भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 2140

प्रयच्छति हृषीकेशे__व्ध_003.044
तद्भावगतमानसः__व्ध_003.044
धूपांश् च विविधांस् तांस् तान्__व्ध_003.045
गन्धाढ्यं चानुलेपनम्__व्ध_003.045
दीपावल्युपहारांश् च__व्ध_003.045
यच् चाभीष्टम् अथात्मनः__व्ध_003.045
नरः सो ऽनुदिनं यज्ञं__व्ध_003.046
करोत्य् आराधनं हरेः__व्ध_003.046
यज्ञेशो भगवान् विष्णुर्__व्ध_003.046
मखैर् अपि हि तोष्यते__व्ध_003.046
बहूपकरणा यज्ञा__व्ध_003.047
नानासंभारविस्तराः__व्ध_003.047
प्राप्यन्ते ते धनयुतैर्__व्ध_003.047
मनुष्यैर् नाल्पसंचयैः__व्ध_003.047
भक्त्या च पुरुषैः पूजा__व्ध_003.048
कृता दूर्वाङ्कुरैर् अपि__व्ध_003.048
हरेर् ददाति हि फलं__व्ध_003.048
सर्वयज्ञैः सुदुर्लभम्__व्ध_003.048
यानि पुष्पाणि हृद्यानि__व्ध_003.049
धूपगन्धानुलेपनम्__व्ध_003.049
दयितं भूषणं यच् च__व्ध_003.049
ये च कौशेयवाससी__व्ध_003.049
यानि चाभ्यवहाराणि__व्ध_003.050
भक्ष्याणि च फलानि च__व्ध_003.050
प्रयच्छ तानि गोविन्दे__व्ध_003.050
भवेथाश् चैव तन्मनाः__व्ध_003.050
आद्यन्तं यज्ञपुरुषं__व्ध_003.051
यथाशक्त्या प्रसादय__व्ध_003.051
आराध्य याति तं देवं__व्ध_003.051
तस्मिन्न् एव नरो लयम्__व्ध_003.051
पुण्यैस् तीर्थोदकैर् गन्धैर्__व्ध_003.052
मधुना सर्पिषा तथा__व्ध_003.052
क्षीरेण स्नापयेद् ईशम्__व्ध_003.052
अच्युतं जगतः पतिम्__व्ध_003.052
दधिक्षीरह्रदान् पुण्यांस्__व्ध_003.053
ततो लोकान् मधुच्युतः__व्ध_003.053
प्रयास्यस्य् असुरश्रेष्ठ__व्ध_003.053
निर्वृतिं चापि शाश्वतीम्__व्ध_003.053
स्तोत्रैर् गीतैस् तथा वाद्यैर्__व्ध_003.054
ब्राह्मणानां च तर्पणैः__व्ध_003.054

मनसश् चैकतायोगाद्__व्ध_003.054
आराधय जनार्दनम्__व्ध_003.054
आराध्य तं विदेहानां__व्ध_003.055
पुरुषाः सप्तसप्ततिः__व्ध_003.055
हैहयाः पञ्चपञ्चाशद्__व्ध_003.055
अमृतत्वम् उपागताः__व्ध_003.055
स त्वम् एभिः प्रकारैस् तम्__व्ध_003.056
उपवासैश् च केशवम्__व्ध_003.056
तोषयाद्यो हि तुष्टो ऽसौ__व्ध_003.056
विष्णुर् द्वन्द्वप्रशान्तिदः__व्ध_003.056
उपवासैर् हृषीकेशः__व्ध_004.001
कथं तुष्यति भार्गव__व्ध_004.001
परिहारांस् तथाचक्ष्व__व्ध_004.001
ये त्याज्याश् चोपवासिनाम्__व्ध_004.001
यद् यत् कार्यं यथा चैव__व्ध_004.002
केशवाराधने नरैः__व्ध_004.002
तत् सर्वं विस्तराद् ब्रह्मन्__व्ध_004.002
यथावद् वक्तुम् अर्हसि__व्ध_004.002
स्मृतः संपूजितो धूप-__व्ध_004.003
पुष्पाद्यैर् दयितैर् हरिः__व्ध_004.003
भोगिनाम् उपकाराय__व्ध_004.003
किं पुनश् चोपवासिनाम्__व्ध_004.003
उपावृत्तस् तु पापेभ्यो__व्ध_004.004
यस् तु वासो गुणैः सह__व्ध_004.004
उपवासः स विज्ञेयः__व्ध_004.004
सर्वभोगविवर्जितः__व्ध_004.004
एकरात्रं द्विरात्रं वा__व्ध_004.005
त्रिरात्रम् अथवापरम्__व्ध_004.005
उपवासी हरिं यस् तु__व्ध_004.005
भक्त्या ध्यायति मानवः__व्ध_004.005
तन्नामजापी तत्कर्म-__व्ध_004.006
रतिस् तद्गतमानसः__व्ध_004.006
निष्कामो दैत्य स ब्रह्म__व्ध_004.006
परम् आप्नोत्य् असंशयम्__व्ध_004.006
यं च कामम् अभिध्यायन्__व्ध_004.007
केशवार्पितमानसः__व्ध_004.007
उपोष्यति तम् आप्नोति__व्ध_004.007
प्रसन्ने गरुडध्वजे__व्ध_004.007
कथ्यते च पुरा विप्रः__व्ध_004.008
पुलस्त्यो ब्रह्मवादिना__व्ध_004.008

दाल्भ्येन पृष्टो ऽकथयद्__व्ध_004.008
यथैतद् अरिसूदन__व्ध_004.008
ब्राह्मणैः क्षत्रियैर् वैश्यैः__व्ध_004.009
शूद्रैः स्त्रीभिस् तथा मुने__व्ध_004.009
संसारगर्तपङ्कस्थैः__व्ध_004.009
सुगतिः प्राप्यते कथम्__व्ध_004.009
अनाराध्य जगन्नाथं__व्ध_004.010
सर्वधातारम् अच्युतम्__व्ध_004.010
निर्व्यलीकेन चित्तेन__व्ध_004.010
कः प्रयास्यति सद्गतिम्__व्ध_004.010
विषयग्राहि वै यस्य__व्ध_004.011
न चित्तं केशवार्पितम्__व्ध_004.011
स कथं पापपङ्काङ्की__व्ध_004.011
नरो यास्यति सद्गतिम्__व्ध_004.011
यदि संसारदुःखार्तः__व्ध_004.012
सुगतिं गन्तुम् इच्छसि__व्ध_004.012
तदाराधय सर्वेशं__व्ध_004.012
जगद्धातारम् अच्युतम्__व्ध_004.012
पुष्पैः सुगन्धैर् हृद्यैश् च__व्ध_004.013
धूपैः सागरुचन्दनैः__व्ध_004.013
वासोभिर् भूषणैर् भक्ष्यैर्__व्ध_004.013
उपवासपरायणः__व्ध_004.013
यदि संसारनिर्वेदाद्__व्ध_004.014
अभिवाञ्छसि सद्गतिम्__व्ध_004.014
तदाराधय गोविन्दं__व्ध_004.014
यच् चेष्टं तव चेतसि__व्ध_004.014
पुष्पाणि यदि ते न स्युः__व्ध_004.015
शस्तं पादपपल्लवैः__व्ध_004.015
दूर्वाङ्कुरैर् अपि ब्रह्मंस्__व्ध_004.015
तदभावे ऽर्चयाच्युतम्__व्ध_004.015
सुगन्धिपुष्पदीपाद्यैर्__व्ध_004.*(3)
यः कुर्यात् केशवालये__व्ध_004.*(3)
सर्वतीर्थफलं तस्य__व्ध_004.*(3)
संभवेत् केशवार्चया__व्ध_004.*(3)
सबाह्याभ्यन्तरं यस् तु__व्ध_004.*(3)
मार्जयेद् अच्युतालयम्__व्ध_004.*(3)
सबाह्याभ्यन्तरं तस्य__व्ध_004.*(3)
कायो निष्कल्मषो भवेत्__व्ध_004.*(3)
पुष्पपत्राम्बुभिर् धूपैर्__व्ध_004.016
यथाविभवम् अच्युतः__व्ध_004.016

पूजितस् तुष्टिम् अतुलां__व्ध_004.016
भक्त्यायात्य् एकचेतसाम्__व्ध_004.016
यः सदायतने विष्णोः__व्ध_004.017
कुरुते मार्जनक्रियाम्__व्ध_004.017
स पांसुभूमेर् देहाच् च__व्ध_004.017
सर्वपापं व्यपोहति__व्ध_004.017
यावन्त्यः पांसुकणिका__व्ध_004.018
मार्ज्यन्ते केशवालये__व्ध_004.018
दिनानि दिवि तावन्ति__व्ध_004.018
तिष्ठत्य् अस्तमलो नरः__व्ध_004.018
अहन्य् अहनि यत् पापं__व्ध_004.019
कुरुते द्विजसत्तम__व्ध_004.019
गोचर्ममात्रं संमार्ज्य__व्ध_004.019
हन्ति तत् केशवालये__व्ध_004.019
यश् चोपलेपनं कुर्याद्__व्ध_004.020
विष्णोर् आयतने नरः__व्ध_004.020
सो ऽपि लोकं समासाद्य__व्ध_004.020
मोदते च शतक्रतोः__व्ध_004.020
मृदा धातुविकारैर् वा__व्ध_004.021
वर्णकैर् गोमयेन वा__व्ध_004.021
उपलेपनकृद् याति__व्ध_004.021
विमानं मणिचित्रितम्__व्ध_004.021
उदकाभ्युक्षणं विष्णोर्__व्ध_004.022
यः करोति तथा गृहे__व्ध_004.022
सो ऽपि गच्छति यत्रास्ते__व्ध_004.022
भगवान् यादसां पतिः__व्ध_004.022
पुष्पप्रकरम् अत्यर्थं__व्ध_004.023
सुगन्धं केशवालये__व्ध_004.023
उपलिप्ते नरो दत्त्वा__व्ध_004.023
न दुर्गतिम् अवाप्नुयात्__व्ध_004.023
विमानम् अतिविद्योति__व्ध_004.024
सर्वरत्नमयं दिवि__व्ध_004.024
समाप्नोति नरो दत्त्वा__व्ध_004.024
दीपकं केशवालये__व्ध_004.024
यस् तु संवत्सरं पूर्णं__व्ध_004.025
तिलपात्रप्रदो नरः__व्ध_004.025
ध्वजं तु विष्णवे दद्यात्__व्ध_004.025
समम् एतत् फलं द्विज__व्ध_004.025
विधुन्वन् हन्ति वातेन__व्ध_004.026
दातुर् अज्ञानतः कृतम्__व्ध_004.026

पापं केतुर् गृहे विष्णोर्__व्ध_004.026
दिवारात्रम् असंशयम्__व्ध_004.026
गीतवाद्यादिभिर् देवं__व्ध_004.027
य उपास्ते जनार्दनम्__व्ध_004.027
गान्धर्वैर् गीतनृत्यैः स__व्ध_004.027
विमानस्थो निषेव्यते__व्ध_004.027
जातिस्मरत्वं मेधां च__व्ध_004.028
तथैवोपरमे स्मृतिम्__व्ध_004.028
प्राप्नोति विष्ण्वायतने__व्ध_004.028
पुण्याख्यानकथाकरः__व्ध_004.028
उपोषितः पूजितो वा__व्ध_004.*(4)
दृष्टो वा नमितो ऽपि वा__व्ध_004.*(4)
प्रदम्भ हरते (?) पापं__व्ध_004.*(4)
को न सेवेद् धरिं ततः__व्ध_004.*(4)
वेदवादक्रियायज्ञ-__व्ध_004.*(4)
स्नानतीर्थफलं परम्__व्ध_004.*(4)
अष्टाङ्गप्रणिपातेन__व्ध_004.*(4)
प्रणिपत्य हरिं लभेत्__व्ध_004.*(4)
प्रगम्य हृदा शिरसा__व्ध_004.*(4)
पादपद्मे महीतले__व्ध_004.*(4)
निष्कल्मषो भवेत् सद्यो__व्ध_004.*(4)
न नाटी पादपांसुना__व्ध_004.*(4)
एकस्य कृष्णस्य क्राजतः प्रणामो__व्ध_004.*(4)
दशाश्वमेधावभृथेन तुल्यः__व्ध_004.*(4)
दशाश्वमेधैः पुनर् एति जन्म__व्ध_004.*(4)
कृष्णप्रणामी न पुनर्भवाय__व्ध_004.*(4)
एवं देवेश्वरो भक्त्या__व्ध_004.029
येन विष्णुर् उपासितः__व्ध_004.029
स प्राप्नोति गतिं श्लाघ्यां__व्ध_004.029
यां याम् इच्छति चेतसा__व्ध_004.029
देवत्वं मनुजैः कैश्चिद्__व्ध_004.030
गन्धर्वत्वं तथापरैः__व्ध_004.030
विद्याधरत्वम् अपरैर्__व्ध_004.030
आराध्याप्तं जनार्दनम्__व्ध_004.030
शक्रः क्रतुशतेनेशम्__व्ध_004.031
आराध्य गरुडध्वजम्__व्ध_004.031
देवेन्द्रत्वं गतस् तस्मान्__व्ध_004.031
नान्यः पूज्यतमः क्वचित्__व्ध_004.031
देवेभ्यो ऽपि हि पूज्यस् तु__व्ध_004.032
स्वगुरुर् ब्रह्मचारिणः__व्ध_004.032

तस्यापि यज्ञपुरुषो__व्ध_004.032
विष्णुः पूज्यो द्विजोत्तम__व्ध_004.032
स्त्रियश् च भर्तारम् ऋते__व्ध_004.033
पूज्यम् अन्यन् न दैवतम्__व्ध_004.033
भर्तुर् गृहस्थस्य सतः__व्ध_004.033
पूज्यो यज्ञपतिर् हरिः__व्ध_004.033
वैखानसानाम् आराध्यस्__व्ध_004.034
तपोभिर् मधुसूदनः__व्ध_004.034
ध्येयः परिव्राजकानां__व्ध_004.034
वासुदेवो महात्मनाम्__व्ध_004.034
एवं सर्वाश्रमाणां हि__व्ध_004.035
वासुदेवः परायणम्__व्ध_004.035
सर्वेषां चैव वर्णानां__व्ध_004.035
तम् आराध्याप्नुयाद् गतिम्__व्ध_004.035
शृणुष्व गदतः काम्याम्__व्ध_004.036
उपवासांस् तथापरान्__व्ध_004.036
तत् तम् आश्रित्य यान् कामान्__व्ध_004.036
कुर्वीतेप्सितम् आत्मनः__व्ध_004.036
एकादश्यां शुक्लपक्षे__व्ध_004.037
फाल्गुने मासि यो नरः__व्ध_004.037
जपेत् कृष्णेति देवस्य__व्ध_004.037
नाम भक्त्या पुनःपुनः__व्ध_004.037
देवार्चने चाष्टशतं__व्ध_004.038
कृत्वैतत् तु जपेच् छुचिः__व्ध_004.038
प्रातः प्रस्थानकाले च__व्ध_004.038
उत्थाने स्खलिते क्षुते__व्ध_004.038
पाषण्डपतितांश् चैव__व्ध_004.039
तथैवान्त्यावसायिनः__व्ध_004.039
नालपेत तथा कृष्णम्__व्ध_004.039
अर्चयेच् छ्रद्धयान्वितः__व्ध_004.039
इदं चोदाहरेत् कृष्णे__व्ध_004.039
मनः संधाय तत्परः__व्ध_004.039
कृष्ण कृष्ण कृपालुस् त्वम्__व्ध_004.040
अगतीनां गतिर् भव__व्ध_004.040
संसारान्तर्निमग्नानां__व्ध_004.040
प्रसीद मधुसूदन__व्ध_004.040
एवं प्रसाद्योपावासं__व्ध_004.041
कृत्वा नियतमानसः__व्ध_004.041
पूर्वाह्न एव चान्येद्युर्__व्ध_004.041
गव्यं संप्रास्य वै सकृत्__व्ध_004.041

स्नातो ऽर्चयित्वा कृष्णेति__व्ध_004.041
पुनर् नाम प्रकीर्तयेत्__व्ध_004.041
वारिधारात्रयं चैव__व्ध_004.042
विक्षिपेद् देवपादयोः__व्ध_004.042
चैत्रवैशाखयोश् चैव__व्ध_004.042
तद्वज् ज्येष्ठे तु पूजयेत्__व्ध_004.042
मर्त्यलोके गतिं श्रेष्ठां__व्ध_004.043
दाल्भ्य प्राप्नोति वै नरः__व्ध_004.043
उत्क्रान्तिकाले कृष्णस्य__व्ध_004.043
स्मरणं च तथाप्नुते__व्ध_004.043
आषाढे श्रावणे चैव__व्ध_004.044
मासे भाद्रपदे तथा__व्ध_004.044
तथैवाश्वयुजे देवम्__व्ध_004.044
अनेन विधिना नरः__व्ध_004.044
उपोष्य संपूज्य तथा__व्ध_004.045
केशवेति च कीर्तयेत्__व्ध_004.045
गोमूत्रप्राशनात् पूर्वं__व्ध_004.045
स्वर्गलोकगतिं व्रजेत्__व्ध_004.045
आराधितस्य जगताम्__व्ध_004.046
ईश्वरस्याव्यायात्मनः__व्ध_004.046
उत्क्रान्तिकाले स्मरणं__व्ध_004.046
केशवस्य तथाप्नुयात्__व्ध_004.046
क्षीरस्य प्राशनं यस् तु__व्ध_004.047
विधिं चेमं यथोदितम्__व्ध_004.047
कार्त्तिकादि यथान्यायं__व्ध_004.047
कुर्यान् मासचतुष्टयम्__व्ध_004.047
तेनैव विधिना ब्रह्मन्__व्ध_004.048
विष्णोर् नाम प्रकीर्तयेत्__व्ध_004.048
स याति विष्णुसालोक्यं__व्ध_004.048
विष्णुं स्मरति च क्षये__व्ध_004.048
प्रतिमासं द्विजातिभ्यो__व्ध_004.049
दद्याद् दानं यथेच्छया__व्ध_004.049
चातुर्मास्ये च संपूर्णे__व्ध_004.049
पुण्यं श्रवणकीर्तनम्__व्ध_004.049
कथां वा वासुदेवस्य__व्ध_004.050
तद्गीतीर् वापि कारयेत्__व्ध_004.050
एवम् एतां गतिं श्रेष्ठां__व्ध_004.050
देवनामानुकीर्तनात्__व्ध_004.050
कथितं पारणं यत् ते__व्ध_004.051
कार्ष्णं मासचतुष्टयम्__व्ध_004.051

आधिपत्यं तथा भोगांस्__व्ध_004.051
तेन प्राप्नोति मानुषान्__व्ध_004.051
द्वितीयेन तथा भोगान्__व्ध_004.052
ऐन्द्रान् प्राप्नोति मानवः__व्ध_004.052
विष्णोर् लोकं तृतीयेन__व्ध_004.052
पारणेन तथाप्नुयात्__व्ध_004.052
एवम् एतत् समाख्यातं__व्ध_004.053
गतिप्रापकम् उत्तमम्__व्ध_004.053
विधानं द्विजशार्दूल__व्ध_004.053
कृष्णतुष्टिप्रदं नृणाम्__व्ध_004.053
सुगतिद्वादशीम् एतां__व्ध_004.054
श्रद्दधानस् तु यो नरः__व्ध_004.054
उपोष्य च तथा नारी__व्ध_004.054
प्राप्नोति त्रिविधां गतिम्__व्ध_004.054
एषा धन्या पापहरा__व्ध_004.055
तिथिर् नित्यम् उपासिता__व्ध_004.055
आराधनाय शिष्टैषा__व्ध_004.055
देवदेवस्य चक्रिणः__व्ध_004.055
पञ्चदश्यां च शुक्लस्य__व्ध_005.001
फाल्गुनस्यैव सत्तम__व्ध_005.001
पाषण्डपतितांश् चैव__व्ध_005.001
तथैवान्त्यावसायिनः__व्ध_005.001
नास्तिकान् भिन्नवृत्तींश् च__व्ध_005.002
पापिनश् चाप्य् अनालपन्__व्ध_005.002
नारायणे गतमनाः__व्ध_005.002
पुरुषो नियतेन्द्रियः__व्ध_005.002
तिष्ठन् व्रजन् प्रस्खलिते__व्ध_005.003
क्षुते वापि जनार्दनम्__व्ध_005.003
कीर्तयेत् तत्क्रियाकाले__व्ध_005.003
सप्तकृत्वः प्रकीर्तयेत्__व्ध_005.003
लक्ष्म्या समन्वितं देवम्__व्ध_005.004
अर्चयेच् च जनार्दनम्__व्ध_005.004
संध्याव्युपरमे चेन्दु-__व्ध_005.004
स्वरूपं हरिम् ईश्वरम्__व्ध_005.004
रात्रिं च लक्ष्मीं संचिन्त्य__व्ध_005.005
सम्यग् अर्घ्येन पूजयेत्__व्ध_005.005
नक्तं च भुञ्जीत नरस्__व्ध_005.005
तैलक्षारविवर्जितम्__व्ध_005.005
तथैव चैत्रवैशाख-__व्ध_005.006
ज्येष्ठेषु मुनिसत्तम__व्ध_005.006

अर्चयीत यथाप्रोक्तं__व्ध_005.006
प्राप्ते प्राप्ते तु तद्दिने__व्ध_005.006
निष्पादितं भवेद् एकम्__व्ध_005.007
पारणं दाल्भ्य भक्तितः__व्ध_005.007
द्वितीयं चापि वक्ष्यामि__व्ध_005.007
पारणं द्विजसत्तम__व्ध_005.007
आषाढे श्रावणे मासि__व्ध_005.008
प्राप्ते भाद्रपदे तथा__व्ध_005.008
तथैवाश्वयुजे ऽभ्यर्च्य__व्ध_005.008
श्रीधरं च श्रिया सह__व्ध_005.008
सम्यक् चन्द्रमसे दत्त्वा__व्ध_005.009
भुञ्जीतार्घ्यं यथाविधि__व्ध_005.009
द्वितीयम् एतद् आख्यातं__व्ध_005.009
तृतीयं पारणं शृणु__व्ध_005.009
कार्त्तिकादिषु मासेषु__व्ध_005.010
तथैवाभ्यर्च्य केशवम्__व्ध_005.010
भूत्या समन्वितं दद्याच्__व्ध_005.010
शशाङ्कायार्हनं निशि__व्ध_005.010
भुञ्जीत च तथा प्रोक्तं__व्ध_005.011
तृतीयम् इति पारणम्__व्ध_005.011
प्रतिपूजासु दद्याच् च__व्ध_005.011
ब्राह्मणेभ्यश् च दक्षिणाम्__व्ध_005.011
प्रतिमासं च वक्ष्यामि__व्ध_005.012
प्राशनं कायशोधनम्__व्ध_005.012
चतुरः प्रथमान् मासान्__व्ध_005.012
पञ्चगव्यम् उदाहृतम्__व्ध_005.012
कुशोदकं तथैवान्यद्__व्ध_005.013
उक्तं मासचतुष्टयम्__व्ध_005.013
सूर्यांशुतप्तं तद्वच् च__व्ध_005.013
जलं मासचतुष्टयम्__व्ध_005.013
गीतवाद्यादिकं पाठ्यं__व्ध_005.014
तथा कृष्णस्य वा कथान्__व्ध_005.014
कारियीत च देवस्य__व्ध_005.014
पारणे पारणे गते__व्ध_005.014
एवं संपूज्य विधिवत्__व्ध_005.015
सपत्नीकं जनार्दनम्__व्ध_005.015
नाप्नोतीष्तवियोगादीन्__व्ध_005.015
पुमान् योषिद् अथापि वा__व्ध_005.015
जनार्दनं सलक्ष्मीकम्__व्ध_005.016
अर्चयेत् प्रथमं ततः__व्ध_005.016

सश्रीकं श्रीधरं भक्त्या__व्ध_005.016
तृतीये भूतिकेशवौ__व्ध_005.016
यावन्त्य् एतद्विधानेन__व्ध_005.017
पारणेनार्चति प्रभुम्__व्ध_005.017
तावन्ति जन्मान्य् असुखं__व्ध_005.017
नाप्नोतीष्टवियोगजम्__व्ध_005.017
देवस्य च प्रसादेन__व्ध_005.018,*(6)
मरणे प्राप्य तत्स्मृतिम्__व्ध_005.018,*(6)
कुले सतां स्फीतधने__व्ध_005.018
भोगभुज् जायते नरः__व्ध_005.018
नारिं प्राप्नोति न व्याधिं__व्ध_005.*(5)
नरकं च न पश्यति__व्ध_005.*(5)
दुर्गमं यममार्गं च__व्ध_005.*(5)
नेक्षते द्विजसत्तम__व्ध_005.*(5)
श्रोतुम् इच्छाम्य् अहं तात__व्ध_005.019
यममार्गं सुदुर्गमम्__व्ध_005.019
यथा सुखेन संयान्ति__व्ध_005.019
मानवास् तद् वदस्व मे__व्ध_005.019
प्रतिमासं तु नामानि__व्ध_005.020
कृष्णस्यैतानि द्वादश__व्ध_005.020
कृतोपवासः सुस्नातः__व्ध_005.020
पूजयित्वा जनार्दनम्__व्ध_005.020
उच्चारयन् नरो ऽभ्येति__व्ध_005.020
सुसुखेनैव तत्पथम्__व्ध_005.020
ततो विप्राय वै दद्याद्__व्ध_005.021
उदकुम्भं सदक्षिणं__व्ध_005.021
उपानद्वस्त्रयुग्मं च__व्ध_005.021
छत्त्रं कनकम् एव च__व्ध_005.021
यद् वै मासगतं नाम__व्ध_005.022
तत्प्रीतिश् चापि संवदेत्__व्ध_005.022
संवत्सरान्ते ऽप्य् अथवा__व्ध_005.022
प्रतिमासं द्विजान् बुधः__व्ध_005.022
वाचयेद् उदकुम्भाद्यैर्__व्ध_005.022
दानैः सर्वान् अनुक्रमात्__व्ध_005.022
केशवं मार्गशीर्षे तु__व्ध_005.023
पौषे नारायणं तथा__व्ध_005.023
माधवं माघमासे तु__व्ध_005.023
गोविन्दं फाल्गुने तथा__व्ध_005.023
विष्णुं चैत्रे ऽथ वैशाखे__व्ध_005.024
तथैव मधुसूदनम्__व्ध_005.024

ज्येष्ठे त्रिविक्रमं देवम्__व्ध_005.024
आषाढे वामनं तथा__व्ध_005.024
श्रावणे श्रीधरं चैव__व्ध_005.025
हृषीकेशेति चापरम्__व्ध_005.025
नाम भाद्रपदे मासि__व्ध_005.025
गीयते पुण्यकाङ्क्षिभिः__व्ध_005.025
पद्मनाभं चाश्वयुजे__व्ध_005.026
दामोदरम् अतः परम्__व्ध_005.026
कार्त्तिके देवदेवेशं__व्ध_005.026
स्तुवंस् तरति दुर्गतिम्__व्ध_005.026
इह वै स्वस्थतां प्राप्य__व्ध_005.027
मरणे स्मरणं ततः__व्ध_005.027
याम्यक्लेशम् असंप्राप्य__व्ध_005.027
स्वर्गलोके महीयते__व्ध_005.027
ततो मानुष्यम् आसाद्य__व्ध_005.028
निरातङ्को गतज्वरः__व्ध_005.028
धनधान्यवति स्फीते__व्ध_005.028
जन्म साधुकुले ऽर्हति__व्ध_005.028
उपवासव्रतानीह__व्ध_006.001
केशवाराधनं प्रति__व्ध_006.001
ममाचक्ष्व महाभाग__व्ध_006.001
परं कौतूहलं हि मे__व्ध_006.001
कामान् यान् यान् नरो भक्तो__व्ध_006.002
मनसेच्छति केशवात्__व्ध_006.002
व्रतोपवासनात् प्रीतस्__व्ध_006.002
तांस् तान् विष्णुः प्रयच्छति__व्ध_006.002
रत्नपर्वतम् आरुह्य__व्ध_006.003
यथा रत्नं महामुने__व्ध_006.003
सत्त्वानुरूपम् अदत्ते__व्ध_006.003
तथा कृत्स्नान् मनोरथान्__व्ध_006.003
मार्गशीर्षं तु यो मासम्__व्ध_006.004
एकभक्तेन यः क्षपेत्__व्ध_006.004
कुर्वन् वै विष्णुशुश्रूषां__व्ध_006.004
स देशे जायते शुभे__व्ध_006.004
पौषमासं तथा दाल्भ्य__व्ध_006.005
एकभक्तेन यः क्षपेत्__व्ध_006.005
शुश्रूषणपरः शौरेर्__व्ध_006.005
न रोगी स च जायते__व्ध_006.005
माघमासं द्विजश्रेष्ठ__व्ध_006.006
एकभक्तेन यः क्षपेत्__व्ध_006.006

विष्णुशुश्रूषणपरः__व्ध_006.006
स कुले जायते सताम्__व्ध_006.006
क्षपयेद् एकभक्तेन__व्ध_006.007
शुश्रूषुर् यश् च फाल्गुनम्__व्ध_006.007
सौभाग्यं स्वजनानां स__व्ध_006.007
सर्वेषाम् एति सोन्नतिम्__व्ध_006.007
चैत्रं विष्णुपरो मासम्__व्ध_006.008
एकभक्तेन यः क्षपेत्__व्ध_006.008
सुवर्णमणिमुक्ताढ्यं__व्ध_006.008
स गार्हस्थ्यम् अवाप्नुयात्__व्ध_006.008
यः क्षपेद् एकभक्तेन__व्ध_006.009
वैशाखं पूजयन् हरिम्__व्ध_006.009
नरो वा यदि वा नारी__व्ध_006.009
ज्ञातीनां श्रेष्ठतां व्रजेत्__व्ध_006.009
कृष्णार्पितमना ज्येष्ठम्__व्ध_006.010
एकभक्तेन यः क्षपेत्__व्ध_006.010
ऐश्वर्यम् अतुलं श्रेष्ठं__व्ध_006.010
पुमान् स्त्री वाभिजायते__व्ध_006.010
आषाढम् एकभक्तेन__व्ध_006.011
यो नयेद् विष्णुतन्मनाः__व्ध_006.011
बहुधान्यो बहुधनो__व्ध_006.011
बहुपुत्रश् च जायते__व्ध_006.011
क्षपयेद् एकभक्तेन__व्ध_006.012
श्रावणं विष्णुतत्परः__व्ध_006.012
धनधान्यहिरण्याढ्ये__व्ध_006.012
कुले स ज्ञातिवर्धनः__व्ध_006.012
एकाहारो भाद्रपदं__व्ध_006.013
यश् च कृष्णपरायणः__व्ध_006.013
धनाढ्यं स्फीतम् अचलम्__व्ध_006.013
ऐश्वर्यं प्रतिपद्यते__व्ध_006.013
नयंश् चाश्वयुजं विष्णुं__व्ध_006.014
पूजयेद् एकभोजनः__व्ध_006.014
धनवान् वाहनाढ्यश् च__व्ध_006.014
बहुपुत्रश् च जायते__व्ध_006.014
कार्त्तिके चैकदा भुङ्क्ते__व्ध_006.015
यश् च विष्णुपरो नरः__व्ध_006.015
शूरश् च कृतविद्यश् च__व्ध_006.015
बहुपुत्रश् च जायते__व्ध_006.015
यस् तु संवत्सरं पूर्णम्__व्ध_006.016
एकभक्तो भवेन् नरः__व्ध_006.016

अहिंसः सर्वभूतेषु__व्ध_006.016
वासुदेवपरायणः__व्ध_006.016
नमो ऽस्तु वासुदेवायेत्य्__व्ध_006.017
अहश् चाष्टशतं जपेत्__व्ध_006.017
अतिरात्रस्य यज्ञस्य__व्ध_006.017
ततः फलम् अवाप्नुयात्__व्ध_006.017
दश वर्षसहस्राणि__व्ध_006.018
स्वर्गलोके महीयते__व्ध_006.018
तत्क्षयाद् इह चागत्य__व्ध_006.018
माहात्म्यं प्रतिपद्यते__व्ध_006.018
ब्राह्मणः क्षत्रियो वैश्यः__व्ध_006.019
स्त्री शूद्रो वा यथोदितान्__व्ध_006.019
उपवासान् इमान् कुर्वन्__व्ध_006.019
फलान्य् एतान्य् अवाप्नुयात्__व्ध_006.019
जगत्पतिं जगद्योनिं__व्ध_006.020
जगन्निष्ठं जगद्गुरुम्__व्ध_006.020
जयं शरणम् अभ्येत्य__व्ध_006.020
न जनैः शोच्यते जनः__व्ध_006.020
यस्य नाम्नि स्मृते मर्त्यः__व्ध_006.021
समुत्क्रान्तेर् अनन्तरम्__व्ध_006.021
प्राप्नोति शाश्वतं स्थानं__व्ध_006.021
ततः पूज्यतरो हि सः__व्ध_006.021
नादिर् न मध्यं नैवान्तो__व्ध_006.022
यस्य देवस्य विद्यते__व्ध_006.022
अनादित्वाद् अमध्यत्वाद्__व्ध_006.022
अनन्तत्वाच् च सो ऽव्ययः__व्ध_006.022
परापरं सुकृतवतां परां गतिं__व्ध_006.023
स्वयंभुवं प्रभवन् निधानम् अव्ययम्__व्ध_006.023
सनातनं यद् अमृतम् अच्युतं ध्रुवं__व्ध_006.023
प्रविश्य तं हरिम् अमरत्वम् अश्नुते__व्ध_006.023
शृणु दाल्भ्य परं काम्यं__व्ध_007.001
व्रतं संततिदं नृणाम्__व्ध_007.001
यम् उपोष्य न विच्छेदः__व्ध_007.001
पितृपिण्डस्य जायते__व्ध_007.001
कृष्णाष्टम्यां चैत्रमासे__व्ध_007.002
स्नातो नियतमानसः__व्ध_007.002
कृष्णम् अभ्यर्च्य पूजां च__व्ध_007.002
देवक्याः कुरुते तु यः__व्ध_007.002
निराहारो जपन् नाम__व्ध_007.003
कृष्णस्य जगतः पतेः__व्ध_007.003

उपविष्टो जपस्नान-__व्ध_007.003
क्षुतप्रस्खलितादिषु__व्ध_007.003
पूजायां चापि कृष्णस्य__व्ध_007.004
सप्त वारान् प्रकीर्तयेत्__व्ध_007.004
पाषण्डिनो विकर्मस्थान्__व्ध_007.004
नालपेच् चैव नास्तिकान्__व्ध_007.004
प्रभाते तु पुनः स्नातो__व्ध_007.005
दत्त्वा विप्राय दक्षिणाम्__व्ध_007.005
भुञ्जीत कृतपूजस् तु__व्ध_007.005
कृष्णस्यैव जगत्पतेः__व्ध_007.005
वैशाखज्येष्ठयोश् चैव__व्ध_007.006
पारणं हि त्रिमासिकम्__व्ध_007.006
उपोष्य देवदेवेशं__व्ध_007.006
घृतेन स्नापयेद् धरिम्__व्ध_007.006
आषाढे श्रावणे चैव__व्ध_007.007
मासे भाद्रपदे तथा__व्ध_007.007
उपोषिते द्वितीयं वै__व्ध_007.007
पारणं पूर्ववत् तु तत्__व्ध_007.007
तथैवाश्वयुजं चादिं__व्ध_007.008
कृत्वा मासत्रयं बुधः__व्ध_007.008
उपोष्य स्नापयेद् देवं__व्ध_007.008
हविषा पारणे गते__व्ध_007.008
पौषे माघे फाल्गुने च__व्ध_007.009
नरस् तद्वद् उपोषितः__व्ध_007.009
चतुर्थे पारणे पूर्णे__व्ध_007.009
घृतेन स्नापयेद् धरिम्__व्ध_007.009
एवं कृतोपवासस्य__व्ध_007.010
पुरुषस्य तथा स्त्रियः__व्ध_007.010
न संततेः परिच्छेदः__व्ध_007.010
कदाचिद् अभिजायते__व्ध_007.010
कृष्णाष्टमीम् इमां यस् तु__व्ध_007.011
नरो योषिद् अथापि वा__व्ध_007.011
उपोष्यतीह साह्लादं__व्ध_007.011
नृलोके प्राप्य निर्वृत्तिम्__व्ध_007.011
पुत्रपौत्रसमृद्धिं च__व्ध_007.012
मृतः स्वर्गे महीयते__व्ध_007.012
इत्य् एतत् कथितं दाल्भ्य__व्ध_007.012
मया कृष्णाष्टंईव्रतम्__व्ध_007.012
प्रावृट्काले तु नियमाञ्__व्ध_007.013
शृणु काम्यान् इमान् मम__व्ध_007.013

प्रावृट्काले यदा शेते__व्ध_007.014
वासुदेवः पयोनिधौ__व्ध_007.014
भोगिभोगे निजां मायां__व्ध_007.014
योगनिद्रां च मानयन्__व्ध_007.014
विशिष्टा न प्रवर्तन्ते__व्ध_007.015
तदा यज्ञादिकाः क्रियाः__व्ध_007.015
देवानां सा भवेद् रात्रिर्__व्ध_007.015
दक्षिणायनसंज्ञिता__व्ध_007.015
यदा स्वपिति गोविन्दो__व्ध_007.016
यस् तु मासं चतुष्टयम्__व्ध_007.016
अधःशायी ब्रह्मचारी__व्ध_007.016
केशवार्पितमानसः__व्ध_007.016
नमो नमो ऽस्तु कृष्णाय__व्ध_007.017
केशवाय नमो नमः__व्ध_007.017
नमो ऽस्तु नरसिंहाय__व्ध_007.017
विष्णवे च नमो नमः__व्ध_007.017
इति प्रातस् तथा सायं__व्ध_007.018
जपेद् देवक्रियापरः__व्ध_007.018
शमयत्य् अतिदुष्पारं__व्ध_007.018
दुरितं जन्मसंचितम्__व्ध_007.018
मधु मांसं च यो मासाञ्__व्ध_007.019
चतुरस् तान् निरस्यति__व्ध_007.019
देवक्रियारतिर् विष्णोर्__व्ध_007.019
अनुस्मरणतत्परः__व्ध_007.019
सो ऽपि स्वर्गं समभ्येति__व्ध_007.020
च्युतस् तस्मात् तु जायते__व्ध_007.020
अरोगी धनधान्याढ्यः__व्ध_007.020
कुलसंततिमान् नरः__व्ध_007.020
समस्तमन्दिराणां च__व्ध_007.021
यः सुप्ते मधुसूदने__व्ध_007.021
निर्वृत्तिं कुरुते सो ऽपि__व्ध_007.021
देवो वैमानिको भवेत्__व्ध_007.021
अनेनैव विधानेन__व्ध_007.022
नरो विष्णुक्रियापरः__व्ध_007.022
एकाहारो भवेद् यस् तु__व्ध_007.022
सर्वपापैः प्रमुच्यते__व्ध_007.022
सुप्ते च सर्वलोकेशे__व्ध_007.023
नक्तभोजी भवेत् तु यः__व्ध_007.023
सर्वपापविनिर्मुक्तः__व्ध_007.023
स्वर्गलोके ऽमरो भवेत्__व्ध_007.023

शस्तं त्व् अनन्तरं पुंसां__व्ध_007.024
ततश् चैवेकभोजनम्__व्ध_007.024
नक्तभोजनतुल्यं तु__व्ध_007.024
नोपवासफलं क्वचित्__व्ध_007.024
तैलाभङ्गं च यो मासांश्__व्ध_007.025
चतुरस् तान् निरस्यति__व्ध_007.025
सो ऽप्य् अङ्गलावण्यगुणम्__व्ध_007.025
आरोग्यं च नरो लभेत्__व्ध_007.025
यस् त्व् एतानि समस्तानि__व्ध_007.026
मासान् एतान् नरश् चरेत्__व्ध_007.026
स विष्णुलोकम् आसाद्य__व्ध_007.026
विष्णोर् अनुचरो भवेत्__व्ध_007.026
चतुर्भिः पारणं मासैर्__व्ध_007.027
निष्पाद्यं हरितत्परैः__व्ध_007.027
ब्राह्मणान् भोजयेद् दद्यात्__व्ध_007.027
ततस् तेभ्यश् च दक्षिणाम्__व्ध_007.027
पूजयेच् च जगन्नाथं__व्ध_007.028
सर्वपापहरं हरिम्__व्ध_007.028
प्रीयस्व देव गोविन्देत्य्__व्ध_007.028
एवं चैव प्रसादयेत्__व्ध_007.028
इति दाल्भ्य समाख्यातं__व्ध_007.029
चातुर्मास्ये हि यद् व्रतम्__व्ध_007.029
देवदेवस्य सुप्तस्य__व्ध_007.029
द्वादशीं शृणु चापराम्__व्ध_007.029
यस्याम् अनन्तस्मरणाद्__व्ध_007.029
अनन्तफलभाग् भवेत्__व्ध_007.029
मासि प्रोष्ठपदे शुक्ले__व्ध_008.001
द्वादश्यां जलशायिनम्__व्ध_008.001
प्रणम्यानन्तम् अभ्यर्च्य__व्ध_008.001
पुष्पधूपादिभिः शुचिः__व्ध_008.001
पाषण्डादिभिर् आलापम्__व्ध_008.002
अकुर्वन् नियतात्मवान्__व्ध_008.002
विप्राय दक्षिणां दत्त्वा__व्ध_008.002
नक्तं भुङ्क्ते तु यो नरः__व्ध_008.002
तिष्ठन् व्रजन् स्वपंश् चैव__व्ध_008.003
क्षुतप्रस्खलितादिषु__व्ध_008.003
अनन्तनामस्मरणं__व्ध_008.003
कुर्वन्न् उच्चारणं तथा__व्ध_008.003
अनेनैव विधानेन__व्ध_008.004
मासान् द्वादश वै क्रमात्__व्ध_008.004

उपोष्य पारणे पूर्णे__व्ध_008.004
समभ्यर्च्य जगद्गुरुम्__व्ध_008.004
गीतवाद्येन हृद्येन__व्ध_008.004
प्रीणयन् व्युष्टिम् अश्नुते__व्ध_008.004
अनन्तं गीतवाद्येन__व्ध_008.005
यतः फलम् उदाहृतम्__व्ध_008.005
तेनानन्तं समभ्यर्च्य__व्ध_008.005
तद् एव लभते फलम्__व्ध_008.005
एवं यः पुरुषः कुर्याद्__व्ध_008.006
अनन्ताराधनं शुचिः__व्ध_008.006
नारी वा स्वर्गम् अभ्येत्य__व्ध_008.006
सो ऽअनन्तफलम् अश्नुते__व्ध_008.006
एवं दाल्भ्य हृषीकेशो__व्ध_008.007
नरैर् भक्त्या यथाविधि__व्ध_008.007
फलं ददात्य् असुलभं__व्ध_008.007
सलिलेनापि पूजितः__व्ध_008.007
न विष्णुर् वित्तदानेन__व्ध_008.008
पुष्पैर् वा न फलैस् तथा__व्ध_008.008
आराध्यते सुशुद्धेन__व्ध_008.008
हृदयेनैव केवलम्__व्ध_008.008
रागाद्यपेतं हृदयं__व्ध_008.009
वाग् दुष्टा नानृतादिना__व्ध_008.009
हिंसादिरहितः कायः__व्ध_008.009
केशवाराधनत्रयम्__व्ध_008.009
रागादिदूषिते चित्ते__व्ध_008.010
नास्पदी मधुसूदनः__व्ध_008.010
करोति न रतिं हंसः__व्ध_008.010
कदाचित् कर्दमाम्भसि__व्ध_008.010
न योग्या केशवस्तुत्यै__व्ध_008.011
वाग् दुष्टा चानृतादिना__व्ध_008.011
तमसो नाशनायालं__व्ध_008.011
नेन्दोर् लेखा घनावृता__व्ध_008.011
हिंसादिदूषितः कायः__व्ध_008.012
केशवाराधने कुतः__व्ध_008.012
जनचित्तप्रसादाय__व्ध_008.012
न नभस् तिमिरावृतम्__व्ध_008.012
तस्माच् छ्रद्धस्व भावेन__व्ध_008.013
सत्यभावेन च द्विज__व्ध_008.013
अहिंसकेन गोविन्दो__व्ध_008.013
निसर्गाद् एव तोषितः__व्ध_008.013

सर्वस्वम् अपि कृष्णाय__व्ध_008.014
यो दद्यात् कुटिलाशयः__व्ध_008.014
स नैवाराधयत्य् एनं__व्ध_008.014
सद्भावेनार्चयाच्युतम्__व्ध_008.014
रागाद्यपेतं हृदयं__व्ध_008.015
कुरु त्वं केशवार्पितम्__व्ध_008.015
ततः प्राप्स्यसि दुःप्राप्यम्__व्ध_008.015
अयत्नेनैव केशवम्__व्ध_008.015
भगवन् कथितः सम्यक्__व्ध_008.016
काम्यो ऽयं केशवं प्रति__व्ध_008.016
आराधनविधिः सर्वो__व्ध_008.016
भूयः पृच्छामि तद् वद__व्ध_008.016
कुले जन्म तथारोग्यं__व्ध_008.017
धनर्द्धिश् चेह दुर्लभा__व्ध_008.017
त्रितयं प्राप्यते येन__व्ध_008.017
तन् मे वद महामुने__व्ध_008.017
मातामहं काण्वम् उदारवीर्यं__व्ध_008.018
महर्षिम् अभ्यर्च्य कुलप्रसूतिम्__व्ध_008.018
पप्रच्छ पुंसाम् अथ योषितां च__व्ध_008.018
दुष्वन्तपुत्रो भरतः प्रणम्य__व्ध_008.018
यथावद् आचष्ट ततो महात्मा__व्ध_008.019
स राजवर्याय यथा कुलेषु__व्ध_008.019
प्रयान्ति सूतिं पुरुषाः स्त्रियश् च__व्ध_008.019
यथा च सम्यक् सुखिनो भवन्ति__व्ध_008.019
पौषे सिते द्वादशमे ऽह्नि सार्के__व्ध_008.020
तथार्क्षयोगे जगतः प्रसूतिम्__व्ध_008.020
संपूज्य विष्णुं विधिनोपवासी__व्ध_008.020
स्रग्गन्धधूपान्नवरोपहारैः__व्ध_008.020
गृह्णीत मासं प्रतिमासपूजाम्__व्ध_008.021
दानादियुक्तं व्रतम् अब्दम् एकम्__व्ध_008.021
दद्याच् च दानं द्विजपुङ्गवेभ्यस्__व्ध_008.021
तद् उच्यमानं विनिबोध भूप__व्ध_008.021
घृतं तिलान् व्रीहियवं हिरण्यं__व्ध_008.022
यवान्नम् अम्भःकरकान्नपानम्__व्ध_008.022
छत्त्रं पयो ऽन्नं गुडफाणिताढ्यं__व्ध_008.022
स्रक्चन्दनं वस्त्रम् अनुक्रमेण__व्ध_008.022
मासे च मासे विधिनोदितेन__व्ध_008.023
तस्यां तिथौ लोकगुरुं प्रपूज्य__व्ध_008.023
अश्नीत यान्य् आत्मविशुद्धिहेतोः__व्ध_008.023
संप्राशनानीह निबोध तानि__व्ध_008.023

गोमूत्रम् अम्भो घृतम् आमशाकं__व्ध_008.024
दूर्वा दधि व्रीहियवांस् तिलांश् च__व्ध_008.024
सूर्यांशुतप्तं जलम् अम्बु दार्भं__व्ध_008.024
क्षीरं च मासक्रमशोपयुञ्ज्यात्__व्ध_008.024
कुले प्रधाने धनधान्यपूर्णे__व्ध_008.025
विवेकवत्य् अस्तसमस्तदुःखे__व्ध_008.025
प्राप्नोति जन्माविकलेन्द्रियश् च__व्ध_008.025
भवत्य् अरोगो मतिमान् सुखी च__व्ध_008.025
तस्मात् त्वम् अप्य् एतद् अमोघविद् यो__व्ध_008.026
नारायणाराधनम् अप्रमत्तः__व्ध_008.026
कुरुष्व विष्णुं भगवन्तम् ईशम्__व्ध_008.026
आराध्य कामान् अखिलान् उपैति__व्ध_008.026
यदा च शुक्लद्वादश्यां__व्ध_009.001
नक्षत्रं श्रवणं भवेत्__व्ध_009.001
तदा सा तु महापुण्या__व्ध_009.001
द्वादशी विजया स्मृता__व्ध_009.001
तस्यां स्नातः सर्वतीर्थैः__व्ध_009.002
स्नातो भवति मानवः__व्ध_009.002
संपूज्य वर्षपूजायाः__व्ध_009.002
सकलं फलम् अश्नुते__व्ध_009.002
एकं जप्त्वा सहस्रस्य__व्ध_009.003
जप्तस्याप्नोति यत् फलम्__व्ध_009.003
दानं सहस्रगुणितं__व्ध_009.003
तथा वै विप्र भोजनम्__व्ध_009.003
यत् क्षेमम् अपि वै तस्यां__व्ध_009.*(7)
सहस्रं श्रावणे तु तत्__व्ध_009.*(7)
अन्यस्याम् एव तिथ्यां__व्ध_009.*(7)
शुभायां श्रावणं यदा__व्ध_009.*(7)
होमस् तथोपवासश् च__व्ध_009.003
सहस्राख्यफलप्रदः__व्ध_009.003
रोहिण्याश् च यदा कृष्ण-__व्ध_010.001
पक्षे ऽष्टम्यां द्विजोत्तम__व्ध_010.001
जयन्ती नाम सा प्रोक्ता__व्ध_010.001
सर्वपापहरा तिथिः__व्ध_010.001
यद् बाल्ये यच् च कौमारे__व्ध_010.002
यौवने वार्द्धिके च यत्__व्ध_010.002
सप्तजन्मकृतं पापं__व्ध_010.002
स्वल्पं वा यदि वा बहु__व्ध_010.002
तत् क्षालयति गोविन्दं__व्ध_010.003
तस्याम् अभ्यर्च्य भक्तितः__व्ध_010.003

होमजप्यादिदानानां__व्ध_010.003
फलं च शतसंमितम्__व्ध_010.003
संप्राप्नोति न संदेहो__व्ध_010.004
यच् चान्यन् मनसेच्छति__व्ध_010.004
उपवासश् च तत्रोक्तो__व्ध_010.004
महापातकनाशनः__व्ध_010.004
एकदश्यां शुक्लपक्षे__व्ध_011.001
यदा र्क्षं वै पुनर्वसुः__व्ध_011.001
नाम्ना सातिजयाख्याता__व्ध_011.001
तिथीनाम् उत्तमा तिथिः__व्ध_011.001
यो ददाति तिलप्रस्थं__व्ध_011.002
तृष्कालं वत्सरं नरः__व्ध_011.002
उपवासं च तस्यां यः__व्ध_011.002
करोत्य् एतत् समं स्मृतम्__व्ध_011.002
तस्यां जगत्पतिर् देवः__व्ध_011.003
सर्वः सर्वेश्वरो हरिः__व्ध_011.003
प्रत्यक्षतां प्रयात्य् अल्पं__व्ध_011.003
तदानन्तफलं स्मृतम्__व्ध_011.003
सगरेण ककुत्स्थेन__व्ध_011.004
दुंधुमारेण गाधिना__व्ध_011.004
तस्याम् आराधितः कृष्णो__व्ध_011.004
दत्तवान् निखिलां भुवम्__व्ध_011.004
अयने चोत्तरे प्राप्ते__व्ध_012.001
यः स्नापयति केशवम्__व्ध_012.001
घृतप्रस्थेन पापं सः__व्ध_012.001
सकलं वै व्यपोहति__व्ध_012.001
कपिलां विप्रमुख्याय__व्ध_012.002
ददात्य् अनुदिनं हि यः__व्ध_012.002
घृतस्नानं च देवस्य__व्ध_012.002
तस्मिन् काले समं हि तत्__व्ध_012.002
स्नाप्यमानं च पश्यति__व्ध_012.003
ये घृतेनोत्तरायणे__व्ध_012.003
ते यान्ति विष्णुसालोक्यं__व्ध_012.003,013.*(8)
सर्वपापविवर्जिताः__व्ध_012.003,013.*(8)
मैत्रेयी ब्राह्मणी पूर्वं__व्ध_013.001
याज्ञवल्क्यम् अपृच्छत__व्ध_013.001
प्रणिपत्य महाभागं__व्ध_013.001
योगेश्वरम् अकल्मषम्__व्ध_013.001
पापप्रशमनायालं__व्ध_013.002
यत् पुण्यस्योपवृंहकम्__व्ध_013.002

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc