विष्णुधर्म · भाग 441458
सर्वभूतेषु केशवम्__व्ध_103.061
चिन्तयन् समतां गच्छ__व्ध_103.061
समतैव हि मुक्तये__व्ध_103.061
जानन्न् एवम् अशेषेषु__व्ध_103.062
भूतेषु परमेश्वरम्__व्ध_103.062
वासुदेवं कथं दोषांल्__व्ध_103.062
लोभादीन् न प्रहास्यसि__व्ध_103.062
सर्वभूतानि गोविन्दाद्__व्ध_103.063
यदा नान्यानि भूपते__व्ध_103.063
तदा वैरादयो भावाः__व्ध_103.063
क्रियतां कुत्र पार्थिव__व्ध_103.063
इह पश्यञ् जगत् सर्वं__व्ध_103.064
वासुदेवात्मकं नृप__व्ध_103.064
एतद् एव हि कृष्णेन__व्ध_103.064
रूपम् आविष्कृतं तदा__व्ध_103.064
परमस्माद् अपि महद्__व्ध_103.065
रूपं यत् कथितं तव__व्ध_103.065
जन्मादिभावरहितं__व्ध_103.065
तद् विष्णोः परमं पदम्__व्ध_103.065
संक्षेपेण च भूपाल__व्ध_103.066
श्रूयतां यद् वदामि ते__व्ध_103.066
यन् मतौ पुरुषः कृत्वा__व्ध_103.066
परं निर्वाणम् ऋच्छति__व्ध_103.066
सर्वं विष्णुः समस्तौ हि__व्ध_103.067
भावाभावौ च तन्मयौ__व्ध_103.067
सदसत् सर्वम् ईशेशो__व्ध_103.067
वासुदेवः परं पदम्__व्ध_103.067
भवजलधिगतानां द्वन्द्ववाताहतानां__व्ध_103.068
सुतदुहितृकलत्रत्राणभारार्दितानाम्__व्ध_103.068
विषमविषयतोये मज्जताम् अप्लवानां__व्ध_103.068
भवति शरणम् एको विष्णुपोतो नराणाम्__व्ध_103.068
इत्य् उक्तं तव धर्मज्ञ__व्ध_104.001
विष्णोर् माहात्म्यम् उत्तमम्__व्ध_104.001
स्वरूपं च जगद्धातुर्__व्ध_104.001
आराधनविनिश्चयः__व्ध_104.001
आराधितात् फलं यच् च__व्ध_104.002
केशवात् प्राप्यते नरैः__व्ध_104.002
कथितश् च महाभाग__व्ध_104.002
दानानां विस्तराद् विधिः__व्ध_104.002
योगद्वैधं च कथितम्__व्ध_104.003
अद्वैतं द्वैतम् एव च__व्ध_104.003
अद्वैतभावनोपायो__व्ध_104.003
विस्तराच् च तवोदितः__व्ध_104.003
संक्षेपविस्तराभ्यां च__व्ध_104.004
सर्वम् एतत् तवोदितम्__व्ध_104.004
देवदेवस्य माहात्म्यं__व्ध_104.004
सर्वगस्याव्ययात्मनः__व्ध_104.004
स एष सर्वप्रवरः__व्ध_104.005
सर्वभूतश् च माधवः__व्ध_104.005
सर्वम् अत्र च सर्वस्मिन्न्__व्ध_104.005
एष एव प्रतिष्ठितः__व्ध_104.005
त्रियुगं पुण्डरीकाक्षम्__व्ध_104.006
अपवर्गमहाह्रदम्__व्ध_104.006
समुत्पत्य पराह्लादम्__व्ध_104.006
अनन्तं प्रतिपद्यते__व्ध_104.006
श्रुतम् एतन् मया पूर्वं__व्ध_104.007
विस्तरेण त्वयोदितम्__व्ध_104.007
यत् त्व् एतत् त्रियुगेत्य् उक्तं__व्ध_104.007
तस्य निर्वचनं वद__व्ध_104.007
चतुर्युगेन कालस्य__व्ध_104.008
परिसंख्या यदा द्विज__व्ध_104.008
त्रियुगेन तदा विष्णोः__व्ध_104.008
क्रियते किं विशेषणम्__व्ध_104.008
कृतं त्रेता द्वापरं च__व्ध_104.009
कलिश् चेति चतुर्युगम्__व्ध_104.009
यदा जगति विख्यातं__व्ध_104.009
तदा त्रियुगता कुतः__व्ध_104.009
साधु पृष्टो ऽस्मि भूपाल__व्ध_104.010
भवता त्रियुगाश्रितम्__व्ध_104.010
विशेषणम् अनन्तस्य__व्ध_104.010
गदतस् तन् निशामय__व्ध_104.010
काष्ठा पार्थिव विज्ञेया__व्ध_104.011
निमेषा दश पञ्च च__व्ध_104.011
काष्ठात्रिंशत् कला ज्ञेया__व्ध_104.011
मुहूर्तं तावतीः कलाः__व्ध_104.011
त्रिंशन्मुहूर्ता भूपाल__व्ध_104.012
तथाहोरात्रम् उच्यते__व्ध_104.012
तत्संख्यातैर् अहोरात्रैर्__व्ध_104.012
मासः पार्थिवसत्तम__व्ध_104.012
अयनं दक्षिणं मासाः__व्ध_104.013
षण् मासाश् च तथोत्तरम्__व्ध_104.013
अयनद्वितयाख्यश् च__व्ध_104.013
कालः संवत्सरः स्मृतः__व्ध_104.013
दक्षिणं त्व् अयनं रात्रिर्__व्ध_104.014
देवानाम् उत्तरं दिनम्__व्ध_104.014
संवत्सरेण देवानाम्__व्ध_104.014
अहोरात्रम् इहोच्यते__व्ध_104.014
शतत्रयेण वर्षाणां__व्ध_104.015
षष्ट्या च पृथिवीपते__व्ध_104.015
मनुष्यसंख्यया वर्षं__व्ध_104.015
देवानाम् अपि गण्यते__व्ध_104.015
इति दिव्येन मानेन__व्ध_104.016
चतुर्युगविकल्पनाम्__व्ध_104.016
कथ्यमानां मया राजन्__व्ध_104.016
यथावच् छ्रोतुम् अर्हसि__व्ध_104.016
चत्वारि तु सहस्राणि__व्ध_104.017
वर्षाणां कृतम् उच्यते__व्ध_104.017
तस्य तावच्छती संध्या__व्ध_104.017
संध्यांशश् च तथाविधः__व्ध_104.017
त्रेता त्रीणि सहस्राणि__व्ध_104.018
दिव्याब्दानां नरर्षभ__व्ध_104.018
तस्य तावच्छती संध्या__व्ध_104.018
संध्यांशश् च तथाविधः__व्ध_104.018
द्वापरं द्वे सहस्रे तु__व्ध_104.019
वर्षाणाम् अभिधीयते__व्ध_104.019
तस्य तावच्छती संध्या__व्ध_104.019
संध्यांशश् च तथाविधः__व्ध_104.019
कलिः सहस्रम् एकं तु__व्ध_104.020
दिव्याब्दानां नरर्षभ__व्ध_104.020
तस्य तावच्छती संध्या__व्ध_104.020
संध्यांशश् च तथाविधः__व्ध_104.020
कृतं नामयुगं पूर्वं__व्ध_104.021
यत्र धर्मः सनातनः__व्ध_104.021
कृतम् एव च कर्तव्यं__व्ध_104.021
तस्मिन् काले नृपेप्सितम्__व्ध_104.021
न तत्र धर्माः सीदन्ति__व्ध_104.022
न च क्षीयन्ति वै प्रजाः__व्ध_104.022
ततः कृतयुगं नाम__व्ध_104.022
गुणतः प्रोच्यते युगम्__व्ध_104.022
देवदानवगन्धर्वा__व्ध_104.023
यक्षराक्षसपन्नगाः__व्ध_104.023
नासन् कृतयुगे राजन्__व्ध_104.023
न तदा क्रयविक्रयः__व्ध_104.023
न सामयजुरृग्वर्णाः__व्ध_104.024
क्रिया नासीच् च मानवी__व्ध_104.024
नाभिसंधाय च फलं__व्ध_104.024
कश्चिद् धर्मे प्रवर्तते__व्ध_104.024
न तस्मिन् युगसंसर्गे__व्ध_104.025
व्याधयो नेन्द्रियक्षयः__व्ध_104.025
नासूया नापि रुदितं__व्ध_104.025
न दर्पो नापि पैशुनम्__व्ध_104.025
न विग्रहः कुतस् तन्द्री__व्ध_104.026
न द्वेषो नापि दम्भनम्__व्ध_104.026
न भयं नापि संतापो__व्ध_104.026
न चेर्ष्या नापि मत्सरः__व्ध_104.026
ततः परमकं ब्रह्म__व्ध_104.027
या गतिर् योगिनां परा__व्ध_104.027
आत्मा च सर्वभूतानां__व्ध_104.027
शुक्लो नारायणस् तदा__व्ध_104.027
तस्मिन्न् आत्मनि लोकानां__व्ध_104.028
सर्वलोकमये ऽच्युते__व्ध_104.028
स्वेच्छया शौक्ल्यम् आपन्ने__व्ध_104.028
सर्वं भवति निर्मलम्__व्ध_104.028
ब्राह्मणाः क्षत्रिया वैश्याः__व्ध_104.029
शूद्राश् च कृतलक्षणाः__व्ध_104.029
कृते युगे भवन्तीह__व्ध_104.029
स्वकर्मनिरताः प्रजाः__व्ध_104.029
स्वम् आश्रमं स्वम् आचारं__व्ध_104.030
सम्यग्ज्ञानसमन्वितम्__व्ध_104.030
जगद् भवति राजेन्द्र__व्ध_104.030
सत्यप्रायं तपोरतम्__व्ध_104.030
एकवेदसमायुक्ता__व्ध_104.031
एकमन्त्रविधिक्रियाः__व्ध_104.031
पृथग्धर्मास् त्व् एकवेदा__व्ध_104.031
धर्मम् एकम् अनुव्रताः__व्ध_104.031
चतुराश्रमयुक्तेन__व्ध_104.032
कर्मणा कालयोगिना__व्ध_104.032
अकामफलसंयोगात्__व्ध_104.032
प्राप्नुवन्ति परां गतिम्__व्ध_104.032
आत्मयोगसमायुक्तो__व्ध_104.033
धर्मो ऽयं कृतलक्षणः__व्ध_104.033
कृते युगे चतुष्पादश्__व्ध_104.033
चतुर्वर्ण्यस्य शाश्वतः__व्ध_104.033
एतत् कृतयुगं नाम__व्ध_104.034
त्रैगुण्यपरिवर्जितम्__व्ध_104.034
त्रेताम् अपि निबोध त्वं__व्ध_104.034
यादृग्रूपं प्रवर्तते__व्ध_104.034
पादेन ह्रसते धर्मो__व्ध_104.035
रक्ततां याति चाच्युतः__व्ध_104.035
सत्यप्रवृत्ताश् च नराः__व्ध_104.035
क्रियाधर्मपरायणाः__व्ध_104.035
ततो यज्ञाः प्रवर्तन्ते__व्ध_104.036
धर्माश् च विविधाः क्रियाः__व्ध_104.036
त्रेतायां भावसंकल्पाः__व्ध_104.036
क्रियादानफलोदयाः__व्ध_104.036
प्रचरन्ति ततो वर्णास्__व्ध_104.037
तपोदानपरायणाः__व्ध_104.037
स्वकर्मस्थाः क्रियावन्तः__व्ध_104.037
समत्वाद् रजसान्विताः__व्ध_104.037
द्वापरे ऽपि युगे धर्मो__व्ध_104.038
द्विभागोनः प्रवर्तते__व्ध_104.038
विष्णुः पीतत्वम् अभ्येति__व्ध_104.038
चतुर्धा वेद एव च__व्ध_104.038
ततो ऽन्ये च चतुर्वेदास्__व्ध_104.039
त्रिवेदाश् च तथापरे__व्ध_104.039
द्विवेदाश् चैकवेदाश् च__व्ध_104.039
अनृचश् च तथापरे__व्ध_104.039
एवं शास्त्रेषु भिन्नेषु__व्ध_104.040
बहुधा नीयते क्रिया__व्ध_104.040
तपोदानप्रवृत्ता च__व्ध_104.040
राजसी भवति प्रजा__व्ध_104.040
अल्पायुषो नरा वेदः__व्ध_104.041
सुमहांश् चेति दुस्तरः__व्ध_104.041
करोति बहुधा वेदान्__व्ध_104.041
व्यासरूपी तदा हरिः__व्ध_104.041
सत्त्वस्य चाप्य् अविज्ञानात्__व्ध_104.042
सत्त्वे कश्चिद् व्यवस्थितः__व्ध_104.042
सत्त्वात् प्रच्यवमानानां__व्ध_104.042
व्याधयो बहवो ऽभवन्__व्ध_104.042
कामाश् चोपद्रवाश् चैव__व्ध_104.043
तदा दैवतकारिताः__व्ध_104.043
यैर् अर्द्यमानाः सुभृशं__व्ध_104.043
तपस् तप्यन्ति मानवाः__व्ध_104.043
धनकामाः स्वर्गकामा__व्ध_104.044
यज्ञांस् तन्वन्ति चापरे__व्ध_104.044
एवं द्वापरम् आसाद्य__व्ध_104.044
प्रजाः क्षीयन्त्य् अधर्मतः__व्ध_104.044
पादेनैकेन राजेन्द्र__व्ध_104.045
धर्मः कलियुगे ऽपि हि__व्ध_104.045
तामसं युगम् आसाद्य__व्ध_104.045
कृष्णो भवति केशवः__व्ध_104.045
व्रताचाराः प्रशाम्यन्ति__व्ध_104.046
धर्मयज्ञक्रियास् तथा__व्ध_104.046
ईतयो व्याधयस् तन्द्री__व्ध_104.046
दोषाः क्रोधादयस् तथा__व्ध_104.046
उपद्रवाश् च वर्धन्ते__व्ध_104.046
मनस्तापाश् च संगताः__व्ध_104.046
युगेष्व् आवर्तमानेषु__व्ध_104.047
लोको व्यावर्तते पुनः__व्ध_104.047
लोके क्षीणे क्षयं यान्ति__व्ध_104.047
भावा लोकप्रवर्तकाः__व्ध_104.047
युगद्वयकृतान् धर्मान्__व्ध_104.047
प्रार्थना न च कुर्वते__व्ध_104.047
एतत् कलियुगं भूप__व्ध_104.048
यत्र जातो ऽसि पार्थिव__व्ध_104.048
नात्रावतारं कुरुते__व्ध_104.048
कृष्णांशेन स्वरूपिणा__व्ध_104.048
कृतादिषु जगत् पाति__व्ध_104.049
दैत्येभ्यो रूपधृद् धरिः__व्ध_104.049
कलौ त्व् अन्यं समाविश्य__व्ध_104.049
पूर्वोत्पन्नं बिभर्ति तम्__व्ध_104.049
प्रत्यग्ररूपधृग् देवो__व्ध_104.050
दृश्यते न कलौ हरिः__व्ध_104.050
कृतादिष्व् एव तेनैष__व्ध_104.050
त्रियुगः परिपठ्यते__व्ध_104.050
कलेर् अन्ते च संप्राप्ते__व्ध_104.051
कल्किनं ब्रह्मवादिनम्__व्ध_104.051
अनुप्रविश्य कुरुते__व्ध_104.051
वासुदेवो जगत्स्थितिम्__व्ध_104.051
पूर्वोत्पन्नेषु भूतेषु__व्ध_104.052
तेषु तेषु कलौ प्रभुः__व्ध_104.052
कृत्वा प्रवेशं कुरुते__व्ध_104.052
यद् अभिप्रेतम् अच्युतः__व्ध_104.052
स्वेच्छाशुक्ले जगच् छुक्लं__व्ध_104.053
रक्ते रक्तं च जायते__व्ध_104.053
पीते च पीतताम् अस्मिन्__व्ध_104.053
कृष्णे चात्रासितं नृप__व्ध_104.053
एष एव जगद्देवो__व्ध_104.054
जगत्स्रष्टा जगद्गुरुः__व्ध_104.054
यद्रूप एव देवो ऽयं__व्ध_104.054
तद्रूपं जायते जगत्__व्ध_104.054
चतुर्युगं नः कथितं__व्ध_105.001
संक्षेपाद् भवताखिलम्__व्ध_105.001
कलिं विस्तरतो ब्रूहि__व्ध_105.001
यत्र जातो ऽस्मि भार्गव__व्ध_105.001
भगवत्य् अमले विष्णौ__व्ध_105.002
क्रीडया कृष्णतां गते__व्ध_105.002
किमाहाराः किमाचारा__व्ध_105.002
भविष्यन्ति प्रजास् तदा__व्ध_105.002
ब्राह्मणाः क्षत्रिया वैश्याः__व्ध_105.003
शूद्राश् च द्विज कीदृशाः__व्ध_105.003
भविष्यन्ति कलौ प्राप्ते__व्ध_105.003
तन् ममाचक्ष्व विस्तरात्__व्ध_105.003
तपः परं कृतयुगे__व्ध_105.004
त्रेतायां यज्ञ एव हि__व्ध_105.004
प्रधानं द्वापरे दानं__व्ध_105.004
सत्यम् एव कलौ युगे__व्ध_105.004
कृते युगे मनःशुद्धिर्__व्ध_105.005
अस्त्य् एवायत्नतस् तपः__व्ध_105.005
तपो निष्पाद्यते भूप__व्ध_105.005
योगसंसाधनं परम्__व्ध_105.005
रागादिदोषदुष्टेन__व्ध_105.006
मनसा यत् तपो नृप__व्ध_105.006
क्रियते क्लेशनाशाय__व्ध_105.006
तत् तपो न विमुक्तये__व्ध_105.006
त्रेतायां तु क्रियायज्ञान्__व्ध_105.007
मनोयज्ञांस् ततो नराः__व्ध_105.007
वितन्वते स्थूलतरः__व्ध_105.007
पन्था धर्मस्य स प्रभो__व्ध_105.007
द्वापरे नातिविद्वत्ता__व्ध_105.008
यथा त्रेतायुगे ऽभवत्__व्ध_105.008
ततः स्थूलतरः पन्था__व्ध_105.008
दानात्मा क्रियते नरैः__व्ध_105.008
न विद्वत्ता न शुद्धार्थो__व्ध_105.009
न शुद्धिर् मनसः कलौ__व्ध_105.009
यतो ऽतः सत्यम् एवैकम्__व्ध_105.009
एकान्तेनोपकारकम्__व्ध_105.009
यथा सत्यं तथा क्षान्तिर्__व्ध_105.010
अहिंसा च कलौ युगे__व्ध_105.010
परोपतापाद् विरतिर्__व्ध_105.010
नराणाम् उपकारिका__व्ध_105.010
तस्मिन् घोरे युगे प्राप्ते__व्ध_105.011
कृष्णे कृष्णत्वम् आगते__व्ध_105.011
यादृग्रूपं जगद् इदं__व्ध_105.011
भवतीह शृणुष्व तत्__व्ध_105.011
राजानो ब्राह्मणा वैश्याः__व्ध_105.012
शूद्राश् च मनुजेश्वर__व्ध_105.012
व्याजधर्मपराश् चैव__व्ध_105.012
धर्मवैतंसिका जनाः__व्ध_105.012
सत्यं संक्षिप्यते लोके__व्ध_105.013
नरैः पण्डितमानिभिः__व्ध_105.013
सत्यहान्या ततस् तेषां__व्ध_105.013
स्वल्पम् आयुर् भविष्यति__व्ध_105.013
आयुषः प्रक्षयाद् विद्यां__व्ध_105.014
न शक्ष्यन्त्य् उपशिक्षितुम्__व्ध_105.014
विद्याहीनान् अबुद्धींस् तांल्__व्ध_105.014
लोभो ऽप्य् अभिभविष्यति__व्ध_105.014
लोभक्रोधपरा मूढाः__व्ध_105.015
कामवश्याश् च मानवाः__व्ध_105.015
बद्धवैरा भविष्यन्ति__व्ध_105.015
परस्परवधेप्सवः__व्ध_105.015
ब्राह्मणाः क्षत्रिया वैश्याः__व्ध_105.016
संकीर्यन्तः परस्परम्__व्ध_105.016
शूद्रतुल्या भविष्यन्ति__व्ध_105.016
तपःसत्यविनाकृताः__व्ध_105.016
अन्त्या मध्या भविष्यन्ति__व्ध_105.017
मध्याश् चान्तावसायिनः__व्ध_105.017
ईदृशो भविता लोकः__व्ध_105.017
कृष्णे कृष्णत्वम् आगते__व्ध_105.017
वस्त्राणां प्रवरा शाणी__व्ध_105.018
धान्यानां कोरदूषकः__व्ध_105.018
भार्यामित्राश् च पुरुषा__व्ध_105.018
भविष्यन्ति कलौ युगे__व्ध_105.018
मत्स्यामिषेण जीवन्तो__व्ध_105.019
दुहन्तश् चाप्य् अजाविकाः__व्ध_105.019
गोषु नष्टासु पुरुषा__व्ध_105.019
भविष्यन्ति तदा नृप__व्ध_105.019
सरित्तीरेषु कुद्दालैर्__व्ध_105.020
वापयिष्यन्ति चौषधीः__व्ध_105.020
ताश् चाप्य् अल्पफलास् तेषां__व्ध_105.020
भविष्यन्ति युगक्षये__व्ध_105.020
अनिष्क्रान्तास् तु संबन्धाः__व्ध_105.021
स्वगोत्रात् पुरुषर्षभ__व्ध_105.021
अनिष्क्रान्तानि श्राद्धानि__व्ध_105.021
भविष्यन्ति च गेहतः__व्ध_105.021
न व्रतानि चरिष्यन्ति__व्ध_105.022
ब्राह्मणा वेदनिन्दकाः__व्ध_105.022
न यक्ष्यन्ति न होष्यन्ति__व्ध_105.022
हेतुवादविकूलिनः__व्ध_105.022
प्रायशः कृपणानां च__व्ध_105.023
तथा बन्धिमताम् अपि__व्ध_105.023
विधवानां च वित्तानि__व्ध_105.023
हरिष्यन्ति बलान्विताः__व्ध_105.023
अन्यायोपात्तवित्तेषु__व्ध_105.024
करिष्यन्ति नराः स्पृहाम्__व्ध_105.024
वेश्यालावण्यभावेषु__व्ध_105.024
स्पृहां योषित् करिष्यति__व्ध_105.024
कन्यां न याचिता कश्चिन्__व्ध_105.025
न च कन्याप्रदो नरः__व्ध_105.025
कन्या वरश् च च्छन्देन__व्ध_105.025
गृहीष्यन्ति परस्परम्__व्ध_105.025
भार्या न पतिशुश्रूषां__व्ध_105.026
तदा काचित् करिष्यति__व्ध_105.026
नरा देवद्विजांस् त्यक्त्वा__व्ध_105.026
भविष्यन्त्य् अन्यतोमुखाः__व्ध_105.026
यज्ञभागभुजो देवा__व्ध_105.027
ये वेदपठिता द्विजाः__व्ध_105.027
ब्रह्माद्यास् तान् परित्यज्य__व्ध_105.027
नराः कालबलात्कृताः__व्ध_105.027
हेतुवादपरा देवान्__व्ध_105.027
करिष्यन्त्य् अपरांस् तदा__व्ध_105.027
ये यवान्ना जनपदा__व्ध_105.028
गोधूमान्नास् तथैव च__व्ध_105.028
तान् देशान् संश्रयिष्यन्ति__व्ध_105.028
नराः कलियुगे नृप__व्ध_105.028
न श्राद्धैश् च पितॄंश् चापि__व्ध_105.029
तर्पयिष्यन्ति मानवाः__व्ध_105.029
बहु मंस्यन्ति ते स्नानं__व्ध_105.029
नापि शौचपरा नराः__व्ध_105.029
न विष्णुभक्तिप्रवणं__व्ध_105.030
नराणां नृप मानसम्__व्ध_105.030
भविता तु युगे प्राप्ते__व्ध_105.030
कृष्णे कार्ष्ण्योपलक्षिते__व्ध_105.030
विनिन्दां प्रथमे पादे__व्ध_105.031
करिष्यन्ति हरेर् नराः__व्ध_105.031
युगान्ते तु हरेर् नाम__व्ध_105.031
नैव कश्चिद् गृहीष्यति__व्ध_105.031
धन्यास् ते पुरुषव्याघ्र__व्ध_105.032
पापाम्भोधाव् अपापिनः__व्ध_105.032
ये नामापि कलौ विष्णोर्__व्ध_105.032
गृहीष्यन्त्य् अक्षयात्मनः__व्ध_105.032
ध्यायन् हरिं कृतयुगे__व्ध_105.033
त्रेताद्वापरयोर् यजन्__व्ध_105.033
यद् आप्नोति कलौ नाम्ना__व्ध_105.033
तद् एव परिकीर्तयन्__व्ध_105.033
हरिर् हरति पापानि__व्ध_105.034
नाम भक्त्या यदीरितम्__व्ध_105.034
वासुदेवेति न जनस्__व्ध_105.034
तद् एवोच्चारयिष्यति__व्ध_105.034
बहुपाषण्डसंकीर्णे__व्ध_105.035
जगत्य् अस्मिन् कलौ युगे__व्ध_105.035
कृष्णायेति नमो ऽस्त्व् अत्र__व्ध_105.035
सुकृती यदि वक्ष्यति__व्ध_105.035
हेतुवादबलैर् मोहं__व्ध_105.036
कुहकैश् च जने तदा__व्ध_105.036
पाषण्डिनः करिष्यन्ति__व्ध_105.036
चातुराश्रम्यदूषकाः__व्ध_105.036
पाषण्डभूतम् अत्यर्थं__व्ध_105.037
जगद् एतद् असत्कृतम्__व्ध_105.037
भविष्यति तदा भूप__व्ध_105.037
वृथाप्रव्रजितोत्कटम्__व्ध_105.037
न तु द्विजातिशुश्रूषां__व्ध_105.038
न स्वधर्मानुपालनम्__व्ध_105.038
करिष्यन्ति तदा शूद्राः__व्ध_105.038
प्रव्रज्यालिङ्गिनो वृथा__व्ध_105.038
उत्कोचाः सौगताश् चैव__व्ध_105.039
महायानरतास् तथा__व्ध_105.039
भविष्यन्त्य् अथ पाषण्डाः__व्ध_105.039
कापिला भिक्षवस् तथा__व्ध_105.039
वृद्धाः श्रावकनिर्ग्रन्थाः__व्ध_105.040
सिद्धपुत्रास् तथापरे__व्ध_105.040
भविष्यन्ति दुरात्मानः__व्ध_105.040
शूद्राः कलियुगे नृप__व्ध_105.040
निःशौचा वक्रमतयः__व्ध_105.041
परपाकान्नभोजनाः__व्ध_105.041
भविष्यन्ति दुरात्मानः__व्ध_105.041
शूद्राः प्रव्रजितास् तदा__व्ध_105.041
एते चान्ये च बहवः__व्ध_105.042
पाषण्डाः पुरुषर्षभ__व्ध_105.042
ब्राह्मणाः क्षत्रिया वैश्या__व्ध_105.042
भविष्यन्ति तथा परे__व्ध_105.042
राजशुल्कहराः क्षुद्रा__व्ध_105.043
गृहस्थपरिमोषकाः__व्ध_105.043
मुनिवेषाकृतिच्छन्ना__व्ध_105.043
वाणिज्यम् उपजीविकाः__व्ध_105.043
न द्विजान् न कलौ देवान्__व्ध_105.044
पूजयिष्यन्ति मानवाः__व्ध_105.044
म्लेच्छभाषानिबन्धैस् तु__व्ध_105.044
हेतुवादैर् विकूलिताः__व्ध_105.044
एवं तेष्व् अतिदुष्टेषु__व्ध_105.045
विमार्गपथिवर्तिनः__व्ध_105.045
भविष्यन्त्य् अपरे दुष्टास्__व्ध_105.045
तेषां मार्गानुयायिनः__व्ध_105.045
असंस्कृतोक्तिवक्तारो__व्ध_105.046
वेदशास्त्रविनिन्दकाः__व्ध_105.046
जगदुन्मार्गकर्तारो__व्ध_105.046
भविष्यन्ति तदा नराः__व्ध_105.046
तच्छीलवर्तिभिर् भूप__व्ध_105.047
मनुष्यैः परिपूरिते__व्ध_105.047
जगत्य् अत्र तदा नॄणां__व्ध_105.047
स्वल्पम् आयुर् भविष्यति__व्ध_105.047
परमायुश् च भविता__व्ध_105.048
तदा वर्षाणि षोडश__व्ध_105.048
ततः प्राणान् प्रहास्यन्ति__व्ध_105.048
कृष्णे कृष्णत्वम् आगते__व्ध_105.048
पञ्चमे वाथ षष्ठे वा__व्ध_105.049
वर्षे कन्या प्रसूयते__व्ध_105.049
सप्तवर्षाष्टवर्षा वा__व्ध_105.049
प्रजास्यन्ति नरास् तदा__व्ध_105.049
अल्पद्रव्या वृथालिङ्गा__व्ध_105.050
हिंसारतिपरायणाः__व्ध_105.050
हर्तारो न तु दातारो__व्ध_105.050
भविष्यन्ति कलौ नराः__व्ध_105.050
शुक्लादानपराः क्षुद्राः__व्ध_105.051
परपाकाशिनो द्विजाः__व्ध_105.051
वैश्यास् तथा तु राजानो__व्ध_105.051
न तु क्षत्रियवंशजाः__व्ध_105.051
शूद्रा भिक्षवता विप्राः__व्ध_105.052
शुश्रूषाविपणाश्रिताः__व्ध_105.052
भविष्यन्ति नृपश्रेष्ठ__व्ध_105.052
कृष्णे कृष्णत्वम् आगते__व्ध_105.052
न शिष्यो न गुरुः कश्चिन्__व्ध_105.053
न पुत्रो न पिता तथा__व्ध_105.053
न भार्या न पतिर् भूप__व्ध_105.053
भविता तत्र संकुले__व्ध_105.053
एतत् कालस्वरूपं ते__व्ध_105.054
शतानीक मयोदितम्__व्ध_105.054
विष्णुभक्तान् नरश्रेष्ठ__व्ध_105.054
न नरान् बाधते कलिः__व्ध_105.054
ये ऽहर्निशं जगद्धातुर्__व्ध_105.055
वासुदेवस्य कीर्तनम्__व्ध_105.055
कुर्वन्ति तान् नरव्याघ्र__व्ध_105.055
न कलिर् बाधते नरान्__व्ध_105.055
ये तन्मनस्कास् तिष्ठन्ति__व्ध_105.056
प्रयान्तः संस्थितास् तथा__व्ध_105.056
स्वपन्तश् च नरव्याघ्र__व्ध_105.056
तान् कलिर् न प्रबाधते__व्ध_105.056
सर्वत्र भगवान् विष्णुर्__व्ध_105.057
गोविन्दः केशवो हरिः__व्ध_105.057
यस्य भावो न तं भूप__व्ध_105.057
कदाचिद् बाधते कलिः__व्ध_105.057
न कलौ कलिचेष्टो ऽसौ__व्ध_105.058
मूढेषु न स मुह्यते__व्ध_105.058
भगवत्य् अच्युते नित्यं__व्ध_105.058
येन भावः समर्पितः__व्ध_105.058
कलिप्रभावो दुष्टोक्तिः__व्ध_105.059
पाषण्डानां तथोक्तयः__व्ध_105.059
न क्रामन्ते मनस् तस्य__व्ध_105.059
यस्य चेतसि केशवः__व्ध_105.059
कलौ कृतयुगं तस्य__व्ध_105.060
कलिस् तस्य कृते युगे__व्ध_105.060
यस्य चेतसि गोविन्दो__व्ध_105.060
हृदये यस्य नाच्युतः__व्ध_105.060
अनिष्ट्वापि महायज्ञैर्__व्ध_105.061
अकृत्वापि पितृस्वधाम्__व्ध_105.061
कृष्णम् अभ्यर्च्य यद् भक्त्या__व्ध_105.061
नैनं श्वोमरणं तपेत्__व्ध_105.061
यस्याग्रतस् तथा पृष्ठे__व्ध_105.062
गच्छतस् तिष्ठतो ऽपि वा__व्ध_105.062
गोविन्दे नियतं चेतः__व्ध_105.062
कृतकृत्यः सदैव सः__व्ध_105.062
एतद् विदित्वा भूपाल__व्ध_105.063
सर्वे सर्वेश्वरे हरौ__व्ध_105.063
तन्मना भव तच्चित्तस्__व्ध_105.063
तन्मना नावसीदति__व्ध_105.063
परमार्थम् अशेषस्य__व्ध_105.064
जगतः प्रभवाव्ययम्__व्ध_105.064
शरण्यं शरणं गच्छन्__व्ध_105.064
गोविन्दं नावसीदति__व्ध_105.064
कलिकल्मषकक्षाग्निं__व्ध_105.065
निर्वाणं पदम् अव्ययम्__व्ध_105.065
सर्वकारणम् अव्यक्तं__व्ध_105.065
विष्णुं ध्यायन् न सीदति__व्ध_105.065
यत्र सर्वमये ध्याते__व्ध_105.066
ध्येयम् अन्यन् न विद्यते__व्ध_105.066
यत्रार्चिते ऽर्चनीयश् च__व्ध_105.066
जायते तं नमाम्य् अहम्__व्ध_105.066
जगत्स्रष्टारम् इशेशम्__व्ध_105.067
अनादिं परतः परम्__व्ध_105.067
सर्वास्पदं सर्वभूतं__व्ध_105.067
गच्छन् सर्वात्मना हरिम्__व्ध_105.067
हरत्य् अघम् अशेषं यो__व्ध_105.068
हरिर् इत्य् अभिसंस्तुतः__व्ध_105.068
अशेषाघहरं विष्णुं__व्ध_105.068
हरिवर्णं हरिं नमः__व्ध_105.068
यत्कीर्तनाद् अघः शुद्धः__व्ध_105.069
स्मृते यत्राशुचिः सुचिः__व्ध_105.069
तम् आत्मनि स्थितं भूप__व्ध_105.069
पुण्डरीकेक्षणं नमः__व्ध_105.069
अपवित्रः पवित्रो वा__व्ध_105.070
सर्वावस्थगतो ऽपि वा__व्ध_105.070
यः स्मरेत् पुण्डरीकाक्षं__व्ध_105.070
स बाह्याभ्यन्तरः शुचिः__व्ध_105.070
यद्य् अप्य् उपहतः पापैर्__व्ध_105.071
यदि वात्यन्तदुष्कृतैः__व्ध_105.071
तथापि संस्मरन् विष्णुं__व्ध_105.071
स बाह्याभ्यन्तरः शुचिः__व्ध_105.071
कलाव् अत्रातिदोषाढ्ये__व्ध_105.072
विषयासक्तमानसः__व्ध_105.072
कृत्वापि पापं गोविन्दं__व्ध_105.072
ध्यायन् पापैर् विमुच्यते__व्ध_105.072
तद् ध्यानं यत्र गोविन्दः__व्ध_105.073
सा कथा यत्र केशवः__व्ध_105.073
तत् कर्म यत् तदर्थीयं__व्ध_105.073
किम् अन्यैर् बहुभाषितैः__व्ध_105.073
नैतत् पिता तनूजाय__व्ध_105.074
न शिष्याय गुरुर् नृप__व्ध_105.074
परमार्थपदं ब्रूयाद्__व्ध_105.074
यद् एतत् ते मयोदितम्__व्ध_105.074
संसारे भ्रमता लभ्यं__व्ध_105.075
पुत्रदारधनं वसु__व्ध_105.075
सुहृदश् च तथिवान्ये__व्ध_105.075
नोपदेशो नृपेदृशः__व्ध_105.075
किं पुत्रदारैर् वित्तैर् वा__व्ध_105.076
न मित्रे क्षेत्रबान्धवैः__व्ध_105.076
उपदेष्टा परो बन्धुर्__व्ध_105.076
ईदृशो यो विमुक्तये__व्ध_105.076
यो नैकाग्रमना विष्णाव्__व्ध_105.077
इति ज्ञात्वापि पार्थिव__व्ध_105.077
स नूनम् अच्युतस्यैव__व्ध_105.077
नानुग्राह्यो ऽत्र पापकृत्__व्ध_105.077
द्विविधो भूतसर्गो ऽयं__व्ध_105.078
दैव आसुर एव च__व्ध_105.078
विष्णुभक्तिपरो दैवो__व्ध_105.078
विपरीतस् तथासुरः__व्ध_105.078
उपदेशप्रदानेन__व्ध_105.079
संभूतित्रय आसुरः__व्ध_105.079
नैव विष्णुपरो भूप__व्ध_105.079
भवत्य् अक्षीणकल्मषः__व्ध_105.079
उपदेशेषु सो ऽत्यन्तं__व्ध_105.080
संरम्भी युक्तियोजितम्__व्ध_105.080
हेतुवादाश्रितो मूढो__व्ध_105.080
ददात्य् उत्तरम् अक्षयम्__व्ध_105.080
स्नातस्य देवकार्येषु__व्ध_105.081
तथापत्सु कथासु च__व्ध_105.081
आसुरस्यापि तन्मात्रा__व्ध_105.081
जायते नृपते मतिः__व्ध_105.081
इति मत्वातिसद्भावं__व्ध_105.082
रहस्यं परम् ईरितम्__व्ध_105.082
त्वयाच्युतान् मतिर् भूप__व्ध_105.082
नापनेया कथंचन__व्ध_105.082
अप्राप्य वाञ्छति रतिं__व्ध_105.083
सर्वदैव नृणां मनः__व्ध_105.083
इहैवाच्युतसंसर्गि__व्ध_105.083
यदि तत् किं प्रहीयते__व्ध_105.083
तद् अलं तव राज्येन__व्ध_105.084
बलकोशादिभिस् तथा__व्ध_105.084
चिन्तितैर् अच्युतश् चिन्त्यो__व्ध_105.084
यद्भावि न तदन्यथा__व्ध_105.084
एतत् पवित्रम् आरोग्यं__व्ध_105.085
धन्यं दुःस्वप्ननाशनम्__व्ध_105.085
सुखप्रीतिकरं नॄणां__व्ध_105.085
पततां निर्वृतिप्रदम्__व्ध_105.085
येषां गृहेषु लिखितम्__व्ध_105.086
एतत् स्थास्यति नित्यदा__व्ध_105.086
न तद्गृहाणि दैवोत्था__व्ध_105.086
बाधिष्यन्ते ह्य् उपद्रवाः__व्ध_105.086
किं तीर्थैः किं प्रदानैर् वा__व्ध_105.087
किं यज्ञैः किम् उपोषितैः__व्ध_105.087
अहन्य् अहन्य् एतद् एव__व्ध_105.087
तन्मयत्वेन शृण्वतः__व्ध_105.087
यओ ददाति तिलप्रस्थं__व्ध_105.088
सुवर्णस्य च मासकम्__व्ध_105.088
शृणोति श्लोकम् एकं च__व्ध_105.088
धर्मस्यास्य समं हि तत्__व्ध_105.088
अध्यायपारणं चास्य__व्ध_105.089
गोप्रदानाह् विशिष्यते__व्ध_105.089
शृण्वंश् चास्य दशाध्यायान्__व्ध_105.089
सद्यः पापैः प्रमुच्यते__व्ध_105.089
रात्र्या यद् एनः कुरुते__व्ध_105.090
दिवसेन च मानवः__व्ध_105.090
श्रोतुं वाञ्छा समस्तं तत्__व्ध_105.090
पार्थिवस्य व्यपोहति__व्ध_105.090
कपिलानां शते दत्ते__व्ध_105.091
यद् भवेज् ज्येष्ठपुष्करे__व्ध_105.091
नरेन्द्र विष्णुधर्माणां__व्ध_105.091
तदावाप्नोति पारणे__व्ध_105.091
प्रवृत्तौ च निवृत्तौ च__व्ध_105.092
धर्मं धर्मभृतां वर__व्ध_105.092
नास्त्य् अन्यद् विष्णुधमाणां__व्ध_105.092
सदृशं शास्त्रम् उत्तमम्__व्ध_105.092
मैत्रीं करोति भूतेषु__व्ध_105.093
भक्तिम् अत्यन्तम् अच्युते__व्ध_105.093
श्रुत्वा धर्मान् इमान् वेत्ति__व्ध_105.093
अभेदेनात्मनो जगत्__व्ध_105.093
पठन्न् अनुदिनं धर्मान्__व्ध_105.094
एताञ् शृण्वंस् तथापि वा__व्ध_105.094
भक्त्या मतिमतां श्रेष्ठ__व्ध_105.094
सर्वपापैः प्रमुच्यते__व्ध_105.094
नोपसर्गो न चानर्थो__व्ध_105.095
न चौराग्निभयं गृहे__व्ध_105.095
तस्मिन् भवति भूपाल__व्ध_105.095
यत्रैतत् पुस्तकं स्थितम्__व्ध_105.095
न गर्भहारिणी भीतिर्__व्ध_105.096
न च बालग्रहा गृहे__व्ध_105.096
यत्रैतद् भूपते तत्र__व्ध_105.096
न पिशाचादिकाद् भयम्__व्ध_105.096
शृण्वन् विप्रो वेदवित् स्यात्__व्ध_105.097
क्षत्रियः पृथिवीपतिः__व्ध_105.097
ऋद्धिं प्रयाति वैश्यश् च__व्ध_105.097
शूद्रश् चारोग्यम् ऋच्छति__व्ध_105.097
यश् चैतान् नियतान् धर्मान्__व्ध_105.098
पठेच् छ्रद्धासमन्वितः__व्ध_105.098
विष्णौ मनः समावेश्य__व्ध_105.098
सर्वत्र समदर्शनः__व्ध_105.098
तस्य पापं तथा रोगान्__व्ध_105.099
दुःस्वप्नाद्याभिचारुकान्__व्ध_105.099
यच् चान्यद् दुरितं किंचित्__व्ध_105.099
तत् सर्वं हन्ति केशवः__व्ध_105.099
हेमन्ते य इमान् धर्माञ्__व्ध_105.100
शृणोति वसुधाधिप__व्ध_105.100
श्रद्धासमन्वितः सम्यक्__व्ध_105.100
सो ऽग्निष्टोमफलं लभेत्__व्ध_105.100
शिशिरे च नरव्याघ्र__व्ध_105.101
यः शृणोति यथाविधि__व्ध_105.101
पुण्डरीकस्य यज्ञस्य__व्ध_105.101
स प्राप्नोति फलं नरः__व्ध_105.101
मधुमाधवसंज्ञे तु__व्ध_105.102
यः शृणोति नरस् त्व् इमान्__व्ध_105.102
सो ऽश्वमेधक्रतोर् भूप__व्ध_105.102
प्राप्नोत्य् अविकलं फलम्__व्ध_105.102
शृण्वन्न् एतान् निदाघे च__व्ध_105.103
धर्मान् धर्मभृतां वर__व्ध_105.103
वाजपेयस्य यज्ञस्य__व्ध_105.103
फलं प्राप्नोत्य् असंशयम्__व्ध_105.103
वर्षासु चेमान् यो धर्मान्__व्ध_105.104
संशृण्वन् वसुधाधिप__व्ध_105.104
राजसूयक्रतोः पुण्यम्__व्ध_105.104
अखिलं समवाप्नुयात्__व्ध_105.104
शरत्काले च संशृण्वन्__व्ध_105.105
धर्मान् एतान् नरर्षभ__व्ध_105.105
प्राप्नोति गोसवफलं__व्ध_105.105
सम्यक् श्रद्धासमन्वितः__व्ध_105.105
ऋतुष्व् एतेष्व् एतद् एव__व्ध_105.106
पठताम् अपि पार्थिव__व्ध_105.106
फलं भवति दुष्टेषु__व्ध_105.106
ग्रहेष्व् एते शुभप्रदाः__व्ध_105.106
कपिलानां शतस्योक्तं__व्ध_105.107
यत् फलं ज्येष्ठपुष्करे__व्ध_105.107
भूयो भूयस् तद् आप्नोति__व्ध_105.107
पारणे पारणे गते__व्ध_105.107
भक्त्या पठति यश् चैतान्__व्ध_105.108
देवस्य पुरतो हरेः__व्ध_105.108
सो ऽर्चयत्य् अवनीपाल__व्ध_105.108
ज्ञानयज्ञेन केशवम्__व्ध_105.108
सर्वाबाधास् तथा पापम्__व्ध_105.109
अखिलं मनुजेश्वर__व्ध_105.109
विष्णुधर्मा व्यपोहन्ति__व्ध_105.109
संस्मृताः पठिताः श्रुताः__व्ध_105.109
एतत् ते सर्वम् आख्यातं__व्ध_105.110
रहस्यं परमं हरेः__व्ध_105.110
नातः परतरं किंचिच्__व्ध_105.110
श्राव्यं श्रुतिसुखावहम्__व्ध_105.110
अत्रोक्तविधियुक्तस्य__व्ध_105.111
पुरुषस्य विपश्चितः__व्ध_105.111
न दुर्लभं नरव्याघ्र__व्ध_105.111
परमं ब्रह्म शाश्वतम्__व्ध_105.111
मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0