भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 401420

योगिनां विषयं प्रति__व्ध_096.028
निरोधे योगसामर्थ्याद्__व्ध_096.028
ब्रह्मग्राह्य् एव जायते__व्ध_096.028
ग्राह्यं च परमं ब्रह्म__व्ध_096.029
योगिचित्तस्य पार्थिव__व्ध_096.029
समुज्झितग्राह्यवृत्तिर्__व्ध_096.029
अमलस्य मलं महत्__व्ध_096.029
क्षीणक्लेशास् तु संसार-__व्ध_096.030
विमुक्तिपथम् आश्रिताः__व्ध_096.030
ये ऽपि कर्माणि कुर्वन्ति__व्ध_096.*(148)
भगवन्तम् अपाश्रिताः__व्ध_096.*(148)
क्रियायोगपरा राजन्__व्ध_096.*(148)
कामाकाङ्क्षाविवर्जिताः__व्ध_096.*(148)
ब्रह्मनिष्ठा ध्यानपरा__व्ध_096.*(148)
ब्रह्मण्य् एव व्यवस्थिताः__व्ध_096.*(148)
ते ऽपि तद्भावम् आयान्ति__व्ध_096.*(148)
विमुक्तिपथम् आश्रिताः__व्ध_096.*(148)
योगिनस् तं प्रपश्यन्ति__व्ध_096.030
समर्था नैव चोदितुम्__व्ध_096.030
कर्मणो भावना येयं__व्ध_096.031
सा ब्रह्मपरिपन्थिनी__व्ध_096.031
कर्मभावनया तुल्यं__व्ध_096.031
विज्ञानम् उपपद्यते__व्ध_096.031
तादृग् भवतो विज्ञप्तिर्__व्ध_096.032
यादृशी कर्मभावना__व्ध_096.032
क्षये तस्याः परं ब्रह्म__व्ध_096.032
स्वयम् एव प्रकाशते__व्ध_096.032
एवम् एतन् मया भूप__व्ध_096.033
यथावत् कथितं तव__व्ध_096.033
द्वैताद्वैतस्वरूपेण__व्ध_096.033
यथा ब्रह्म व्यवस्थितम्__व्ध_096.033
यथावत् कर्मनिष्ठानां__व्ध_096.*(149)
तत्प्राप्तिः कथितं तथा__व्ध_096.*(149)
स्वरूपं ब्रह्मणश् चोक्तम्__व्ध_096.034
उभयत्रापि ते पृथक्__व्ध_096.034
वासुदेवमयस्यान्यत्__व्ध_096.034
किं भूयः कथयामि ते__व्ध_096.034
आख्यातं भगवन् सम्यक्__व्ध_097.001
परं ब्रह्म त्वया मम__व्ध_097.001
विष्णुर् एव जगद्धाता__व्ध_097.001

योगिनां वर्तते यतः__व्ध_097.001
उपायस् तस्य यः प्राप्तो__व्ध_097.002
विष्णोर् ईशस्य भार्गव__व्ध_097.002
अद्वैतद्वैतरूपस्य__व्ध_097.002
तन् मे विस्तरतो वद__व्ध_097.002
येन जन्मजरामृत्यु-__व्ध_097.003
महाग्राहभवार्णवम्__व्ध_097.003
त्वद्वाक्यनावम् आरुह्य__व्ध_097.003
मुक्तितीरम् अवाप्नुयाम्__व्ध_097.003
तन् मम ब्रूहि तत्त्वेन__व्ध_097.*(150)
प्राप्नुयां येन तत् पदम्__व्ध_097.*(150)
बन्धः कर्ममयो ह्य् अत्र__व्ध_097.004
यथामुक्तिविघातकृत्__व्ध_097.004
तस्यापगमने यत्नः__व्ध_097.004
कार्यः संसारभीरुणा__व्ध_097.004
सुवर्णादिमहादान-__व्ध_097.005
पुण्यतीर्थावगाहनैः__व्ध_097.005
शारीरैश् च तथा क्लेशैः__व्ध_097.005
शास्त्रोक्तैस् तच्छमो भवेत्__व्ध_097.005
देवतास्तुतिसच्छास्त्र-__व्ध_097.006
श्रवणैः पुण्यदर्शनैः__व्ध_097.006
गुरुशुश्रूषणाच् चैव__व्ध_097.006
पापबन्धः प्रणश्यति__व्ध_097.006
प्रपाकूपतडागानि__व्ध_097.007
देवतायतनानि च__व्ध_097.007
कारयन् पुरुषव्याघ्र__व्ध_097.007
पापबन्धात् प्रमुच्यते__व्ध_097.007
योगिनाम् अथ शुश्रूषां__व्ध_097.008
तथैवावसथान् नृप__व्ध_097.008
कुर्वन् पूर्ताश्रितं चान्यत्__व्ध_097.008
पापबन्धात् प्रमुच्यते__व्ध_097.008
विष्णुः कृष्णो वासुदेवो__व्ध_097.009
गोविन्दः पुष्करेक्षणः__व्ध_097.009
इत्यादि व्याहरन् नित्यं__व्ध_097.009
पापबन्धात् प्रमुच्यते__व्ध_097.009
विश्वो विश्वेश्वरो विश्व-__व्ध_097.010
विधाता धाम शाश्वतम्__व्ध_097.010
विष्णुर् इत्यादि च जपन्__व्ध_097.010
पापबन्धात् प्रमुच्यते__व्ध_097.010
पद्मनाभो हृषीकेशः__व्ध_097.011

केशवो मधुसूदनः__व्ध_097.011
इत्यादि व्याहरन् नित्यं__व्ध_097.011
पापबन्धात् प्रमुच्यते__व्ध_097.011
नारायणश् चक्रधरो__व्ध_097.012
विश्वरूपस् त्रिविक्रमः__व्ध_097.012
इत्यादि व्याहरन् नित्यं__व्ध_097.012
पापबन्धात् प्रमुच्यते__व्ध_097.012
विष्णौ प्रतिष्ठितं विश्वं__व्ध_097.013
विष्णुर् विश्वे प्रतिष्ठितः__व्ध_097.013
विष्णुर् विश्वेश्वरो विश्वम्__व्ध_097.013
इति भावात् प्रमुच्यते__व्ध_097.013
एवं संशान्तपापस्य__व्ध_097.014
पुण्यवृद्धिमतो नृप__व्ध_097.014
इच्छा प्रवर्तते पूंसो__व्ध_097.014
मुक्तिदायिषु कर्मसु__व्ध_097.014
मुक्तिदायीनि कर्माणि__व्ध_097.*(151)
निष्कामेन कृतानि तु__व्ध_097.*(151)
भवन्ति दोषक्षयकाः__व्ध_097.*(151)
पुण्यबन्धात् प्रमुच्यते__व्ध_097.*(151)
नित्यनैमित्तिकानीह__व्ध_097.015
कर्माण्य् उक्तानि यानि वै__व्ध_097.015
तेषां निष्कामकारणात्__व्ध_097.015
पुण्यबन्धः प्रशाम्यति__व्ध_097.015
अनेकजन्मसंसार-__व्ध_097.016
चितस्यापि दृढात्मनः__व्ध_097.016
कर्मबन्धस्य शैथिल्य-__व्ध_097.016
कारणं चापरं शृणु__व्ध_097.016
अहिंसा नातिमानित्वम्__व्ध_097.017
अदम्भित्वम् अमत्सरम्__व्ध_097.017
तितिक्षा समदर्शित्वं__व्ध_097.017
मैत्र्यादौ दण्डसंयमः__व्ध_097.017
ऋजुत्वम् इन्द्रियजयः__व्ध_097.018
शौचम् आचार्यपूजनम्__व्ध_097.018
पुण्यस्तवादिपठनम्__व्ध_097.018
अपैशुन्यम् अकत्थनम्__व्ध_097.018
विषयान् प्रति वैराग्यम्__व्ध_097.019
अनहंकारम् एव च__व्ध_097.019
अकामित्वं मनःस्थैर्यम्__व्ध_097.019
अद्रोहः सर्वजन्तुषु__व्ध_097.019
अविवादस् तथा मूढैर्__व्ध_097.020

अमूढैः प्रश्नसत्कथा__व्ध_097.020
विविक्तदेशे ऽभिरतिर्__व्ध_097.020
महाजनविवर्जनम्__व्ध_097.020
सद्भिः सहास्य सततं__व्ध_097.021
योगाभ्यासो मितोक्तिता__व्ध_097.021
स्त्रीभर्त्सोत्सवसंलाप-__व्ध_097.021
विवर्जनम् अवेक्षणम्__व्ध_097.021
परयोषिद्विलासानां__व्ध_097.022
काव्यालापविवर्जनम्__व्ध_097.022
गीतवादितनृत्तेषु__व्ध_097.022
मृदङ्गेष्व् अपरेषु च__व्ध_097.022
असक्तिर् मनसो मौनम्__व्ध_097.023
आत्मतत्त्वावलोकनम्__व्ध_097.023
तपः संतोषः सत्येषु__व्ध_097.023
स्थितिर् लोभविवर्जनम्__व्ध_097.023
तथा परिग्रहो राजन्__व्ध_097.024
मायाव्याजविवर्जनम्__व्ध_097.024
असृङ्मांसादिभूतत्वान्__व्ध_097.024
निजदेहजुगुप्सनम्__व्ध_097.024
सर्वाण्य् एतानि भूतानि__व्ध_097.025
विष्णुर् इत्य् अचला मतिः__व्ध_097.025
तत्रैवाशेषभूतेशे__व्ध_097.025
भक्तिर् अव्यभिचारिणी__व्ध_097.025
एते गुणा मयाख्याता__व्ध_097.026
मनोनिर्वृतिकारकाः__व्ध_097.026
शैथिल्यहेतवश् चैते__व्ध_097.026
कर्मबन्धस्य पूर्थिव__व्ध_097.026
एभिः शान्तिं गते चित्ते__व्ध_097.027
ध्यानाकृष्टः स्थितो हरिः__व्ध_097.027
शमं नयति कर्माणि__व्ध_097.027
सितमिश्रासितानि वै__व्ध_097.027
भूयश् च शृणु शास्त्रार्थं__व्ध_097.028
संक्षेपाद् वदतो मम__व्ध_097.028
यथा संप्राप्यते मुक्तिर्__व्ध_097.028
मनुजेन्द्र मुमुक्षुभिः__व्ध_097.028
नित्यनैमित्तिकानां तु__व्ध_097.029
निष्कामस्य हि या क्रिया__व्ध_097.029
निसिद्धानां सकामानां__व्ध_097.029
तथैवाकरणं नृप__व्ध_097.029
सर्वेश्वरे च गोविन्दे__व्ध_097.030

भक्तिर् अव्यभिचारिणी__व्ध_097.030
प्रयच्छति नृणां मुक्तिं__व्ध_097.030
मा ते भूद् अत्र संशयः__व्ध_097.030
आख्यातम् एतद् अखिलं__व्ध_098.001
यत् पृष्टो ऽसि मया द्विज__व्ध_098.001
जायते शमकामानां__व्ध_098.001
प्रशमः कर्मणां यथा__व्ध_098.001
किंत्व् अत्र भवता प्रोक्ता__व्ध_098.002
प्रशान्तिः सर्वकर्मणाम्__व्ध_098.002
नात्यन्तनाशः शान्तानाम्__व्ध_098.002
उद्भवो भविता पुनः__व्ध_098.002
निजकारणम् आसाद्य__व्ध_098.002
स्तोकस्याग्नेर् यथा तृणम्__व्ध_098.002
तद् आचक्ष्व महाभाग__व्ध_098.003
प्रसादसुमुखो मम__व्ध_098.003
संक्षयो येन भवति__व्ध_098.003
मूलोद्वर्तेन कर्मणाम्__व्ध_098.003
न कर्मणां क्षयो भूप__व्ध_098.004
जन्मनाम् अयुतैर् अपि__व्ध_098.004
कर्मक्षयम् ऋते योगाद्__व्ध_098.004
योगाग्निः क्षपयेत् परम्__व्ध_098.004
तं योगं मम विप्रर्षे__व्ध_098.005
प्रणतस्याभियाचतः__व्ध_098.005
त्वम् आचक्ष्व क्षयो येन__व्ध_098.005
जायते ऽखिलकर्मणाम्__व्ध_098.005
हिरण्यगर्भो भगवान्__व्ध_098.006
अनादिर् मुनिभिः पुरा__व्ध_098.006
पृष्टः प्रोवाच यं योगं__व्ध_098.006
तं समासेन मे शृणु__व्ध_098.006
अनादिकालप्रसृता__व्ध_098.007
यथा विद्या महीपते__व्ध_098.007
तथा तत्क्षयहेतुत्वाद्__व्ध_098.007
योगो विद्यामयो ऽव्ययः__व्ध_098.007
तं परंपरया श्रुत्वा__व्ध_098.008
मुनयो ऽत्र दयालवः__व्ध_098.008
प्रकाशयन्ति भूतानाम्__व्ध_098.008
उपकारचिकीर्षवः__व्ध_098.008
देवा महर्षयो राजंस्__व्ध_098.009
तथा राजर्षयो ऽखिलाः__व्ध_098.009
श्रेयोऽर्थिनः पुरा जग्मुः__व्ध_098.009

शरणं कपिलं किल__व्ध_098.009
ते तम् ऊचुर् भवान् नित्यं__व्ध_098.010
दयालुः सर्वजन्तुषु__व्ध_098.010
सो ऽस्मान् उद्धर संमग्नान्__व्ध_098.010
इतः संसारकर्दमात्__व्ध_098.010
यच् छ्रेयः सर्ववर्णानां__व्ध_098.011
स्त्रीणाम् अप्य् उपकारकम्__व्ध_098.011
यस्मात् परतरं नान्यच्__व्ध_098.011
श्रेयस् तद् ब्रूहि नः प्रभो__व्ध_098.011
आदाव् अन्ते च मध्ये च__व्ध_098.012
नॄणां यद् उपकारकम्__व्ध_098.012
अपि कीटपतंगानां__व्ध_098.012
तन् नः श्रेयः परं वद__व्ध_098.012
इत्य् उक्तः कपिलः सर्वैर्__व्ध_098.013
देवैर् देवर्षिभिस् तथा__व्ध_098.013
नास्ति योगात् परं श्रेयः__व्ध_098.013
किंचिद् इत्य् उक्तवान् पुरा__व्ध_098.013
यथा जन्मायुतैः क्लेशाः__व्ध_098.014
स्थैर्यं चेतस्य् उपागताः__व्ध_098.014
तच्छान्तये तथा योगो__व्ध_098.014
बहुजन्मार्जितो भवेत्__व्ध_098.014
स एवाभ्यसतां नॄणां__व्ध_098.015
तीव्रसंवेगिचेतसाम्__व्ध_098.015
आसन्नतां प्रयात्य् आशु__व्ध_098.015
विष्णुः संन्यस्तकर्मणाम्__व्ध_098.015
ब्राह्मणक्षत्रियविशां__व्ध_098.016
स्त्रीशूद्रस्य च पावनम्__व्ध_098.016
शान्तये कर्मणां नान्यद्__व्ध_098.016
योगाद् अस्ति हि मुक्तये__व्ध_098.016
अभ्यस्तं जन्मभिर् नैकैः__व्ध_098.017
शुभजातिभवेषु यत्__व्ध_098.017
योगस्वरूपं तत् तेषां__व्ध_098.017
स्त्रीशूद्रत्वे व्यवस्थितम्__व्ध_098.017
योगाभ्यासो नृणां येषां__व्ध_098.018
नास्ति जन्मान्तराहृतः__व्ध_098.018
योगस्य प्राप्तये तेषां__व्ध_098.018
शूद्रवैश्यादिकः क्रमः__व्ध_098.018
स्त्रीत्वाच् छूद्रत्वम् अभ्येति__व्ध_098.019
ततो वैश्यत्वम् आप्नुयात्__व्ध_098.019
ततश् च क्षत्रियो विप्रः__व्ध_098.019

क्रियाहीनस् ततो भवेत्__व्ध_098.019
अनूचानस् तथा यज्वी__व्ध_098.020
कर्मन्यासी ततः परम्__व्ध_098.020
ततो ज्ञानित्वम् अभ्येत्य__व्ध_098.020
योगी मुक्तिं क्रमाल् लभेत्__व्ध_098.020
येषां तु जातिमात्रेण__व्ध_098.021
योगाभ्यासस् तिरोहितः__व्ध_098.021
आस्ते तत्रैव मुच्यन्ते__व्ध_098.021
जातिहेतौ क्षयंगते__व्ध_098.021
असत्कर्म कृतं पूर्वम्__व्ध_098.022
असज्जातिप्रदायि यत्__व्ध_098.022
तस्मिन् योगाग्निना दग्धे__व्ध_098.022
तस्य जातेर् बलं कुतः__व्ध_098.022
यथा वातेरितः कक्षं__व्ध_098.023
दहत्य् ऊर्ध्वशिखो ऽनलः__व्ध_098.023
सर्वकर्माणि योगाग्निर्__व्ध_098.023
भस्मसात् कुरुते तथा__व्ध_098.023
यथा दग्धतुषं बीजम्__व्ध_098.024
अबीजत्वान् न जायते__व्ध_098.024
योगदग्धैस् तथा क्लेशैर्__व्ध_098.024
नात्मा संजायते पुनः__व्ध_098.024
अदृष्टा दृष्टतत्त्वानां__व्ध_098.025
योगिनां योगविच्युतिः__व्ध_098.025
येषां भवति योगित्वं__व्ध_098.025
प्राप्नुवन्तीह ते पुनः__व्ध_098.025
सज्जातिप्रापकं कर्म__व्ध_098.026
कृतं तेन तदात्मना__व्ध_098.026
जातिं प्रयान्ति विप्राद्या__व्ध_098.026
योगकर्मानुरञ्जिताः__व्ध_098.026
तत्राप्य् अनेकजन्मोत्थ-__व्ध_098.027
योगाभ्यासानुरञ्जिताः__व्ध_098.027
तेनैवाभ्यासयोगेन__व्ध_098.027
ह्रियन्ते तत्त्वविद्यया__व्ध_098.027
जैगीषव्यो यथा विप्रो__व्ध_098.028
यथा चैवासितादयः__व्ध_098.028
हिरण्यनाभो राजन्यस्__व्ध_098.028
तथा वै जनकादयः__व्ध_098.028
पूर्वाभ्यस्तेन योगेन__व्ध_098.029
तुलाधारादयो विशः__व्ध_098.029
संप्राप्ताः परमां सिद्धिं__व्ध_098.029

शूद्राः पैलवकादयः__व्ध_098.029
मैत्रेयी सुलभा गार्गी__व्ध_098.030
शाण्डिली च तपस्विनी__व्ध_098.030
स्त्रीत्वे प्राप्ताः परां सिद्धिम्__व्ध_098.030
अन्यजन्मसमाधितः__व्ध_098.030
धर्मव्याधादयो ऽप्य् अन्ये__व्ध_098.031
पूर्वाभ्यासाज् जुगुप्सिते__व्ध_098.031
वर्णावरत्वे संप्राप्ताः__व्ध_098.031
संसिद्धिं श्रवणी तथा__व्ध_098.031
पूर्वाभ्यस्तं च तत् तेषां__व्ध_098.032
योगज्ञानं महात्मनाम्__व्ध_098.032
सुप्तोत्थितप्रत्ययवद्__व्ध_098.032
उपदेशादिना विना__व्ध_098.032
तस्माद् योगः परं श्रेयो__व्ध_098.033
विमुक्तिफलदो हि यः__व्ध_098.033
विमुक्तौ सुखम् अत्यन्तं__व्ध_098.033
संमोहस् त्व् इतरत् सुखम्__व्ध_098.033
एतत् ते सर्वम् आख्यातं__व्ध_098.034
मया मनुजकुञ्जर__व्ध_098.034
श्रेयः परतरं योगात्__व्ध_098.034
किंचिद् अन्यन् न विद्यते__व्ध_098.034
कथितं योगमाहात्म्यं__व्ध_099.001
भवता मुनिसत्तम__व्ध_099.001
स्वरूपं तु न मे प्रोक्तं__व्ध_099.001
श्रोतुम् इच्छामि तद् ध्य् अहम्__व्ध_099.001
द्वैविध्यं नृप योगस्य__व्ध_099.002
परं चापरम् एव च__व्ध_099.002
तच् छृणुष्व वदाम्य् एष__व्ध_099.002
वाच्यं शुश्रूषतां सताम्__व्ध_099.002
यो दद्याद् भगवज्ज्ञानं__व्ध_099.003
कुर्याद् वा धर्मदेशनाम्__व्ध_099.003
कृत्स्नां वा पृथिवीं दद्यान्__व्ध_099.003
न तत्तुल्यं कथंचन__व्ध_099.003
क्षयिष्णून्य् अपराणीह__व्ध_099.004
दानानि मनुजाधिप__व्ध_099.004
एकम् एवाक्षयं शस्तं__व्ध_099.004
ज्ञानदानम् अनुत्तमम्__व्ध_099.004
दानान्य् एकफलानीह__व्ध_099.005
त्रैलोक्ये ददता सताम्__व्ध_099.005
ज्ञानं प्रयच्छता सम्यक्__व्ध_099.005

किं न दत्तं भवेन् नृप__व्ध_099.005
ज्ञानान्य् अन्यान्य् असाराणि__व्ध_099.006
शिल्पिनीव नरेश्वर__व्ध_099.006
एकम् एव परं ज्ञानं__व्ध_099.006
यद् योगप्राप्तिकारकम्__व्ध_099.006
अहं वक्ता भवाञ् श्रोता__व्ध_099.007
वाच्यो योगो विमुक्तिदः__व्ध_099.007
प्राणिनाम् उपकाराय__व्ध_099.007
संपद् एषा गुणाधिका__व्ध_099.007
परेण ब्रह्मणा सार्धम्__व्ध_099.008
एकत्वं यन् नृपात्मनः__व्ध_099.008
स एव योगो विख्यातः__व्ध_099.008
किम् अन्यद् योगलक्षणम्__व्ध_099.008
अपरं च परं चैव__व्ध_099.009
द्वौ योगौ पृथिवीपते__व्ध_099.009
तयोः स्वरूपं वक्ष्यामि__व्ध_099.009
तद् इहैकमनाः शृणु__व्ध_099.009
सत्तामात्रं परं ब्रह्म__व्ध_099.010
विष्ण्वाख्यम् अविशेषणम्__व्ध_099.010
दुर्विचिन्त्यं यतः पूर्वं__व्ध_099.010
तत्प्राप्त्यर्थम् अथोच्यते__व्ध_099.010
वातालीचञ्चलं चित्तम्__व्ध_099.011
अनालम्बनम् अस्थिति__व्ध_099.011
सूक्ष्मत्वाद् ब्रह्मणो राजन्न्__व्ध_099.011
अग्राह्य् अग्राह्यधर्मिणः__व्ध_099.011
सम्यग् अभ्यस्यतो ऽजस्रम्__व्ध_099.012
उपवृंहितशक्तिमत्__व्ध_099.012
जन्मान्तरशतैर् वापि__व्ध_099.012
ब्रह्मग्राह्य् अभिजायते__व्ध_099.012
यद्य् अन्तराय दोषेण__व्ध_099.013
नापकर्षो नराधिप__व्ध_099.013
योगिनो योगरूढस्य__व्ध_099.013
तालाग्रात् पतनं यथा__व्ध_099.013
ज्ञानं प्रयच्छतां सम्यक्__व्ध_099.*(152)
किं वदतु भवेन् नृप__व्ध_099.*(152)
तद् आप्नोति परं ब्रह्म__व्ध_099.014
क्लेशेन महता नृप__व्ध_099.014
जन्माभ्यासान्तरोत्थेन__व्ध_099.014
विज्ञानेन समेधितः__व्ध_099.014
विष्ण्वाख्यं ब्रह्म दुष्प्रापं__व्ध_099.015

विषयाकृष्टचेतसा__व्ध_099.015
मनुष्येणेति तत्प्राप्ताव्__व्ध_099.015
उपायम् अपरं शृणु__व्ध_099.015
सुरूपां प्रतिमां विष्णोः__व्ध_099.016
प्रसन्नवदनेक्षणाम्__व्ध_099.016
कृत्वात्मनः प्रीतिकरीं__व्ध_099.016
सुवर्णरजतादिभिः__व्ध_099.016
तस्याश् च लक्षणं भूप__व्ध_099.017
शृणुष्व गदतो मम__व्ध_099.017
यद्द्रव्या यत्स्वरूपा च__व्ध_099.017
कर्तव्या ध्यानकर्मणि__व्ध_099.017
सुवर्णरूप्यताम्रैस् तु__व्ध_099.018
आरकूटमयीं तथा__व्ध_099.018
शैलदारुमृदा वापि__व्ध_099.018
लेख्यजां वापि कारयेत्__व्ध_099.018
कार्यस् तु विष्णुर् भगवान्__व्ध_099.019
सौम्यरूपश् चतुर्भुजः__व्ध_099.019
सलिलाध्मातमेघाभः__व्ध_099.019
श्रीमाञ् श्रीवत्सभूषितः__व्ध_099.019
आबद्धमकुटः स्रग्वी__व्ध_099.020
हारभारार्पितोदरः__व्ध_099.020
स्वक्षेण चारुचिपुकः__व्ध_099.020
सुललाटेन सुभ्रुणा__व्ध_099.020
स्वोष्ठेन सुकपोलेन__व्ध_099.021
वदनेन विराजता__व्ध_099.021
कण्ठेन शुभलेखेन__व्ध_099.021
वराभरणधारिणा__व्ध_099.021
नानारत्नानतार्ताभ्यां__व्ध_099.022
श्रवणाभ्याम् अलंकृतः__व्ध_099.022
पुष्टश्लिष्टायतभुजस्__व्ध_099.022
तनुताम्रनखाङ्गुलिः__व्ध_099.022
मध्येन त्रिवलीभङ्ग-__व्ध_099.023
भूषितेन च चारुणा__व्ध_099.023
सुपादः सूरुयुगलः__व्ध_099.023
सुकटीगुल्फजानुकः__व्ध_099.023
वामपार्श्वे गदादेवी__व्ध_099.024
चक्रं देवस्य दक्षिणे__व्ध_099.024
शङ्खो वामकरे देयो__व्ध_099.024
दक्षिणे पद्म सुप्रभम्__व्ध_099.024
ऊर्ध्वदृष्टिम् अधोदृष्टिं__व्ध_099.025

तिर्यग्दृष्टिं न कारयेत्__व्ध_099.025
निमीलिताक्षो भगवान्__व्ध_099.025
न प्रशस्तो जनार्दनः__व्ध_099.025
सौम्या तु दृष्टिः कर्तव्या__व्ध_099.025
किंचित् प्रहसितेव च__व्ध_099.025
कार्यश् चरणविन्यासः__व्ध_099.026
सर्वतः सुप्रतिष्ठितः__व्ध_099.026
चरणान्तरसंस्था च__व्ध_099.026
बिभ्रती रूपम् उत्तमम्__व्ध_099.026
कार्या वसुंधरा देवी__व्ध_099.026
तत्पादतलधारिणी__व्ध_099.026
यादृग्विधा वा मनसः__व्ध_099.027
स्थैर्यलम्भोपपादिका__व्ध_099.027
नृसिंहवामनादीनां__व्ध_099.027
तादृशीं कारयेद् बुधः__व्ध_099.027
ब्रह्म तस्यां समारोप्य__व्ध_099.028
मनसा तन्मयो भवेत्__व्ध_099.028
ताम् आर्चयेत् तां प्रणमेत्__व्ध_099.028
तां स्मरेत् तां विचिन्तयेत्__व्ध_099.028
ताम् अर्चयंस् तां प्रणमंस्__व्ध_099.029
तां स्मरंस् तां च चिन्तयन्__व्ध_099.029
विशत्य् अपास्तदोषस् तु__व्ध_099.029
ताम् एव ब्रह्मरूपिणीम्__व्ध_099.029
संकल्पनक्रियारूढः__व्ध_099.030
स्वरूपेण नृपात्मनः__व्ध_099.030
कुर्वीत भावनां तत्र__व्ध_099.030
तद्भावोत्पत्तिकारणात्__व्ध_099.030
नान्यत्र मनसानेया__व्ध_099.030
बुद्धिर् ईषद् अपि क्वचित्__व्ध_099.030
यमैश् च नियमैश् चैव__व्ध_099.031
पूतात्मा पृथिवीश्वर__व्ध_099.031
मूर्तिं भगवतः संयक्__व्ध_099.031
पूजयेत् तन्मयः सदा__व्ध_099.031
यमांश् च नियमांश् चैव__व्ध_100.001
श्रोतुम् इच्छामि भार्गव__व्ध_100.001
यैर् धूतकल्मषो योगी__व्ध_100.001
मुक्तिभाग् उपजायते__व्ध_100.001
अहिंसा सत्यम् अस्तेयं__व्ध_100.002
ब्रह्मचर्यापरिग्रहौ__व्ध_100.002
यमास् तवैते कथिता__व्ध_100.002

नियमान् अपि मे शृणु__व्ध_100.002
संतोषशौचस्वाध्यायास्__व्ध_100.003
तपश् चेश्वरभावना__व्ध_100.003
नियमाः कौरवश्रेष्ठ__व्ध_100.003
योगसंसिद्धिहेतवः__व्ध_100.003
एभिर् मूलगुणैः सद्भिर्__व्ध_100.004
विष्णोर् भक्तिमतस् तथा__व्ध_100.004
श्रद्दधानस्य चान्यानि__व्ध_100.004
योगाङ्गानि निबोध मे__व्ध_100.004
मध्यमप्राणम् अचलं__व्ध_100.005
सुखदायि शुभं शुचि__व्ध_100.005
योगसंसिद्धये भूप__व्ध_100.005
योगिनाम् आसनं स्मृतम्__व्ध_100.005
प्राणायामस् त्रिधा वायोः__व्ध_100.006
प्राणस्य हृदि धारणम्__व्ध_100.006
कुम्भरेचकपूराख्यास्__व्ध_100.006
तस्य भेदास् त्रयो नृप__व्ध_100.006
एते निबोध मात्रास् तु__व्ध_100.007
नालम्बनगुणान्विताः__व्ध_100.007
सालम्बनश् चतुर्थो ऽन्यो__व्ध_100.007
बाह्यान्तर्विषयः स्मृतः__व्ध_100.007
इन्द्रियाणां स्वविषयाद्__व्ध_100.008
बुद्धिः प्रत्येकशस् तु यत्__व्ध_100.008
करोत्य् आहरणं ज्ञेयः__व्ध_100.008
प्रत्याहारः स पण्डितैः__व्ध_100.008
शुभे ह्य् एकत्र विषये__व्ध_100.009
चेतसो यच् च धारणम्__व्ध_100.009
निश्चलत्वात् तु सा सद्भिर्__व्ध_100.009
धारणेत्य् अभिधीयते__व्ध_100.009
पौनःपुन्येन तत्रैव__व्ध_100.010
विषये सैव धारणा__व्ध_100.010
ध्यानाख्या लभते राजन्__व्ध_100.010
समाधिम् अपि मे शृणु__व्ध_100.010
अर्थमात्रं च यद् ग्राह्ये__व्ध_100.011
चित्तम् आदाय पार्थिव__व्ध_100.011
अर्थस्वरूपवद् भाति__व्ध_100.011
समाधिः सो ऽभिधीयते__व्ध_100.011
कथितानि तवैतानि__व्ध_100.012
योगाङ्गानि कृतैस् तु यैः__व्ध_100.012
उत्कर्षो जायते व्यस्तैः__व्ध_100.012

समस्तैर् हेयसंक्षयः__व्ध_100.012
योगाङ्गान्य् अङ्गभूतानि__व्ध_100.013
ध्यानस्यैतान्य् अशेषतः__व्ध_100.013
ध्यानम् अप्य् अवनीपाल__व्ध_100.013
योगस्याङ्गत्वम् अर्छति__व्ध_100.013
ध्यानम् एकव्रतानां तु__व्ध_100.014
कुशलाकुशलेषु तत्__व्ध_100.014
अर्थेष्व् आशक्तिम् अभ्येति__व्ध_100.014
सर्वदैव नरेश्वर__व्ध_100.014
शुभाव्यावर्तितं ध्यानम्__व्ध_100.015
अविवेकस्य जायते__व्ध_100.015
संसारदुःखदं राजन्न्__व्ध_100.015
अशुभालम्बि तद् यतः__व्ध_100.015
तद् एवाकृष्य दुष्टेभ्यो__व्ध_100.016
विषयेभ्यः शुभाशुभम्__व्ध_100.016
सर्वसंसारकान्तार-__व्ध_100.016
पारम् अभ्येति मानवः__व्ध_100.016
दुःखदाघप्रशमने__व्ध_100.017
या चिन्ताहर्निशं नृणाम्__व्ध_100.017
तद्ध्यानम् अविशुद्धार्थं__व्ध_100.017
सुखदानाम् अपालने__व्ध_100.017
कथं संसारबन्धो ऽयम्__व्ध_100.018
अस्मान् मुक्तिः कथं त्व् इति__व्ध_100.018
मनोवृत्तिर् मनुष्याणां__व्ध_100.018
ध्यानम् एतच् छुभं द्विधा__व्ध_100.018
शुद्धम् अप्य् एतद् अखिलं__व्ध_100.019
लोभकार्यतयानया__व्ध_100.019
सुखाभिलाषो यन्मुक्तौ__व्ध_100.019
बन्धुदुःखादिपीडनात्__व्ध_100.019
अवाञ्छितफलं लोभम्__व्ध_100.020
अलोभांशविवर्जितम्__व्ध_100.020
शुभाशुभफलं ध्यानम्__व्ध_100.020
अरक्तं द्विष्टम् इष्यते__व्ध_100.020
दृष्टानुमानागमिकं__व्ध_100.021
ध्यानस्यालम्बनं त्रिधा__व्ध_100.021
न हि निर्विषयं ध्यानं__व्ध_100.021
मूढवृत्तिर् इवेष्यते__व्ध_100.021
प्राक् स्थूलेषु पदार्थेषु__व्ध_100.022
ततः सूक्ष्मेषु पण्डितः__व्ध_100.022
ध्यानं कुर्वीत तत्पश्चात्__व्ध_100.022

परमाणौ महीपते__व्ध_100.022
ध्यानाभ्यासपरस्यैवं__व्ध_100.023
हेयालम्बनबाधने__व्ध_100.023
तच्छान्तये तद्विपक्ष-__व्ध_100.023
भावनाम् एव भावयेत्__व्ध_100.023
तच्चित्तस् तन्मयो ज्ञानी__व्ध_100.024
भवत्य् अस्मान् न दोषवत्__व्ध_100.024
कुर्वीतालम्बनं काले__व्ध_100.024
कस्मिंश्चिद् अपि पार्थिव__व्ध_100.024
आब्रह्मस्तम्बपर्यन्त-__व्ध_100.025
जगदन्तर्व्यवस्थिताः__व्ध_100.025
प्राणिनः कर्मजनित-__व्ध_100.025
संस्कारवशवर्तिनः__व्ध_100.025
यतस् ततो न ते ध्याने__व्ध_100.026
ध्यानिनाम् उपकारकाः__व्ध_100.026
अविद्यान्तर्गताः सर्वे__व्ध_100.026
ते हि संसारगोचराः__व्ध_100.026
पश्चाद् उद्भूतबोधाश् च__व्ध_100.027
ध्याता नैवोपकारकाः__व्ध_100.027
नैसर्गिको न वै बोधस्__व्ध_100.027
तेषाम् अप्य् अन्यतो यतः__व्ध_100.027
तस्मात् तद् अमलं ब्रह्म__व्ध_100.028
निसर्गाद् एव बोधवत्__व्ध_100.028
ध्येयं ध्यानविदां सम्यग्__व्ध_100.028
यद् विष्णोः परमं पदम्__व्ध_100.028
न तद् यज्ञैर् न दानेन__व्ध_100.029
न तपोभिर् न तद् व्रतैः__व्ध_100.029
पश्यन्त्य् एकाग्रमनसो__व्ध_100.029
ध्यानेनैव सनातनम्__व्ध_100.029
तच् च विष्णोः परं रूपम्__व्ध_100.030
अनिर्देश्यम् अजं स्थिरम्__व्ध_100.030
यतः प्रवर्तते सर्वं__व्ध_100.030
लयम् अभ्येति यत्र च__व्ध_100.030
अनिद्रम् अजम् अस्वप्नम्__व्ध_100.031
अरूपानाम शाश्वतम्__व्ध_100.031
योगिनस् तं प्रपश्यन्ति__व्ध_100.031
ज्ञानदृश्यं सनातनम्__व्ध_100.031
निर्धूतपुण्यपापा ये__व्ध_100.*(153)
ते विशन्त्य् एवम् ईश्वरम्__व्ध_100.*(153)
तच् च सर्वगतं ब्रह्म__व्ध_100.032

विष्णुः सर्वेश्वरेश्वरः__व्ध_100.032
परमात्मा परः प्रोक्तः__व्ध_100.032
सर्वकारणकारणम्__व्ध_100.032
अनन्तशक्तिम् ईशेशं__व्ध_100.033
स्वप्रतिष्ठम् अनोपमम्__व्ध_100.033
योगिनस् तं प्रपश्यन्ति__व्ध_100.033
भगवन्तं सनातनम्__व्ध_100.033
यत्र सर्वं यतः सर्वं__व्ध_100.034
यः सर्वं सर्वतश् च यः__व्ध_100.034
योगिनस् तं प्रपश्यन्ति__व्ध_100.034
भगवन्तं सनातनम्__व्ध_100.034
सर्गादिकारणं यस्य__व्ध_100.035
स्वभावाद् एव शक्तयः__व्ध_100.035
योगिनस् तं प्रपश्यन्ति__व्ध_100.035
भगवन्तं सनातनम्__व्ध_100.035
निर्धूतपुण्यपापा यं__व्ध_100.036
विशन्त्य् अव्ययम् ईश्वरम्__व्ध_100.036
योगिनस् तं प्रपश्यन्ति__व्ध_100.036
भगवन्तं सनातनम्__व्ध_100.036
तत्र योगवतः सम्यक्__व्ध_100.037
पुरुषस्य नरेश्वर__व्ध_100.037
यद् उक्तं लक्षणं तन् मे__व्ध_100.037
गदतः श्रोतुम् अर्हसि__व्ध_100.037
ब्रह्मण्य् एव स्थितं चित्तं__व्ध_100.038
सर्वतः संनिवर्तितम्__व्ध_100.038
नान्यालम्बनसापेक्षं__व्ध_100.038
योगिनः सिद्धिकारकम्__व्ध_100.038
संस्थानम् अविकारेण__व्ध_100.039
चेतसो ब्रह्मसंस्थितौ__व्ध_100.039
निवात इव दीपस्य__व्ध_100.039
योगिनः सिद्धिलक्षणम्__व्ध_100.039
एवम् एकाग्रचित्तस्य__व्ध_100.040
पुण्यापुण्यम् अशेषतः__व्ध_100.040
प्रयाति संक्षयम् ऋते__व्ध_100.040
देहारम्भकरे नृप__व्ध_100.040
देहारम्भकरस्यापि__व्ध_100.041
कर्मणः संक्षयावहः__व्ध_100.041
यो योगः पृथिवीपाल__व्ध_100.041
शृणु तस्यापि लक्षणम्__व्ध_100.041
यत् तद् ब्रह्म परं प्रोक्तं__व्ध_100.042

विष्ण्वाख्यम् अजम् अव्ययम्__व्ध_100.042
चेतसः प्रलयस् तत्र__व्ध_100.042
योग इत्य् अभिधीयते__व्ध_100.042
योगसेवानिरोधेन__व्ध_100.043
प्रलीने तत्र चेतसि__व्ध_100.043
पुरुषः कारनाभावाद्__व्ध_100.043
भेदं नैवानुपश्यति__व्ध_100.043
परात्मनोर् मनुष्येन्द्र__व्ध_100.044
विभागो ज्ञानकल्पितः__व्ध_100.044
क्षये तस्यात्मपरयोर्__व्ध_100.044
विभागाभाग एव हि__व्ध_100.044
परमात्मात्मनोर् यो ऽयम्__व्ध_100.045
अविभागः परंतप__व्ध_100.045
स एव परमो योगः__व्ध_100.045
समासात् कथितस् तव__व्ध_100.045
यथा कमण्डलौ भिन्ने__व्ध_100.046
तत्तोयं सलिले गतम्__व्ध_100.046
व्रजत्य् ऐक्यं तथैवैतद्__व्ध_100.046
उभयं कारणक्षयात्__व्ध_100.046
यथाग्निर् अग्नौ संक्षिप्तः__व्ध_100.047
समानत्वम् अनुव्रजेत्__व्ध_100.047
तदाख्यस् तन्मयो भूत्वा__व्ध_100.047
गृह्यते न विशेषतः__व्ध_100.047
एवं ब्रह्मात्मनोर् योगाद्__व्ध_100.048
अकत्वम् उपपन्नयोः__व्ध_100.048
न भेदः कलशाकाश-__व्ध_100.048
नभसोर् इव जायते__व्ध_100.048
प्रक्षीणाशेषकर्मा तु__व्ध_100.049
यदा ब्रह्ममयः पुमान्__व्ध_100.049
तदा स्वरूपम् अस्योक्तेर्__व्ध_100.049
गोचरे नोपपद्यते__व्ध_100.049
घटध्वंसे घटाकाशं__व्ध_100.050
न भिन्नं नभसो यथा__व्ध_100.050
ब्रह्मणा हेयविध्वंसे__व्ध_100.050
विष्ण्वाख्येन पुमांस् तथा__व्ध_100.050
भिन्ने दृतौ यथा वायुर्__व्ध_100.051
नैवान्यः सह वायुना__व्ध_100.051
क्षीणपुण्याघबन्धस् तु__व्ध_100.051
तथात्मा ब्रह्मणा सह__व्ध_100.051
ततः समस्तकल्याण-__व्ध_100.052

समस्तसुखसंपदाम्__व्ध_100.052
आह्लादम् अन्यम् अतुलं__व्ध_100.052
कम् अप्य् आप्नोति शाश्वतम्__व्ध_100.052
ब्रह्मस्वरूपस्य तदा ह्य्__व्ध_100.053
आत्मनो नित्यदैव सः__व्ध_100.053
व्युत्तानकाले राजेन्द्र__व्ध_100.053
आस्ते हेयतिरोहितः__व्ध_100.053
आदर्शस्य मलाभावाद्__व्ध_100.054
वैमल्यं काशते यथा__व्ध_100.054
ज्ञानाग्निदग्धहेयस्य__व्ध_100.054
सो ऽह्लादो ह्य् आत्मनस् तथा__व्ध_100.054
यथा न क्रियते ज्योत्स्ना__व्ध_100.055
मलप्रक्षालनादिना__व्ध_100.055
दोषप्रहाणं न ज्ञानम्__व्ध_100.055
आत्मनः क्रियते तथा__व्ध_100.055
यथोदुपानकरणात्__व्ध_100.056
क्रियते न जलाम्बरम्__व्ध_100.056
सदैव नीयते व्यक्तिम्__व्ध_100.056
असतः संभवः कुतः__व्ध_100.056
यथा हेयगणध्वंसाद्__व्ध_100.057
अवबोधादयो गुणाः__व्ध_100.057
प्रकाश्यन्ते न जन्यन्ते__व्ध_100.057
नित्या एवात्मनो हिते__व्ध_100.057
ज्ञानवैराग्यम् ऐश्वर्यं__व्ध_100.058
धर्मश् च मनुजेश्वर__व्ध_100.058
आत्मनो ब्रह्मभूतस्य__व्ध_100.058
नित्यम् एव चतुष्टयम्__व्ध_100.058
एतद् अद्वैतम् आख्यातम्__व्ध_100.059
एष योगस् तवोदितः__व्ध_100.059
अयं विष्णुर् इदं ब्रह्म__व्ध_100.059
तथैतत् सत्यम् उत्तमम्__व्ध_100.059
पुनश् च श्रूयताम् एष__व्ध_100.060
संक्षेपाद् गदतो मम__व्ध_100.060
नानाद्वैकत्वविज्ञान-__व्ध_100.060
स्वरूपम् अवनीपते__व्ध_100.060
आत्मा क्षेत्रज्ञसंज्ञो ऽयं__व्ध_100.061
संयुक्तः प्राकृतैर् गुणैः__व्ध_100.061
तैर् एव विगतैः शुद्धः__व्ध_100.061
परमात्मा निगद्यते__व्ध_100.061
ध्येयं ब्रह्म पुमान् ध्याता__व्ध_100.062

उपायो ध्यानसंज्ञितः__व्ध_100.062
यस् त्व् एतत् करणेष्व् आस्ते__व्ध_100.062
तद्वर्गे का विभागता__व्ध_100.062
संक्षेपाद् अपि भूपाल__व्ध_100.063
संक्षेपन् अपरं शृणु__व्ध_100.063
पुत्राय यत् पिता ब्रूयात्__व्ध_100.063
स्वशिष्यायाथवा गुरुः__व्ध_100.063
न वासुदेवात् परम् अस्ति किंचिन्__व्ध_100.064
न वासुदेवाद् गदितं परं च__व्ध_100.064
सत्यं परं वासुदेवो ऽमितात्मा__व्ध_100.064
नमो नमो वासुदेवाय नित्यम्__व्ध_100.064
तस्मात् तम् आराधय चिन्तयेशम्__व्ध_100.065
अभ्यर्चयानन्तम् अतन्द्रितात्मा__व्ध_100.065
संसारपारं परम् ईप्समानैर्__व्ध_100.065
आराधनीयो हरिर् एक एव__व्ध_100.065
आराधितो ऽर्थान् धनकाङ्क्षकानां__व्ध_100.066
धर्मार्थिनां धर्मम् अशेषधर्मी__व्ध_100.066
ददाति कामांश् च मनोनिविष्टान्__व्ध_100.066
मोक्षार्थिनां मुक्तिद एव विष्णुः__व्ध_100.066
ममैतत् कथितं सम्यग्__व्ध_101.001
आत्मविद्याश्रितं मुने__व्ध_101.001
यत् त्व् अन्यच् छ्रोतुम् इच्छामि__व्ध_101.001
तत् प्रसन्नो वदस्व मे__व्ध_101.001
येयं मुक्तिर् भगवता__व्ध_101.002
प्रोक्ता वर्णक्रमान् मम__व्ध_101.002
तत्रेच्छामि मुने श्रोतुं__व्ध_101.002
वर्णाद् वर्णोत्तरोच्छ्रयम्__व्ध_101.002
शूद्रो वैश्यत्वम् अभ्येति__व्ध_101.003
कथं वैश्यश् च भार्गव__व्ध_101.003
क्षत्रियत्वं द्विजश्रेष्ठ__व्ध_101.003
ब्राह्मणत्वं कथं ततः__व्ध_101.003
विप्रत्वान् मुक्तियोग्यत्वं__व्ध_101.004
यथा याति महामुने__व्ध_101.004
तद् अहं श्रोतुम् इच्छामि__व्ध_101.004
त्वत्तो भार्गवनन्दन__व्ध_101.004
त्वद्युक्तो ऽयम् अनुप्रश्नः__व्ध_101.005
कुरुवर्य शृणुष्व तम्__व्ध_101.005
मयोच्यमानम् अखिलं__व्ध_101.005
वर्णानाम् उपकारकम्__व्ध_101.005
शूद्रधर्मान् अशेषेण__व्ध_101.006

कुर्वञ् शूद्रो यथाविधि__व्ध_101.006
वैश्यत्वम् एति वैश्यश् च__व्ध_101.006
क्षत्रियत्वं स्वकर्मकृत्__व्ध_101.006
विप्रत्वं क्षत्रियः सम्यग्__व्ध_101.007
द्विजधर्मपरो नृप__व्ध_101.007
विप्रश् च मुक्तिलाभेन__व्ध_101.007
युज्यते सत्क्रियापरः__व्ध_101.007
सर्वेषाम् एव वर्णानां__व्ध_101.008
स्वधर्मम् अनुवर्तताम्__व्ध_101.008
सदोच्छ्रितिर् न्यूनकृतो__व्ध_101.008
हानिश् चोत्कृष्टकर्मणः__व्ध_101.008
तेषां च ब्राह्मणादीनां__व्ध_101.009
वर्णधर्मान् अनुक्रमात्__व्ध_101.009
समुच्छ्रितिप्रदान् राजन्__व्ध_101.009
गदतो मे निशामय__व्ध_101.009
अनसूया दया क्षान्तिः__व्ध_101.010
शौचं मङ्गलम् अस्पृहा__व्ध_101.010
अकार्पण्यम् अनायासस्__व्ध_101.010
तथान्यः सार्ववर्णिकः__व्ध_101.010
अष्टाव् एते गुणाः पुंसां__व्ध_101.011
परत्रेह च भूतये__व्ध_101.011
भवन्ति कुरुशार्दूल__व्ध_101.011
पृथग्धर्मांश् च मे शृणु__व्ध_101.011
यज्ञाध्ययनदानानि__व्ध_101.012
ब्रह्मक्षत्रविशां नृप__व्ध_101.012
साधारणानि तेषां तु__व्ध_101.012
जीविकाकर्म कथ्यते__व्ध_101.012
याजनाध्यापनैर् विप्रस्__व्ध_101.013
तथा शस्तप्रतिग्रहैः__व्ध_101.013
भृत्यादिभरणं कुर्याद्__व्ध_101.013
यज्ञांश् च विभवे सति__व्ध_101.013
भृत्यादिभरणे नालं__व्ध_101.014
स्ववृत्त्या हि यदा द्विजः__व्ध_101.014
तदा जीवेत् समालम्ब्य__व्ध_101.014
वृत्तिं क्षत्रियवैश्ययोः__व्ध_101.014
संत्यजेत समस्तांस् तान्__व्ध_101.015
न कुर्याद् वृत्तिसंकरम्__व्ध_101.015
आपत्काले ऽपि विप्रस्य__व्ध_101.015
शूद्रकर्म न शस्यते__व्ध_101.015
प्रजानां पालनं सम्यग्__व्ध_101.016

विधिः प्रथमकल्पितः__व्ध_101.016
राजन्यस्य महीपाल__व्ध_101.016
शस्त्राजीवेन वा भृतिः__व्ध_101.016
तदुत्पन्नैर् धनैः कुर्यात्__व्ध_101.017
समस्ताः क्षत्रियक्रियाः__व्ध_101.017
तस्याप्य् आपदि वैश्यस्य__व्ध_101.017
या वृत्तिः सा विधीयते__व्ध_101.017
वाणिज्यं वैश्यजातस्य__व्ध_101.018
पशूनां पालनं कृषिः__व्ध_101.018
दद्याद् यजेच् च विधिवत्__व्ध_101.018
तदुत्पन्नधनेन सः__व्ध_101.018
द्विजातिजनशुश्रूषां__व्ध_101.019
क्रयविक्रयजैर् धनैः__व्ध_101.019
शूद्रो यजेत् पाकयज्ञैर्__व्ध_101.019
दद्याद् इष्टानि चार्थिनाम्__व्ध_101.019
तस्मै शुश्रूषवे देयं__व्ध_101.020
जीर्णवस्त्रम् उपानहौ__व्ध_101.020
छत्त्रादिकं तथा कुर्यात्__व्ध_101.020
सम्यग्धर्मोपपादनम्__व्ध_101.020
चतुर्णाम् अपि वर्णानां__व्ध_101.021
धर्मस् ते कथितो मया__व्ध_101.021
शृणुष्व च महीपाल__व्ध_101.021
धर्मम् आश्रमिणाम् अतः__व्ध_101.021
कृतोपनयनः पूर्वं__व्ध_101.022
ब्रह्मचारी गुरोर् गृहे__व्ध_101.022
गुरुशुश्रूषणं कुर्याद्__व्ध_101.022
भैक्षान्नकृतभोजनः__व्ध_101.022
निवेद्य गुरवे भैक्षम्__व्ध_101.023
अत्तव्यं तदनुज्ञया__व्ध_101.023
गुरोर् भुक्तवतः पश्चान्__व्ध_101.023
नातिस्वादुमुदावता__व्ध_101.023
वह्निशुश्रूषणं क्रुयाद्__व्ध_101.024
वेदाहरणम् एव च__व्ध_101.024
गुरोर् अर्थे सदा तोयं__व्ध_101.024
समिदाहरणं तथा__व्ध_101.024
पुष्पादीनां च कुर्वीत__व्ध_101.025
सुप्ते तस्मिञ् शयीत च__व्ध_101.025
शयने च समुत्तिष्ठेत्__व्ध_101.025
तं व्रजन्तम् अनुव्रजेत्__व्ध_101.025
आहूतश् च पठेत् तेन__व्ध_101.026

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc