्मकर्षणम्__व्ध_101.040
ब्रह्मचर्यं महीशय्या__व्ध_101.041
होमस् त्रिषवणाप्लुतिः__व्ध_101.041
मौनादिकरणं शस्तं__व्ध_101.041
जटावल्कलधारणम्__व्ध_101.041
ग्रीष्मे पञ्चतपोभिश् च__व्ध_101.042
वर्षास्व् अभ्रावकाशिकैः__व्ध_101.042
जलशय्या च हेमन्ते__व्ध_101.042
भाव्यं वननिकेतनैः__व्ध_101.042
इङ्गुदैरण्डतैलेन__व्ध_101.043
गात्राभ्यङ्गानि चेष्यते__व्ध_101.043
श्यामाकनीवारमयं__व्ध_101.043
फलमूलैश् च भोजनम्__व्ध_101.043
अप्रवेशस् तथा ग्रामे__व्ध_101.044
वानप्रस्थविधिः स्मृतः__व्ध_101.044
वानप्रस्थस्य ते प्रोक्तं__व्ध_101.044
धर्मलक्षणम् आदितः__व्ध_101.044
आश्रमणं त्व् अपरं भिक्षोः__व्ध_101.045
शृणुष्व गदतो मम__व्ध_101.045
ग्रामैकरात्रिर् वसतिर्__व्ध_101.045
नगरे पञ्चरात्रिका__व्ध_101.045
सर्वसङ्गपरित्यागः__व्ध_101.046
क्षान्तिर् इन्द्रियसंयमः__व्ध_101.046
विकालभैक्षचरणम्__व्ध_101.046
अनारम्भस् तथा नृप__व्ध_101.046
आत्मज्ञानावबोधेच्छा__व्ध_101.047
ब्रह्मचर्यं समाधिना__व्ध_101.057
आत्मावलोकनं चैव__व्ध_101.047
भिक्षोः शस्तानि पार्थिव__व्ध_101.047
चतुर्थश् चैष कथितस्__व्ध_101.048
तव भिक्षोर् मयाश्रमः__व्ध_101.048
क्रमाद् विमुक्तिकामानां__व्ध_101.048
पुरुषाणाम् अयं विधिः__व्ध_101.048
एवं तु वर्णधर्मेण__व्ध_101.049
तथा चाश्रमकर्मना__व्ध_101.049
निजेन संपूज्य हरिं__व्ध_101.049
सिद्धिम् आप्नोति मानवः__व्ध_101.049
ब्रह्मचारी गृहस्थश् च__व्ध_101.050
भिक्षुर् वैखानसस् तथा__व्ध_101.050
कुर्वन्तो निजकर्माणि__व्ध_101.050
विष्णुम् एव यजन्ति ते__व्ध_101.050
यतो हि देवताः सर्वा__व्ध_101.051
ब्रह्माद्याः कुरुनन्दन__व्ध_101.051
अंशभूता जगद्धातुर्__व्ध_101.051
विष्णोर् अव्यक्तजन्मनः__व्ध_101.051
विश्वे देवा यतो विष्णुर्__व्ध_101.052
विष्णुः पितृगणो यतः__व्ध_101.052
देवा यज्ञभुजश् चेशो__व्ध_101.052
यतः पापहरो हरिः__व्ध_101.052
विश्वे भूतानि भूतानि__व्ध_101.053
यतो विष्णुस् तथर्षयः__व्ध_101.053
ततः सर्वाश्रमाणां हि__व्ध_101.053
पूज्य एको जनार्दनः__व्ध_101.053
सर्वेश्वरं सर्वमयं समस्त-__व्ध_101.054
संसारहेतुक्षयकारणेशम्__व्ध_101.054
वरं वरेण्यं वरदं वरिष्ठं__व्ध_101.054
विष्णुं क्रियावान् यजते मनुष्यः__व्ध_101.054
यस्योदरे जगद् इदं परमाणुभूतं__व्ध_101.055
चन्द्रेन्द्ररुद्रमरुदश्विवसुप्रजेशैः__व्ध_101.055
सर्वैः समेतम् अमितात्मतनोस् तम् एकम्__व्ध_101.055
अभ्यर्च्य विष्णुम् अभिवाञ्छितम् अस्त्य् अलभ्यम्__व्ध_101.055
आराध्य यं भुवनभावनम् अच्युताख्यम्__व्ध_101.056
ऐश्वर्यम् ईप्सितम् अवाप पतिः सुराणाम्__व्ध_101.056
त्रैलोक्यसारम् अमरार्चितपादपद्मम्__व्ध_101.056
एकं तम् एव हरिम् अर्चयतार्चनीयम्__व्ध_101.056
यस्याङ्घ्रिपद्मगलिताम्भसि देव दैत्य-__व्ध_101.057
यक्षादिभिः सकलपापम् अपोह्य सिद्धिः__व्ध_101.057
संप्राप्यते मरणजन्मजरापहन्त्री__व्ध_101.057
विष्णोर् अजात् कथय को ऽभ्यधिकस् ततो ऽस्ति__व्ध_101.057
कमलजहरसूर्यचन्द्रशक्रैः__व्ध_101.058
सततम् अभिष्टुतम् आद्यम् ईशितारम्__व्ध_101.058
सकलभुवनकार्यकारनेशं__व्ध_101.058
पुरुषतनुं प्रणतो ऽस्मि वासुदेवम्__व्ध_101.058
श्रुतं भगवतो रूपम्__व्ध_102.001
अद्वैते यत् त्वयोदितम्__व्ध_102.001
विष्णोर् भृगुकुलश्रेष्ठ__व्ध_102.001
यच् च द्वैते महात्मनः__व्ध_102.001
अविद्याभिन्नदृग्बुद्धिः__व्ध_102.002
पुरुषो मुनिपुङ्गव__व्ध_102.002
द्वैतभूते जगत्य् अस्मिन्न्__व्ध_102.002
अद्वैतं भावयेत् कथम्__व्ध_102.002
क्रोधलोभादयो दोषा__व्ध_102.003
ये मुक्तेः परिपन्थिनः__व्ध_102.003
विनिवृत्तिरूपा येन__व्ध_102.003
तेषां येन वदेर् ह तम्__व्ध_102.003
सर्वेश्वरेश्वरेशस्य__व्ध_102.004
यच् च रूपं हरेः परम्__व्ध_102.004
तच् चाहं श्रोतुम् इच्छामि__व्ध_102.004
त्वत्तो भृगुकुलोद्वह__व्ध_102.004
सम्यक् पृष्टम् इदं भूप__व्ध_102.005
भवता गुह्यम् उत्तमम्__व्ध_102.005
द्वैताद्वैतकथालाप-__व्ध_102.005
संबन्धाद् उपकारकम्__व्ध_102.005
पुरा धर्मगृहे जज्ञे__व्ध_102.006
चतुर्मूर्तिर् नरेश्वर__व्ध_102.006
देवदेवो जगद्धाता__व्ध_102.006
परमात्मा जनार्दनः__व्ध_102.006
जगतः पालनार्थाय__व्ध_102.007
दुर्वृत्तनिधनाय च__व्ध_102.007
स्वेच्छया भगवान् विष्णुः__व्ध_102.007
संभवत्य् एव भूतले__व्ध_102.007
स्वर्गे वापि भूलोके वा__व्ध_102.008
भुवर्लोके ऽथवा विभुः__व्ध_102.008
यत्र वा रोचते तत्र__व्ध_102.008
चिकीर्षुर् जगतो हितम्__व्ध_102.008
तुरीयांशेन धर्मस्य__व्ध_102.009
भगवान् भूतभावनः__व्ध_102.009
यदावतारं कृतवांस्__व्ध_102.009
तदा तच्चरितं शृणु__व्ध_102.009
नरो नारायणश् चैव__व्ध_102.010
हरिः कृष्णस् तथैव च__व्ध_102.010
विष्णोर् अंशांशका ह्य् एते__व्ध_102.010
चत्वारो धर्मसूनवः__व्ध_102.010
तेषां नारायणनरौ__व्ध_102.011
गन्धमादनपर्वते__व्ध_102.011
आत्मन्य् आत्मानम् आधाय__व्ध_102.011
तेपते परमं तपः__व्ध_102.011
ध्यायमानाव् अनौपम्यं__व्ध_102.012
स्वकारणम् अकारणम्__व्ध_102.012
वासुदेवम् अनिर्देश्यम्__व्ध_102.012
अप्रतर्क्यम् अजं परम्__व्ध_102.012
योगयुक्तौ महामौनम्__व्ध_102.012
आस्थितौ गुरुतेजसौ__व्ध_102.012
तयोस् तपःप्रभावेण__व्ध_102.013
न तताप दिवाकरः__व्ध_102.013
ववौ चाशङ्कितो वायुः__व्ध_102.013
सुखस्पर्शो ह्य् असर्करः__व्ध_102.013
शिशिरो ऽभवद् अत्यर्थं__व्ध_102.014
ज्वलन्न् अपि विभावसुः__व्ध_102.014
सिंहव्याघ्रादयः सौम्याश्__व्ध_102.014
चेरुः सह मृगैर् गिरौ__व्ध_102.014
तयोर् गौरवभारार्ता__व्ध_102.015
पृथिवी पृथिवीपते__व्ध_102.015
चचाल भूधराश् चेलुश्__व्ध_102.015
चुक्षुभुश् च महाब्धयः__व्ध_102.015
देवाश् च स्वेषु धिष्ण्येषु__व्ध_102.016
निष्प्रभेषु हतप्रभाः__व्ध_102.016
बभूवुर् अवनीपाल__व्ध_102.016
परमं क्षोभम् आगताः__व्ध_102.016
देवराजस् ततः शक्रः__व्ध_102.017
संत्रस्तस् तपसस् तयोः__व्ध_102.017
युयोजाप्सरसः शुभ्रास्__व्ध_102.017
तयोर् विघ्नचिकीर्षया__व्ध_102.017
रम्भे तिलोत्तमे कुण्ठे__व्ध_102.018
घृताचि ललितावति__व्ध_102.018
उम्लोचे सुभ्रुप्रम्लोचे__व्ध_102.018
सौरभे ऽपि मदोद्धते__व्ध_102.018
अलम्बुषे मिश्रकेशि__व्ध_102.019
पुण्डरीके वरूथिनि__व्ध_102.019
विलोभनीयं बिभ्राणा__व्ध_102.019
वपुर् मन्मथबोधनम्__व्ध_102.019
गन्धमादनम् आसाद्य__व्ध_102.019
कुरुध्वं वचनं मम__व्ध_102.019
नरनारायणौ तत्र__व्ध_102.020
तपोदीक्षान्वितौ द्विजौ__व्ध_102.020
तप्येते धर्मतनयौ__व्ध_102.020
तपः परमदुश्चरम्__व्ध_102.020
ताव् अस्माकं वरारोहाः__व्ध_102.021
कुर्वाणौ परमं तपः__व्ध_102.021
कर्मातिशयदुःखार्ति-__व्ध_102.021
प्रदावयतिनाशकौ__व्ध_102.021
तद् गच्छत न भीः कार्या__व्ध_102.022
भवतीभिर् इदं वचः__व्ध_102.022
स्मरः सहायो भविता__व्ध_102.022
वसन्तश् च वराङ्गनाः__व्ध_102.022
रूपं च वः समालोक्य__व्ध_102.023
मदनोद्दीपनं परम्__व्ध_102.023
कन्दर्पवशम् अभ्येति__व्ध_102.023
विवशः को न मानवः__व्ध_102.023
इत्य् उक्ता देवराजेन__व्ध_102.024
मदनेन समं तदा__व्ध_102.024
जग्मुर् अप्सरसः सर्वा__व्ध_102.024
वसन्तश् च महीपते__व्ध_102.024
गन्धमादनम् आसाद्य__व्ध_102.025
पुंस्कोकिलकुलाकुलम्__व्ध_102.025
चकार माधवो रम्यं__व्ध_102.025
प्रोत्फुल्लवनपादपम्__व्ध_102.025
प्रववौ दक्षिणः सद्यो__व्ध_102.026
मलयानुगतो ऽनिलः__व्ध_102.026
भृङ्गमालारुतरवैर्__व्ध_102.026
रमणीयम् अभूद् वनम्__व्ध_102.026
गन्धश् च सुरभिः सद्यो__व्ध_102.027
वनराजिसमुद्भवः__व्ध_102.027
किंनरोरगयक्षाणां__व्ध_102.027
बभूव घ्राणतर्पणः__व्ध_102.027
वराङ्गनाश् च ताः सर्वा__व्ध_102.028
नरनारायणाव् ऋषी__व्ध_102.028
विलोभयितुम् आरब्धा__व्ध_102.028
वराङ्गललितैः स्मितैः__व्ध_102.028
जगुर् मनोहरं काश्चिन्__व्ध_102.029
ननृतुश् चात्र चापराः__व्ध_102.029
अवादयंस् तथैवान्या__व्ध_102.029
मनोहरतरं नृप__व्ध_102.029
हावैर् भावैः स्मितैस् त्रासैस्__व्ध_102.030
तथान्या वल्गुभाषितैः__व्ध_102.030
तयोः क्षोभाय तन्वङ्ग्यश्__व्ध_102.030
चक्रुर् उद्यमम् अङ्गनाः__व्ध_102.030
तथापि न तयोः कश्चिन्__व्ध_102.031
मनसः पृथिवीपते__व्ध_102.031
विकारो ऽभवद् अध्यात्म-__व्ध_102.031
पारसंप्राप्तचेतसोः__व्ध_102.031
निवातस्थौ यथा दीपाव्__व्ध_102.032
अकम्पौ नृप तिष्ठतः__व्ध_102.032
वासुदेवार्पणे स्वच्छे__व्ध_102.032
तथैव मनसी तयोः__व्ध_102.032
पूर्यमाणो ऽपि चाम्भोभिर्__व्ध_102.033
भुवम् अन्यां महोदधिः__व्ध_102.033
यथा न याति न ययौ__व्ध_102.033
तथा तन्मानसं क्वचित्__व्ध_102.033
सर्वभूतहितौ ब्रह्म__व्ध_102.034
वासुदेवमयं परम्__व्ध_102.034
मन्यमानौ न रागस्य__व्ध_102.034
द्वेषस्य च वशंगतौ__व्ध_102.034
स्मरो ऽपि न शशाकाथ__व्ध_102.035
प्रवेष्टुं हृदयं तयोः__व्ध_102.035
विद्यामयं दीपयुतम्__व्ध_102.035
अन्धकारम् इवालयम्__व्ध_102.035
पुष्पोज्ज्वलांस् तरुवरान्__व्ध_102.036
वसन्तं दक्षिणानिलम्__व्ध_102.036
ताश् चैवाप्सरसः सर्वाः__व्ध_102.036
कन्दर्पं च महामुनी__व्ध_102.036
यच् चारब्धं तपस् ताभ्याम्__व्ध_102.037
आत्मानं गन्धमादनम्__व्ध_102.037
ददृशाते ऽखिलं रूपं__व्ध_102.037
ब्रह्मणः पुरुषर्षभ__व्ध_102.037
दाहाय नानलो वह्नेर्__व्ध_102.038
नापःक्लेदाय चाम्भसः__व्ध_102.038
तद्द्रव्यम् एव तद्द्रव्य-__व्ध_102.038
विकाराय न वै यतः__व्ध_102.038
ततो विज्ञानविज्ञात-__व्ध_102.039
परब्रह्मस्वरूपयोः__व्ध_102.039
मधुकन्दर्पयोषित्सु__व्ध_102.039
विकारो नाभवत् तयोः__व्ध_102.039
ततो गुरुतरं यत्नं__व्ध_102.040
वसन्तमदनौ नृप__व्ध_102.040
चक्राते ताश् च तन्वङ्ग्यस्__व्ध_102.040
तत्क्षोभाय पुनः पुनः__व्ध_102.040
अथ नारायणो धैर्य-__व्ध_102.041
गाम्भीर्योदार्यमानसः__व्ध_102.041
ऊरोर् उत्पादयाम् आस__व्ध_102.041
तां वरोरुबलां तदा__व्ध_102.041
त्रैलोक्यसुन्दरीरत्नम्__व्ध_102.042
अशेषम् अवनीपते__व्ध_102.042
गुणलाघवम् अभ्येति__व्ध_102.042
यस्याः संदर्शनाद् अनु__व्ध_102.042
तां विलोक्य महीपाल__व्ध_102.043
चकम्पे माधवानिलम्__व्ध_102.043
वसन्तो विस्मयं यातः__व्ध_102.043
संयातः संस्मरं स्मरः__व्ध_102.043
रम्भातिलोत्तमाद्याश् च__व्ध_102.044
विलक्षा देवयोषितः__व्ध_102.044
न रेजुर् अवनीपाल__व्ध_102.044
तल्लक्षहृदयेक्षणाः__व्ध_102.044
ततः कामो वसन्तश् च__व्ध_102.045
पार्थिवाप्सरसश् च ताः__व्ध_102.045
प्रणम्य भगवन्तौ तौ__व्ध_102.045
तुष्टुवुर् मुनिसत्तमौ__व्ध_102.045
प्रसीदतु जगद्धाता__व्ध_102.046
यस्य देवस्य मायया__व्ध_102.046
मोहिताः स्म विजानीमो__व्ध_102.046
नान्तरं वन्द्यनिन्द्ययोः__व्ध_102.046
प्रसीदतु स नो देवो__व्ध_102.047
यस्य रूपम् इदं द्विधा__व्ध_102.047
धाम भूतस्य लोकानाम्__व्ध_102.047
अनादेर् अत्र तिष्ठति__व्ध_102.047
नरनारायणौ देवौ__व्ध_102.048
शार्ङ्गचक्रायुधाव् उभौ__व्ध_102.048
आस्तां प्रसादसुमुखाव्__व्ध_102.048
अस्माकम् अपराधिनाम्__व्ध_102.048
निधानं सर्वविद्यानां__व्ध_102.049
सर्वपापेन्धनानलः__व्ध_102.049
नारायणो नो भगवान्__व्ध_102.049
सर्वपापं व्यपोहतु__व्ध_102.049
शार्ङ्गचक्रायुधः श्रीमान्__व्ध_102.050
आत्मज्ञानमयो ऽनघः__व्ध_102.050
नरः समस्तपापानि__व्ध_102.050
हत्वात्मा सर्वदेहिनाम्__व्ध_102.050
जटाकलापबन्धो ऽयम्__व्ध_102.051
अनयोर् अक्षयात्मनोः__व्ध_102.051
सौम्या च दृष्टिः पापानि__व्ध_102.051
हन्तु सर्वाणि नः शुभा__व्ध_102.051
प्रसीदतु नरो ऽस्माकं__व्ध_102.052
तथा नारायणो ऽव्ययः__व्ध_102.052
अपराधः कृतो ऽस्माभिर्__व्ध_102.052
ययोर् अव्यक्तजन्मनोः__व्ध_102.052
क्व मूर्तिर् ऐश्वर्यगुणैर्__व्ध_102.053
युक्ता दिव्यैर् महात्मनोः__व्ध_102.053
क्व नः शरीरकाणीदृग्__व्ध_102.053
मिश्रकर्मचितानि वै__व्ध_102.053
तथाप्य् अविद्यादुष्टेन__व्ध_102.054
मनसा यः कृतो हि वाम्__व्ध_102.054
अस्माभिर् अपराधो ऽयं__व्ध_102.054
क्षम्यतां सुमहाद्युती__व्ध_102.054
शरणं च प्रपन्नानां__व्ध_102.055
तवास्मीति च वादिनाम्__व्ध_102.055
प्रसादं पितृहन्तॄणाम्__व्ध_102.055
अपि कुर्वन्ति साधवः__व्ध_102.055
एष एव वरो ऽस्माकम्__व्ध_102.056
अविवेकाहृतो महान्__व्ध_102.056
त्रैलोक्यवन्द्यौ यन्नाथौ__व्ध_102.056
विलोभयितुम् आगताः__व्ध_102.056
प्रसीद देव विज्ञान-__व्ध_102.057
घनमूढदृशाम् अपि__व्ध_102.057
भवन्ति सन्तः सततं__व्ध_102.057
सद्धर्मन्यवतारकाः__व्ध_102.057
दृष्ट्वैतन् नः समुत्पन्नं__व्ध_102.058
यथा स्त्रीरत्नम् ईदृशम्__व्ध_102.058
त्वयि नारायणोत्पन्ना__व्ध_102.058
श्रेष्ठा पारवती मतिः__व्ध_102.058
तेन सत्येन सत्यात्मन्__व्ध_102.059
परमात्मन् सनातनम्__व्ध_102.059
नारायण प्रसीदेति__व्ध_102.059
सर्वलोकपरायण__व्ध_102.059
प्रसन्नबुद्धे शान्तात्मन्__व्ध_102.060
प्रसन्नवदनेक्षण__व्ध_102.060
प्रसीद योगिनाम् ईश__व्ध_102.060
नर सर्वगताच्युत__व्ध_102.060
नमस्यामो नरं देवं__व्ध_102.061
तथा नारायणं हरिम्__व्ध_102.061
नमो नराय नम्याय__व्ध_102.061
नमो नारायणाय च__व्ध_102.061
प्रसन्नानाम् अनाथानाम्__व्ध_102.062
अपराधवतां प्रभुः__व्ध_102.062
शं करोतु नरो ऽस्माकं__व्ध_102.062
शं नारायण देहि नः__व्ध_102.062
एवम् अभ्यर्थितः स्तुत्या__व्ध_102.063
रागद्वेषादिवर्जितः__व्ध_102.063
प्राहेशः सर्वभूतानां__व्ध_102.063
साध्यो नारायणो नृप__व्ध_102.063
स्वागतं मधवे काम__व्ध_102.064
भवतो ऽप्सरसाम् अपि__व्ध_102.064
यत् कार्यम् आगतानां व__व्ध_102.064
इहास्माभिस् तद् उच्यताम्__व्ध_102.064
यूयं संसिद्धये नूनम्__व्ध_102.065
अस्माकं वलशत्रुणा__व्ध_102.065
संप्रेषितास् ततो ऽस्माकं__व्ध_102.065
नृत्तगेयादिदर्शितम्__व्ध_102.065
न वयं नृत्तगीतेन__व्ध_102.066
नाङ्गचेष्टादिभाषितैः__व्ध_102.066
लुभ्यामो विषतो मन्ये__व्ध_102.066
विषया दारुणात्मकाः__व्ध_102.066
शब्दादिसङ्गदुष्टानि__व्ध_102.067
यदा नाक्षाणि नः शुभाः__व्ध_102.067
तदा नृत्तादयो भावाः__व्ध_102.067
कथं लोभप्रदायिनः__व्ध_102.067
ते सिद्धाः स्म न वै साध्या__व्ध_102.068
भवतीनां स्मरस्य च__व्ध_102.068
माधवस्य च शक्रो ऽपि__व्ध_102.068
स्वास्थ्यं यात्व् अविशङ्कितः__व्ध_102.068
यो ऽसौ परस्मात् परमः__व्ध_102.069
पुरुषात् परमेश्वरः__व्ध_102.069
परमात्मा हृषीकेशः__व्ध_102.069
स्थावरस्य चरस्य च__व्ध_102.069
उत्पत्तिहेतुर् अन्ते च__व्ध_102.070
यस्मिन् सर्वं प्रलीयते__व्ध_102.070
स सर्ववासिदेवत्वाद्__व्ध_102.070
वासुदेवेत्य् उदाहृतः__व्ध_102.070
वयम् अंशांशकास् तस्य__व्ध_102.071
चतुर्व्यूहस्य मायिनः__व्ध_102.071
तदादेशितवर्त्मनो__व्ध_102.071
जगद्बोधाय देहिनः__व्ध_102.071
तं सर्वभूतं सर्वेशं__व्ध_102.072
सर्वत्र समदर्शिनः__व्ध_102.072
पश्यन्तः कुत्र रागादीन्__व्ध_102.072
करिष्यामो विभेदकान्__व्ध_102.072
वसन्ते मयि चेन्द्रे च__व्ध_102.073
भवतीषु तथा स्मरे__व्ध_102.073
यदा स एव विश्वात्मा__व्ध_102.073
तदा द्वेषादयः कथम्__व्ध_102.073
तन्मयान्य् अविभक्तानि__व्ध_102.074
यदा सर्वेषु जन्तुषु__व्ध_102.074
पृथिव्य् आपस् तथा तेजो__व्ध_102.074
वायुर् आकाशम् एव च__व्ध_102.074
तथेन्द्रियाण्य् अहंकारो__व्ध_102.075
बुद्धिश् च न पृथग् यतः__व्ध_102.075
समदृष्टिर् यतः कुत्र__व्ध_102.075
रागद्वेषौ प्रवर्ततः__व्ध_102.075
आत्मा चायम् अभेदेन__व्ध_102.076
यतः सर्वेषु जन्तुषु__व्ध_102.076
सर्वेश्वरेश्वरो विष्णुः__व्ध_102.076
कुत्र रागादयस् ततः__व्ध_102.076
ब्रह्माणम् इन्द्रम् ईशानम्__व्ध_102.077
आदित्यान् मरुतो ऽखिलान्__व्ध_102.077
विश्वेदेवान् ऋषीन् साध्यान्__व्ध_102.077
वसून् पितृगणांस् तथा__व्ध_102.077
यक्षराक्षसभूतादीन्__व्ध_102.078
नागसर्पसरीसृपान्__व्ध_102.078
मनुष्यपक्षिगोरूप-__व्ध_102.078
गजसिंहजलेचरान्__व्ध_102.078
मक्षिकामशकादंशाञ्__व्ध_102.079
शलभान् अलसान् कृमीन्__व्ध_102.079
गुल्मवृक्षलतावल्लि-__व्ध_102.079
त्वक्सारतृणजातिजान्__व्ध_102.079
यच् च किंचिद् अदृश्यं वा__व्ध_102.080
दृश्यं वा त्रिदशाङ्गनाः__व्ध_102.080
मन्यध्वं रूपम् एकस्य__व्ध_102.080
तत् सर्वं परमात्मनः__व्ध_102.080
जानमानः कथं विष्णुम्__व्ध_102.081
आत्मानं परमं च यत्__व्ध_102.081
रागद्वेषौ तथा लोभं__व्ध_102.081
कः कुर्याद् अमराङ्गनाः__व्ध_102.081
सर्वभूतस्थिते विष्णौ__व्ध_102.082
सर्वगे सर्वधातरि__व्ध_102.082
निपात्यतां पृथग्भूते__व्ध_102.082
कुत्र रागादिको गणः__व्ध_102.082
एवम् अस्मासु युष्मासु__व्ध_102.083
सर्वभूतेषु चाबलाः__व्ध_102.083
तन्मयत्वैकभूतेषु__व्ध_102.083
रागाद्यवसरः कुतः__व्ध_102.083
सम्यग्दृष्टिर् इयं प्रोक्ता__व्ध_102.084
समस्तैक्यावलोकिनी__व्ध_102.084
पृथग्विज्ञानम् अत्रैव__व्ध_102.084
लोकसंव्यवहारवत्__व्ध_102.084
भूतेन्द्रियान्तःकरण-__व्ध_102.085
प्रधानपुरुषात्मकम्__व्ध_102.085
जगद् यद् एतद् अखिलं__व्ध_102.085
तदा भेदः किमात्मकः__व्ध_102.085
भवन्ति लयम् आयान्ति__व्ध_102.086
समुद्रे सलिलोर्मयः__व्ध_102.086
न वारिभेदतो भिन्नास्__व्ध_102.086
तथैवैक्याद् इदं जगत्__व्ध_102.086
यथाग्नेर् अर्चिषः पीताः__व्ध_102.087
पिङ्गलारुणधूसराः__व्ध_102.087
भवन्ति नाग्निभेदेन__व्ध_102.087
तथैतद् ब्रह्मणो जगत्__व्ध_102.087
भवतीभिश् च यत् क्षोभम्__व्ध_102.088
अस्माकं स पुरंदरः__व्ध_102.088
कारयत्य् असद् एतच् च__व्ध_102.088
विवेकाधारचेतसाम्__व्ध_102.088
भवत्यः स च देवेन्द्रो__व्ध_102.089
लोकाश् च ससुरासुराः__व्ध_102.089
समुद्राद्रिवनोपेता__व्ध_102.089
मद्देहान्तरगोचराः__व्ध_102.089
यथेयं चारुसर्वाङ्गी__व्ध_102.090
भवतीनां मयोरुतः__व्ध_102.090
दर्शिता दर्शयिष्यामि__व्ध_102.090
तथात्रैवाखिलं जगत्__व्ध_102.090
प्रयातु शक्रो मा गर्वम्__व्ध_102.091
इन्द्रत्वं कस्य सुस्थिरम्__व्ध_102.091
यूयं च मा स्मयं यात__व्ध_102.091
सन्ति रूपान्विताः स्त्रियः__व्ध_102.091
किं सुरूपं कुरूपं वा__व्ध_102.092
यदा भेदो न दृश्यते__व्ध_102.092
तारतम्यं सुरूपत्वे__व्ध_102.092
सततं भिन्नदर्शिनाम्__व्ध_102.092
भवतीनां स्मयं मत्वा__व्ध_102.093
रूपौदार्यगुणोद्भवम्__व्ध_102.093
मयेयं दर्शिता तन्वी__व्ध_102.093
ततस् तच्छमम् इच्छता__व्ध_102.093
यस्मान् मदूरोर् उद्भूता__व्ध_102.094
इयम् इन्दीवरेक्षणा__व्ध_102.094
उर्वशी नाम कल्याणी__व्ध_102.094
भविष्यति ततो ऽप्सराः__व्ध_102.094
तद् इयं देवराजाय__व्ध_102.095
नीयतां वरवर्णिनी__व्ध_102.095
भवत्यस् तेन चास्माकं__व्ध_102.095
प्रेषिताः प्रीतिम् इच्छता__व्ध_102.095
वक्तव्यश् च सहस्राक्षो__व्ध_102.096
नास्माकं भोगकारणात्__व्ध_102.096
तपश्चर्या न चाप्राप्य-__व्ध_102.096
फलं प्राप्तुम् अभीप्सितम्__व्ध_102.096
सन्मार्गम् अस्य जगतो__व्ध_102.097
दर्शयिष्यन् करोम्य् अहम्__व्ध_102.097
तपो नरेण सहितो__व्ध_102.097
जगतः पालनोद्यतः__व्ध_102.097
यदि कश्चित् तवाबाधां__व्ध_102.098
करोति त्रिदशेश्वर__व्ध_102.098
तम् अहं वारयिष्यामि__व्ध_102.098
निर्वृतो भव वासव__व्ध_102.098
कर्तासि चेत् त्वम् आबाधाम्__व्ध_102.099
अदुष्टस्येह कस्यचित्__व्ध_102.099
तवापि शास्तैतद् अहं__व्ध_102.099
प्रवर्तिष्याम्य् असंशयम्__व्ध_102.099
एतज् ज्ञात्वा न संतापस्__व्ध_102.100
त्वया कार्यो हि मां प्रति__व्ध_102.100
उपकाराय जगताम्__व्ध_102.100
अवतीर्णो ऽस्मि वासव__व्ध_102.100
या चेयम् उर्वशी मत्तः__व्ध_102.101
समुद्भूता पुरंदर__व्ध_102.101
त्रेताग्निहेतुभूतेयम्__व्ध_102.101
ऐलं प्राप्य भविष्यति__व्ध_102.101
इत्य् उक्ते ऽप्सरसः सर्वाः__व्ध_103.001
प्रणिपत्यातिविस्मिताः__व्ध_103.001
ऊचुर् नारायणं देवं__व्ध_103.001
तद्दर्शनकुतूहलाः__व्ध_103.001
उक्तो भगवता यो ऽयम्__व्ध_103.002
उपदेशो हितार्थिनाम्__व्ध_103.002
प्रोक्तः स सर्वो विज्ञातो__व्ध_103.002
माहात्म्यं विदितं च ते__व्ध_103.002
यत् त्व् एतद् भवता प्रोक्तं__व्ध_103.003
प्रसन्नेनाव्ययात्मना__व्ध_103.003
दर्शितेयं विशालाक्षी__व्ध_103.003
दर्शयिष्यामि वो जगत्__व्ध_103.003
तन्नाथ सर्वभावेन__व्ध_103.004
प्रपन्नानां जगत्पते__व्ध_103.004
दर्शयात्मानम् अखिलं__व्ध_103.004
दर्शितेयं यथोर्वशी__व्ध_103.004
यदि देवापराद्धेषु__व्ध_103.005
नास्मासु कुपितं तव__व्ध_103.005
मनस् तज् जगतम् ईश__व्ध_103.005
दर्शयात्मानम् आत्मना__व्ध_103.005
पश्यतेहाखिलांल् लोकान्__व्ध_103.006
मम देहे सुराङ्गनाः__व्ध_103.006
मधुं मदनम् आत्मानं__व्ध_103.006
यच् चान्यद् द्रष्टुम् इच्छथ__व्ध_103.006
इत्य् उक्त्वा भगवान् देवस्__व्ध_103.007
तदा नारायणो नृप__व्ध_103.007
उच्चैर् जहास स्वनवत्__व्ध_103.007
तत्राभूद् अखिलं जगत्__व्ध_103.007
ब्रह्मा प्रजापतिः शक्रः__व्ध_103.008
सह रुद्रैः पिनाकधृक्__व्ध_103.008
आदित्या वसवः साध्या__व्ध_103.008
विश्वेदेवा महर्षयः__व्ध_103.008
नासत्यदस्राव् अनिलाः__व्ध_103.009
सर्वे सर्वे तथाग्नयः__व्ध_103.009
यक्षगन्धर्वसिद्धाश् च__व्ध_103.009
पिशाचाः किंनरोरगाः__व्ध_103.009
समस्ताप्सरसो विद्याः__व्ध_103.010
साङ्गा वेदास् तदुक्तयः__व्ध_103.010
मनुष्याः पशवः कीटाः__व्ध_103.010
पक्षिणः पादपास् तथा__व्ध_103.010
सरीसृपाश् च ये सूक्ष्मा__व्ध_103.011
यच् चान्यज् जीवसंज्ञितम्__व्ध_103.011
समुद्राः सकलाः शैलाः__व्ध_103.011
सरितः काननानि च__व्ध_103.011
द्वीपान्य् अशेषाणि तथा__व्ध_103.012
नदाः सर्वसरांसि च__व्ध_103.012
नगरग्रामपूर्णा च__व्ध_103.012
मेदिनी मेदिनीपते__व्ध_103.012
देवाङ्गनाभिर् देवस्य__व्ध_103.012
देहे दृष्टं महात्मनः__व्ध_103.012
नक्षत्रग्रहताराभिः__व्ध_103.013
समवेतं नभस्तलम्__व्ध_103.013
ददृशुस् ताः सुचार्वङ्ग्यस्__व्ध_103.013
तस्यान्तर् विश्वरूपिणः__व्ध_103.013
नोर्ध्वं न तिर्यङ् नाधश् च__व्ध_103.014
यदान्तस् तस्य दृश्यते__व्ध_103.014
तम् अनन्तम् अनादिं च__व्ध_103.014
ततस् तास् तुष्टुवुः प्रभुम्__व्ध_103.014
मदनेन समं सर्वा__व्ध_103.015
मधुना च सुराङ्गनाः__व्ध_103.015
ससाध्वसा भक्तिमत्यः__व्ध_103.015
परं विस्मयम् आगताः__व्ध_103.015
पश्याम नादिं तव देव नान्तम्__व्ध_103.016
न मध्यम् अव्याकृतरूपपारम्__व्ध_103.016
परायणं त्वा जगताम् अनन्तम्__व्ध_103.016
नताः स्म नारायणम् आत्मभूतम्__व्ध_103.016
मही दिवं वायुजलाग्नयस् त्वं__व्ध_103.017
शब्दादिरूपश् च परापरात्मन्__व्ध_103.017
त्वत्तो भवत्य् अच्युत सर्वम् एतद्__व्ध_103.017
अभेदरूपो ऽसि विभो त्वम् एभिः__व्ध_103.017
द्रष्टासि रूपस्य रसस्य वेत्ता__व्ध_103.018
श्रोता च शब्दस्य हरे त्वम् एकः__व्ध_103.018
स्प्रष्टा भवान् स्प्रशवतो ऽखिलस्य__व्ध_103.018
घ्रातासि गन्धस्य पृथक्शरीरी__व्ध_103.018
सुरेषु सर्वेषु न सो ऽस्ति कश्चिन्__व्ध_103.019
मनुष्यलोके च न सो ऽस्ति कश्चित्__व्ध_103.019
पश्वादिवर्गे च न सो ऽस्ति कश्चिद्__व्ध_103.019
यो नांशभूतस् तव देवदेव__व्ध_103.019
ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्व्__व्ध_103.020
इन्द्राग्निरूपाणि च वीर्यवत्सु__व्ध_103.020
रुद्रान्तकादीनि च रौद्रवत्सु__व्ध_103.020
रूपेषु रूपाणि तवोत्तमानि__व्ध_103.020
समुद्ररूपं तव धैर्यवत्सु__व्ध_103.021
तेजस्विरूपेषु रविस् तथाग्निः__व्ध_103.021
क्षमाधनेषु क्षितिरूपम् अग्र्यं__व्ध_103.021
रूपं तवाग्र्यं बलवत्सु वायुः__व्ध_103.021
मनुष्यरूपं तव राजसेषु__व्ध_103.022
मूढेषु सर्वेश्वर पादपो ऽसि__व्ध_103.022
दर्पान्वितेष्व् अच्युत दानवस् त्वं__व्ध_103.022
सनत्सुजातश् च विवेकवत्सु__व्ध_103.022
रसस्वरूपेण जले स्थितो ऽसि__व्ध_103.023
गन्धस्वरूपो भवतो धरित्र्यम्__व्ध_103.023
दृश्यस्वरूपश् च हुताशने त्वं__व्ध_103.023
स्पर्शस्वरूपो भगवान् समीरे__व्ध_103.023
शब्दात्मकं ते नभसि स्वरूपं__व्ध_103.024
मन्तव्यरूपो मनसि प्रभो त्वम्__व्ध_103.024
बोधव्यरूपश् च विभो त्वम् एकः__व्ध_103.024
सर्वत्र सर्वेश्वर सर्वभूतः__व्ध_103.024
पश्याम ते नाभिसरोजमध्ये__व्ध_103.025
ब्रह्माणम् एतं च हरं भ्रुकूट्यम्__व्ध_103.025
तत्राश्विनौ कर्णगतौ समस्ताण्__व्ध_103.025
अवस्थितान् बाहुषु लोकपालान्__व्ध_103.025
घ्राणे ऽनिलं नेत्रगतौ रवीन्दू__व्ध_103.026
जिह्वा च ते नाथ सरस्वतीयम्__व्ध_103.026
पादौ धरित्रीं जठरं समस्तांल्__व्ध_103.026
लोकान् हृषीकेश विलोकयामः__व्ध_103.026
जङ्घे वियत् पादकराङ्गुलीषु__व्ध_103.027
पिशाचरक्षोरगसिद्धसङ्घान्__व्ध_103.027
पुंस्त्वे प्रजानां पतिर् ओष्ठयुग्मे__व्ध_103.027
प्रतिष्ठितास् ते क्रतवः समस्ताः__व्ध_103.027
सर्वेष्टयस् ते दशनेषु देव__व्ध_103.028
दंष्टृआसु विद्या भवतश् चतस्रः__व्ध_103.028
रोमस्व् अशेषास् तव देवसङ्घा__व्ध_103.028
विद्याधरा नाथ कराङ्घ्रिरेखाः__व्ध_103.028
साङ्घाः समस्तास् तव देव वेदाः__व्ध_103.028
समास्थिता बहुषु संधिभूताः__व्ध_103.028
वराहरूपं धरणीधृतस् ते__व्ध_103.029
नृसिंहरूपं च सटाकरालम्__व्ध_103.029
पश्याम ते वाजिशिरस् तथोच्चैस्__व्ध_103.029
त्रिविक्रमे यश् च तवाप्रमेयः__व्ध_103.029
अमी समुद्रास् तव देव देहे__व्ध_103.030
मेर्वादयः शैलवरास् तवामी__व्ध_103.030
इमाश् च गङ्गाप्रमुखाः स्रवत्यो__व्ध_103.030
द्वीपान्य् अशेषाणि वनानि चैव__व्ध_103.030
स्तुवन्ति चैते मुनयस् तवेश__व्ध_103.031
देहे स्थितास् त्वन्महिमानम् अग्र्यम्__व्ध_103.031
त्वाम् ईशितारं जगताम् अनन्तम्__व्ध_103.031
यज्ञेशम् अर्चन्ति च यज्विनो ऽमी__व्ध_103.031
त्वत्तो न सौम्यं जगतीह किंचित्__व्ध_103.032
त्वत्तो न रौद्रं च समस्तमूर्ते__व्ध_103.032
त्वत्तो न शीतं न च केशवोष्णं__व्ध_103.032
सर्वस्वरूपातिशयी त्वम् एकः__व्ध_103.032
प्रसीद सर्वेश्वर सर्वभूत__व्ध_103.033
सनातनात्मन् परमेश्वरेश__व्ध_103.033
त्वन्मायया मोहितमानसाभिर्__व्ध_103.033
यत् ते ऽपराद्धं तद् इदं क्षमस्व__व्ध_103.033
किं वापराद्धं तव देव मूढैर्__व्ध_103.034
यन् मायया नो हृदयं तथापि__व्ध_103.034
पापावशं किं प्रणतार्तिहारिन्__व्ध_103.034
मनो हि नो विङ्कलताम् उपैति__व्ध_103.034
न ते ऽपराद्धं यदि वापराद्धम्__व्ध_103.035
अस्माभिर् उन्मार्गविवर्तनीभिः__व्ध_103.035
तत् क्षम्यतां सृष्टिकरस् तवैव__व्ध_103.035
देवापराधं सृजतो विवेकान्__व्ध_103.035
नमो नमस् ते गोविन्द__व्ध_103.036
नारायण जनार्दन__व्ध_103.036
त्वन्नामस्मरणात् पापम्__व्ध_103.036
अशेषं नः प्रणश्यतु__व्ध_103.036
ततो ऽनन्त नमस् तुभ्यं__व्ध_103.*(155)
विश्वात्मन् विश्वभावन__व्ध_103.*(155)
त्वन्नामस्मरणात् पापम्__व्ध_103.*(155)
अशेषं नः प्रणश्यतु__व्ध_103.*(155)
नमो नमस् ते वैकुण्ठ__व्ध_103.*(155)
श्रीवत्साङ्काब्जलोचन__व्ध_103.*(155)
वरेण्य यज्ञपुरुष__व्ध_103.*(155)
प्रजापालक वामन__व्ध_103.*(155)
नमो ऽस्तु ते ऽब्जनाभाय__व्ध_103.037
प्रजापतिकृते हरे__व्ध_103.037
त्वन्नामस्मरणात् पापम्__व्ध_103.037
अशेषं नः प्रणश्यतु__व्ध_103.037
संसारार्णवपोताय__व्ध_103.038
नमस् तुभ्यम् अधोक्षज__व्ध_103.038
त्वन्नामस्मरणात् पापम्__व्ध_103.038
अशेषं नः प्रणश्यतु__व्ध_103.038
नमः परस्मै श्रीशाय__व्ध_103.039
वासुदेवाय वेधसे__व्ध_103.039
स्वेच्छया गुणभोक्तृत्वे__व्ध_103.039
सर्गान्तस्थितिकारिणे__व्ध_103.039
उपसंहार विश्वात्मन्__व्ध_103.040
रूपम् एतत् समन्ततः__व्ध_103.040
वर्धमानं न नो द्रष्टुं__व्ध_103.040
समर्थं चक्षुर् ईश्वर__व्ध_103.040
प्रलयाग्निसहस्रस्य__व्ध_103.041
समा दीप्तिस् तवाच्युत__व्ध_103.041
प्रमाणेन दिशो भूमिर्__व्ध_103.041
गगनं च समावृतम्__व्ध_103.041
न विद्मः क्व नु वर्तामो__व्ध_103.042
भवान् नैवोपलक्ष्यते__व्ध_103.042
सर्वं जगद् इहैकस्थं__व्ध_103.042
पिण्डितं लक्षयामहे__व्ध_103.042
किं वर्णयामो रूपं ते__व्ध_103.043
किं प्रमाणम् इदं हरे__व्ध_103.043
माहात्म्यं किंतु ते देव__व्ध_103.043
जिह्वाया यन् न गोचरम्__व्ध_103.043
वक्त्राणाम् अयुतेनापि__व्ध_103.044
बुद्धीनाम् अयुतायुतैः__व्ध_103.044
गुणानां वर्णनं नाथ__व्ध_103.044
तव वक्तुं न शक्यते__व्ध_103.044
तद् एतद् दर्शितं रूपं__व्ध_103.045
प्रसादः परमः कृतः__व्ध_103.045
छन्दतो जगताम् ईश__व्ध_103.045
तद् एतद् उपसंहर__व्ध_103.045
इत्य् एवं संस्तुतस् ताभिर्__व्ध_103.046
अप्सरोभिर् जनार्दनः__व्ध_103.046
दिव्यज्ञानोपपन्नानां__व्ध_103.046
तासां प्रत्यक्षम् ईश्वरः__व्ध_103.046
विवेश सर्वभूतानि__व्ध_103.046
स्वैर् अंशैर् भूतभावनः__व्ध_103.046
तं दृष्ट्वा सर्वभूतेषु__व्ध_103.047
लीयमानम् अधोक्षजम्__व्ध_103.047
विस्मयं परमं जग्मुः__व्ध_103.047
समस्ता देवयोषितः__व्ध_103.047
स च सर्वेश्वरः शैलान्__व्ध_103.048
पादपान् सागरान् भुवम्__व्ध_103.048
जलम् अग्निं तथा वायुम्__व्ध_103.048
आकाशं च विवेश ह__व्ध_103.048
काले दिक्ष्व् अथ सर्वात्मा__व्ध_103.049
मनुष्यात्मन्य् अथापि च__व्ध_103.049
आत्मरूपः स्थितः स्वेन__व्ध_103.049
महिम्ना भावयञ् जगत्__व्ध_103.049
देवदानवरक्षांसि__व्ध_103.050
यक्षविद्याधरोरगान्__व्ध_103.050
मनुष्यपशुकीटादीन्__व्ध_103.050
मृगपक्ष्यन्तरिक्षगान्__व्ध_103.050
ये ऽन्तरिक्षे तथा भूमौ__व्ध_103.051
दिवि ये ये जलाश्रयाः__व्ध_103.051
तान् प्रविश्य स विश्वात्मा__व्ध_103.051
पुनस् तद् रूपम् आस्थितः__व्ध_103.051
नरेण सार्छं यत् ताभिर्__व्ध_103.051
दृष्टपूर्वम् अरिंदम__व्ध_103.051
ताः परं विस्मयं गत्वा__व्ध_103.052
सर्वास् त्रिदशयोषितः__व्ध_103.052
प्रणेमुः साध्यसाः पाण्डु-__व्ध_103.052
वदना नृपसत्तम__व्ध_103.052
नारायणो ऽपि भगवान्__व्ध_103.053
आह तास् त्रिदशाङ्गनाः__व्ध_103.053
नीयताम् उर्वशी भद्रा__व्ध_103.053
यत्रास्ते त्रिदशेश्वरः__व्ध_103.053
भवतीनां हितार्थाय__व्ध_103.054
सर्वभूतेष्व् असाव् इति__व्ध_103.054
ज्ञानम् उत्पादितं भूयो__व्ध_103.054
लयं भूतेषु कुर्वता__व्ध_103.054
तद् गच्छत समस्तो ऽयं__व्ध_103.055
भूतग्रामो मदंशकः__व्ध_103.055
अहम् अप्य् आत्मभूतस्य__व्ध_103.055
वासुदेवस्य योगिनः__व्ध_103.055
यस्मात् परतरं नास्ति__व्ध_103.056
यो ऽनन्तः परिपठ्यते__व्ध_103.056
तम् अजं सर्वभूतेशं__व्ध_103.056
जानीत परमं पदम्__व्ध_103.056
अहं भवत्यो देवाश् च__व्ध_103.057
मनुष्याः पशवश् च ये__व्ध_103.057
एतत् सर्वम् अनन्तस्य__व्ध_103.057
देवदेवस्य विस्तृतिः__व्ध_103.058
एतज् ज्ञात्वा समं सर्गं__व्ध_103.058
सदेवासुरमानुषम्__व्ध_103.058
सपश्वादिगणं चैव__व्ध_103.058
द्रष्टव्यं त्रिदशाङ्गनाः__व्ध_103.058
इत्य् उक्तस् तेन देवेन__व्ध_103.059
समस्तास् ताः सुरस्त्रियः__व्ध_103.059
प्रणम्य तौ समदनाः__व्ध_103.059
सवसन्ताश् च पार्थिव__व्ध_103.059
आदाय चोर्वशीं भूयो__व्ध_103.060
देवराजम् उपागताः__व्ध_103.060
आचख्युश् च यथावृत्तं__व्ध_103.060
देवराजाय तत् तथा__व्ध_103.060
तथा त्वम् अपि राजेन्द्र__व्ध_103.061
मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0