विष्णुधर्म · भाग 381400
पुण्डरीकाक्ष मानसम्__व्ध_093.015
पापं प्रशमयाद्य त्वं__व्ध_093.015
वाक्कृतं मम माधव__व्ध_093.015
यद् व्रजन् यत् स्वपन् भुञ्जन्__व्ध_093.016
यद् उत्तिष्ठन् यद् आस्थितः__व्ध_093.016
कृतवांश् चापि यच् चाहं__व्ध_093.016
कायेन मनसा गिरा__व्ध_093.016
महत् स्वल्पम् अतिस्थूलं__व्ध_093.017
कुयोनिनरकावहम्__व्ध_093.017
तद् यातु प्रशमं सर्वं__व्ध_093.017
वासुदेवस्य कीर्तनात्__व्ध_093.017
परं ब्रह्म परं धाम__व्ध_093.018
पवित्रं परमं च यत्__व्ध_093.018
तस्मिन् संकीर्तिते विष्णोः__व्ध_093.018
पदे पापं प्रणश्यतु__व्ध_093.018
सूरयो यत् प्रवेक्ष्यन्ति ह्य्__व्ध_093.019
अपुनर्भवकाङ्क्षिणः__व्ध_093.019
ममाखिलं दह त्वं हि__व्ध_093.019
तद् विष्णोः परमं पदम्__व्ध_093.019
यत् प्राप्य न निन्वर्तन्ते__व्ध_093.020
गन्धस्पर्शादिवर्जितम्__व्ध_093.020
पापं प्रणाशयत्व् अद्य__व्ध_093.020
तद् विष्णोः परमं पदम्__व्ध_093.020
सदसद् यत् तथा व्यक्ता-__व्ध_093.021
व्यक्तरूपम् अजाजरम्__व्ध_093.021
प्रणमामि जगद्धाम__व्ध_093.021
तद् विष्णोः परमं पदम्__व्ध_093.021
शारीरे मानसे चैव__व्ध_093.022
पापे वाग्जे च पार्थिव__व्ध_093.022
कृते सम्यङ् नरो भक्त्या__व्ध_093.022
पठेच् छ्रद्धासमन्वितः__व्ध_093.022
मुच्यते सर्वपापेभ्यः__व्ध_093.022
कृष्णनामप्रकीर्तनात्__व्ध_093.022
उच्चार्यमाने चैतस्मिन्__व्ध_093.023
देवदेवस्य संस्तवे__व्ध_093.023
विलयं पापम् आयाति__व्ध_093.023
भाण्डम् आमम् इवाम्भसि__व्ध_093.023
तस्मात् संचिन्तिते पापे__व्ध_093.024
समनन्तरम् एव ते__व्ध_093.024
जप्तव्यम् एतत् पापस्य__व्ध_093.024
प्रशमाय महीपते__व्ध_093.024
संसारार्णवमग्नेन__व्ध_094.001
पुरुषेण महामुने__व्ध_094.001
विषयासक्तचित्तेन__व्ध_094.001
यत् कार्यं तद् वदस्व मे__व्ध_094.001
भ्राम्यतां संकटे दुर्गे__व्ध_094.002
संसारे विषयैषिणाम्__व्ध_094.002
स्वकर्मभिर् मनुष्याणाम्__व्ध_094.002
उपकारकम् उच्यताम्__व्ध_094.002
क्षीप्ते मनस्य् अनायत्ते__व्ध_094.003
वृद्धे लोभादिके गणे__व्ध_094.003
शरणं यन् मनुष्याणां__व्ध_094.003
तद् आचक्ष्व महामुने__व्ध_094.003
संसाराणवपोताय__व्ध_094.004
हरये हरिमेधसे__व्ध_094.004
नमस्कृत्य प्रवक्ष्यामि__व्ध_094.004
नराणाम् उपकारकम्__व्ध_094.004
सम्यग् आराधितो भक्त्या__व्ध_094.005
वेदभारगुरोर् गुरुः__व्ध_094.005
कृष्णद्वैपायनः प्राह__व्ध_094.005
यच् छिष्याय सुमन्तवे__व्ध_094.005
पुरा किल दुराचारो__व्ध_094.006
दुर्बुद्धिर् अजितेन्द्रियः__व्ध_094.006
क्षत्रबन्धुर् अभूत् पापः__व्ध_094.006
परमर्मावघट्टकः__व्ध_094.006
मातापित्रोर् अशुश्रूषुर्__व्ध_094.007
द्रोग्धा बन्धुजनस्य च__व्ध_094.007
गुरुदेवद्विजातीनां__व्ध_094.007
निन्दासु सततोद्यतः__व्ध_094.007
मोष्टा विश्वसतां नित्यम्__व्ध_094.008
अप्रीतिः प्रीतिम् इच्छताम्__व्ध_094.008
ऋजूनाम् अनृजुः क्षुद्रः__व्ध_094.008
परहिंसापरायणः__व्ध_094.008
स बान्धवैः परित्यक्तस्__व्ध_094.009
तथान्यैः साधुवृत्तिभिः__व्ध_094.009
अवृत्तिमान् अविश्वास्यो__व्ध_094.009
मृगयाजीवनो ऽभवत्__व्ध_094.009
अहन्य् अहनि चक्राङ्गान्__व्ध_094.010
एणकादींस् तथा मृगान्__व्ध_094.010
हत्वात्मपोषणं चक्रे__व्ध_094.010
व्याधवृत्तिरतो ऽधमः__व्ध_094.010
एतया तस्य दुष्टस्य__व्ध_094.011
कुवृत्त्या पापचेतसः__व्ध_094.011
जगाम सुमहान् कालः__व्ध_094.011
कुर्वतो दारपोषणम्__व्ध_094.011
एकदा तु मुनिस् तेन__व्ध_094.012
निदाघे विजने वने__व्ध_094.012
मृगयाम् अटता दृष्टो__व्ध_094.012
वर्त्मनः प्रच्युतः पथि__व्ध_094.012
क्षुत्क्षामकण्ठः सुश्रान्तः__व्ध_094.013
शुष्कजिह्वास्यतालुकः__व्ध_094.013
तृट्परीतो ऽतिविभ्रान्तः__व्ध_094.013
कांदिग्भूतो ऽल्पचेतनः__व्ध_094.013
श्वासायासश्लथैर् अङ्गैः__व्ध_094.014
कृच्छ्राद् आत्मानम् उद्वहन्__व्ध_094.014
सूर्यांशुतापात् प्रगलत्-__व्ध_094.014
स्वेदार्द्रचरणो नृप__व्ध_094.014
तस्मिन् दृष्टे ततस् तस्य__व्ध_094.015
क्षत्रबन्धोर् अजायत__व्ध_094.015
कारुण्यं दारुणस्यापि__व्ध_094.015
व्याधवृत्तिपरिग्रहात्__व्ध_094.015
तम् उपेत्य च भूपाल__व्ध_094.016
क्षत्रबन्धुः स तापसम्__व्ध_094.016
उवाच विप्रप्रवरं__व्ध_094.016
विमार्गे वर्तते भवान्__व्ध_094.016
नैष पन्था द्विजश्रेष्ठ__व्ध_094.017
विपिनो ऽयं महाटविः__व्ध_094.017
माम् अन्वेहि त्वरायुक्तो__व्ध_094.017
मा विपत्तिं समेष्यसि__व्ध_094.017
निशाम्य तद् वचः श्रान्तः__व्ध_094.018
क्षत्रबन्धोर् महानुनिः__व्ध_094.018
अनुवव्राज राजेन्द्र__व्ध_094.018
जलाशाजनितोद्यमः__व्ध_094.018
किंचिद् भूभागम् आसाद्य__व्ध_094.019
ददर्श च महामुनिः__व्ध_094.019
हंसकारण्डवाकीर्णं__व्ध_094.019
प्रोत्फुल्लनलिनं सरः__व्ध_094.019
सारसाभिरुतं रम्यं__व्ध_094.020
सूपतीर्थम् अकर्दमम्__व्ध_094.020
पद्मोत्पलयुतं चारु__व्ध_094.020
पूर्णं स्वच्छेन वारिणा__व्ध_094.020
सुशीतवनषण्डैश् च__व्ध_094.021
समन्तात् परिवेष्टितम्__व्ध_094.021
तत्क्षणात् तृट्परीतानां__व्ध_094.021
चक्षुषो ह्लादकारिणम्__व्ध_094.021
दृष्ट्वैव स मुनिस् तत्र__व्ध_094.022
तदामलजलं सरः__व्ध_094.022
सूर्यांशुतप्तो घर्मार्तो__व्ध_094.022
निपपात तदम्भसि__व्ध_094.022
तत्राश्वास्य कृताह्लादः__व्ध_094.023
पपौ वारि नराधिप__व्ध_094.023
उज्जीवयन् मुनिवरो__व्ध_094.023
जिह्वातालु शनैः शनैः__व्ध_094.023
सो ऽपि क्षत्रियदायादो__व्ध_094.024
मुनित्राणपरायणः__व्ध_094.024
विहाय सशरं चापम्__व्ध_094.024
उज्जहार बिसान्य् अथ__व्ध_094.024
ददौ च तस्मै राजेन्द्र__व्ध_094.025
क्षुधिताय तपस्विने__व्ध_094.025
ययौ च तृप्तिं विप्रो ऽपि__व्ध_094.025
बिसनालाम्बुभक्षणात्__व्ध_094.025
तम् आश्वस्तं कृताहारम्__व्ध_094.026
उपविष्टं सुशीतले__व्ध_094.026
न्यग्रोधशाखासंछन्ने__व्ध_094.026
निष्पङ्के सरसस् तटे__व्ध_094.026
संवाहयाम् आस च तं__व्ध_094.026
क्षत्रबन्धुः शनैः शनैः__व्ध_094.026
पादजङ्घोरुपृष्टेषु__व्ध_094.027
तेन संवाहितो मुनिः__व्ध_094.027
जहौ श्रमम् अमित्रघ्न__व्ध_094.027
वाक्यं चेदम् उवाच ह__व्ध_094.027
कस् त्वं भद्रमुखाद्येह__व्ध_094.028
मम प्राणपरिक्षये__व्ध_094.028
हस्तावलम्बदो धात्रा__व्ध_094.028
जनितो विपिने वने__व्ध_094.028
विभ्रष्टमार्गो मूढो ऽहं__व्ध_094.029
क्षुत्पिपासाश्रमातुरः__व्ध_094.029
त्रातस् त्वया महाभाग__व्ध_094.029
कस् त्वम् अत्र वने ऽजने__व्ध_094.029
क्षुत्पिपासाश्रमार्तस्य__व्ध_094.030
यस् त्राणं विपिने वने__व्ध_094.030
करोति पुरुषव्याघ्र__व्ध_094.030
तस्य लोका मधुश्च्युतः__व्ध_094.030
स त्वं ब्रूहि महाभाग__व्ध_094.031
ममाभ्युद्धारकारकः__व्ध_094.031
येषां प्रख्यातयशसां__व्ध_094.031
समुत्पन्नः कुले भवान्__व्ध_094.031
हर्यश्वस्य कुले जातः__व्ध_094.032
पुत्रश् चित्ररथस्य च__व्ध_094.032
विमतिर् नाम नाम्नाहं__व्ध_094.032
हन्तुम् अभ्यागतो मृगान्__व्ध_094.032
पित्रर्थं मृगयेयं ते__व्ध_094.033
लक्ष्यार्थं वा महामते__व्ध_094.033
आहारार्थम् उताहो ऽत्र__व्ध_094.033
मृगया व्यसनं तु ते__व्ध_094.033
वृत्तिर् एषा मम ब्रह्मन्__व्ध_094.034
परित्यक्तस्य बान्धवैः__व्ध_094.034
भृत्यैर् अन्यैश् च नष्टे ऽर्थे__व्ध_094.034
निर्धनस्यामिषाशिनः__व्ध_094.034
किमर्थं त्वं परित्यक्तो__व्ध_094.035
भृत्यस्वजनबन्धुभिः__व्ध_094.035
पातकी कीकटः क्षुद्रैर्__व्ध_094.035
उपजप्तः परेण वा__व्ध_094.035
इत्य् उक्तः सो ऽभवन् मौनी__व्ध_094.036
पश्यन् दोषं नृपात्मनि__व्ध_094.036
अदुष्टांश् चात्मनो भृत्यान्__व्ध_094.036
विचिन्त्यातीव दुर्मनाः__व्ध_094.036
अवेक्ष्य तं साध्वसिनं__व्ध_094.037
क्षत्रबन्धुं महामुनिः__व्ध_094.037
ध्यात्वा चिरम् अथापश्यत्__व्ध_094.037
क्षत्रबन्धुं स्वदोषिणम्__व्ध_094.037
संत्यक्तबन्धुलोके च__व्ध_094.038
तस्मिन् दुर्वृत्तचेतसि__व्ध_094.038
कृपां चकार स मुनिः__व्ध_094.038
क्षत्रबन्धौ दयापरः__व्ध_094.038
उवाच च मुनिर् भूयः__व्ध_094.039
क्षत्रबन्धुं कृपालुकः__व्ध_094.039
उपकारिणम् उग्रेण__व्ध_094.039
कर्मणा तं विदूषितम्__व्ध_094.039
अपि शक्नोषि संयन्तुम्__व्ध_094.040
अकार्यप्रसृतं मनः__व्ध_094.040
प्राणि पीडानिवृत्तिं च__व्ध_094.040
कर्तुं क्रोधादिसंयमम्__व्ध_094.040
अपि मैत्रीं जने कर्तुं__व्ध_094.041
शक्नोषि त्वं मुधैव या__व्ध_094.041
ऐहिकामुष्मिकी वीर__व्ध_094.041
क्रियमाणा महाफला__व्ध_094.041
न शक्नोमि क्षमां कर्तुं__व्ध_094.042
न मैत्रीं मम चेतसि__व्ध_094.042
प्राणिनाम् अवधाद् ब्रह्मन्__व्ध_094.042
नास्ति दारादिपोषणम्__व्ध_094.042
अनायत्तं च मे चित्तं__व्ध_094.043
विषयान् एव धावति__व्ध_094.043
तदप्राप्तौ च सर्वेषां__व्ध_094.043
क्रोधादीनां समुद्भवः__व्ध_094.043
सो ऽहं न मैत्रीं न क्षान्तिं__व्ध_094.044
न हिंसादिविवर्जनम्__व्ध_094.044
कर्तुं शक्नोमि यत् कार्यं__व्ध_094.044
तदन्यद् उपदिश्यताम्__व्ध_094.044
तेनैवम् उक्तो विप्रो ऽसौ__व्ध_094.045
तम् उपेक्ष्यम् अमन्यत__व्ध_094.045
तथाप्य् अतिकृपालुत्वात्__व्ध_094.045
क्षत्रबन्धुम् अभाषत__व्ध_094.045
यद्य् एतद् अखिलं कर्तुं__व्ध_094.046
न शक्नोषि ब्रवीहि मे__व्ध_094.046
स्वल्पम् अन्यन् मयोक्तं हि__व्ध_094.046
करिष्यति भवान् यदि__व्ध_094.046
अशक्यम् उक्तं भवता__व्ध_094.047
चञ्चलत्वाद् धि चेतसः__व्ध_094.047
वाक्शरीरविनिष्पाद्यं__व्ध_094.047
यच् छक्यं तद् उदीरय__व्ध_094.047
उत्तिष्ठता प्रस्वपता__व्ध_094.048
प्रस्थितेन गमिष्यता__व्ध_094.048
गोविन्देति सदा वाच्यं__व्ध_094.048
क्षुतप्रस्खलितादिषु__व्ध_094.048
कार्यं वर्त्मनि मूढानां__व्ध_094.049
क्षेममार्गे ऽवतारणम्__व्ध_094.049
हितं च वाच्यं पृष्टेन__व्ध_094.049
शत्रूणाम् अपि जानता__व्ध_094.049
एतत् तवोपकाराय__व्ध_094.050
भविष्यत्य् अनुपालितम्__व्ध_094.050
यद्य् अन्यद् उपसंहर्तुं__व्ध_094.050
न शक्नोषि महीपते__व्ध_094.050
इत्य् उक्त्वा प्रययौ विप्रस्__व्ध_094.051
तेन वर्त्मनि दर्शिते__व्ध_094.051
सो ऽपि तच् छासनं सर्वं__व्ध_094.051
क्षत्रबन्धुश् चकार ह__व्ध_094.051
गोविन्देति क्षुते गच्छन्__व्ध_094.052
प्रस्थानस्खलितादिषु__व्ध_094.052
उदीरयन्न् अवापाग्र्यां__व्ध_094.052
रतिं तत्र शनैः शनैः__व्ध_094.052
ततः कालेन महता__व्ध_094.053
क्षत्रबन्धुर् ममार वै__व्ध_094.053
अजायत च विप्रस्य__व्ध_094.053
कुले जातिस्मरो नृप__व्ध_094.053
तस्य संस्मरतो जातीः__व्ध_094.054
शतशो ऽथ सहस्रशः__व्ध_094.054
निर्वेदः सुमहाञ् जज्ञे__व्ध_094.054
संसारे ऽत्रातिदुःखदे__व्ध_094.054
स चिन्तयाम् आस जगत्__व्ध_094.054
सर्वम् एतद् अचेतनम्__व्ध_094.054
अहम् एको ऽत्र संज्ञावान्__व्ध_094.055
गोविन्दोदीरितं हि यत्__व्ध_094.055
यच् चाध्वनि विमूढानां__व्ध_094.055
कृतं वर्त्मावतारणम्__व्ध_094.055
हितम् उक्तं च पृष्टेन__व्ध_094.055
तस्य जातिस्मृतिः फलम्__व्ध_094.055
सो ऽहं जातिस्मरो भूयः__व्ध_094.056
करिष्याम्य् अतिसंकटे__व्ध_094.056
तदा संसारचक्रे ऽस्मिन्__व्ध_094.056
येन प्राप्स्यामि निर्वृतिम्__व्ध_094.056
यस्योच्चारणमात्रेण__व्ध_094.057
जाता जातिस्मृतिर् मम__व्ध_094.057
तम् एवाराधयिष्यामि__व्ध_094.057
जगताम् ईश्वरं हरिम्__व्ध_094.057
यन्मयं परमं ब्रह्म__व्ध_094.058
तद् अव्यक्तं च यन्मयम्__व्ध_094.058
यन्मयं व्यक्तम् अप्य् एतद्__व्ध_094.058
भविष्यामि हि तन्मयः__व्ध_094.058
यद्य् अनाराधिते विष्णौ__व्ध_094.059
ममैतज् जन्म यास्यति__व्ध_094.059
ध्रुवं बन्धवतो मुक्तिर्__व्ध_094.059
नैव जातूपपद्यते__व्ध_094.059
अहो दुःखम् अहो दुःखम्__व्ध_094.060
अहो दुःखम् अतीव हि__व्ध_094.060
स्वरूपम् अतिघोरस्य__व्ध_094.060
संसारस्यातिदुर्लभम्__व्ध_094.060
विण्मूत्रपूयकलिले__व्ध_094.061
गर्भवासे ऽतिपीडनात्__व्ध_094.061
अशुचाव् अतिबीभत्से__व्ध_094.061
दुःखम् अत्यन्तदुःसहम्__व्ध_094.061
दुःखं च जायमानानां__व्ध_094.062
गात्रभङ्गादिपीडनात्__व्ध_094.062
वातेन प्रेर्यमाणानां__व्ध_094.062
मूर्छाकार्य् अतिभीतिदम्__व्ध_094.062
बालत्वे निर्विवेकानां__व्ध_094.063
भूतदेवात्मसंभवम्__व्ध_094.063
यौवने वार्द्धके चैव__व्ध_094.063
मरणे चातिदारुणम्__व्ध_094.063
शीतोष्णतृष्णाक्षुद्रोग-__व्ध_094.064
ज्वरादिपरिवारितः__व्ध_094.064
सर्वदैव पुमान् आस्ते__व्ध_094.064
यावज् जन्मान्तसंस्थितिः__व्ध_094.064
दुःखातिशयभूतं हि__व्ध_094.065
यद् अन्ते वासुखं नृणाम्__व्ध_094.065
तस्यानुमानं नैवास्ति__व्ध_094.065
कार्येणैवानुमीयते__व्ध_094.065
कृष्यमाणस्य पुरुषैर्__व्ध_094.066
यद् यमस्यातिदुःसहम्__व्ध_094.066
दुःखं तत्संस्मृतिप्राप्तं__व्ध_094.066
करोति मम वेपथुम्__व्ध_094.066
कुम्भीपाके तप्तकुम्भे__व्ध_094.067
महारौरवरौरवे__व्ध_094.067
कालसूत्रे महायन्त्रे__व्ध_094.067
शूकरे कूटशाल्मलौ__व्ध_094.067
असिपत्रवने दुःखम्__व्ध_094.068
अप्रतिष्ठे च यन् महत्__व्ध_094.068
विडालवक्त्रे च तथा__व्ध_094.068
तमस्य् उग्रे च दुःसहम्__व्ध_094.068
शस्त्राग्नियन्त्रवेगेषु__व्ध_094.069
शीतोष्णादिषु दारुणम्__व्ध_094.069
ततश् च मुक्तस्य पुनर्__व्ध_094.069
योनिसंक्रमणेषु यत्__व्ध_094.069
गर्भस्थस्य च यद् दुःखम्__व्ध_094.070
अतिदुःसहम् उल्वणम्__व्ध_094.070
पुनश् च जायमानस्य__व्ध_094.070
जन्म यौवनजं च यत्__व्ध_094.070
दुःखान्य् एतान्य् असह्यानि__व्ध_094.071
संसारान्तर्विवर्तिभिः__व्ध_094.071
पुरुषैर् अनुभूयन्ते__व्ध_094.071
सुखभ्रान्तिविमोहितैः__व्ध_094.071
न वै सुखकला काचित्__व्ध_094.072
तत्रास्त्य् अत्यन्तदुःखदे__व्ध_094.072
संसारसंकटे तीव्रे__व्ध_094.072
उपेतानां कदाचन__व्ध_094.072
विषयासक्तचित्तानां__व्ध_094.073
मनुष्याणां कदा मतिः__व्ध_094.073
संसारोत्तारणे वाञ्छां__व्ध_094.073
करिष्यति हि चञ्चला__व्ध_094.073
गोविन्दनाम्ना सततं__व्ध_094.074
समुच्चारणसंभवम्__व्ध_094.074
जातिस्मरत्वम् एतन् नः__व्ध_094.074
किं वृथैव प्रयास्यति__व्ध_094.074
सो ऽहं मुक्तिप्रदानार्थम्__व्ध_094.075
अनन्तम् अजम् अव्ययम्__व्ध_094.075
तच्चित्तस् तन्मयो भूत्वा__व्ध_094.075
तोषयिष्यामि केशवम्__व्ध_094.075
आत्मानम् आत्मनैवं स__व्ध_094.076
प्रोक्त्वा जातिस्मरो द्विजः__व्ध_094.076
तुष्टाव वाग्भिर् इष्टाभिः__व्ध_094.076
प्रणतः पुरुषोत्तमम्__व्ध_094.076
प्रणिपत्याक्षरं विश्वं__व्ध_094.077
विश्वहेतुं निरञ्जनम्__व्ध_094.077
यत् प्रार्थयाम्य् अविकलं__व्ध_094.077
सकलं तत् प्रयच्छतु__व्ध_094.077
कर्तारम् अकृतं विष्णुं__व्ध_094.078
सर्वकारणकारणम्__व्ध_094.078
अणोर् अणीयांसम् अजं__व्ध_094.078
सर्वव्यापिनम् ईश्वरम्__व्ध_094.078
परात् परतरं यस्मान्__व्ध_094.079
नास्ति सर्वेश्वरात् परम्__व्ध_094.079
तं प्रणम्याच्युतं देवं__व्ध_094.079
प्रार्थयामि यद् अस्तु तत्__व्ध_094.079
सर्वेश्वराच्युतानन्त__व्ध_094.080
परमात्मञ् जनार्दन__व्ध_094.080
संसाराब्धिमहापोत__व्ध_094.080
समुद्धर महार्णवात्__व्ध_094.080
व्योमानिलाग्न्यम्बुधरास्वरूप__व्ध_094.081
तन्मात्रसर्वेन्द्रियबुद्धिरूप__व्ध_094.081
अन्तःस्थितात्मन् परमात्मरूप__व्ध_094.081
प्रसीद सर्वेश्वर विश्वरूप__व्ध_094.081
तम् आदिर् अन्तो जगतो ऽस्य मध्यम्__व्ध_094.082
आदेस् त्वम् आदिः प्रलयस्य चान्तः__व्ध_094.082
त्वत्तो भवत्य् एतद् अशेषम् ईश__व्ध_094.082
त्वय्य् एव चान्ते लयम् अभ्युपैति__व्ध_094.082
प्रदीपवर्त्यन्तगतो ऽग्निर् अल्पो__व्ध_094.083
यथातिकक्षे विततं प्रयाति__व्ध_094.083
तद्वद् विसृष्टेर् अमरादिभिन्नैर्__व्ध_094.083
विकाशम् आयासि विभूतिभेदैः__व्ध_094.083
यथा नदीनां बहवो ऽम्बुवेगाः__व्ध_094.084
समन्ततो ऽब्धिं भगवन् विशन्ति__व्ध_094.084
त्वय्य् अन्तकाले जगद् अच्युतेदं__व्ध_094.084
तथा लयं गच्छति सर्वभूते__व्ध_094.084
त्वं सर्वम् एतद् बहुधैक एव__व्ध_094.085
जगत्पते कार्यम् इवाभ्युपेतम्__व्ध_094.085
यद् अस्ति यन् नास्ति च तत् त्वम् एव__व्ध_094.085
हरे त्वदन्यद् भगवन् किम् अस्ति__व्ध_094.085
किंत्व् ईश माया भवतो निजेयम्__व्ध_094.086
आविष्कृताविष्कृतलोकसृष्टे__व्ध_094.086
ययाहम् एषो ऽन्यतमो ममेति__व्ध_094.086
मदीयम् अस्याभिवदन्ति मूढाः__व्ध_094.086
तया विमूढेन मयाभनाभ__व्ध_094.087
न यत् कृतं तत् क्वचिद् अस्ति किंचित्__व्ध_094.087
भूम्यम्बराग्निसलिलेषु देव__व्ध_094.087
जाग्रत्सुषुप्तादिषु दुःखितेन__व्ध_094.087
न सन्ति तावन्ति जलान्य् अपीड्य__व्ध_094.088
सर्वेषु नाथाब्धिषु सर्वकालम्__व्ध_094.088
स्तन्यानि यावन्ति मयातिघोरे__व्ध_094.088
पीतानि संसारमहासमुद्रे__व्ध_094.088
संपच् छिलानां हिमवन्महेन्द्र-__व्ध_094.089
कैलासमेर्वादिषु नैव तादृक्__व्ध_094.089
देहान्य् अनेकान्य् अनुगृह्णतो मे__व्ध_094.089
प्राप्तास्थिसंपन् महति यथेश__व्ध_094.089
त्वय्य् अर्पितं नाथ पुनः पुनर् मे__व्ध_094.090
मनः समाक्षिप्य सुदुर्धरो ऽपि__व्ध_094.090
रागो हि वश्यं कुरुते ततो ऽनु__व्ध_094.090
लोभादयः किं भगवन् करोमि__व्ध_094.090
एकाग्रतामूल्यबलेन लभ्यं__व्ध_094.091
भवौषधं त्वं भगवन् किलैकः__व्ध_094.091
मनः परायत्तम् इदं भवे ऽस्मिन्__व्ध_094.091
संसारदुःखात् किम् अहं करोमि__व्ध_094.091
न सन्ति ते देव भुवि प्रदेशा__व्ध_094.092
न येषु जातो ऽस्मि तथा विनष्टः__व्ध_094.092
अत्ता मया येषु न जन्तवश् च__व्ध_094.092
संभक्षितो यैश् च न जन्तुसंघैः__व्ध_094.092
सिंहेन भूत्वा बहवो मयात्ता__व्ध_094.093
व्याघ्रेण भूत्वा बहवो मयात्ताः__व्ध_094.093
तथान्यरूपैर् बहवो मयात्ताः__व्ध_094.093
संभक्षितो ऽहं बहुभिस् ततश् च__व्ध_094.093
उत्क्रान्तिदुःखान्य् अतिदुःसहानि__व्ध_094.094
सहस्रशो यान्य् अनुसंस्मरामि__व्ध_094.094
तैः संस्मृतैस् तत् क्षणम् एव देव__व्ध_094.094
तडिद् यथा मे हृदयं प्रयाति__व्ध_094.094
ततश् च दुःखान्य् अनिवारणानि__व्ध_094.095
यन्त्राग्निशस्त्रौघसमुद्भवानि__व्ध_094.095
भवन्ति यान्य् अच्युत नारकानां__व्ध_094.095
तान्य् एव तेषाम् उपमानमात्रम्__व्ध_094.095
दुःखान्य् असह्यानि च गर्भवासे__व्ध_094.096
विण्मूत्रमध्ये ऽतिनिपीडितस्य__व्ध_094.096
भवन्ति यानि च्यवतश् च गर्भात्__व्ध_094.096
तेषां स्वरूपं गदितुं न शक्यम्__व्ध_094.096
दुःखानि बालेषु महन्ति नाथ__व्ध_094.097
कौमारके यौवनिनश् च पुंसः__व्ध_094.097
ज्वरातिसाराक्षिरुगादिकानि__व्ध_094.097
समस्तदुःखालय एव वृद्धः__व्ध_094.097
करोति कर्माच्युत तत्क्षणेन__व्ध_094.098
पापं नरः कायमनोवचोभिः__व्ध_094.098
यस्याब्दलक्षैर् अपि नान्तम् एति__व्ध_094.098
शस्त्रादियन्त्राग्निनिपीडनेषु__व्ध_094.098
दुःखानि यानीष्टवियोगजानि__व्ध_094.099
भवन्ति संसारविहारभाजाम्__व्ध_094.099
प्रत्येकशस् तेषु नरा विनाशम्__व्ध_094.099
इच्छन्त्य् असूनां ममताभिभूताः__व्ध_094.099
शोकाभिभूतस्य ममाश्रु देव__व्ध_094.100
यावत्प्रमाणं न जलं पयोदा__व्ध_094.100
तावत्प्रमाणं न जलं पयोदा__व्ध_094.100
मुञ्चन्त्य् अनेकैर् अपि वर्षलक्षैः__व्ध_094.100
मन्ये धरित्री परमाणुसंख्याम्__व्ध_094.101
उपैति पित्रोर् गणनामशेषम्__व्ध_094.101
मित्राण्य् अमित्राण्य् अनुजीविबन्धून्__व्ध_094.101
संख्यातम् ईशो ऽस्मि न देवदेव__व्ध_094.101
सो ऽहं भृशार्तः करुणां कुरु त्वं__व्ध_094.102
संसारगात्रे पतितस्य विष्णो__व्ध_094.102
महात्मनां संश्रयम् अभ्युपेतो__व्ध_094.102
नैवावसीदत्य् अतिदुर्गतो ऽपि__व्ध_094.102
परायणं रोगवतां हि वैद्यो__व्ध_094.103
महाब्धिमग्नस्य च नौर् नरस्य__व्ध_094.103
बालस्य मातापितरौ सुघोर-__व्ध_094.103
संसारखिन्नस्य हरे त्वम् एकः__व्ध_094.103
प्रसीद सर्वेश्वर सर्वभूत__व्ध_094.104
सर्वस्य हेतो परमार्थसार__व्ध_094.104
माम् उद्धरास्माद् उरुदुःखपङ्कात्__व्ध_094.104
संसारगर्तात् स्वपरिग्रहेण__व्ध_094.104
धर्मात्मनाम् अविकलां त्वयि नाथ भक्तिं__व्ध_094.105
श्रद्धावतां सततम् उद्वहतां वरेण्य__व्ध_094.105
कार्यं कियन् मम विमूढधियो ऽधमस्य__व्ध_094.105
भूत्वा कृपालुर् अमलाम् अज देहि बुद्धिम्__व्ध_094.105
ज्ञात्वा ययाखिलम् असारम् असारम् एव__व्ध_094.106
भूतेन्द्रियादिकम् अपारम् अमुक्तिमूलम्__व्ध_094.106
मायान्तरेयम् अचलां तव विश्वरूप__व्ध_094.106
संमोहितं सकलम् एव जगद् ययैतत्__व्ध_094.106
ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या__व्ध_094.107
ज्ञातुं न यं परमगुह्यतमं समर्थाः__व्ध_094.107
न त्वाम् अलं स्तुतिपथेष्व् अहम् ईशितारं__व्ध_094.107
स्तोष्यामि मोहकलुषाल्पमतिर् मनुष्यः__व्ध_094.107
यस्माद् इदं भवति यत्र जगत् तथेदं__व्ध_094.108
यस्मिंल् लयं व्रजति यश् च जगत्स्वरूपः__व्ध_094.108
तं सर्गसंस्थितिविनाशनिमित्तभूतं__व्ध_094.108
स्तोतुं भवन्तम् अलम् ईश न कश्चिद् अस्ति__व्ध_094.108
मूढो ऽयम् अल्पमतिर् अल्पसुचेष्टितो ऽयं__व्ध_094.109
क्लिष्टं मनो ऽस्य विषयैर् न मयि प्रसङ्गि__व्ध_094.109
इत्थं कृपां कुरु मयि प्रणते किलेश__व्ध_094.109
त्वां स्तोतुम् अम्बुजभवो ऽपि हि देव नेशः__व्ध_094.109
यस्योदरे सकल एव महीध्रचन्द्र-__व्ध_094.110
देवेन्द्ररुद्रमरुदश्विदिवाकराग्नि-__व्ध_094.110
भूम्यम्बुवायुगगनं जगतां समुहां__व्ध_094.110
स्तोष्यामि तं स्तुतिपदैः कतमैर् भवन्तम्__व्ध_094.110
यस्याग्निरुद्रकमलोद्भववासवाद्यैः__व्ध_094.111
स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम्__व्ध_094.111
अभ्यर्च्यते वद हरे स कथं मयाद्य__व्ध_094.111
संपूजितः परम् उपैष्यसि तोषम् ईश__व्ध_094.111
न स्तोतुम् अच्युत भवन्तम् अहं समर्थो__व्ध_094.112
नैवार्चनैर् अलम् अहं तव देव योग्यः__व्ध_094.112
चित्तं च न त्वयि समाहितम् ईश दोषैर्__व्ध_094.112
आक्षिप्यते कथय किं नु करोमि पापः__व्ध_094.112
तत् त्वं प्रसीद भगवन् कुरु मय्य् अनाथे__व्ध_094.113
विष्णो कृपां परमकारुणिकः किल त्वम्__व्ध_094.113
संसारसागरनिमग्नम् अनन्त दीनम्__व्ध_094.113
उद्धर्तुम् अर्हसि हरे पुरुषोत्तमो ऽसि__व्ध_094.113
इत्थं तेन नरव्याघ्र__व्ध_094.114
स्तुतो भक्तिमता ततः__व्ध_094.114
संसारबन्धभीतेन__व्ध_094.114
कृष्णः प्रत्यक्षतां ययौ__व्ध_094.114
स तं प्रत्यक्षम् ईशानम्__व्ध_094.115
अनन्तम् अपराजितम्__व्ध_094.115
देवदेवम् उवाचेदम्__व्ध_094.115
अनादिनिधनं हरिम्__व्ध_094.115
शिरसा धरणीं गत्वा__व्ध_094.116
यतवाक्कायमानसः__व्ध_094.116
परापरेश्वरं विष्णुं__व्ध_094.116
जिष्णुम् आद्यम् अनोपमम्__व्ध_094.116
दिव्याक्षरपदानन्त__व्ध_094.117
प्रसन्नो भगवान् यदि__व्ध_094.117
तद् देव देहि दीनाय__व्ध_094.117
मह्यम् एकम् इमं वरम्__व्ध_094.117
वरं वरय मत्तस् त्वं__व्ध_094.118
यत् ते मनसि वर्तते__व्ध_094.118
वरार्थिनां द्विजश्रेष्ठ__व्ध_094.118
नाफलं मम दर्शनम्__व्ध_094.118
जन्मसंपच्चिता देव__व्ध_094.119
पापसंपन् ममाखिला__व्ध_094.119
प्रयातु नाशम् ईशेश__व्ध_094.119
त्वत्प्रसादाद् अधोक्षज__व्ध_094.119
भक्तिभावपरेणाद्य__व्ध_094.120
मन्मयेन द्विजोत्तम__व्ध_094.120
यः स्तुतो ऽस्मि क्षयं पापं__व्ध_094.120
तेनैवाखिलम् आगतम्__व्ध_094.120
अस्मत्तो वरयेहाद्य__व्ध_094.121
द्विजवर्यापरं वरम्__व्ध_094.121
मयि भक्तिमताम् अत्र__व्ध_094.121
लोके किंचिन् न दुर्लभम्__व्ध_094.121
धन्यो ऽस्मि सर्वनाथेन__व्ध_094.122
यत्कृतो मय्य् अनुग्रहः__व्ध_094.122
तद् एकम् एव त्वत्तो ऽहं__व्ध_094.122
वरम् इच्छामि केशव__व्ध_094.122
निर्धूतसर्वपापेभ्यो__व्ध_094.123
नाथ पुण्यक्षयान् मम__व्ध_094.123
त्वत्परस्यास्तु गोविन्द__व्ध_094.123
मा पुनर् देहसंभवः__व्ध_094.123
यद् अक्षरं यद् अचलं__व्ध_094.124
व्यापि सूक्ष्मं च यत् परम्__व्ध_094.124
विशेषाइर् अविशेषं च__व्ध_094.124
गच्छेयं तत् पदं तव__व्ध_094.124
एवं भविष्यतीत्य् उक्त्वा__व्ध_094.125
प्रसादसुमुखस् ततः__व्ध_094.125
भूपाल तं द्विजश्रेष्ठं__व्ध_094.125
गतो ऽन्तर्धानम् ईश्वरः__व्ध_094.125
तत्प्रसादाद् द्विजः सो ऽपि__व्ध_094.126
तन्मयस् तद्व्यपाश्रयः__व्ध_094.126
प्रक्षीणकर्मबन्धस् तु__व्ध_094.126
प्रयातः परमं पदम्__व्ध_094.126
एवम् अक्षीणपापो ऽपि__व्ध_094.127
जगताम् ईश्वरेश्वरम्__व्ध_094.127
व्यपाश्रितो हरिं याति__व्ध_094.127
पापमुक्तः परं पदम्__व्ध_094.127
एतत् त्वया नाव्रतिने__व्ध_094.128
न चाशुश्रूषवे परम्__व्ध_094.128
आख्येयं राजशार्दूल__व्ध_094.128
यश् च नार्चयते हरिम्__व्ध_094.128
विष्णुभक्ताय दान्ताय__व्ध_094.129
व्रतिने पुण्यशीलिने__व्ध_094.129
कथनीयम् इदं भूप__व्ध_094.129
रहस्यं परमं हरेः__व्ध_094.129
बहुशो भवता प्रोक्तं__व्ध_095.001
सांप्रतं च यद् ईरितम्__व्ध_095.001
श्रोतुम् इच्छामि विप्रेन्द्र__व्ध_095.001
तद् विष्णोः परमं पदम्__व्ध_095.001
यत्स्वरूपं यदाधारं__व्ध_095.002
यत्प्रमाणं यदात्मकम्__व्ध_095.002
सर्वधातुः पदं तन् मे__व्ध_095.002
श्रोतुम् इच्छा प्रवर्तते__व्ध_095.002
साध्व् एतद् भवता पृष्टं__व्ध_095.003
पृष्टम् आत्मज्ञानसमाश्रितम्__व्ध_095.003
तत् कथ्यमानम् एकाग्रः__व्ध_095.003
शृणु विष्णोः परं पदम्__व्ध_095.003
यत् तद् ब्रह्म यतः सर्वं__व्ध_095.004
यद् सर्वं सर्वसंस्थितिः__व्ध_095.004
अग्राह्यकम् अनिर्देश्यं__व्ध_095.004
तद् एव भगवत्पदम्__व्ध_095.004
तत्स्वरूपं च राजेन्द्र__व्ध_095.005
शृणुष्वेह समाहितः__व्ध_095.005
विष्णोः पदस्याव्ययस्य__व्ध_095.005
ब्रह्मणो गदतो मम__व्ध_095.005
प्रधानादिविशेषान्तं__व्ध_095.006
यद् एतत् पठ्यते जगत्__व्ध_095.006
चराचरस्य तस्याद्यं__व्ध_095.006
परं ब्रह्म विलक्षणम्__व्ध_095.006
जन्मस्वप्नादिरूपादि-__व्ध_095.007
दुःखादिरहितं च यत्__व्ध_095.007
नोपचर्यम् अनिर्देश्यं__व्ध_095.007
स्वप्रतिष्ठं च तत् परम्__व्ध_095.007
क्षीणक्लेशास् तु संसार-__व्ध_095.008
विमुक्तिपथम् आश्रिताः__व्ध_095.008
योगिनस् तत् प्रपश्यन्ति__व्ध_095.008
समर्था नैव चोदितुम्__व्ध_095.008
तत् सर्वं सर्वभावस्थं__व्ध_095.009
विशेषेण विवर्जितम्__व्ध_095.009
पश्यताम् अप्य् अनिर्देश्यं__व्ध_095.009
यतो वाग्विषये न तत्__व्ध_095.009
कुर्वन्त्य् आलम्बनत्वेन__व्ध_095.010
यत्प्राप्त्यर्थं च देवताः__व्ध_095.010
ब्रह्म प्रकाशते तेषां__व्ध_095.010
तद् वरेणैव सर्वगम्__व्ध_095.010
प्रधानादिविशेषान्तं__व्ध_095.011
यत्रैतद् अखिलं जगत्__व्ध_095.011
तस्यानन्तस्य कः शक्तः__व्ध_095.011
प्रमाणं गदितुं नरः__व्ध_095.011
सूक्ष्माणां तत् परं सूक्ष्मं__व्ध_095.012
स्थूलानां तन् महत्तरम्__व्ध_095.012
सर्वव्याप्य् अपि राजेन्द्र__व्ध_095.012
दूरस्थं चान्तिके च तत्__व्ध_095.012
पराङ्मुखानां गोविन्दे__व्ध_095.013
विषयाक्रान्तचेतसाम्__व्ध_095.013
तेषां तत् परमं ब्रह्म__व्ध_095.013
दूराद् दूरतरे स्थितम्__व्ध_095.013
न प्राप्नुवन्ति गच्छन्तो__व्ध_095.014
यतो जन्मायुतैर् अपि__व्ध_095.014
संसाराध्वनि राजेन्द्र__व्ध_095.014
ततो दूरतरे हि तत्__व्ध_095.014
तन्मयत्वेन गोविन्दे__व्ध_095.015
य नरा न्यस्तचेतसः__व्ध_095.015
विषयत्यागिनस् तेषां__व्ध_095.015
विज्ञेयं च तदन्तिके__व्ध_095.015
सर्वतः पाणिपादान्तं__व्ध_095.016
सर्वतो ऽक्षिशिरोमुखम्__व्ध_095.016
सर्वतः श्रुतिमल् लोके__व्ध_095.016
सर्वम् आवृत्य तिष्ठति__व्ध_095.016
सर्वेन्द्रियगुनाभासं__व्ध_095.017
सर्वेन्द्रियविवर्जितम्__व्ध_095.017
असक्तं सर्वभृच् चैनन्__व्ध_095.017
निर्गुणं गुणभोक्तृ च__व्ध_095.017
अविभक्तं च भूतेषु__व्ध_095.018
विभक्तम् इव च स्थितम्__व्ध_095.018
भूतभर्तृ च तज् ज्ञेयं__व्ध_095.018
ग्रसिष्णु प्रभविष्णु च__व्ध_095.018
ज्योतिषाम् अपि तज् ज्योतिस्__व्ध_095.019
तमसः परम् उच्यते__व्ध_095.019
ज्ञानं ज्ञेयं ज्ञानगम्यं__व्ध_095.019
हृदि सर्वस्य् अधिष्ठितम्__व्ध_095.019
तच् चाद्यो जगताम् ईशः__व्ध_095.020
परेशः परमेश्वरः__व्ध_095.020
परापरस्वरूपेण__व्ध_095.020
विष्णुः सर्वहृदि स्थितः__व्ध_095.020
यज्ञेशं यज्ञपुरुषं__व्ध_095.021
केचिद् इच्छन्ति तत्परम्__व्ध_095.021
केचिद् विष्णुं हरिं केचित्__व्ध_095.021
केचित् केशवसंज्ञितम्__व्ध_095.021
केचिद् गोविन्दनामानं__व्ध_095.022
पुण्डरीकाक्षम् अच्युतम्__व्ध_095.022
केचिज् जनार्दनं त्व् अन्ये__व्ध_095.022
वदन्ति पुरुषोत्तमम्__व्ध_095.022
केचिद् विरिञ्चिं ब्राह्मणम्__व्ध_095.023
अब्जयोनिं तथापरे__व्ध_095.023
शर्वम् ईशम् अजं रुद्रं__व्ध_095.023
शूलिनं चापरे नृप__व्ध_095.023
वरुणं केचिद् आदित्यम्__व्ध_095.024
इन्द्रम् अग्निम् अथापरे__व्ध_095.024
यमं धनेशम् अपरे__व्ध_095.024
सोमम् अन्ये प्रजापतिम्__व्ध_095.024
हिरण्यगर्भं कपिलं__व्ध_095.025
क्षेत्रज्ञं कालम् ईश्वरम्__व्ध_095.025
स्वभावम् अन्तरात्मानम्__व्ध_095.025
आत्मानं बुद्धिरूपिणम्__व्ध_095.025
वदन्ति नामभिश् चान्यैर्__व्ध_095.025
अनामानम् अरूपिणम्__व्ध_095.025
श्रूयतां तु नरव्याघ्र__व्ध_095.026
वेदवेदान्तनिश्चयः__व्ध_095.026
यज्ञेशो यज्ञपुरुषो__व्ध_095.026
पुण्डरीकाक्षसंज्ञितः__व्ध_095.026
तद् विष्णोः परमं ब्रह्म__व्ध_095.027
यतो नावर्तते पुनः__व्ध_095.027
स एव रुद्रश् चन्द्रो ऽग्निः__व्ध_095.027
सूर्यो वैश्रवणो यमः__व्ध_095.027
ब्रह्मा प्रजापतिः कालः__व्ध_095.028
स्वभावो बुद्धिर् एव च__व्ध_095.028
क्षेत्रज्ञाख्यस् तथैवान्याः__व्ध_095.028
संज्ञाभिः प्रोच्यते बुधैः__व्ध_095.028
संज्ञा तु तस्य नैवास्ति__व्ध_095.029
न रूपं नापि कल्पना__व्ध_095.029
स सर्वभूतानुगतः__व्ध_095.029
परमात्मा सनातनः__व्ध_095.029
आख्यातं भवता ब्रह्मन्न्__व्ध_096.001
एतद् ब्रह्म सनातनम्__व्ध_096.001
यस्माद् उत्पद्यते कृत्स्नं__व्ध_096.001
जगद् एतच् चराचरम्__व्ध_096.001
किंतु कौतुकम् अत्रास्ति__व्ध_096.002
मम भार्गवनन्दन__व्ध_096.002
तद् अहं श्रोतुम् इच्छामि__व्ध_096.002
त्वत्तः संदेहम् उत्तमम्__व्ध_096.002
यद् एतद् भवताख्यातं__व्ध_096.003
ब्रह्म ब्रह्मविदां वर__व्ध_096.003
परिणामो न तस्यास्ति__व्ध_096.003
निर्गुणं सर्वगं यतः__व्ध_096.003
सनातनात् सर्वगतात्__व्ध_096.004
परिणामविवर्जितात्__व्ध_096.004
कथं संजायते कृत्स्नं__व्ध_096.004
तस्माद् अपगुणाद् अपि__व्ध_096.004
द्विविधं कारणं भूप__व्ध_096.005
निबोध गदतो मम__व्ध_096.005
निमित्तकारणं पूर्वं__व्ध_096.005
द्वितीयं परिणामि च__व्ध_096.005
यथा कुम्भस्य करणे__व्ध_096.006
कुलालः प्रथमं नृप__व्ध_096.006
कारणं परिणामाख्यं__व्ध_096.006
मृद्द्रव्यम् अपरं स्मृतम्__व्ध_096.006
धर्माधर्मादयस् तद्वज्__व्ध_096.007
जगत्सृष्टेर् महीपते__व्ध_096.007
कारणं परिणामाख्यं__व्ध_096.007
निमित्ताख्यं तु तत् परम्__व्ध_096.007
कारणं कालगगने__व्ध_096.008
यथा संनिधिमात्रतः__व्ध_096.008
अविकारितया ब्रह्म__व्ध_096.008
तथा सृष्टेर् नरेश्वर__व्ध_096.008
अज्ञानपटलाच्छनैर्__व्ध_096.009
एकदेशात्मवृत्तिभिः__व्ध_096.009
अनात्मवेदिभिर् जीवैर्__व्ध_096.009
निजकर्मनिबन्धनैः__व्ध_096.009
कुर्वद्भिर् नृपते कर्म__व्ध_096.010
कर्तृत्वम् उपचारतः__व्ध_096.010
क्रियते सर्वभूतस्य__व्ध_096.010
सर्वगस्याव्ययात्मनः__व्ध_096.010
यतः संबन्धवान् एभिर्__व्ध_096.011
अशेषैः प्राणिभिः प्रभुः__व्ध_096.011
कर्तृत्वम् उपचारेण__व्ध_096.011
ततस् तस्यापि भूपते__व्ध_096.011
भेदाभेदस्वरूपेण__व्ध_096.012
तत्र ब्रह्म व्यवस्थितम्__व्ध_096.012
तयोः स्वरूपं नृपते__व्ध_096.012
श्रूयताम् उभयोर् अपि__व्ध_096.012
अनादिसंबन्धवत्या__व्ध_096.013
क्षेत्रज्ञः क्षेत्रविद्यया__व्ध_096.013
व्याप्तः पश्यत्य् अभेदेन__व्ध_096.013
ब्रह्म तद् ध्य् आत्मनि स्थितम्__व्ध_096.013
पश्यत्व् आत्मानम् अन्यत्र__व्ध_096.014
यावद् वै परमात्मनः__व्ध_096.014
तावत् संभ्राम्यते जन्तुर्__व्ध_096.014
मोहितो निजकर्मणा__व्ध_096.014
संक्षीनाशेषकर्मा तु__व्ध_096.015
परं ब्रह्म प्रपश्यति__व्ध_096.015
अभेदेनात्मनः शुद्धं__व्ध_096.015
शुद्धत्वाद् अक्षयो ऽक्षयम्__व्ध_096.015
भेदश् च कर्मजनितः__व्ध_096.016
क्षेत्रज्ञपरमात्मनोः__व्ध_096.016
संक्षीणकर्मबन्धस्य__व्ध_096.016
न भेदो ब्रह्मणा सह__व्ध_096.016
उपास्योपास्यकतया__व्ध_096.*(147)
भेदो यैर् अपि कथ्यते__व्ध_096.*(147)
तौ हि शुद्ध्यर्थम् इच्छन्ति__व्ध_096.*(147)
मलानां तद् उपासनम्__व्ध_096.*(147)
परो ऽसाव् अपरेणात्मा__व्ध_096.*(147)
संत्यक्तममतेन तु__व्ध_096.*(147)
उपास्यते तदा सो ऽपि__व्ध_096.*(147)
तद्भावं प्रतिपद्यते__व्ध_096.*(147)
कर्मिणां कर्मभेदेन__व्ध_096.017
भेदाद् एवादयो यतः__व्ध_096.017
कर्मक्षयाद् अशेषाणां__व्ध_096.017
भेदानां संक्षयस् ततः__व्ध_096.017
अविद्या तु क्रिया सर्वा__व्ध_096.018
विद्या ज्ञानं प्रचक्षते__व्ध_096.018
कर्मणा जायते जन्तुर्__व्ध_096.018
विद्यया तु विमुच्यते__व्ध_096.018
अद्वैतं परमार्थो हि__व्ध_096.019
द्वैतं तद्भेद उच्यते__व्ध_096.019
उभयं ब्रह्मणो रूपं__व्ध_096.019
द्वैताद्वैतविभेदतः__व्ध_096.019
तयोः स्वरूपं वदतो__व्ध_096.019
निबोध मम पार्थिव__व्ध_096.019
देवतिर्यङ्मनुष्याख्यस्__व्ध_096.020
तथैव नृप तारकः__व्ध_096.020
चतुर्विधो हि भेदो यो__व्ध_096.020
मिथ्याज्ञाननिबन्धनः__व्ध_096.020
अहम् अन्यो ऽपरश् चायम्__व्ध_096.021
अमी चात्र तथापरे__व्ध_096.021
विज्ञानम् एतत् तद् द्वैतं__व्ध_096.021
यद् अन्यच् छ्रूयतां परम्__व्ध_096.021
ममेत्यहमितिप्रज्ञा-__व्ध_096.022
वियुक्तम् अविकल्पवत्__व्ध_096.022
अविकारम् अनाख्येयम्__व्ध_096.022
अद्वैतम् अपि भूपते__व्ध_096.022
अभेदेन तवाख्यातं__व्ध_096.023
यद् एतद् ब्रह्म शाश्वतम्__व्ध_096.023
ज्ञानज्ञेयैक्यसद्भावं__व्ध_096.023
तद् एवाद्वैतसंज्ञितम्__व्ध_096.023
यश् च द्वैते प्रपञ्चः स्यान्__व्ध_096.024
निवर्त्योभयचेतसः__व्ध_096.024
मनोवृत्तिमयं द्वैतम्__व्ध_096.024
अद्वैतं परमार्थतः__व्ध_096.024
मनसो वृत्तयस् तस्माद्__व्ध_096.025
धर्माधर्मनिमित्तजाः__व्ध_096.025
निरोधव्यास् तन्निरोधाद्__व्ध_096.025
द्वैतं नैवोपपद्यते__व्ध_096.025
मनोदृश्यम् इदं द्वैतं__व्ध_096.026
यत् किंचित् सचराचरम्__व्ध_096.026
मनसो ह्य् अमतीभावे__व्ध_096.026
द्वैताभावात् तद् आप्नुयात्__व्ध_096.026
मनो हि विषयं यद्वद्__व्ध_096.027
आदत्ते तद्वद् एव तत्__व्ध_096.027
भवत्य् अपास्तविषयं__व्ध_096.027
ग्राहिधर्मे च जायते__व्ध_096.027
अग्राहि तच् च विधृतं__व्ध_096.028
मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0